प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← स्थानकं २३ काठकसंहिता (विस्वरः)
स्थानकम् २४
[[लेखकः :|]]
स्थानकं २५ →
साक्षीति

अथ चतुर्विशं स्थानकम्।

साक्षीति।
या श्येताक्षी कृष्णवाला कृष्णशफा न तया क्रीणीयाद्धतं वा अस्या एतत् परिपिष्टं पितृदेवत्या सा प्रमायुकस्स्याद्या द्विरूपा न तया क्रीणीयाद्वार्त्रघ्नी सा जिनाति वा जीयते वोत तया राजन्यस्य क्रीणीयान्न हि तस्यान्तरास्ति जिनाति वा हि स जीयते वा याधीलोधकर्णी तया षोडशिनं क्रीणीयादतिरिक्तं वा एतद्रूपाणामतिरिक्तष्षोडश्यतिरिक्तेनैवातिरिक्तमाप्नोति या बभ्रुरेकहायनी तया क्रीणीयाद्वाग्वै सोमक्रयणी पुरुषो वाग्यदेकहायन्या क्रीणाति तस्मादेकहायनः पुरुषो वाचं वदति यज्ज्यायस्या क्रीणाति तस्माज्ज्यायान् वदति ॥ छन्दाँसि वा अमुष्माल्लोकात् सोममाहरन् गायत्री श्येनो भूत्वा तं गन्धर्वा अन्तरा पर्यमुष्णन् विश्वावसुस्स तिस्रो रात्रीरुपहृतोऽवसत् तस्मात् तिस्रो रात्रीस्सोमः क्रीतो वसति तं देवाः पुनरयाचन्त तमेभ्यो न पुनरददुस्तेऽब्रुवन् गवा निष्क्रीणामेति तेऽमन्यन्त यज्ञेन विक्रेष्यामहे यद्गवा निष्क्रेष्याम इति तेऽब्रुवन् स्त्रीकामा वै गन्धर्वा वाचँ स्त्रियं कृत्वा मायामुपावासृजँस्तेऽमन्यन्त प्रजया व्यक्रेष्महि ये वाचा व्यक्रेष्महीति तेऽन्वार्तीयन्तास्माकँ सोमोऽस्माकँ सोमक्रयणीति ते गन्धर्वा अब्रुवन् विह्वयामहा इति ते ब्रह्म गन्धर्वा अवदन्नगायन् देवास्सा देवान् गायत उपावर्तत तस्माद्गायन्तँ स्त्री कामयते न ब्रह्म वदन्तमद्रुह्यद्धि सा ब्रह्मणे तस्मादाहुरक्रीता सोमेन सोमक्रयण्यस्ति देवान् हि सा पुनरुपावर्ततेति तेऽब्रुवन् स्त्रीकामा वै गन्धर्वा बहु वै गन्धर्वेषु मिथुनीभवन्ती संभरन्त्यचारीरपः प्रविश्योदेहीति तस्या यद्धतं परिपिष्टमासीत् तज्जरती कूटा भूत्वोदैत् तेऽब्रुवन् पितृदेवत्या वा इयमिति तस्मात् ता पितृभ्यो घ्नन्ति तेऽब्रुवन् पुनः प्रविश्योदेहीति सा पष्ठौही वार्त्रघ्नी द्विरूपा भूत्वोदैत् सा तेन रूपेणापास्पृणुत तस्मात् सा वरोऽतिवरेण्यो नैनं वरो हिनस्ति य एवं विद्वान् वरं वृणीते तेऽब्रुवन् पुनः प्रविश्योदेहीति सा बभ्रुरेकहायनी भूत्वोदैत् तयाक्रीणँस्तस्मात् सा सोमक्रयणी तदस्या रूपम् ॥१॥
 
