प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← स्थानकं २४ काठकसंहिता (विस्वरः)
स्थानकम् २५
[[लेखकः :|]]
स्थानकं २६ →
इषुः

अथ पञ्चविंशं स्थानकम् ।

इषुः।
इषुं वा एता देवास्समस्कुर्वन् यदुपसदोऽग्निँ शृङ्गँ सोमँ शल्यं विष्णुं तेजनं तेऽब्रुवन् यो न ओजिष्ठस्स इमां विसृजत्विति ते रुद्रमब्रुवँस्त्वं वै न ओजिष्ठोऽसि त्वमिमां विसृजेति सोऽब्रवीद्वार्यं वृणा अहमेव पशूनामीशा इति तेऽमन्यन्त यदयं पशूनामीशिष्यते सर्वान्निर्णेष्यतीति तेऽब्रुवन् सप्ताहानीशासै न पराचीनमिति तस्मात् सप्ताहानि रुद्रः पशूनामीशे रक्षाँसि पराचीनं घ्नन्ति तां व्यसृजत् तया पुरस्समरुजद्यत् समरुजत् तद्रुद्रस्य रुद्रत्वं विसृष्टिमेव भ्रातृव्याय विसृजति य एवं विद्वानुपसद उपैति न पुनरपक्रामेद्यतरो वै संयत्तयोः पुनरपक्रामति परा स जयति ॥ समेष एतर्हि यतते य उपसद उपैति सकृदेव पराङतिक्रम्याश्रावयति यज्ञस्याभिजित्यै रक्षसामपहत्यै न प्रयाजा भवन्ति नानुयाजाः पुरो वा एते यज्ञस्य यत् प्रयाजानुयाजा यत् प्रयाजानुयाजान् कुर्यात् पुरो यज्ञस्य कुर्याद्दुरतिव्यथँ स्यादतीक्ष्णामिषुं कुर्याच्चतुर्व्रतो भवति चत्वारि हीष्वाः पर्णानि त्रिव्रतो भवति त्रिषन्धिर्हीषुश्शृङ्गँ शल्यस्तेजनं द्विव्रतो भवति द्विषन्धिर्हीषुश्शल्यश्च तेजनं चैकव्रतो भवत्येका ह्येवेषुरिषुमेवैताँ संस्कृत्य ताँ श्वो भ्रातृव्याय विसृजत्यथो व्रतमेवाप्नोति ॥ ग्रीवा वा एता यज्ञस्य यदुपसदो न प्रयाजा भवन्ति नानुयाजास्तस्माद्ग्रीवाः प्रतिपुरुषस्याणिष्ठं तास्सवीर्याः प्रयुज्यन्ते तस्माद्ग्रीवा अणिष्ठास्सतीर्वीर्यावत्तमास्तिस्र उपसदो भवन्ति त्रय इमे लोकास्तस्मात् पुरुषस्य त्रयस्स्कन्दा अतिषक्ताभिर्यजति तस्माद्ग्रीवा अतिषक्ता अथो अयातयाम्न्यायातयाम्न्यैव यजति सच्छन्दसो याज्यानुवाक्याः कुर्याद्यद्विच्छन्दसस्स्युरपरिचितो होतारँ हन्युर्भिद्वतीः पुरां भित्त्यै ॥१॥
 
देवाश्च वा असुराश्च यज्ञे संयत्ता आसन् स यज्ञोऽबिभेद्यतरेऽभिजेष्यन्ति ते मा विमथिष्यन्त इति स न्यलयत तं देवा अभिजित्यान्वैच्छँस्ते प्रबाहुगिच्छन्त आयँस्तमिन्द्र उपर्युपर्यत्यक्रामत् सोऽब्रवीत् को मायमुपर्युपर्यत्यक्रमीदित्यहमेष कृच्छ्रे हन्तेत्यथ कस्त्वमित्यहमेष कृच्छ्रादाहर्तेत्येमूषो नामायं वराह इत्यब्रवीदेकविँशत्याः पुरामश्ममयीनां पारे यत्किँचासुराणां वामं वसु तेन तिष्ठति तं जहि य एष कृच्छ्रे हन्तावोचथा इति तमिन्द्रो दाल्भूष्याभिविसृज्य पराभिनत् सोऽब्रवीदेष हतस्तमाहर य एष कृच्छ्रादाहर्तावोचथा इति तं विष्णुरपासङ्ग आहरद्यज्ञो वै विष्णुर्यज्ञेनैवैषां तद्यज्ञमवृञ्जत पशुभिः पशूनिन्द्रियेणेन्द्रियं ततो देवा अभवन् परासुरा अभवन् यज्ञो वै विष्णुर्यज्ञेनैवैतद्यज्ञं भ्रातृव्यस्य वृङ्क्ते पशुभिः पशूनिन्द्रियेणेन्द्रियं भवत्यात्मना परास्य भ्रातृव्यो भवति देवयजन मिच्छन्ति यज्ञमेवेच्छन्ति यद्विन्दन्ति यज्ञमेव विन्दन्ति यदुदीचीनं प्राचीनं प्रवणँ स्यात् तस्मिन् यजेत यज्ञकाम एवमेव हि स यज्ञोऽशयद्यज्ञस्यानुवित्त्यै यत् समं प्रतिष्ठितं तस्मिन् यजेत गतश्रीः प्रतिष्ठा वा एतस्मा एष्टव्या यो गतश्रीरेतद्भूम्याः प्रतिष्ठितं यत् समं प्रतिष्ठामेवास्मै विन्दति गच्छति प्रतिष्ठां त्र्युन्नते यजेत भ्रातृव्यवाँस्त्र्युन्नतेन वै विष्णुरिमांल्लोकानुदजयत् स एभ्यो लोकेभ्योऽसुरान् प्राणुदतेमानेव लोकानुज्जयत्येभ्यो लोकेभ्यो भ्रातृव्यं प्रणुदते ॥ यस्यैकधा मध्य उन्नतँ स्यात् तस्मिन् यजेत स्वर्गकामोऽतो वै देवास्स्वर्गं लोकमायन् स्वर्गस्य लोकस्य समष्ट्यै यत्रौषधयो बह्वीरन्या अन्या इव स्युस्तस्मिन् यजेत पशुकाम ओषधयो वै पशवो भूमानमेव पशूनामुपैति यत्रौषधयः कृच्छ्रशः पर्यायशः परीयुस्तस्मिन् यजेत पशुकामाऽतो वै देवाः पशूनुदसृजन्त पशूनेवोत्सृजते यदृक्षमलोमकं तस्मिन् याजयेद्यं द्विष्याद्यृजनद्धं वा एतदोषधिभिर्यदृक्षमलोमकमोषधयः पशवः पशुभिरेवैनं व्यर्धयति ॥ यत् समया देवयजनं पन्था विधावेत् तस्मिन् याजयेद्यं कामयेत व्येनं प्रजया पशुभिश्छिन्द्यामित्येतद्वै विच्छिन्नं नाम देवयजनं व्येनं प्रजया पशुभिश्छिनत्ति यदन्तरापश्च देवयजनं च पन्था विधावेत् तस्मिन् याजयेद्यं कामयेत नैनमपरो यज्ञ उपनमेदित्येतद्वै परिवर्त्म नाम देवयजनं पर्येणमपरो यज्ञो वृणक्ति यत्रापस्सर्वतस्समवद्रवेयुस्तस्मिन् यजेतान्नकामो दिग्भ्यो वा एतस्मा अन्नँ हरन्ति यस्मै हरन्त्यापोऽन्नँ सर्वाभ्य एव दिग्भ्योऽन्नाद्यमवरुन्द्धे तदेतत् सनाम नाम देवयजनं नीपतममिवर्तसमानानां भवति ॥२॥
  
यत्रापः प्राचीराहवनीयात् प्रतीचीर्गार्हपत्याद्व्यवद्रवेयुस्तस्मिन् याजयेद्यमुदके वा पात्रे वा विवाहे बा मीमाँसेरन् पाप्मना वा एषोऽनुषक्तो यमुदके वा पात्रे वा विवाहे या मीमाँसन्ते पाप्मनैवैनं व्यावर्तयति यत्रापो दक्षिणा परिप्लूय पश्चात् प्राची रमेरँस्तस्मिन् यजेत बुभूषन्नापो वै सर्वा देवता एतद्देवताभिर्जुष्टं देवयजनं यदेवं देवताभिरेव जुष्टे देवयजने यजते भवत्येव यत्रापो दक्षिणत उदीची रमेरँस्तस्मिन् यजेत सजातकाम आपो वै सर्वा देवता देवतास्सजातास्सजातानामेवैनं प्रार्धे करोति कृत्रिमे यजेत बुभूषन्नात्मा वै देवयजनं करोत्येवैनं यत्राग्निं चापश्च पश्यन् प्रातरनुवाकमनुब्रूयात् तस्मिन् यजेत यः कामयेत यज्ञो मापर उपनमेदित्यग्निर्वै सर्वा देवता आपो यज्ञ उपैनमपरो यज्ञो नमति देवताश्च हि यज्ञं च पश्यन् यजते यत्राग्निमपस्सूर्यं पश्यन् प्रातरनुवाकमनुब्रूयात् तस्मिन् यजेत ब्रह्मवर्चसकाम एतद्वै त्रिशुक्रियं नाम देवयजनं ब्रह्मवर्चसी भवति यत् पुरस्तादाप्तँ स्याद्देवयजनं तस्मिन् यजेत भ्रातृव्यवान् भ्रातृव्याय वा एष लोक उच्छिष्यते यः पुरस्ताद्देवयजनस्योच्छिष्यत एतावन्तमेवास्मै लोकमुच्छिँषत्यलोकमेनं करोति यो ह वै विद्वान् देवयजनं यजत ऋध्नोत्यग्निर्वाव देवयजनमग्नौ हि सर्वा देवता इज्यन्ते यत्रैव क्वचाग्निमाधाय यजेत तेनैवर्ध्नोति ब्राह्मणा वाव देवयजनं यत्र ब्राह्मणा बहवस्संराधयेयुस्तस्मिन् यजेत तेनैवर्ध्नोति ॥३॥

वेदिं विमिमीते त्रिँशता पश्चात् प्रक्रमैर्मिमीते षट्त्रिंशता प्राचीं चतुर्विँशत्या पुरस्ताद्विराजैवैनां पश्चात् परिमिमीते बृहत्या प्राचीं गायत्र्या पुरस्ताच्छन्दोभिरेवैनाँ सर्वतः परिमिमीते विराज्येव प्रतितिष्ठति यद्विराजमभिसंपादयति स्फ्येन स्तम्बयजुर्हरतीन्द्रो वै वृत्राय वज्रं प्राहरत् स त्रेधाभवत् स्फ्यस्तृतीयं यूपस्तृतीय रथस्तृतीयं वज्रो वै स्फ्य एतावती पृथिवी यावती वेदिर्वज्रेणैव पृथिव्या भ्रातृव्यं निर्भजति त्रिर्हरति त्रय इमे लोका एभ्य एवैनं लोकेभ्यो निर्भजति ॥ तूष्णीं चतुर्थँ हरत्यपरिमितादेवैनं निर्भजतीन्द्रो वै वृत्रँ हत्वा तमनयाभिन्यदधाद्यं तूष्णीं चतुर्थँ हरत्यनयैव भ्रातृव्यमभिनिदधाति मूलं छिनत्ति भ्रातृव्यस्यैव मूलं छिनत्त्युद्धन्ति तस्माच्छिशिर ओषधयः पराभवन्ति बर्हिस्स्तृणाति तस्माद्वसन्ता पुनराभवन्त्यपाररुमदेवयजनं पृथिव्या देवयजनाज्जहीति भ्रातृव्यो वा अररुर्भ्रातृव्यमेव पृथिव्या अपहन्ति द्रप्सस्ते द्यां मा स्कानिति यो वा अस्या रसस्स द्रप्सस्तमिमाः प्रजा उपजीवन्ति तमेवास्यां यच्छति तस्यास्कन्दायाररुर्द्यां मा पप्तदिति भ्रातृव्यो वा अररुर्भ्रातृव्यमेव स्वर्गाल्लोकात् प्रतिनुदते ॥ विषाद्वै नामासुर आसीत् स पृथिवीं विषेणालिम्पत् तस्या न कश्चनाश्नाद्य आश्नात् सोऽरुप्यद्यदुद्धन्ति यदेवास्या अमेध्यमयज्ञियं तदपहन्त्यपि मूलमनुखनेदाविद्धस्य निष्कृत्या अधो दूरं खनेदधो वा अस्या वीर्यं वीर्यस्याभितृत्त्यै तस्मात् सुकृष्टे व्रीहियवाः पच्यन्ते तदाहुरुत्तराधे वा अस्या वीर्यं तदिमाः प्रजा उपजीवन्ति तस्मान्नातिखेयेत्या प्रतिष्ठायाः खनेद्यजमानस्य प्रतिष्ठित्यै दक्षिणत उद्वनां कुर्याद्देवयजनस्य रूपं रक्षसामपहत्यै पुरीषवतीं पशवो वै पुरीषं पशूनेवावरुन्द्धे ॥४॥

स्फ्येन वेदिं परिगृह्णाति वज्रो वै स्फ्य एतावती पृथिवी यावती वेदिर्वज्रेणैव पृथिव्या भ्रातृव्यं निर्भज्य च्छन्दोभिरात्मने परिगृह्णाति वसवस्त्वा परिगृह्णन्तु गायत्रेण च्छन्दसेति दक्षिणतस्तेजो वै ब्रह्म गायत्री तेजसैवैनं दक्षिणतः परिगृह्णाति रुद्रास्त्वा परिगृह्णन्तु त्रैष्टुभेन च्छन्दसेति पश्चादोजो वै वीर्यं त्रिष्टुबोजसैवैनां पश्चात् परिगृह्णात्यादित्यास्त्वा परिगृह्णन्तु जागतेन च्छन्दसेत्युत्तराज्जागता वै पशव उत्तरादायतनाः पशवः पशुभ्य एवैतदायतनं करोति पशूनां धृत्या अथो तेजसा चोभयतः पशून् परिगृह्णाति पुरा क्रूरस्य विसृपो विरप्शिन्निति यद्वा अस्यास्तेजो यज्ञियं तददश्चन्द्रमसि तदेवावरुन्द्धे । इध्माबर्हिषी प्रोक्षति शुष्काणि वा एतान्यमेध्यान्यारण्यादाहृतान्यापो मेध्या यज्ञिया यदद्भिः प्रोक्षति मेध्ये एवैने यज्ञिये करोति वेदिं प्रोक्षति मेध्यामेवैनां यज्ञियां करोत्यथो यदेवास्या उद्घ्नन्त: क्रूरं कुर्वन्ति तच्छमयति बर्हिस्स्तृणाति प्रजा वै बर्हिः पृथिवी वेदिः प्रजा एव पृथिव्यां प्रतिष्ठापयति सर्वां वेदिमनुस्तृणाति तस्मात् पृथिवीँ सर्वामन्वोषधयो बहुलँ स्तृणीयादक्षोधुको यजमानो भवत्यनग्नंभावुकोऽध्वर्युर्बर्हिषि प्रस्तरँ सादयति यजमानो वै प्रस्तरः प्रजा बर्हिर्यजमानमेव प्रजास्वधिसादयत्युत्तरँ सादयत्युत्तरो हि यजमानो यजमानाद्व्यावृत्तँ सादयनि व्यावृत्तो हि यजमानो यजमानेनाक्त्वा प्रस्तरे प्रहरति यजमानो वै प्रस्तरो हविर्भूतमेवैनं स्वर्गं लोकं गमयति नात्यग्रं प्रहरेद्यदत्यग्रं प्रहरेद्वृक्णकेशीर्जनयस्स्युरभ्यासरिणीर्नँशुका अग्रमग्र आदीपयत्यग्रेणैवाग्रँ समर्धयत्यृजु प्रहरेत् स्वर्गकामस्यर्जुमेवैनँ स्वर्गं लोकं गमयति यं द्विष्यात् तस्य हूर्छयेत् स्वर्गादेवैनं लोकाद्धूर्छयति ॥ न्यञ्चं प्रहरेद्वृष्टिकामस्य या वा इत आहुतिरुदयते सामुतो वृष्टिं च्यावयति स्वयैवाहुत्या दिवो वृष्टिं निनयत्यूर्ध्वं प्रहरेद्यदि कामयेत पुमानस्य पुत्रो जायतेत्यूर्ध्व एव हि पुमान् प्रथयित्वा प्रहरेद्यदि कामयेत स्त्री जायतेत्येवमेव हि स्त्री प्रथितेव यजमानो वै प्रस्तर एति वा एतदस्माल्लोकाद्यत् प्रस्तरं प्रहरति यत् तृणमुपग्रह्णात्यस्मिन्नेवैनं लोके यच्छत्यनुप्रहरति यदेवास्यावमृशन्तः क्रूरं कुर्वन्ति यद्विच्छिन्दन्तस्तच्छमयत्यगा३नग्नी३दित्यगन्नित्यगन् स्वर्गं लोकमित्येवैतदाह श्रावय श्रौषदिति स्वर्गमेवैनं लोकं गतँ श्रावयति ॥५॥

