← स्थानकं २२ काठकसंहिता (विस्वरः)
स्थानकम् २३
[[लेखकः :|]]
स्थानकं २४ →
दीक्षितम्

अथ त्रयोविंशं स्थानकम् ।

दीक्षितम् ।
हविर्वै दीक्षितो न हविरनभिघृतं मेधमश्नुते यदभ्यनक्त्यभ्येवैनं घारयति मेध्यत्वाय घृतं देवानां निष्पक्वं मनुष्याणामायुतं गन्धर्वाणाँ स्वयंविलीनमादित्यस्य नैतद्देवत्रा न मनुष्यत्रा यन्नवनीतं नैष देवत्रा न मनुष्यत्र यो दीक्षितः प्रच्युतोऽस्माल्लोकादप्राप्तोऽमुं यन्नवनीतेनाभ्यङ्क्ते समृद्ध्यै वासः परिधत्तेऽग्नेस्तूषः पितॄणां नीविरोषधीनां प्रघातो वायोर्वातपा विश्वेषां देवानामोतवश्च तन्तवश्च नक्षत्राणामतीरोकास्सर्वदेवत्यं वासस्सर्वदेवत्यो दीक्षितस्सर्वाभिरेवैनं देवताभिस्समर्धयत्याङ्क्त इन्द्रं वै वृत्रं जघ्निवाँसं रक्षाँस्यसचन्त तान्यञ्जनगिरिणान्तरधत्त रक्षाँस्येतँ सचन्ते यो दीक्षते भवति हिं यदाङ्क्ते रक्षसामन्तर्हित्या इन्द्रो वै वृत्रमहँस्तस्य चक्षुः परापतत् तत् त्रिककुभं प्राविशद्यदाङ्ते तस्यैव चक्षुषोऽवरुद्ध्यै द्विर्दक्षिणमाङ्क्ते सकृत् सव्यं चिवृद्यज्ञो मुखत एवं यज्ञमालभते त्रिर्दक्षिणमाङ्क्ते द्विस्सव्यं पाङ्क्तो यज्ञो यज्ञमेवावरुन्द्धे दक्षिणं पूर्वमाङ्क्ते सव्यँ हि पूर्वं मनुष्या आञ्जते व्यावृत्त्यै यजुषाङ्क्तेऽयजुषा हि मनुष्या आञ्जते व्यावृत्त्यै पराचीनमानक्ति न निधावत्याचपराचँ हि मनुष्या आञ्जते व्यावृत्त्या इषीकयाङ्क्ते शलल्या हिं मनुष्या आञ्जते व्यावृत्त्यै ॥ सतूला भवति मैत्री वै सतूला वारुणी परिशीर्णा मैत्रो दीक्षितस्समद्ध्या ऊनमिव वा एतच्छिद्रमिव यच्चक्षुर्यदाङ्क्ते तदेवापूरयत्यच्छिद्रत्वाय पावयतीन्द्रो वै वृत्रमहँस्तमप्स्वेवाध्यहँस्तासां या याज्ञिया मेध्या आसँस्ता उदक्रामँस्ता ओषधयोऽभवन् यत् तेजस्ते दर्भास्तस्मात् ते पवित्रं तस्माद्दर्भैरपः पुनन्ति यद्दर्भपिञ्जूलैः पावयत्यपामेवैनमोषधीनां तेजसा पावयति द्वाभ्यां पावयति द्वे सत्यं चानृतं च सत्येनैवास्यानृतं पावयति द्वौ प्राणश्चापानश्च त्रिभिः पावयति त्रिषत्या हि देवा अथो त्रयो हि प्राणाः प्राणो व्यानोऽपानस्तानेव यजमाने दधाति पञ्चभिः पावयति पाङ्क्तः पुरुषो यावानेवास्यात्मा तं पावयति सप्तभिः पावयति सप्त वै छन्दाँसि च्छन्दोभिरेवैनं पावयति नवभिः पावयति नव प्राणाः प्राणैरेवैनं पावयत्येकविंशत्या पावयत्येकविँशो वै पुरुषो दश हस्त्या अङ्गुलयो दश पद्या आत्मैकविंशो यावानेवास्यात्मा तं पावयति चित्पतिस्त्वा पुनात्विति ब्रह्म वै चित्पतिर्ब्रह्मणैवैनं पावयति वाक्पतिस्त्वा पुनात्विति स हि पावयिता देवस्त्वा सविता पुनात्विति सवितृप्रसूत एवैनं देवताभिः पावयत्यच्छिद्रेण पवित्रेणैत्यच्छम्बट्कारमेवैनं पावयति सूर्यस्य रश्मिभिरित्यादित्यस्यैवैनं तन्वा पावयति तस्य ते पवित्रपते पवित्रेणेति यज्ञो वै पवित्रपतिर्यज्ञायैवैतत् पुनीते यस्मै कं पुने तच्छकेयमिति यज्ञँ शकेयमित्येवैतदाहान्वञ्चं पावयत्यन्वङ्वै पुरुषं प्राणो यदा वै प्राणस्तिर्यङ् भवत्यथ प्रमीयते यत् तिर्यञ्चं पावयेत् तिर्यञ्चमस्य प्राणं कुर्यात् प्रमीयेतान्वात्ममेवास्य प्राणं करोति बहिष्पावयति मनुष्यलोक एवैनं पावयित्वा पूतं देवलोकं प्रणयति ।।१॥