सोमक्रयण्या तृतीयसवनमवरुध्यं पशवो वै तृतीयसवनं यद्गवा क्रीणाति तेनैव तृतीयँ सवनमवरुन्द्धे रोहिते चर्मन् मिमीते तस्माद्रोहितरूपं पशवो भूयिष्ठा न विचेतवा अनुमन्येत न विचीयमानस्योपद्रष्टा स्यात् सोम ओषधीनामधिराजो ग्रसितमस्य निष्खिदति क्षोधुको भवति तस्मात् सोमविक्रयी क्षोधुकोऽपामन्ते क्रीणाति सरसमेवैनं क्रीणाति हिरण्येन क्रीणाति सतेजसमेवैनं क्रीणात्यजया क्रीणाति सतपसमेवैनं क्रीणाति धेन्वा क्रीणाति साशिरमेवैनं क्रीणात्यनडुहा क्रीणाति वह्न्येव यज्ञस्यावरुन्द्धे वत्सतरेण च वत्सतर्या च क्रीणाति मिथुनमेवास्य क्रीणात्यृषभेण क्रीणाति सेन्द्रमेवैनं क्रीणाति तदाहुः प्रजापतिना वा एष विक्रीणीते यदृषभेण विक्रीणीत इति य एव कश्च साण्डस्स्यादरेतास्तेन क्रीणीयात् तेनैव सेन्द्रं क्रीणाति न प्रजापतिना विक्रीणीते दशभिः क्रीणाति दशाक्षरा विराडन्नं विराड्विराज्येवान्नाद्ये प्रतितिष्ठति ॥२॥

जूरसीति वाग्वै सोमक्रयणी जवते हि वाचेत्थं चेत्थं च पश्यन् सोमक्रयणीं जुहोति वाग्वै सोमक्रयणी पश्यन्नेवैनां यच्छति धृता मनसेति मनसा हि वाग्धृता जुष्टा विष्णव इति यज्ञो वै विष्णुर्यज्ञायैवैनां जुष्टां करोति तस्यास्ते सत्यसवसः प्रसवे तन्वो यन्त्रमशीय स्वाहेति यो वा एतस्यास्तन्वो यन्त्रमश्नुते भवति स सवितृत एवास्यास्तन्वो यन्त्रमश्नुते स्वाहाकारेणैवैनां यच्छत्यमुष्मा आदित्याय प्रोच्य सोमः क्रेतव्यो देव सूर्य सोमं क्रेष्याम इत्यमुष्मा एवादित्याय प्रोच्य सोमं क्रीणाति ॥ चिदसीति वाग्वै सोमक्रयणी शास्त्येवैनां तस्माच्छिष्टाः प्रजा जायन्ते मना असीति मनसा हि वाग्धृता धीरसीति ध्यायते हि वाचेत्थं चेत्थं च दक्षिणासीति दक्षिणा ह्येषा यज्ञियासीति यज्ञिया ह्येषा क्षत्रियासीति क्षत्रिया ह्येषाथो यँ ह्येषा जुषते स क्षत्रियो भवत्यदितिरस्युभयतश्शीर्ष्णीत्यदितिर्ह्येषोभयतश्शीर्ष्ण्युभयतो ह्येषा यज्ञं परिभूरादित्यं प्रायणीयं भवत्यादित्यमुदयनीयँ सा मा सुप्राची सुप्रतीची भवेति सुप्राचीमेवैनाँ सुप्रतीचीं कुरुते मित्रस्त्वा पदि बध्नात्विति यत् पदि बद्धा स्यात् पितृदेवत्या स्याद्वाग्वै सोमक्रयणी वरुण्यः पाशो वाग्वरुणगृहीता न वदेद्यत् कर्णगृहीता स्याद्वार्त्रघ्नी स्याद्यदनालब्धायता ॥ मित्रस्त्वा पदि बध्नात्विति ब्रह्म वै मित्रो ब्रह्मणैवैनं पदि बध्नाति पूषाध्वनस्पात्वितीयं वै पूषास्या एवैनां परिददातीन्द्रायाध्यक्षायेतीन्द्रो वै देवानामोजिष्ठस्तमेवास्या अध्यक्षं करोत्यनु त्वा माता मन्यतामनु पितेति पिता च ह्येतस्या माता चानुमन्तारौ सा देवि देवमच्छेहीन्द्राय सोममिति देवी ह्येषा देवमच्छैतीन्द्राय सोमं रुद्रस्त्वावर्तयत्विति रुद्रो वै देवानां क्षेपिष्ठस्तमेवास्याः परस्तात् करोत्यपरानँशाय स्वस्ति सोमसखा पुनरेहीति पुनरेवास्या आवृत्तायै स्वस्ति करोति ॥३॥