देवाश्च वा असुराश्च संयत्ता आसँस्तान् यदस्यास्तेजो यज्ञियमासीत् तत् सिँहीरूपमिव महिपारूपमिव भूत्वान्तरातिष्ठत् तेऽविदुर्यतरान्वा इयमुपावर्त्स्यति त इदं भविष्यन्तीति तां देवा उपामन्त्रयन्त साब्रवीद्वार्यं वृणै मामेव पूर्वामग्नेराहुतिरश्नवाता अथ मया यूयँ सर्वान् कामान् व्यश्नवाथेति सा देवानुपावर्तत ततो देवा अभवन् परासुरा अभवन् यस्यैवं विदुष उत्तरवेदिर्न्युप्यते यश्चैवं विद्वान्निवपति भवत्यात्मना परास्य भ्रातृव्यो भवति दश पश्चात् तिरश्ची पदानि भवन्ति दशोभयत: प्राच्यपरिमिता पुरस्ताद्विराजा संमिता यद्वा असुराणां वित्तमासीत् तद्देवा वेद्याविन्दन्त तद्वेद्या वेदित्वं यद्वेद्यं तदुत्तरवेद्या तदुत्तरवेद्या उत्तरवेदित्वं यस्यैवं विदुषो वेदिश्च क्रियत उत्तरवेदिश्च न्युप्यते वित्तं चैव वेद्यं च भ्रातृव्यस्य विन्दते प्रजापतेर्वै नासिकाशीर्यत सोत्तरवेदिरभवद्यज्ञः प्रजापतिर्यदुत्तरवेदिं निर्वपति प्रजापतेरेव नासिकां मुखतः प्रतिदधाति चत्वारि वा एतस्या नामानि नासिका कशारिस्सिँह्युत्तरवेदिस्तप्तायन्यसीति तप्ता ह्येनानैद्वित्तायन्यसीति वित्ता ह्येनानैदवतान् मा नाथितमिति नाथितान् ह्येनानावदवताद्व्यथितमिति व्यथितान् ह्येनानावदग्ने अङ्गिरो योऽस्यां पृथिव्यामसि यो द्वितीयस्यां यस्तृतीयस्यामिति यदेवास्यैषु लोकेषु श्लिष्टं यन्न्यक्तं तदवन्द्धे विदेदग्निर्नभो नामेति।। यद्वा अग्नेर्वामं वसु तन्नभस्तेनेमां पृथिवीं प्राविशज्जानुदघ्नमधस्तस्माज्जानुदघ्नं खेयं तस्यैव वामस्य वसोरनुवित्त्यै सिँह्यसि महिष्यसीति सिँहीरूपमिव हि तन्महिषीरूपमिव भूत्वान्तरातिष्ठद्देवेभ्यः प्रथस्वेति प्रथयत्येवैनान् देवेभ्यः कल्पस्वेति कल्पयत्येवैनान् देवेभ्यश्शुन्धस्वेति शुन्धत्येवैनान् देवेभ्यश्शुम्भस्वेति शुभत्येवैनां विभ्राड् बृहत् पिबतु सोम्यं मध्वित्यन्तान् कल्पयति देवपात्रं वा उत्तरवेदिर्देवपात्रेणैव देवतास्तर्पयत्यथो देवताभ्य एव देवपात्रं निवेदयति ।। यतीन् वै सालावृकेया आदँस्त ------- पार्दो दं; 7सयान स्संमृश्यमाना उत्तरवेदिँ समुदक्रामँस्तान्नाभ्यधृष्णुवँस्तेषामेकोऽस्मयत तत एनानभ्यधृष्णुवँस्तेषामेकैकमावर्हमादँस्तस्मान्न मोघहासिना भव्यं यन्निस्सारयति यदेवास्या अभिमृतममेध्यं तन्निस्सारयति प्रोक्षत्येतावती व इयं पृथिव्यासीद्यावत्युत्तरवेदिस्ताँ समन्तं रक्षाँसि संप्राकम्पन्त तानि देवा विनुद्यैताभिर्देवताभिस्समन्तं परिन्यदधुर्यत् प्रोक्षत्येतद्देवत्या वा इमा दिशो रक्षाँस्येव विनुद्यैताभिर्देवताभिस्समन्तमात्मानं परिनिदधाति ।। गोपीथायैतद्वा एतां पूर्वामग्नेराहुतिरश्नुते यद्व्याघारयत्यथादोऽब्रवीन्मामेव पूर्वामग्नेराहुतिरश्नवाता अथ मया यूयँ सर्वान् कामान् व्यश्नवाथेत्यथ वा एषां तर्ह्यसुरास्सपत्ना आसँस्तेऽकामयन्त सपत्नान् सहेमहीति सिँह्यसि सपत्नसाही स्वाहेति सपत्नाँस्तेनासहन्त तेऽकामयन्त पशून् विन्देमहीति सिँह्यसि सुप्रजावनिस्स्वाहेति पशूस्तेनाविन्दन्त ?ऽकामयन्त प्रजां विन्दमहति सिँह्यसि सुग्रज धिस्स्विाहेति प्रजां तेनाविन्दन्त तेऽकामयन्तादित्यास्स्यामेति सिँह्यस्यादित्यवनिस्वाहेत्यादित्यानेनाभवँस्तस्मादिमा आदित्याः प्रजास्तेऽकामयन्त यज्ञियास्स्यामेति सिँह्यस्यावह देवान् देवायते यजमानाय स्वाहेति यज्ञियास्तेनाभवँस्तेऽकामयन्त स्वर्गं लोकमियामेति भूतेभ्यस्त्वेति ।। देवा वै भूतास्स्वर्गमेव तेन लोकमायन् यस्यैवं विदुष उत्तरवेदिर्व्याघार्यते यश्चैवं विद्वान् व्याघारयति सर्वानेवैतया कामान् व्यश्नोतीमे वे लोका आधृता आसँस्ते संप्राकम्पन्त तान् देवा एतैर्यजुर्भिर्व्यष्टभ्नुवन् यदेतैः परिधीन् परिदधात्येषां लोकानां विधृत्या अग्निर्वै देवेभ्योऽपाक्रामत् स यां प्रथमां प्रावसत् तां पशुष्ववसद्वृष्णेरन्तराशृङ्गं तस्मादूर्णास्तुका भवति यां द्वितीयां तां वनस्पतिषु पीतुदारौ तस्मात् पीतुदारुर्भवति यां तृतीयां तामोषधिषु सुगन्धितेजने तस्मात् सुगन्धितेजनो भवति यदेते संभारा भवन्ति यदेवास्यात्र श्लिष्टं यन्न्यक्तं तदेतैस्संभरति स पुनरुपावर्तमानश्शरीरमधूनुत तस्य यन्माँसमासीत् तद्गुल्गुल्वभवद्यदस्थि स पीतुदारुर्यानि लोमानि स सुगन्धितेजनो यदेते संभारा भवन्ति यदेवस्यात्र श्लिष्टं यन्न्यक्तं तदेतैस्संभरत्यग्नेस्सर्वत्वायाग्नेः कुलायमस्यग्नेः पुरीषमसीति कुलायमिव ह्येतत् पुरीषमिव यज्ञः प्रत्यष्ठादिति यज्ञस्य प्रतिष्ठित्यै ।।६।।