गर्भो दीक्षितो योनिर्दीक्षितविमितमुल्बं दीक्षितवसनं जरायु कृष्णाजिनमेतस्माद्वै योनेरिन्द्रोऽजायत कुलायमेवैतदासीवनं कृत्वोपचरति तस्माद्दीक्षितं नान्यत्र दीक्षितविमितात् सूर्योऽभिनिम्रोचेन्नान्यत्राभ्युदियात् स्वादेव योनेः प्रजायत आकूत्यै प्रयुजे अग्नये स्वाहेत्याकूय वै यज्ञः प्रयुज्यते यत्रैव यज्ञमाकुवते तदेनमालमते मेधायै मनसे अग्नये स्वाहेति मेधया मनसाभिगच्छति यजताँ स्य इति यज्ञमेवालभते दीक्षायै तपसे अग्नये स्वाहेति दीक्षया वै तपसा यज्ञं प्राप्नोति यज्ञमेवावरुन्द्धे सरस्वत्यै पूष्णे अग्नये स्वाहेति वाग्वै सरस्वती पशवः पूषा वाचा पशुभ्यो यज्ञ आलभ्यते वाचैव पशुभ्योऽधि यज्ञमालभत आपो देवीर्बृहतीर्विश्वशंभुव इत्यापो वै यज्ञो दिवि यज्ञोऽन्तरिक्षे पृथिव्यां ब्रह्म बृहस्पतिरत्रात्र वै यज्ञो यत्र यत्रैव यज्ञस्तत एनं ब्रह्मणालभते पञ्चैतानि जुहोति पाङ्क्तो यज्ञो यज्ञमेवावरुन्द्धे यज्ञस्य वा एते संभारा यदेतानि यजूँषि यदेतानि न जुहुयादसंभृतोऽस्य यज्ञस्स्याद्यदेतानि जुहोति यावानेव यज्ञस्तँ संभरत्यदीक्षितो वा एकयाहुत्यादन्ति ह स्म वा एतस्य पुरान्नं यस्यैतानि न हूयन्ते यदेतानि जुहोति दीक्षितत्वायैव द्वितीयत्वायाग्नये स्वाहाग्नये स्वाहेति जुहोत्यग्निस्सर्वा देवतास्सर्वा एव देवता अवरुन्द्धे पञ्चैतानि जुहोत्यौद्ग्रभणँ षष्ठँ षडृतव ऋतुष्वेव प्रतितिष्ठति ॥ यज्ञस्सृष्टः प्र यजुरव्लिनात् प्र साम तमृगेवायच्छन्नव सामानि द्वादश यजूँषि तस्मान्नवभिर्बहिष्पवमानँ स्तुवन्त्यृचौद्ग्रभणं जुह्वति यदृचौद्ग्रभणं जुहोति यज्ञमेव सृष्टं प्रत्युदृचा यच्छति द्वादशभिर्ह स्म वै कारुद्वेषिण औद्ग्रभणं जुह्वत्येतदेव स द्वादशगृहीतं कृत्वा जुहुयात् तेनैव तदाप्नोति पूर्णया स्रुचा जुहोति पूर्णः प्रजापतिः प्रजापतिमेवाप्नोति यदूनया जुहुयाद्भ्रातृव्याय लोकं कुर्यात् कामर्तं वै पूर्णं यँ हि कामं कामयते तं पूर्णस्य कुरुते यमेव कामं कामयते तमवरुन्द्धे । स्वे छन्दसि यज्ञः प्रतिष्ठाप्योऽनुष्टुब् वै प्रजापतेस्स्वं छन्दो यज्ञः प्रजापतिर्यदनुष्टुभौद्ग्रभणं जुहोति स्व एव च्छन्दसि यज्ञं प्रतिष्ठापयति च्छन्दःप्रतिष्ठानो वै यज्ञस्स यथाछन्दसं छन्दस्सु प्रतिष्ठाप्यस्सैषानुष्टुप् तस्यास्सप्तक्षरमेकं पदमष्टाक्षराणि त्रीणि तेषाँ सप्तानां यानि त्रीणि तान्यष्टा उपयन्ति तान्येकादश सां त्रिष्टुब् यानि चत्वारि तान्यष्टा उपयन्ति तानि द्वादश सा जगती यान्यष्टौ सा गायत्र्यविभक्तानुष्टुप् स्वाहाकारेण पङ्क्तिरेतावन्ति वै छन्दाँसि यज्ञमेव यथाछन्दसं छन्दस्सु प्रतिष्ठापयति ॥ यज्ञस्सृष्टो देवताभिरालभ्यो विश्वो देवस्य नेतुरिति यन्नेतृमती तेन सावित्री मर्त इति पितृदेवत्या विश्व इति वैश्वदेवी द्युम्नमिति बार्हस्पत्या पुष्यत्विति पौष्णी सारस्वतस्स्वाहाकार एतावतीर्वै देवता यज्ञमेव सृष्टं देवताभिरालभते यज्ञस्सृष्टस्त्रेधा प्राविशदृचं तृतीयेन साम तृतीयेन यजुस्तृतीयेन तस्य या प्रिया तनूरासीत् तया यजुः प्रविशत् तस्माद्यजुषो नोच्चैः कीर्तयितव्यं यज्ञस्य प्रियां तन्वमुदूर्णोत्यब्रह्मवर्चसी भवति नग्नंभावुकः ॥२॥