दक्षिणेन पदा दक्षिणानि पदान्यनुनिक्रामति तस्मादक्षिणोऽर्ध आत्मनो वीर्यावत्तरष्षट् पदान्यनुनिक्रामति षडृतव ऋतुष्वेव प्रतितिष्ठति षट् पृष्ठानि तान्येवावरुन्द्धे सप्तमं पदमभिगृह्णाति सप्त ग्राम्याः पशवस्तानेवावरुन्द्धे सप्तधेयं वाग्वदति तामेवाप्नोति वस्त्र्यसि रुद्रासीति देवनामानि वा एषैतानि प्रपद्यत इयमसीयमीत्येवैतदाह यद्यद्भवत्यथो वाच एवैतत् सम्यगुद्यते बृहस्पतिस्त्वा सुम्ने रम्णातु रुद्रो वसुभिराचक इति ब्रह्म वै बृहस्पती रुद्रो देवानामोजिष्ठो या एव देवानामोजिष्ठौ ताभ्यामेनामन्ततो यच्छति ॥ पृथिव्यास्त्वा मूर्धन्नाजिघर्मि देवयजन इत्येष हि पृथिव्या मूर्धा यद्देवयजनमिडायास्पदे घृतवति स्वहेतीडा वा एषा तस्या एतद्घृतवत् पदँ स्वाहाकारेणैवैनां यच्छतीदमहं रक्षसो ग्रीवा अपिकृन्तामीति भ्रातृव्यो वै रक्षो भ्रातृव्यस्यैव ग्रीवा अपिकृन्तति स्फ्येन पदं परिलिखति बज्रो वै स्यःे पशवः पदं वज्रेणैवास्मै पशून् परिगृह्णाति यावद् घृतं विधावेत तावदभिपरिलिखेत् पशवो वै घृतं पशूनेवावरुन्द्धे स्थाल्यां पदँ संवपत्यादित्या वै पशवः पृथिव्यदितिः पृथिव्यास्स्थाली संभृता स्व एवैनान् योनौ दधात्यस्मे रमस्वास्मे ते राय इति यत् त्वे राय इति ब्रूयादितरस्मै पशून् संप्रयच्छेदध्वर्युरपशुस्स्यान्मे राय इत्यात्मन्नेव पशून् यच्छते ॥ व्यॄद्धा वा एषाहुतिर्यामनग्नौ जुहोति यद्धिरण्यमुपास्य जुहोत्यग्निमत्येव जुहोति समृद्ध्या अनग्नौ वा एतामाहुतिं जुहोति तामीश्वराणि रक्षाँस्यनूदय्य हन्तोर्यदपो निनयति शान्त्या एव रक्षसामपहत्या अयोनीन्वा एतत् पशूञ्छुचार्पयति यदेषां पदं परिखायाहरति यदपो निनयति पशूनेव शुचौ मुञ्चति सोमक्रयण्या पत्नीँ संख्यापयति पत्न्या एवैष यज्ञस्यान्वारम्भोऽथो मिथुनमेव यज्ञमुखे दधाति प्रजननाय त्वष्टृमन्तस्त्वा सपेमेत्यतो हीमाः प्रजाः प्रजायन्ते प्रजननाय ॥४॥

हस्ते हिरण्यं कृत्वा मिमीते सत्यं वै हिरण्यँ सत्येनैवैनं मिमीतेऽमृतं वै हिरण्यममृतेनैवैनं मिमीत आस्माकोऽसीति स्वमेवैनं कुरुते शुक्रस्ते ग्रह इति शुक्रमेवास्य गृह्णात्यभि त्यं देवँ सवितारमिति सवितृप्रसूत एवैनं देवताभिर्मिमीतेऽतिच्छन्दसा मिमीते वर्ष्म वा एषा छन्दसां यदतिच्छन्दा वर्ष्मैवैनौ गमयति यज्ञं च यजमानं चैकेकया मिमीत आसामेव वीर्याण्याप्नोति तस्मादिमाः कामं न्यचाम: कामं प्रसारयामो यत् सर्वाभिस्सह मिमीत हस्तमासां वीर्यमभिसमियादङ्गुष्ठेन प्रतिमिमीते तस्मादेष एतासां वीर्याणि प्रत्युदेव सृजेन्न न्यचेद्यन्यचेत् पाशं कुर्याद्वारुण्यः पाशो वरुण एनं ग्राहुकस्स्याद्यदुत्सृजति वरुणपाशादेवात्मानं परिवृणक्ति ।। द्विर्मिमीते द्वे हि शुक्रिये सवने दश कृत्वो मिमीते दशाक्षरा विराडन्नं विराड्विराज्येवान्नाद्ये प्रतितिष्ठति यत् परिमितं मिमीत परिमितं जीवनँ स्यादपरिमितं मिमीते तस्मादिदमपरिमितं जीवनं यत् परिमितं मिमीत यजमानायैव स्यादपरिमितं मिमीते तेन सदस्येभ्योऽपि क्रियते प्रजाभ्यस्त्वा प्रजास्त्वानुप्राणन्त्विति प्रजा वा अँशवः प्रजास्वेव प्राणं दधाति चतुर्गृहीतमाज्यं भवति चतुष्पादः पशवः पशूनेवास्मै गृह्णात्येतद्रूपा वै पशवो यद् घृतँ सरूपानेव पशूनवरुन्द्धे ॥ इयं ते शुक्र तनूरिदं वर्च इति हिरण्यं घृतेऽवदधात्येषा वा अग्नेः प्रिया तनूर्यद् घृतं तेजो हिरण्यं प्रियामेवास्य तन्वं तेजसा समर्धयति रेतो वै हिरण्यं पशवो घृतं यद्धिरण्यं घृतेऽवदधाति पशुष्वेव रेतो दधाति तस्मादनस्थकाद्रेतसोऽस्थन्वन्तो गर्भाः प्रजायन्ते बद्ध्वावदधाति गर्भाणां धृत्या अप्रपादाय निष्टर्क्यं बध्नाति तस्माद्योनेर्गर्भा मुच्यन्ते यदनिष्टर्क्यं बध्नीयान्न योनेर्गर्भा मुच्येरन् यजुषावदधाति यजुषोद्धरति यजुषैव युनक्ति यजुषा विमुञ्चति तस्मात् पराचीः प्रजा रेतो दधतेऽर्वाची: प्रजायन्ते ।।५।।

न पूर्वस्मिन् पदमुपवपेद्देवानां वा एष प्रदग्धाहुतीनां रुद्रोऽग्निः पशवः पदं रुद्राय पशूनपिदध्यादपशुस्स्याद्गार्हपत्य उपवपति गार्हपत्यं च पशवोऽनूपतिष्ठन्त एष पशूनां योनिस्स्व एवैनान् योनौ दधाति यत्र शान्तमिवानङ्गारँ स्यात् तदुपवपेच्छान्त्या अनुद्दाहाय सोमं ते क्रीणामीति सोमस्यैवैतद्राज्ञो वीर्याणि महिमानं व्याचष्टे न कलाशः पणेत यत् कलाशः पणते सोमस्य राज्ञो वीर्यमवतिरति यजमानस्यावर्तिं व्याचष्टे क्षोधुको भवतीयमिति ब्रूयात् तस्या आत्मा तस्या रूपं तस्याः प्रजा तस्याः पय इति न सोमस्य राज्ञो वीर्यमवतिरति न यजमानस्यावर्तिं व्याचष्टेऽक्षोधुको भवति । शुक्रं ते शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामृतममृतेनेति शुक्रमेवास्य शुक्रेण क्रीणाति चन्द्रं चन्द्रेणामृतममृतेन शक्म यत् ते गोरस्ने ते चन्द्राणीत्यात्मन्नेवास्य वीर्यं धत्ते तेन निर्वीर्येण भूतेन विक्रीणीते तपसस्तनूरसीति तपसो ह्येषा तनूः प्रजापतेर्वर्ण इत्यग्निर्वै प्रजापतेरग्निजा अजास्सहस्रपोषं पुष्यन्तीत्येषा हि पशूनाँ सहस्रपोषं पुष्यत्यतो ह्येष त्रीञ्जनयत्यथो द्वौ परमेण पशुना क्रीयस इति परमो ह्येषा पशूनामस्मे ते बन्धुरित्यात्मन्नेवास्या वीर्यं धत्ते तया निर्वीर्यया भूतया विक्रीणीते ॥ छन्दांसि वा अमुष्माल्लोकात् सोममाहरँस्तत् तमोऽन्तराधीयत सा गायत्र्यजया ज्योतिषोदपतत् सास्यै प्रारोचयदेतर्हि वा एष एतस्मा आह्रियते यर्हि क्रीयते तम इदमन्तरा यदजया क्रीणाति प्रैवास्मै रोचयति मित्रो न एहि सुमित्रधा इति वरुणो वा एष भूत्वा यजमानमभ्यैति मित्रमेवैनं कुरुतेऽपोर्णुते यथा श्रेयाँसमायान्तं पापीयान् प्रत्यपोर्णुत एवमेव तदिन्द्रस्योरुमाविश दक्षिणमितीन्द्रो वा