चत्वारो वै देवानां होतार आसन भूपतिर्भुवनपतिर्भूतानां पतिर्भूतस्तेषां त्रयो होत्रेण प्रामीय न्ताथो यद्भूत उदशिष्यत स प्रमयादबिभेत् स न्यलयत स समुद्रं प्राविशत् स यत् समुद्रे भस्माकुरुत स एष कर्दमस्तं मत्स्यः प्राब्रवीत् तमशपदभिगन्ता त्वा हतादिति तस्मान्मत्स्यमभियन्ता हन्ति शप्तो हि स तत उद्द्रुत्य नडं प्राविशत् तस्मान्नडो दग्धः क्रूर इक वर्वरस्तमश्वश्श्वेतोऽवमृशन्नन्वविन्दत् तं प्रत्यौषत् तस्मात् स प्रत्युष्टमुखस्सोऽक्रन्दत् सा या वागासीत् स सुश्लोकश्शकुनिरभवत् तस्माद्यँ स नष्टैषमभ्यवक्रन्दति विन्दत्येवा तं देवा अनुविद्यानयन्निदं नो होता भविष्यसीति स प्रमयादबिभेत् तं भ्रातरः प्रमीता अब्रुवन् वयं त इतो वर्म भविष्यामो देवेषु नो भागधेयमिच्छेति तेऽब्रुवन् यत्किंच हविर्भूतं बहिष्परिधि स्कन्दात् तदेषां भागधेयमित्येते वाव ते परिधयो यदि हविर्भूतं बहिष्परिधि स्कन्देद्भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेत्यनुमन्त्रयेतैते वै देवास्स्कन्नभागा य एव देवास्स्कन्नभागास्तानेनद्गमयति यज्ञो वा एतेषां मध्यमो यजमानो दक्षिणार्ध्यो भ्रातृव्य उत्तरार्ध्यस्स्थविष्ठं मध्यमं कुर्याद्वर्षिष्ठं दक्षिणार्ध्यं क्रधिष्ठमुत्तरार्ध्यँ स्थविष्ठं प्रथमं परिदधाति प्रथमो हि यज्ञो वर्षिष्ठं दक्षिणार्ध्यं यथा यजमानो दक्षिणतो यज्ञमुपसीदत्येवं तत् पश्चैवोत्तरार्ध्यं पश्चेव हि भ्रातृव्यो यज्ञेनैवैतद्यजमानं प्रतरां करोति यज्ञेन भ्रातृव्यमपनुदतेऽक्त्वा दक्षिणार्ध्ये प्रहरति मुखत एव यजमानं प्रीणात्यथो हविर्भूतमेवैनँ स्वर्गं लोकं गमयत्युपवपत्युत्तरार्ध्यं भ्रातृव्यमेवं तदुपवपत्यथ ह स्माहार्यलः काहोडिः किमु स यजेत यो यज्ञस्य स्कन्नेन न वसीयानित्स्यादिति यत्र स्कन्देत् तदपो निनीय भूपतये स्वाहेति प्राक् प्रादेशेन मिमीत भुवनपतये स्वाहेति दक्षिणा भूतानां पतये स्वाहेति प्रत्यग्जनं वा एतद्यज्ञस्यैति यत् स्कन्दतीयं वाव जनो यो वा इमामेति न स पुनरागच्छति जनमेवैतस्य यज्ञस्य यां कामयत आशिषं तामवरुन्द्धे ॥ दिशो मिमीते दिशो वै यज्ञस्य स्कन्नस्याशीर्गच्छति दिग्भ्य एव यज्ञस्याशिषमवरुन्द्धे प्रादेशेन मिमीत एतावद्वै पुरुषे वीर्यं यावदस्य प्राणा अभि यावदेवास्मिन् वीर्यं तेनैनत् संभरत्यपो निनयति म्रियते वा एतद्यज्ञस्य यत् स्कन्दत्यद्भिस्तान्तमभिषिञ्चन्त्यापस्सर्वा देवता देवता एवैनत् प्रवेशयति यदि प्रातस्सवने स्कन्देद्देवाञ्जनमगन् यज्ञस्तस्य यज्ञस्य मेष्टस्य वीतस्य द्रविणेहागम्या इत्यनुमन्त्रयेत यदि मध्यन्दिनेऽप ओषधीर्जनमगन् यज्ञस्तस्य मेष्टस्य वीतस्य द्रविणेहागम्या इत्यनुमन्त्रयेत यदि तृतीयसवने पितृञ्जनमगन् यज्ञस्तस्य मेष्टस्य वीतस्य द्रविणेहागम्या इत्यनुमन्त्रयेत यदि नक्तं द्यावापृथिवी जनमगन् यज्ञस्तस्य मेष्टस्य वीतस्य द्रविणेहागम्या इत्यनुमन्त्रयेत यदि तिरोह्येज्षु गन्धर्वाञ्जनमगन् यज्ञस्तस्य मेष्टस्य वीतस्य द्रविणेहागम्या इत्यनुमन्त्रयेतैता वै देवता यज्ञस्य स्कन्नस्याशीर्गच्छत्येता एव देवता यथादेवतं प्रत्युपसृत्य यां कामयते यज्ञस्याशिषं तामवरुन्द्धे यस्यैवं विदुषो यज्ञस्य स्कन्नमनुमन्त्रयन्ते यश्चैवं विद्वाननुमन्त्रयते वसीयान् भवति ॥७॥