यज्ञो वै देवेभ्योऽपाक्रामत् कृष्णो भूत्वा तस्मात् पुनरुपावर्तमानादृक्सामे अपाक्रामतां ते कृष्णं प्राविशतां यज्ञं मन्यमाने शुक्लँ साम कृष्णमृग्यत् कृष्णाजिनेन दीक्षत ऋक्सामे एवालभतेऽहोरात्रे वै मिथुनँ समभवतां तयोरोजो वीर्यमपाक्रामत् तत् कृष्णं प्राविशद्यत् कृष्णाजिनेन दीक्षतेऽहोरात्रयोरेवौजो वीर्यमालभते द्यावापृथिवी वै मिथुनँ समभवतां तयोस्तेजो यज्ञियमपाक्रामत् तत् कृष्णं प्राविशद्यत् कृष्णाजिनेन दीक्षते द्यावापृथिव्योरेव तेजो यज्ञियमालभत ऋक्सामयोश्शिल्पे स्थ इत्यृक्सामे एवालभते यथा नावौ तरिष्यँस्ते एनँ संपारयत ओदृचश्शर्मासि शर्म मे यच्छेति देवताश्च वा एष यज्ञं चाभ्यारोहति यत् कृष्णाजिनमारोहति यदा वै श्रेयान् कामयतेऽथ पापीयाँसं प्रतिनुदते देवताभ्यश्चैव यज्ञाय च नमस्करोत्यप्रतिनोदायाशुमवन्ति वा अन्यानि च्छन्दाँस्यासन्ननाशुमवन्त्यन्यानि तान्याजिमयुर्यान्याशुमवन्त्यासँस्तानि प्रधक्ष्यामह इति भीषा कृष्णं प्राविशँस्तानीमानि यज्ञं वहन्ति यान्यनाशुमवन्त्यासँस्तानिमन्वक्ष्यामह इति भीषा कृष्णं प्राविशँस्तानीमानि च्छन्दाँसि यान्ययज्ञवाहानि तानि स्वाराज्यमगच्छन् स्वाराज्यं गच्छति य एवं वेद यत् कृष्णाजिनेन दीक्षत आशुमवन्ति चैवानाशुमवन्ति चोभयानि च्छन्दाँस्यवरुन्द्धे । होत्रा वै देवेभ्योऽपाक्रामँस्तद्वषट्कारोऽप्यचरत् कृष्णो भूत्वास्कन्नं वै वषट्काराद्धविस्तस्मात् कृष्णाजिने हविष्पिँषन्ति हविर्वै दीक्षितस्तस्मात् कृष्णाजिनमध्यास्ते तस्मान्न निष्ठीवति हविषोऽस्कन्दाय बहिष्टाद्वै पशूनां यज्ञश्च देवताश्चान्तरान्मेदो यद्बहिर्लोमं कृष्णाजिनं कुर्यादन्तर्हितो यजमानो यज्ञाच्च देवताभ्यश्च स्याद्यदन्तर्लोममन्तर्हितो यज्ञो देवताभ्यो द्वे समस्येदन्तर्माँसे बहिर्लोम्नी यद्येकँ स्यात् पादं प्रतिषीव्येदनन्तर्हितो यजमानो यज्ञाच्च देवताभ्यश्च भवत्यनन्तर्हितो यज्ञो देवताभ्यो विष्णोश्शर्मासि शर्म यजमानस्येति विष्णुर्वै यज्ञो वैष्णवो यजमानो विष्णुनैव यज्ञेनात्मानमुभयतस्सयुजं कुरुते यज्ञो यदसृज्यत तस्यो ल्बमन्ववेष्टत तद्दीक्षितवसनमभवद् गर्भो दीक्षितो यद्दीक्षितवसनं परिधत्ते स्वेनैव योनिनात्मानमोर्णुते तस्मान्महत् कार्यमेवमिव ह्युल्बेन गर्भ आवृत इव च्छन्न इव न प्रत्यक्षं वदेद्वाचोऽयातयामत्वाय ।।३।।

अङ्गिरसो वै स्वर्गं लोकं यन्तस्ते मेखलास्संन्यकिरँस्ततश्शर उदतिष्ठद्यच्छरमयी मेखला भवति तामेव मेखलामालभते देवा यत्रोर्जं व्यभजन्त ततश्शर उदतिष्ठद्यच्छरमयी मेखला भवति तामेवोर्जमालभत ऊर्ग्वै मेखला मध्यं प्रति परिव्ययत्यूर्जमेव मध्यतो दधाति यजमाने च प्रजासु च तस्मान्मध्यतः प्रजा ऊर्गूर्जयति नाभिं प्रति परिव्ययत्यूर्ध्वं वै पुरुषस्य नाभ्या मेध्यमवाचीनममेध्यं मेध्यस्य चामेध्यस्य च व्यावृत्त्यै त्रिवृद्भवति त्रिवृता वै स्तोमेन प्रजापतिः प्रजा असृजत त्रिवृद्वज्रो वज्रमेव भ्रातृव्याय प्रहरतीन्द्रो वै वृत्राय वज्रं प्राहरत् तस्य यत् प्राशीर्यत से शरोऽभवत् तच्छरस्य शरत्वं वज्रो वै शरो यच्छरमयी मेखला भवति वज्रमेव भ्रातृव्याय प्रहरति स्तृणुत एनं यं द्विष्यात् तं परिव्ययन् ध्यायेद्वज्रेणैवैनँ समर्पयति मेखला पुँसो भवति योक्त्रँ स्त्रियास्स्त्री वै मेखला पुमान् योक्त्रं मिथुनमेव यज्ञमुखे विपर्यूहेते प्रजननाय वज्रो वै मेखला क्षुदुदारं पाप्मा भ्रातृव्यो यन्मेखलां परिव्ययते वज्रेणैव पाप्मानं भ्रातृव्यमपहते ।। यज्ञो वै देवेष्वासीद्दक्षिणा पितृषु स यज्ञो दक्षिणामभ्यकामयत तं पितरोऽब्रुवन् देवेषु नो भागधेयमिच्छेति तेऽब्रुवँस्तृतीयसवनभागा आसन्निति तस्मात् पितृभ्यस्तृतीयसवनं क्रियते तमह्वयत् ताँ हूतोऽधावन् तस्मात् पुमान् स्त्रिया हूतो धावति तस्माच्छ्रोत्रियस्स्त्रीकामतमस्स हि यज्ञस्य नेदिष्ठी