एतमग्र ऊरा आधत्तैन्द्रो यजमानस्स्व एवैनं योनौ दधाति स्वान्नभ्राडिति सोमक्रयणाननुदिशत्येते वा एतद्गन्धर्वा अगोपायन्नमुष्मिंल्लोके तं गायत्र्याहरन्नेष्टापोत्रोः प्रति गोपीथं तस्मादेते होत्रे व्यृद्धे व्यृद्धसोमपीथे तस्मान्न नेष्ट्रा न पोत्रा भवितव्यं तस्मादेतौ सँसचन्ता इव यजतस्तमेतेऽन्वायन्नेते वा एतस्य गन्धर्वाः पुष्टिँ हरन्ति तस्मात् सोमविक्रयी न पुष्यति यदि कृच्छ्रायेतोपैव हरेत् तेभ्यो ह्येष गन्धर्वेभ्योऽधि क्रीयत्त उदायुषेति यथायजुरुर्वन्तरिक्षं वीहीत्यन्तरिक्षदेवत्यो ह्येष एतर्ह्यपि पन्थामगन्महीति रक्षाँसि वा एतमेतर्हि सचन्ते प्रच्युतमितोऽप्राप्तमदो रक्षाँस्येव वृञ्जान एत्यनसाच्छ यन्ति महिमानमेवास्याच्छ यन्त्यनसा वहन्ति तस्मादनोवाह्यमोषधयः पच्यन्ते यच्छीर्ष्णा हरेयुश्शीर्षहार्यमोषधयः पच्येरन्नदित्यास्त्वगस्यदित्यास्सदने सीदेत्यादित्यो वै सोमः पृथिव्यदितिः पृथिव्या अनस्संभृतँ स्व एवैनं योनौ दधाति वारुणो वै सोमस्तं देवतया व्यर्धयति यन्मित्रं करोति यद्वारुण्या सादयति स्वयैवैनं देवतया समर्धयति वनेषु व्यन्तरिक्षं ततानेति वाससा पर्यानह्यति सर्वदेवत्यं वै वासस्सर्वाभिरेवैनं देवताभिस्समर्धयति सूर्यस्य चक्षुरारुहमिति कृष्णाजिनं पुरस्तात् प्रत्यानह्यन्ति रक्षाँसि वा एतमेतर्हि जिघाँसन्ति स्वर्गं लोकमभ्यारोहन्तमसा आदित्योऽपरिपरः पन्थास्तमेवैनमभ्यारोहयति स्वर्गस्य लोकस्य समष्ट्यै ॥६॥

प्रच्यवस्व भुवनस्पत इति भूतानाँ ह्येष पतिर्विश्वान्यभि धामानीति देवता वै विश्वा धामानि देवता एवैनमभि प्रच्यावयति श्येनो भूत्वा परापतेति श्येनो वै वयसां क्षेपिष्ठश्श्येनमेवैनं कृत्वा रक्षाँस्यतिसृजति यजमानस्य नो गृहे सँस्कृतमिति यजमानायतनमेवैनं करोत्यथो यजमानस्यैव गृहे देवताभिस्सँस्कृतं कुरुते नमो मित्रस्य वरुणस्य चक्षस इति वरुणो वा एष भूत्वा यजमानमभ्येति मित्रमेवैनं कुरुत आसन्दीमुद्गह्णन्ति यथा मनुष्यराजायावस्थितायासन्दीमुद्गह्णन्त्येवमेव तदग्निना प्रतितिष्ठतेऽग्निस्सर्वा देवता देवताभिरेवैनं प्रतितिष्ठतेऽग्नीषोमौ वा एतर्हि यजमानमभि संधत्तो यत् पशुना प्रतितिष्ठते तमेवाभ्यामपिदधात्यग्नीषोमाभ्यां वा एष आत्मानं मेधायालभते यो दीक्षते यत्
पशुमालभत आत्मानं तेन निष्क्रीणाति यस्तूपरश्श्मश्रुणो द्विदेवत्यस्य रूपं लोमशः पीवा पुरुषरूपस्तमालभेत तस्य योऽश्नाति पुरुषमत्ति तस्मात् तस्य नाशितव्यं क्षुध्यति वै दीक्षितः क्षुध एष निष्क्रयण आलभ्यते तस्य योऽश्नाति क्षोधुको भवति तस्मात् तस्य नाशितव्यमग्नीषोमाभ्यां वै वीर्येणेन्द्रो वृत्रमहन् स एष वार्त्रघ्नः पशुर्विजित्या आलभ्यते तस्मादस्याशितव्यं देवता वा एनं पूर्वेद्युरालभ्यमानं नाभिप्राच्यवन्त परस्माद्यज्ञक्रतोर्निररिष्याम इति तमग्नीषोमा एवाभिप्राच्यवेतां पराचीरितरा यज्ञमभ्यत्यसृजन्त तस्मादेषोऽग्नीषोमीय आलभ्यते तस्मादग्नीषोमाभ्यां ग्रहो न गृह्यते॥ तौ देवानुपावर्तमानौ तयोर्यत् प्रियं धामासीत् तदपन्यदधातां तद्देवा अन्वेष्टुमध्रियन्त ते प्रबाहुगिच्छन्त आयँस्ते नवं वा इदँ सृप्तमित्यभ्यवायन्यन्नवमित्यब्रुवँस्तन्नवनीतस्य नवनीतत्वं यत् सृप्तमिति तत् सर्पिषस्सर्पिष्ट्वं यदजोऽविन्दत् तदाज्यस्याज्यत्वं स घृङ्ङकरोत् तद् घृतस्य घृतत्वं तस्मादजो घृङ्करिक्रञ्चरति तत् पशूनन्वाकुर्वँस्तत् पशवस्समभरँस्तेनैतेन पशुभ्योऽधिजायन्ते ता अब्रुवतां वार्यं वृणावहा अयमेव नौ भागधेयमस्तु यो नौ प्रियं धामाविन्ददिति तस्मादेषोऽग्नीषोमीय आलभ्यते तस्मादस्याशितव्यं वार्यवृतो हि ॥७॥

विमुक्तोऽन्योऽनड्वान् भवत्यविमुक्तोऽन्योऽथातिथ्यं निरुप्यते यज्ञस्य संतत्या अविच्छेदाय यदुभौ विमुक्तौ स्यातां पितृदेवत्यँ हविस्स्याद्विच्छिन्नो यज्ञोऽसंततोऽनवरुद्धो यदुभा अविमुक्तौ वार्त्रघ्नँ हविस्स्यात् संततो यज्ञोऽविच्छिन्नोऽवरुद्धो यद्विमुक्तोऽन्यो भवत्यविमुक्तोऽन्यो वार्त्रघ्नँ हविर्भवत्यपितृदेवत्यँ संततो यज्ञोऽविच्छिन्नोऽवरुद्धः पत्नीमन्वारम्भयित्वा निर्वपति पत्नी वै पारीणह्यस्येशेऽनुमतमेव प्रसूतं देवेभ्यो हविर्निर्वपति पत्न्या एवैष यज्ञस्यान्वारम्भोऽथो मिथुनमेव यज्ञमुखे दधाति प्रजननाय ॥ यावन्तो वै पुण्यमन्वायन्ति सर्वेभ्यस्तेभ्य आतिथ्यं क्रियते छन्दाँसि सोमं राजानं क्रीतमन्वायन्त्यग्नेस्तनूरसि विष्णवे त्वेति गायत्र्यैतन्निर्वपति सोमस्य तनूरसि विष्णवे त्वेति त्रिष्टुभैतन्निर्वपत्यतिथेरातिथ्यमसि विष्णवे त्वेति जगत्यैतन्निर्वपत्यग्नये त्या रायस्पोषदे विष्णवे त्वेत्यनुष्टुभैतन्निर्वपति श्येनाय त्वा सोमभृते विष्णवे त्वेति गायत्र्यैतन्निर्वपति गायत्री वा एतमाहरदमुष्माल्लोकात् तस्मात् सा पुनर्याम्णी तस्मात् पुनः प्रयुज्यते यच्छन्दोभिर्निर्वपति च्छन्दाँस्येव भागधेयवन्ति करोति पञ्च कृत्वो निर्वपति पाङ्क्तो यज्ञो यज्ञमेवावरुन्द्धे विष्णवे त्वा विष्णवे त्वेति विष्णुर्वा एतर्हि यज्ञो यर्ह्यनिरुक्तस्तस्माद्वैष्णवः पुरोडाशो भवति त्रिकपालः कार्यस्स हि वैष्णवो यन्नवकपालस्तेनैव त्रिकपालस्त्रयो हि ते त्रिकपाला नवकपालो भवति नव प्राणाः प्राणैरेव यज्ञमुखे प्रैत्यथो तेज एव त्रिवृतं यज्ञमुखेऽधिवियातयति यत् त्रिकपालस्तेन वैष्णवो यत् षट् तेन च्छन्दसां तेनोभयस्मान्नैति ॥ पशुरालभ्यस्सोमाय राज्ञ इत्याहुर्मनुष्यराजायेन्न्वै पशुरालभ्यत इत्यग्निं मन्थन्त्याग्नेया वै पशवस्तदेवास्मै पशुमालभतेऽग्निस्सर्वा देवतास्सर्वा एव देवतास्सोमाय च च्छन्दोभ्यश्चागतेभ्यो जनयत्याश्ववालः प्रस्तारो भवत्यैक्षवा उद्यावा अश्व इव वै प्रजापतिरासीत् तस्यैते वाला आसन् यदश्ववाला एतौ बाहू या उद्यावौ तं देवा अन्वारभ्य स्वर्गं लोकमायन् यदाश्ववालः प्रस्तारो भवत्यैक्षवा उद्यावौ प्रजापतिमेवान्वारभते स्वर्गस्य लोकस्य समष्ट्यै प्रजापतेर्वा एतानि पक्ष्माणि येऽश्ववाला यदाश्ववालः प्रस्तारो भवति प्रजापतेरेवाधि यज्ञमुखं प्रतनुते ।। रक्षाँसि वै देवानां यज्ञमजिघाँसँस्तानि कार्ष्मर्येणापाघ्नत यत् कार्ष्मर्मयाः परिधयो भवन्ति रक्षसामपहत्यै यद्यद्वै देवा एतेनाकुर्वत तेनार्ध्नुवँस्तदस्य कर्मण्यत्वं कर्मण्यो वै नामैष यज्ञमुख एवैतेनर्ध्नोति सप्तदश सामिधेन्यो भवन्ति सप्तदशो बै संवत्सरः पञ्चर्तवो द्वादश मासा एष वाव स संवत्सरस्संवत्सरादेवाधि यज्ञमुखं प्रतनुते ॥ शिरो वा एतद्यज्ञस्य यदातिथ्यं ग्रीवा उपसदो यत् सँस्थापयेन्मुखतो यज्ञे सँस्थापयेच्छिरो ग्रीवाभ्यो यज्ञस्यावच्छिन्द्यादिडान्तं भवति शिर एव ग्रीवासु यज्ञस्य प्रतिदधाति नवकपालो भवति तस्मान्नवधा पुरुषस्य शिरो विष्यूतमुपसदो वा एतस्यानुयाजास्तानूनप्त्रमाशीस्तस्मादननुयाजं भवति ॥८॥

देवा वा अन्योऽन्यस्य श्रैष्ठ्याय नातिष्ठन्त ते चतुर्धा व्युदक्रामन्नग्निर्वसुस्सोमो रुद्रैरिन्द्रो मरुद्भिर्वरुण आदित्यस्ते देवाः पापीयाँसोऽभवन् वसीयाँसोऽसुरास्तेऽविदुः पापीयाँसो वै त्ये भवन्ति वसीयाँसोऽसुरा इति ते प्रियास्तन्वस्समवाद्यन्त ते ब्रुवन्नेषां नस्तन्न पारयाद्यो नोऽन्योऽन्यस्मै द्रुह्यादिति तस्मात् सतानूनप्त्रिणे न द्रोग्धवै यद् द्रुह्यति प्रियायै तन्वै द्रुह्यति यत् तन्वस्समवाद्यन्त तत् तानूनप्त्रस्य तानूनप्त्रत्वं ततो देवा अभवन् परासुरा अभवन् य एवं विद्वाँस्तानूनप्त्रमुपैति भवत्यात्मना परास्य भ्रातच्यो भवत्यसौ वा आदित्य इन्द्रस्तस्य ते श्रैष्ठ्यायातिष्ठन्त तिष्ठन्तेऽस्य समानाश्श्रैष्ठ्याय व एवं वेदैतस्मिन् वै ते तास्तन्वस्संन्यदधत तस्मादेष तेजिष्ठं तपति तस्मात् सूर्यदेवत्यास्सोमा भूयिष्ठा हूयन्त आज्येन वै वज्रेण देवा वृत्रमघ्नन् स्रुग्भ्यां बाहुभ्यां सोमो वृत्रो घ्नन्ति वा एतत् सोमं यदस्याज्येनान्तिकं जुह्वत्यँशुरँशुस्ते देव सोमाप्यायतामिति यदेवास्य घ्नन्ति यन्नितमयन्ति तदाप्याययन्ति यन्ति वा एतेऽस्माल्लोकाद्ये सोममाप्याययन्त्येष्टा रायः प्रेषे भगायेत्यस्मिन्नेव लोके प्रतितिष्ठन्ति पितरं च वा मातरं च हिनस्ति यो गर्भँ हन्त्यनयोर्गर्भस्सोमो राजा नमो दिवे नमः पृथिव्या इत्याभ्यामेव निह्नुते किं दीक्षया स्पृणोतीत्याहुः किमवान्तरदीक्षयेत्यात्मानमेव दीक्षया स्पृणोति प्रजामवान्तरदीक्षया संतरां मेखलामायच्छते ॥ कनीयो व्रतमुपैति तस्मादात्मनः प्रजाँहीयसी यत् परस्सत्यां विसृजते तस्मात् परोवरीयः प्रजया पुत्रेण पौत्रेण प्रथतेऽग्निर्वै दीक्षितश्शमयन्त्यग्निमापो मदन्तीनां मार्जयते मदन्तीनां व्रतयत्यशान्त्यै शान्तिार्ह्यापोऽथो तेज एवात्मन् भूयस्समाधत्ते न वा एतेन हुतं व्रतयितव्यं नाहुतं यो दीक्षितोऽग्निर्वै रुद्रोऽग्निनैष तन्वं विपरिधत्ते या ते अग्ने रुद्रिया तनूरिति व्रतयति स्वायामेव देवतायाँ हुतं व्रतयति तेनास्य न हुतं भवति नाहुतम् ॥९॥

देवाश्च वा असुराश्च संयत्ता आसँस्तेषामसुराणामिमाः पुर आसन्नयस्मयीयं रजतान्तरिक्षँ हरिणी द्यौस्ते देवास्संघातँ संघातं पराजयन्त तेऽविदुरनायतना हि वै स्मस्तस्मात् पराजयामद इति त एताः पुरः प्रत्यकुर्वत हविर्धानं दिव आग्नीध्रमन्तरिक्षात् सदः पृथिव्यास्तेऽब्रवन्नुपसदमुपायामोपसदा वै महापुरं जयन्तीति त उपसदमुपायँस्तानुपसद्भिरेवैभ्यो लोकेभ्यो निरघ्नँस्तस्मादाहुरुपसदा वै महापुरं जयन्तीति त एभ्यो लोकेभ्यो निर्हता ऋतून् प्राविशँस्ते षडुपायँस्तानुपसद्भिरेवर्तुभ्यो निरघ्नन् द्वाभ्याममुमाल्लोकाद् द्वाभ्यामन्तरिक्षाद् द्वाभ्यां पृथिव्यास्त ऋतुभ्यो निर्हतास्संवत्सरं प्राविशँस्ते द्वादशोपायँस्तानुपसद्भिरेव संवत्सरान्निरघ्नँश्चतसृभिरमुष्माल्लोकाच्चतसृभिरन्तरिक्षाच्चतसृभिः पृथिव्यास्ते संवत्सरान्निर्हता अहोरात्रे प्राविशँस्ते यत् सायमुपायँस्तेनैनान् रात्र्या अनुदन्त यत् प्रातस्तेनाह्नस्तस्माद्गौस्सायं प्रातस्तनमाप्यायते प्रातस्सायन्तनं तानुपसद्भिरेवैभ्यो लोकेभ्यो नुदमाना आयँस्ततो देवा अभवन् परासुरा अभवन् सर्वेभ्य एवैभ्यो लोकेभ्यो भ्रातृव्यं नुदमान एति य एवं विद्वानुपसद उपैति भवत्यात्मना परास्य भ्रातृव्यो भवति ॥ न द्वादशाग्निष्टोमस्य कुर्यादशान्ता निर्मृज्युर्न तिस्रोऽहीनस्योपरिष्टाद्यज्ञक्रतुर्गरीयानभिषीदेद्ग्रीवा निश्शृणीयादार्तिमार्छेद् द्वादशाहीनस्य कुर्याच्छान्त्या अनिर्मार्गाय तिस्रोऽग्निष्टोमस्य प्रत्युत्तब्ध्यै सयत्वाय ते देवा असुर्यानिमांल्लोकान्नान्ववैतुमधृष्णुवँस्तानग्निना मुखेनान्ववायन् यदग्निमन्त्युपसदां प्रतीकानि भवन्ति यथा क्षेत्रपतिः क्षेत्रेऽन्ववनयत्येवमेवैतदग्निना मुखेनेमांल्लोकानभिजयन्तो यन्ति यो ह वै देवान् साध्यान् वेद सिध्यत्यस्मा इमे वाव लोका देवास्साध्यास्सिद्धँ ह्यस्यै सिद्धमस्मै सिद्धममुष्मै य एवं वेद सिध्यत्यस्मै ॥१०॥ [१८४८]


॥ इति श्रीयजुषि काठके चरकशाखायां मध्यमिकायां साक्षीति नाम चतुर्विंशं स्थानकं संपूर्णम् ॥२४॥