हविर्धाने प्रणेनेक्ति मेध्ये एवैने यज्ञिये करोति ग्रन्थीन् विचृतन्ति देवग्रन्थीनेव ग्रन्थिष्यन्तो मनुष्यग्रन्थीन् विचृतन्ति हविर्वै हविर्धाने स्तीर्णे बर्हिषि हविरासादयन्ति तस्मात् स्तीर्णे बर्हिषि हविर्धाने प्रवर्तयन्ति पत्न्युपानक्ति पत्न्या एवैष यज्ञस्यान्वारम्भोऽथो मिथुनमेव यज्ञमुखे दधाति प्रजननाय त्रिः प्राचीनमुपानक्त्यसंख्यातँ हि तिरश्चीनं मनुष्या उपाञ्जन्ति व्यावृत्त्यै यजुषोपानक्त्ययजुषा हि मनुष्या उपाञ्जन्ति व्यावृत्यैव् दक्षिणत उपानक्ति दक्षिणतो ह्येते उदीची मनुष्यलोकमुपावर्तेते मानुषमेवेनयोरुत्तरं करोति ।। यदुत्तरादुपाञ्ज्यान्नान्यतरं चन लोकमुपावर्तेयाताँ स्वर्गाय वा एते लोकाय प्रवर्तेते यद्धविर्धाने युञ्जते मन इति सावित्र्या जुहोति सवितप्रसूते एवैने स्वर्गं लोकं गमयति हविर्वै हविर्धाने न हविरनभिघृतं मेधमश्नुते यदभ्यनक्भ्येवैने घारयति मेध्यत्वाय शुष्को वा एष निर्ऋतिगृहीतो यदक्षो नभ्याभ्यामुभयतो बद्ध उपधिभ्या संदष्टो यदुपानक्ति मेध्यमेवैनं यज्ञियं करोति घोषो वै नामासुर आसीत् स वनस्पतीन् प्राविशत् तं देवा गृहीत्वोभयताऽबध्नन् यत् क्ष्वेदेदसुर्या वाग्यज्ञमववदेद्रक्षाँसि यज्ञमन्ववेत्य हन्युरनुगृह्णन्तो यन्ति रक्षसामन्ववायाय वर्त्मना वै यज्ञं रक्षाँस्यन्ववेत्य जिघाँसन्ति वैष्णव्या वर्त्मञ्जुहोति विष्णुर्वै यज्ञो विष्णुनैव यज्ञाद्रक्षाँस्यपहन्ति व्यृद्धा वा एषाहुतिर्यामनग्नौ जुहोति यद्धिरण्यमुपास्य जुहोत्यग्निमत्येव जुहोति समृद्ध्यै स्वर्गं वा एते लोकं प्रेतो यद्धविर्धाने गायत्र्या दक्षिणस्य वर्त्मञ्जुहोत्यस्यामेवैने आक्रमयति त्रिष्टु भोत्तरस्यान्तरिक्ष एवैने आक्रमयत्याहवनीयं गमयति स्वर्गमेवैने लोकं गमयति स्वर्गो हि लोक आहवनीयस्त्रीन् पुरस्तात् प्रक्रमानुच्छिँषति त्रय इमे लोका इमानेवास्मिंल्लोकानुच्छिंषति ॥ दिवो वा विष्ण उत वा पृथिव्या इति दक्षिणस्य हविर्धानस्य मेथीमुपमिनोति विष्णुर्वै यज्ञो मुखत एव यज्ञस्याशिषमवरुन्द्धे तां परुषि परुष्याशासान एति विष्णोर्नु कं वीर्याणि प्रवोचमित्युत्तरस्य वैष्णवं वै हविर्धानँ स्वयैवैनद्देवतया समर्धपति विष्णोः पृष्ठमसीति च्छदिरुपरिष्टादधिनिदधातीदमेव तेन करोति यदिदमुत्तरार्धँ शीर्ष्णो विष्णो रराटमसीति पुरस्ताद्रराटमेव तेन करोति विष्णोश्नप्त्रे स्थ इत्यभितश्श्नप्त्रे एव तेन करोति । तिर्यञ्चं पुरस्ताद्वँशं विषीव्यन्ति तस्मात् तिरश्ची पुरुषस्य भ्रुवौ विष्णोस्स्यूरसि विष्णोर्ध्रुवोऽसीति वैष्णवं वै हविर्धानँ स्वयैव देवतया सीव्यति स्वया देवतया ग्रन्थिं ग्रथ्नाति यं प्रथमं ग्रन्थिं ग्रथ्नीयात् तं प्रथमं विचृतेदात्मनो गोपीथाय यदन्यं पूर्वं विचृतेदमेहेनाध्वर्युः प्रमीयेतोपरिष्टाच्छम्यास्संनह्यन्ति पश्चादुपमिन्वन्त्यधस्ताद्धि मनुष्या युञ्जन्ति पुरस्तादुपमिन्वन्ति व्यावृत्त्यै ॥ शिरो वा एतद्यज्ञस्य यद्धविर्धानं पुरस्ताद्वर्षीयो भवति पश्चात् क्रधीयस्तस्मात् पुरस्तात् पुरुषस्य शिरो वर्षीयः पश्चात् क्रधीयो वैष्णवमसि विणावे त्वेति संमितमभिमन्त्रयते वैष्णवं वै हविर्धानँ स्वयैवैनद्देवतया समर्धयति प्र तद्विष्णुस्स्तवते वीर्येणेति त्रीन् प्रक्रमान् यजमानं प्राञ्चं प्रक्रमयति विष्णुमेवैनं भूतमिमांल्लोकान् गमयति ।।८। ।