ताँ समभवत् तदिन्द्रोऽचायत् सोऽमन्यत यो वा इतो जनिष्यते स एवेदं भविष्यतीति तं योनिं प्राविशत् तस्मादजायत स पुनः प्रत्यवैक्षत सोऽमन्यत यो वा इतोऽपरो जनिष्यते स मे सपत्नो भविष्यतीति तमनुहाय निवेष्ट्याच्छिनत् सा विषाणाभवद्यद्विषाणा भवति यज्ञस्यैव रेत इन्द्रस्य योनिं दक्षिणाया योनिमालभते पञ्चावृद्भवति पञ्चाभिर्हि स तां निवेष्ट्याच्छिनदिन्द्रस्य योनिरसतीन्द्रस्य ह्येषा योनिः कृष्यै त्वा सुमनस्याया इति तस्मात् कृष्टं पच्यत उत्कृधीति तस्मादूर्ध्वा ओषधय उत्पच्यन्ते यजुषा कण्डूयतेऽयजुषा हि मनुष्याः कण्डूयन्ते व्यावृत्त्यै यदयजुषा कण्डूयेत वरुणवत् कण्डूयेतापि गर्भाः पामना जायेरन्। वाग्वै देवान् मनुष्यान् प्रविशन्त्यैत्तस्या यदत्यरिच्यत तद्वनस्पतीन् प्राविशत् सैषा वनस्पतिषु वाग्वदति या दुन्दुभौ या नाड्यां या तूणवे यद्दण्डो भवति वाच एवातिरिक्तमवरुन्द्धे तं मैत्रावरुणाय प्रयच्छति वाचमेवास्मै तत् प्रयच्छति ताँ शश्वदृत्विग्भ्यो विभजति तस्मादस्य वाङ् नोपदस्यत्यास्यदघ्नः कार्यस्तावती हीयं वाग्वदत्यथो एतावति हि वाचा वीर्यं क्रियते यो वृक्षः फलग्रहिस्तस्य कुर्यात् फलग्रहिरसानीति ।।४।।

स्वाहा यज्ञं मनस इति मनसा वै यज्ञ आलभ्यते वातयोनिर्यज्ञो दिवि यज्ञोऽन्तरिक्षे पृथिव्यामत्रात्र वै यज्ञो यत्र यत्रैव यज्ञस्तत एनं मनसालभते तं यत्वास्ते यज्ञमेव तद्यत्वास्ते यद्विसृजेद्यज्ञं विसृजेद्यदि विसृजेत् पुनर्दीक्षयेद्यत् पुनर्दीक्षयेदाहुतीरभिरेचयेद्गायत्रीं वैष्णवीमनुब्रूयाद्वाग्वै गायत्री यज्ञो विष्णुर्वाचैव यज्ञं संतनाति बार्हस्पत्यामुत्तरामनुब्रूयाद्ब्रह्म वै बृहस्पतिर्ब्रह्मणा यज्ञस्यार्तं निष्क्रियते ब्रह्मणैव यज्ञस्यार्तं निष्करोति त्वमग्ने व्रतपा असीत्यग्नये व्रतपतयेऽनुब्रूयाद्व्रतपतिं वा एतस्य व्रतं गच्छति यो दीक्षितस्सन्न व्रतं चरत्यग्निर्देवानां व्रतपतिर्व्रतपतेरेवाधि व्रतमालभतेऽदीक्षिष्टायमसा आमुष्यायण इति त्रिरुपाँश्वाह त्रिरुच्चैर्देवेभ्यश्चैव मनुष्येभ्यश्च यज्ञं प्राह नक्षत्रं दृष्ट्वा वाचं विसृजते दिवा वै मनुष्या यज्ञेन चरन्ति नक्तं देवा अह्नैव रात्रीमभिसंतत्य देवेभ्यो यज्ञँ संप्रयच्छति गोपीथाय व्रतं कृणुतेति यज्ञं कुरुतेत्येवैतदाह पाङ्क्त्येषा व्याहृतिः पाङ्क्तो यज्ञो वाच एवैतत् सम्यगुद्यते नोत्तानो दीक्षितश्शयीत यदुत्तानश्शयीत देवलोकमुपावर्तेत न न्यङ् शयीत यन्न्यङ् शयीत पितृलोकमुपावर्तेत ।। जनो वा इतः पितरो दूरे जनादागच्छति प्रमायुकस्स्यात् तिर्यङ्ङेव शयीतान्तरिक्षदेवत्यो वै दीक्षितस्स्वमेव लोकँ स्वमायतनमुपावृत्य शये नाग्नेः पराङ् शयीताग्निस्सर्वा देवता देवताभ्य आवृश्च्येताग्निमेवाभ्यावृत्य शयीताग्निस्सर्वा देवता देवता एवाभ्यावृत्य शये दैवीं धियं मनामह इति मार्जयते ब्रह्मणा सतेजस्वायाथो आपो मे नेद्दीक्षामवमुष्णानित्यन्नं वै मनुष्येभ्य उदबीभत्सत तद्देवा अयियँसँस्ता आपोऽब्रुवन्नुपावर्तस्व वयं त एतान् स्वदयिष्याम इति तदुपावर्तत यद्दीक्षितो मार्जयतेऽन्नाद्यस्यावरुद्ध्यै ॥ तस्माद्ब्राह्मण आहार्य आहृते हस्ता अवनेनिजीतान्नाद्यस्यावरुद्ध्यै न वा एतेन हुतं व्रतयितव्यं नाहुतं यो दीक्षितो ये देवा मनुजाता इति व्रतयति प्राणा वै देवा मनुजातास्स्वायामेव देवतायाँ हुतं व्रतयति तेनास्य न हुतं भवतिं नाहुतमग्ने त्वँ सु जागृहीति स्वप्यन्नग्निमभिमन्त्रयेत बहु वा एष सुप्तो व्रत्यं निगच्छत्यग्निर्देवानां व्रतपतिर्व्रतपतय एव व्रतँ संप्रदाय काममृधते त्वमग्ने व्रतपा असीति प्रबुध्याग्निमभिमन्त्रयेत व्रतपतये वा एष व्रतँ संप्रयच्छत्यग्निर्देवानां व्रतपतिर्व्रतपतेरेवाधि व्रतमालभते ॥५॥

न दीक्षितेन होतव्यँ हविर्वै दीक्षितो रुद्रोऽग्निर्यज्जुहुयाद्धविर्भूतमात्मानं रुद्रायापिदध्याद्यन्न जुहुयाद्यज्ञं विच्छिन्द्यात् तदेतद्व्रतमपरस्मिन्नग्ना अधिश्रित्य पूर्वमग्निमभिसंचरति तेनैव यज्ञँ संतनोति यथा वि गौरूधः कुरुत एवमेष देवेभ्यो यज्ञँ संभरति यो दीक्षते यज्जुहुयाद्यज्ञं विदुह्यात् स्रेवयेद्यथोपधीते सूत एवं तद्यदुपरि जुहोति सकृदेव याम आगते देवेभ्यो यज्ञं दुहे सर्वं वा एतस्य हविर्भूतं यो दीक्षितो निरादिश्य हि दीक्षते तस्य योऽन्नमत्ति यज्ञं गिरति तस्य यज्ञेनैव प्रायश्चित्तिः ।। पाशेन वा एषोऽभिहितो यो दीक्षितो वरुण्यः पाशस्तस्य योऽन्नमत्ति वरुण एनं ग्राहुको भवति तस्माद्बद्धस्य निगस्य चान्नं नाद्याद्देवानां वा एतत् परिषूतं यो दीक्षितो मनुष्याणामिन्न्वै परिषूतँ सुरभ्यवायं तस्माद्दीक्षितस्यान्नं नाद्यात् त्रेधा वा एतस्य पाप्मानं विभजन्ते यो दीक्षितो योऽन्नमत्ति स तृतीयं योऽश्लीलं कीर्तयति स तृतीयं यो नाम गृह्णाति स तृतीयं तस्माद्दीक्षितस्य नान्नमद्यान्नाश्लीलं कीर्तयेन्न नाम गृह्णीयाद्दानाय वा एष दीक्षतेऽथैतदनृतं करोति यत् प्रतिगृह्णाति गर्भो दीक्षितो हिनस्ति गर्भं प्रतिगृहीतं पूषा सनीनाँ सोमो राधसामिति पूषा हि सनीनामीशे सोमो राधसां रास्वेयत् सोमेति सोमो वा एतदेतस्मै रासते यद्वनुत आ भूयो भरेत्यागमे ह्येनं भूयो देवस्सविता वसोर्वसुदावेति सवितृप्रसूत एव प्रतिगृह्णात्यात्मनोऽहिँसायै देवेभ्यो वै यज्ञो न प्राभवत् तं दक्षिणाभिस्समभावयन् यद्दीक्षितो भृतिं वनुते यज्ञमेव संभावयति तस्माद् द्वादश रात्रीर्दीक्षितो भृतिं वन्वीत यावानेव यज्ञस्तं संभावयति । देवेभ्यो वा अन्या दक्षिणा नीयन्ते मनुष्येभ्योऽन्यास्ता एता अनुदिशति वायवे त्वेति या नश्यति निर्ऋत्यै त्वेति यावसीदति रुद्राय त्वेति यां रुद्रो हन्ति या सँशीर्यते वरुणाय त्वेति याप्सु या ब्लेष्केण यमाय त्वेति यान्येन मृत्युनैता वै देवेभ्यो नीयन्ते मनुष्येभ्य इतरास्ता एताः पुण्यब्राह्मण एताभिर्भूय उपर्ध्नोत्यृध्नोति य एवं वेद देवीरापो अपां नपादित्यपोऽतिगाहते यदेवासां यज्ञियं यद्धविष्यं तत् परिवृणक्त्यनवक्लेशायाग्निर्वै दीक्षितश्शमयन्त्यग्निमापो यजुषातिगाहते शान्त्यै शान्तिर्ह्यापोऽथो तेज एवात्मन् भूयस्समाधत्ते यदयजुषातिगाहेत विह्रादिनीरापस्स्युर्यजुषातिगाहते ॥ तस्मादापस्संतता अविच्छिन्ना धावन्ति यदि नाव्यां तरेदरणी च रथं चाधाय तरेदग्निर्वै सर्वा देवता यज्ञो रथो देवताभिश्चैव यज्ञेन च सह तरत्या पाराद्गन्तोर्लोष्टं विमृणन्नासीत तेनास्या नैते सख्येह्ययं ते योनिर्ऋत्विय इति यथायजुरेदमगन्म देवयजनं पृथिव्या इति देवयजनमध्यवस्यत्यृक्सामाभ्याँ संतरन्तो यजुर्भिरित्यृक्सामाभ्यां चैव देवताभिश्च देवयजनमभिसंतरति॥६॥