शिरो वा एतद्यज्ञस्य यद्धविर्धानं प्राणा उपरवा दक्षिणस्य हविर्धानस्याधस्तात् परिलिखत्येतद्वा एतयोः पर्वं मुखत एव यज्ञस्य प्राणान् प्रतिदधाति तस्मान्मुखतः प्राणाश्चतुरः परिलिखति चत्वारो हि प्राणाः प्रादेशं प्रादेशं विपरिलिखत्येतावदेतावद्धीमेऽभि प्राणा असंभिन्दन्तः खनन्ति प्राणानामसंभेदाय यत् संभिन्द्यात् प्राणान् संभिन्द्यात् प्रमीयेत तान् पर एकधा संतृन्दन्ति तस्मात् प्राणाः पर एकधा संतृण्णा देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादत्ते सवितृप्रसूत एवैनान् देवताभिरादत्त इदमहं रक्षसो ग्रीवा अपिकृन्तामीति भ्रातृव्यो वै रक्षो भ्रातृव्यस्यैव ग्रीवा अपिकृन्ततीदमहं यो नस्समानो योऽसमानोऽरातीयति तस्य ग्रीवा अपिकृन्तामति ।। प्राणा वा उपरवाः प्राणेभ्य एव भ्रातृव्यमन्तरेति ताजक् प्रधन्वति बृहन्नसि बृहद्ग्रावा बृहतीमिन्द्राय वाचं वदेति बृहतीँ ह्येष इन्द्राय वाचं वदति रक्षोहणं वलगहनं वैष्णवीमिति रक्षसामपहत्यै यद्वैष्णवीमिति यज्ञो वै विष्णुस्स्वयैवैनं देवतया समर्धयति देवाश्च वा असुराश्च व्यभ्यचरन्त तेऽसुरा देवानां प्राणेषु वलगान्यखनँस्तान् बाहुमात्रेऽन्वविन्दँस्तस्माद्बाहुमात्राः खेयाः प्राणानामनुवित्त्या इदमहं तान् वलगानुद्वपामि यान्नस्समानो यानसमानो निचखानेति यदेवास्यात्र शप्तं यदभिचरितं तदनुविद्योद्वपति तस्मादेते भिषज्यास्तस्मादामयाविनमनुमर्शयन्ति ।। सम्राडसि स्वराडसीति साम्राज्यमेवैतैरुपैति गायत्रेण च्छन्दसावबाढो यं द्विष्मस्त्रैष्टुभेन जागतेनेत्येतावन्ति वै छन्दाँसि छन्दोभिरेव भ्रातृव्यमवबाधते किमत्र भद्रं तन्नौ सहेत्याशिषमेवाशास्ते निरस्तो वलगोऽवबाढो दुरस्युरिति यथायजू रक्षोघ्नो वलगघ्नः प्रोक्षामि वैष्णवानिति रक्षसामपहत्यै यद्वैष्णवानिति यज्ञो वै विष्णुस्स्वयैवैनं देवतया समर्धयति रक्षोघ्नो वलगघ्नोऽवसिञ्चामि वैष्णवानिति रक्षसामपहत्या अथो यदेवैषां खनन्तः क्रूरं कुर्वन्ति तच्छमयति यद्वैष्णवानिति यज्ञो वै विष्णुस्स्वयैवैनं देवतया समर्धयति रक्षोघ्नो वलगघ्नोऽवस्तृणामि वैष्णवानिति रक्षसामपहत्यै यद्वैष्णवानिति यज्ञो वै विष्णुस्वयैवैनं देवतया समर्धयत्यवसिञ्चत्यव च स्तृणाति तस्मात् प्राणा अन्तरतो लोमशा उदन्वन्तो रक्षोहणौ वलगहनौ प्रोक्षामि वैष्णवी इति रक्षसामपहत्यै यद्वैष्णवी इति यज्ञो वै विष्णुस्स्वयैवैनं देवतया समर्धयत्यृक्षे वा एते तष्टे अमेध्ये आपो मेध्या यज्ञिया यदद्भिः प्रोक्षति मध्ये एवैने यज्ञिये करोति हनू वा एते यज्ञस्य यदधिषवणे अवितृण्णे भवतस्तस्माद्धनू अवितृण्णे पुरस्तादँहीयसी पश्चाद्वरीयसी एवमेव हि हनू द्व्यङ्गुलमन्तराधिषवणे भवति तस्मादियमन्तरा हनू रास्नाकेव रक्षोहणौ वलगहना उपदधामि वैष्णवी इति रक्षसामपहत्यै यद्वैष्णवी इति यज्ञो वै विष्णुस्स्वयैवैने देवतया समर्धयति रक्षोहणौ वलगहनौ पर्यूहामि वैष्णवी इति रक्षसामपहत्यै यद्वैष्णवी इति यज्ञो वै विष्णुस्स्वयैवैनं देवतया समर्धयति ॥ पर्यूहति तस्माद्धनू अनग्ने अमुषिते बर्स्वैरोष्ठाभ्याँ सृक्काभ्याँ श्मश्रुभिश्शिरो बा एतद्यज्ञस्य यद्धविर्धानं प्राणा उपरवा हनू अधिषवणे दन्ता ग्रावाणो जिह्वाधिषवणं चर्म मूर्धा द्रोणकलशो यज्ञः प्रजापतिर्मुखतो वा इदं प्रजापतेस्सोमं निष्पिबन्ति तस्मादृजीषं जग्धमिव प्सातमिवैवँ हि दद्भिः प्सातं भवति यो विराजं यज्ञमुखे दोह्यां वेद दुह एनामियं वाव विराट् तस्या एतदूधो यदधिषवणे स्तना उपरवा वत्सा ग्रावाणस्त्वगधिषवणं चर्मर्त्विजो दुहन्ति य एवं विराजं यज्ञमुखे दोह्यां वेद दुह एनाम् ॥९॥