देवाश्च वा असुराश्च समावदेव यज्ञेऽकुर्वत यदेव देवा अकुर्वत तदसुरा अकुर्वताग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यान्येष वाव तर्हि यज्ञ आसीत् ते देवा एतँ सौम्यमध्वरमपश्यँस्तमाहरँस्तेऽदीक्षयँस्तेऽग्निहोत्रं व्रतमकुर्वताग्निहोत्रं वाव व्रतं तस्माद्याग्निहोत्रस्य स्कन्नस्य प्रायश्चित्तिस्सा व्रतस्य स्कन्नस्य प्रायश्चित्तिस्तस्माद् द्विव्रतो दीक्षितस्स्याद् द्विर्ह्यग्निहोत्रं जुह्वति तेषां यत् पौर्णमासमासीत् तमग्नीषोमीयं पशुमकुर्वत यः पूर्वेद्युरालभ्यते यद्दार्शं तमाग्नेयं योऽनुसवनमालभ्यते वैश्वदेवं प्रातस्सवनमकुर्वत वरुणप्रघासान्माध्यन्दिनँ सवनँ साकमेधाँस्तृतीयसवनं तृतीयसवने पितृयज्ञमवाकल्पयँस्तृतीयसवने त्र्यम्बकाँस्तेऽसुरा अपक्रामन्तोऽब्रुवन्न वा इमे ध्वर्तवा अभूवन्निति तदध्वरस्याध्वरत्वं ततो देवा अभवन् परासुरा अभवन् य एवं विद्वान् दीक्षते यमेवं विद्वान् दीक्षयति भवत्यात्मना परास्य भ्रातृव्यो भवति ॥७॥

स्वर्गं वा एतेन लोकं प्रयन्ति यत् प्रायणीयं तत् प्रायणीयस्य प्रायणीयत्वं छिद्यते वा एषो ऽस्माल्लोकाद्योऽमुं लोकं गच्छति यदादित्यमुदयनीयं भवत्यस्मिन्नेव लोके प्रतितिष्ठति देवा वा असुरान् हत्वा वैरदेयादीषमाणास्ते दिशोऽमोहयन्नेन्न इदमन्योऽनु प्रजानादिति तदाहुस्साध्या वै नाम देवा आसन पूर्वे देवेभ्यस्ते दिशो मोहयित्वा स्वर्गं लोकमायनेन्न इमं लोकमन्योऽनु प्रजानादिति ता इमेऽवरे देवा अनु प्राजिज्ञासन्त ता न प्राजानन् सादितिरब्रवीद्वार्यं वृणा अहं व इमा दिशः प्रवक्ष्यामि मत्प्रायण एव यज्ञोऽसन्मदुदयन इति तस्मादादित्यं प्रायणीयं भवत्यादित्यमुदयनीयं वार्यवृतँ ह्यस्याः पथ्याँ स्वस्तिं यजतेत्यब्रवीत् तया प्राचीं दिशं प्रज्ञास्यथेत्यग्निं यजतेत्यब्रवीत् तेन दक्षिणाँ सोमं यजतेत्यब्रवीत् तेन प्रतीचीँ सवितारं यजतेत्यब्रवीत् तेनोदीचीमहमेवेमा उभौ लोकौ वेदेत्यब्रवीदियमदितिस्तस्या इयमूर्ध्वा दिगूर्ध्वा एव तेन स्वर्गं लोकमायँस्ता एता एवं देवता इज्यन्ते दिशां क्लृप्त्यै स्वर्गस्य लोकस्य प्रज्ञात्यै पथ्यया वै स्वस्त्या देवाः प्राचीं दिशं प्राजानन्नग्नीषोमा अनुसमपश्यताँ सविता प्रासुवदियमदितिरस्यामधि यज्ञं प्राञ्चमतन्वत ॥ यज्ञमुखं वा एतत् संभ्रियते यत् प्रायणीयं वाक्पथ्या स्वस्तिर्यत् पथ्याँ स्वस्तिं यजति वाचमेव तत् संभरयति प्राणापाना एवाग्नीषोमाभ्याँ संभरति प्रसवायैव सवितेयमदितिरस्यामधि यज्ञमुखँ संभरयति क्लृप्त्यै वा एतन्निरूप्यते यत् प्रायणीयं मरुतां देवविशा देवविशां वै कल्पमानां मनुष्यविशानुकल्पते यन्मरुत्वद्याज्यायाः पदं भवति स्वस्ति राये मरुतो दधातनेति देवविशामेव कल्पयति तां कल्पमानां मनुष्यविशानुकल्पते पथ्याँ स्वस्तिं यजति तस्मादसा आदित्योऽच्छिन्नं पुर उदेति पश्चान्निम्रोचति पथ्याँ ह्येष स्वस्तिमनुसंचरत्यग्निं यजति तस्माद्दक्षिणतोऽग्र ओषधयः पच्यमाना आयन्त्याग्नेया ह्योषधयस्सोमं यजति तस्मादापः प्रतीचीर्भूयिष्ठा धावन्ति सौमीर्ह्यापस्सवितारं यजति तस्मादयमुत्तराद्भूयिष्ठं पवते सवितृप्रसूतो ह्येष पवतेऽदितिं यजति तस्मादियमुपरिष्टात् प्रजाभ्यो वर्षति पञ्चैता देवता यजति पाङ्क्तो यज्ञो यज्ञमेवावरुन्द्धेऽग्नये षष्ठमवद्यति षडृतव ऋतुष्वेव प्रतितिष्ठति दश याज्यानुवाक्या भवन्ति दशाक्षरा विराडन्नं विराड्विराज्येवान्नाद्ये प्रतितिष्ठति स्विष्टकृते द्वादशी भवतो द्वादश मासास्संवत्सरस्संवत्सरस्याप्त्यै सप्तदश सामिधेन्यो भवन्ति सप्तदशो वै संवत्सरः पञ्चर्तवो द्वादश मासा एष वाव स संवत्सरस्संवत्सरादेवाधि यज्ञमुखं प्रतनुते ॥८॥

पथ्याँ स्वस्तिं यजति वाग्वै पथ्या स्वस्तिर्वाचमेव तदात्मनस्स्पृणोत्यग्निं यजति यदेवास्य शुष्कमग्निदाह्यं तत् तेन स्पृणोति सोमं यजति यदेवास्यार्द्रमात्मनोऽनग्निदाह्यं तत् तेन स्पृणोति प्रसवायैव सविता समिष्ट्यै प्रतिष्ठित्या अदितिः पथ्यया स्वस्त्या प्रयन्ति पथ्यया स्वस्त्योद्यन्ति वाग्वै पथ्या स्वस्तिर्वाचैव प्रयन्ति वाचोद्यन्त्यादित्यं प्रायणीयं भवत्यादित्यमुदयनीयमस्मिँश्चैव लोकेऽमुष्मिँश्च यज्ञमुखेन प्रतितिष्ठति दिशो वै स्वर्गो लोक एतद्देवत्या दिशो यत् प्रायणीयेन यजते दिश एव स्वर्गं लोकमभ्यातिष्ठति यथा वै तेजन्यूयत एवं यज्ञ ऊयते यदादित्यं प्रायणीयं भवत्यादित्यमुदयनीयं बर्सा एवैता अन्ततो नह्यति द्रढिम्नेऽप्रस्रँसाय याः प्रायणीयस्यानुवाक्यास्ता उदयनीयस्य याज्या या याज्यास्ता अनुवाक्या येनैव प्रयन्ति तेनोद्यन्ति प्रतिपदत्वाय प्रतिप्रज्ञात्यै व्यतिषजेद्याज्यानुवाक्या यं द्विष्यात् तस्य प्रैनमस्माल्लोकाच्च्यावयति नामुं प्रापयति यथा पथ उदेत्येवं तदुभयत एवैनं छिनत्यननुयाजं प्रायणीयँ स्यादप्रयाजमुदयनीयँ समानं वा एतद्धविस्संतत्या आत्मा वै प्रयाजाः प्रजानुयाजा यदेवं कुर्यादात्मानं च प्रजां चान्तरियादप्रजाः प्रमीयेत प्रयाजवती एवानुयाजवती स्याताँ समानं वा एतद्धविस्समानी देवता समानं मेक्षणं तेनैव यज्ञँ संतनोति नात्मानं न प्रजामन्तरेति ॥ सँस्थाप्या३न्न सँस्थाप्या३मिति मीमाँसन्ते स्रवति वै यज्ञोऽसँस्थितस्तँ स्रवन्तं यजमानोऽनु परास्रवति प्रजया च पशुभिश्च सँस्थाप्यमेव पत्नीं तु न संयाजयेदमेध्या वा एषापूता नेश्वरा स्वर्गं लोकं गन्तोस्तामुदयनीये संयाजयति यथा प्रवासी स्वमायतनमागच्छत्येवमेवैतत् पत्नीं यजमानोऽस्मिंल्लोकेऽभि प्रतितिष्ठति दीक्षितान्नँ हि वा ईजाना अदन्त्यथ न वसीयाँसो भवन्ति दीक्षितो वै तर्हि यर्हि प्रायणीयेन यजते दीक्षितस्तर्हि यर्ह्यवभृथादुदेति प्रायणीयस्य निष्काष उदयनीयमभिनिर्वपत्युदयनीयस्यैव नाश्नीयाद्दीक्षितान्नमेव परिवृणक्ति वसीयान् भवति ॥९॥

कद्रूश्च वै सुपर्णी चात्मरूपयोरस्पर्धेताँ सा कद्रूस्सुपर्णीमात्मरूपमजयदियं वै कद्रूर्द्यौस्सुपर्णी छन्दाँसि वै सौपर्णानि सा कद्रूस्सुपर्णीमब्रवीत् तृतीयस्यामितो दिवि सोमस्तमाहर तेनात्मानं निष्क्रीणीष्वेति सा सुपर्णी छन्दाँस्यब्रवीदेतस्मै वै पितरौ पुत्रान् बिभृत ईदृशान् मा स्पृणवानितो मा निष्क्रीणीतेति सा जगत्युदपतच्चतुर्दशाक्षरा सती सा प्राप्य न्यवर्तत तस्या द्वे अक्षरे अहीयेताँ सा पशूँश्च दीक्षां चादायापतत् तस्मात् पशुमन्तं दीक्षोपनमति तस्मादाहुर्जगती छन्दसां पशव्यतमेति सा त्रिष्टुबुदपतत् त्रयोदशाक्षरा सती साप्राप्य न्यवर्तत तस्या द्वे अक्षरे अहीयेताँ सा दक्षिणां च तपश्चादायापतत् तस्मात् त्रिष्टुभो लोके दक्षिणा नीयन्त एतद्वाव तपो यत् स्वं ददाति तस्मादाहुर्माध्यन्दिनँ सवनानां तपस्वितममिति सा गायत्र्युदपतच्चतुरक्षरा सती साजया कर्णगृह्योदपतत् तमस्या अजाभ्यारुणत् तदजाया अजात्वँ सा तानि च चत्वार्यक्षराणि सोमं चादायापतत् साष्टाक्षराभवद्ब्रह्मवादिनो वदन्ति कस्माद्गायत्री कनिष्ठा छन्दसाँ सती यज्ञमुखं परीयाय कस्मात् तेजस्विनितमेति यदेवादस्सोममाहरत् तस्माद्गायत्री यज्ञमुखं तस्मात् तेजस्विनितमा सा पद्भ्यां द्वे सवने आहरन् मुखेन तृतीयं यन्मुखेनाहरत् तदधयत् तस्माद् द्वे सवने शुक्रवती धीतमिव तृतीयसवनं तस्मादृजीषं तृतीयसवनेऽभिषुण्वन्ति यत् तृतीयसवन आशिरमवनयन्ति तृतीयसवनमेव तत् संभरन्तो मन्यन्ते ॥१०॥