शिरो वा एतद्यज्ञस्य यद्धविर्धानं ग्रीवा आग्नीध्रमुदरँ सद ऊर्गुदुम्बरो यत् सदस्यौदुम्बरीं मिनोत्यूर्जमेव मध्यतो दधाति यजमाने च प्रजासु च तस्मान्मध्यतः प्रजा ऊर्गूर्जयत्यस्मै वै लोकायौदुम्बरी मीयतेऽमुष्मै यूपस्तस्मादितः पराञ्चं यूपं प्रोक्षत्यमुतोऽर्वाचीमौदुम्बरीमनयोर्लोकयोर्विधृत्या ऊर्ग्वा उदुम्बरो यदमुतोऽर्वाचीमौदुम्बरीं प्रोक्षत्यमुत एवार्वाचीमूर्जं च्यावयत्यस्मिन्नेव लोक ऊर्जं न्यनक्ति प्रजापतेर्वा उद्गातोर्गुदुम्बर्याँ श्रयते प्रजास्वेवोर्जं न्यनक्ति देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादत्ते सवितृप्रसूत एवैनां देवताभिरादत्त इदमहं रक्षसो ग्रीवा अपिकृन्तामीति भ्रातृव्यो वै रक्षो भ्रातृव्यस्यैव ग्रीवा अपिकृन्तति ।। शुन्धन्तां लोकाः पितृषदना इति शुन्धत्येवैनमथो यदेवास्य खनन्तः क्रूरं कुर्वन्ति तच्छमयति यवमतीरवसिञ्चत्यन्नं वै यवा ऊर्गुदुम्बरोऽन्न एवोर्जं दधाति पितृषदनं त्वा लोकमास्तृणामीति यद्वा एतामपबर्हिषं मिनुयुर्गर्तमित्स्यादस्या उत्तरार्ध ओषधयोऽस्या एवैनामुत्तरार्धे मिनोत्यगर्तमितमेवाकरुद्दयाँ स्तभानान्तरिक्षं पृण दृँहस्व पृथिव्यामिति दृँहत्येवैनां नितानस्त्वा मारुतो निहन्त्विति मनो वै नितानः प्राणा मारुतास्स्वयैवैनां देवतयावहरति ॥ नितानो ह स्म वै मारुतो देवानामौदुम्बरीं मिनोति तेनैवैनां मिनोति मित्रावरुणयोर्ध्रुवेण धर्मणेति मित्रेण वा इमाः प्रजाश्शान्ता वरुणेन विधृताः क्लृप्त्या एव विधृत्यै ब्रह्मवनिं त्वा क्षत्रवनिमित्याशिषमेवाशास्ते ब्रह्म दृँह क्षत्रं दृँहेत्याशिषमेवास्मा आशिष्टां दृँहति घृतेन द्यावापृथिवी आपृणेथामिति घृतेन द्यावापृथिवी व्युनत्ति तस्मादोषधयोऽनभ्यक्ता रेभन्ते घृतेनौदुम्बरीमभिजुहोति तेजो वै घृतमन्नमुदुम्बरोऽन्न एव तेजो दधात्यान्तमेव वनस्पतिषु चौषधिषु च रसं दधाति ॥ विश्वजनस्य च्छायासीति विश्वजनस्य ह्येषा छाया गोत्राद्गोत्राद्ध्येतत् संप्रसर्पन्त्यौदुम्बरीमभि च्छदीँषि संमुखानि कुर्याद्दैवीर्वा एता विशो यदोषधय ओषधयश्छदीँषि यजमान औदुम्बरी यजमानमेव प्रजा अभिसंमुखाः करोति च्छदिर्भवत्यथान्तर्वर्तस्तस्मात् पुरुषस्य माँसमथ पर्शुरुदरं वा एतद्यज्ञस्य यत् सदस्तिर्यङ् मिन्वन्ति तस्मात् पुरुषेऽशितं ध्रियते यदन्वङ् मिनुयुर्न पुरुषेऽशितं ध्रियेत पुरुषेण वै यज्ञस्संमितो यज्ञेन पुरुषो यत् सद उभयतश्छिद्रं तस्मात् पुरुष उभयतश्छिद्रो विषीव्यन्ति तस्मात् पुरुषोऽन्तरतो विष्यूत इन्द्रस्य स्यूरसीन्द्रस्य ध्रुवोऽसीत्यैन्द्रं वै सदस्स्वयैव देवतया सीव्यति स्वया देवतया ग्रन्थिं ग्रथ्नात्यैन्द्रमसीन्द्राय त्वेति संमितमभिमन्त्रयत ऐन्द्रं वै सदस्स्वयैवैनं देवतया समर्धयति । नव च्छदीँषि कुर्याद्यद्यग्निष्टोमस्स्यात् तेजसा त्रिवृता संमितं पञ्चदश यद्युक्थ्यः पञ्चदशेन संमितं वज्रः पञ्चदशो वज्रेण संमितँ सप्तदश यद्यतिरात्रस्सप्तदशेन संमितं प्रजापतिस्सप्तदशः प्रजापतिना संमितमेकविँशतिं प्रतिष्ठाकामस्य कुर्यादेकविँशो वै स्तोमानां प्रतिष्ठा प्रतिष्ठित्या अथो यज्ञक्रतूनामेव व्यावृत्त्यै या अन्ततस्स्थूणास्ताः क्रधिष्ठाः कुर्याद्यदि कामयेत वर्षेदिति नीचैरिव हि द्यौर्वर्षिष्यन्ती भवति ता वर्षिष्ठाः कुर्याद्यदि कामयेत न वर्षेदित्युच्चैरिव हि द्यौरवर्षिष्यन्ती भवति यानि दक्षिणानि च्छदीँषि तान्युत्तराणि कुर्याद्यजमानलोके वा एतानि यानि दक्षिणानि भ्रातृव्यलोक उत्तराण्युत्तरमेव यजमानमयजमानाद्भ्रातृव्यात् करोत्युत्तरो हि यजमानोऽयजमानात् ॥१०॥ [१८८२]


॥ इति श्रीयजुषि काठके चरकशाखायां मध्यमिकायामिषुर्नाम पञ्चविंशं स्थानकं संपूर्णम् ॥२५॥