इन्द्राग्नी श्नथद्वृत्रमिन्द्रावरुणयोरहं नू न इन्द्रावरुणा सं वां कर्मणोभा जिग्यथुरस्मे इन्द्राबृहस्पती बृहस्पतिं नः ॥
इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः ।
परा शृणीतमचितो न्योषतँ हतं नुदेथां निशिशीतमत्रिणः ॥
इन्द्रासोमा समघशँसमभ्यघं तपुर्ययस्तु चरुरग्निमाँ इव ।
ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ।।
इन्द्रा नु पूषणा वयँ सख्याय स्वस्तये । हुवेम वाजसातये ॥
यदिन्द्रो अनयद्रितो महीरपो वृषन्तमः । तत्र पूषाभवत् सचा ॥
इन्द्रापर्वता बृहता रथेन वामीरिष आवहतँ सुवीराः ।
वीतँ हव्यान्यध्वरेषु देवा वर्धेथां गीर्भिरिडया मदन्ता ॥
ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान् ।
शिशीतमिन्द्रापर्वता युवं नस्तन्नो विश्वे वरिवस्यन्तु देवाः ॥
ऋभुर्ऋभुभिरभि वस्स्याम विभ्वो विभुभिश्शवसा शवाँसि ।
वाजो अस्माँ अवतु वाजसाता इन्द्रेण युजा तरुषेम वृत्रम् ॥
शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानम् ।
शच्या हरी धनुतरा अतष्टेन्द्रवाहा ऋभवो वाजरत्नाः ॥
वधीं वृत्रं भूरि चकर्थ विश्वाहेन्द्र एनाङ्गुषेण ॥११॥

त्वमग्ने बृहद्वयो ददासि देव दाशुषे । कविर्गृहपतिर्युवा हव्यवाडग्निरजरः ॥
पितरो विभुर्विभावा सुदृशीको अस्मे सुगार्हपत्यास्समिषो दीदिह्यस्मद्र्यक्संमिमीहि श्रवाँसि य इमा विश्वा जातानि विश्वा रूपाणि ॥
त्वं च सोम नो वशो जीवातुं न मरामहे । प्रियस्तोत्रो वनस्पतिः ॥
ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् ।
श्येनो गृध्राणाँ स्वधितिर्वनानाँ सोमः पवित्रमत्येति रेभन् ।।
उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः ।
गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिमभ्यर्का अनावन् ॥
हँसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहना व्यस्यन् ।
बृहस्पतिरभिकनिक्रदद्गा उत प्रास्तौदुच्च विद्वाँ अगायत् ॥
त्वँ सुतस्य पीतये सद्यो वृद्धो अजायथाः । इन्द्र ज्यैष्ठ्याय सुक्रतो ।।
भुवस्त्वमिन्द्र ब्रह्मणा महान् भुवो विश्वेषु सवनेषु यज्ञियः ।
भुवो नॄँश्च्यौत्नो विश्वस्मिन् भरे ज्येष्ठश्च मन्त्रो विश्वचर्षणे ॥
मित्रस्य चर्षणीधृतश्श्रवो देवस्य सानसि । सत्यं चित्रश्रवस्तमम् ॥
मित्रो जनान्यातयति बुवाणो मित्रो दाधार पृथिवीमुत द्याम् ।
मित्रः कृष्टीरनिमिषाभिचष्टे सत्याय हव्यं घृतवद्विधेम ॥
प्र स मित्र मर्तो अस्तु प्रयस्वान् यस्त आदित्य शिक्षते व्रतेन ।
न हन्यते न जीयते त्वोतो नैनमँहो अश्नोत्यन्तितो न दूरात् ॥
यत्किंचेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि ।
अचित्ती यत् तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः ।।
कितवासो यद्रिरिपुर्न दीवि यद्वा घा सत्यमुत यन्न विद्म ।
सर्वा ता विष्य शिथिरेव देवाधा ते स्याम वरुण प्रियासः॥
यथा नो अदितिः करत् पश्वे नृभ्यो यथा गवे । यथा तोकाय रुद्रियम् ॥
मा नस्तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषु रीरिषः ।
वीरान् मा नो रुद्र भामितो वधीर्हविष्मन्तो नमसा विधेम ते ॥१२॥ [१८२२]
 

॥ इति श्रीयजुषि काठके चरकशाखायां मध्यमिकायां दीक्षितं नाम त्रयोविंशं स्थानकं संपूर्णम् ॥२३॥