← स्थानकं २५ काठकसंहिता (विस्वरः)
स्थानकम् २६
[[लेखकः :|]]
स्थानकं २७ →
धिष्ण्यम्

अथ षड्विंश स्थानकम् ।

धिष्ण्य-ज्योतिष्करणम्
धिष्ण्यानि

धिष्ण्यम्
धिष्ण्या न्युप्यन्तेऽनयोर्लोकयोर्विधृत्यै न्यन्य उप्यन्ते नान्ये न्युप्यन्त इमं तैर्लोकं दाधार ये न न्युप्यन्तेऽमुं तैः पराङ् ह्यसौ लोकोऽनिरुक्तोऽग्निर्वै देवेभ्योऽपाक्रामत् स पृथिवीं प्राविशत् तं जानुदघ्नेऽन्वविन्दँस्तस्माज्जानुदघ्नं खेयमनुविद्यैवैतान्निवपति चात्वालान्निवपत्येषा वा अग्नेर्योनिस्स्वादेवैनान्योनेर्निवपति यो वेद्यास्तीर्थं वेद न सदस्यामार्तिमार्छति प्राचीनमानीध्रात् प्रतीचीनं चात्वालात् तेन संचरेदेतद्वै वेद्यास्तीर्थं य एवं वेद न सदस्यामार्तिमार्छति न प्रत्यङ् सदोऽतीयादध्वर्युरुदरं वा एतद्यज्ञस्य यत् सद उदरं यज्ञस्य संकर्षेत् प्रमीयेत जनो वा एषोऽध्वर्योर्जनमेति जनता जनतामभीत्य जिनाति यद्यतीयादैन्द्र्या संचरेदैन्द्रं वै सदस्स्वयैव देवतया संचरति न प्राङ् हविर्धानँ शिरो वा एतद्यज्ञस्य यद्धविर्धानँ शिरो यज्ञस्य संकर्षेत् प्रमीयेत यद्यतीयाद्वैष्णव्या संचरेद्वैष्णवं वै हविर्धानँ स्वयैव देवतया संचरति तदाहुः क्षेत्रपत्ययैव संचरेदितीयं क्षेत्रस्य पतिस्तेनास्या नैत्यमुष्मिन् वै लोके सोम आसीत् तं धिष्ण्या अगोपायँस्तं गायत्र्याहरन्नेष्टापोत्रोः प्रति गोपीथं तस्मादेते होत्रे व्यृद्धे व्युद्धसोमपीथे तस्मान्न नेष्ट्रा न पोत्रा भवितव्यं तस्मादेतौ सँसचन्ता इव यजतस्तमेतेऽन्वायन् द्वितीयानि नामानि कृत्वा तस्माद्ब्राह्मणो द्विनामार्धुकस्तं पर्यविशन् भागधेयमिच्छमानास्तेभ्य एतद्भागधेयमकल्पयद्यद्धिष्ण्यान् व्याघारयति स्वेनैवैनान् भागधेयेन समर्धयति तेषां ये नेदिष्ठं पर्यविशँस्ते सोमपीथं प्राप्नुवन्नाहवनीय आग्नीध्रो होत्रीयस्तस्मादेत उपर्युपरि वषट्कुर्वन्तं न हिँसन्ति प्रीता हि न प्रत्यङ् धिष्ण्यानतिसर्पेदध्वर्युः प्राणा वै धिष्ण्याः प्राणान् संकर्षेन्न प्रत्यङ् होतारं नाभिर्वा एषा यज्ञस्य यद्धोतोर्ध्वं नाभ्याः प्राणोऽवाचीनमपानोऽपाने प्राणं दध्यात् प्रमीयेत ॥ दक्षिणतो वै देवानां यज्ञं रक्षाँस्यभ्यजयँस्तमाग्नीध्रात् पुनरपाजयन् यदाग्नीध्राद्धिष्ण्यान् विहरन्ति यज्ञस्याभिजित्यै रक्षसामपहत्यै जम्भो वै नामासुर आसीत् स देवानां यज्ञमगिरत् स आग्नीध्रमपि नागिरद्यदाग्नीध्राद्धिष्ण्यान् विहरन्ति तेन यज्ञो जीवस्तेन मेध्योऽङ्गारान् पूर्वयोस्सवनयोर्विहरन्ति शुक्रवती हि ते शलाकान् दीप्यमानाँस्तृतीयसवने तेन तच्छुक्रवत् सर्वाण्यस्य सवनानि शुक्रवन्ति भवन्ति य एवं वेद ॥प्राचीभिर्वा आहुतिभिर्देवा अन्यानसुरान् प्राणुदन्त प्रतीचीभिरन्यान् प्रत्यञ्चो धिष्ण्या व्याघार्यन्ते प्राचीरन्या आहुतयो हुयन्ते भ्रातृव्यस्य विनुत्त्या अग्नेर्वा एता वैश्वानरस्य प्रियास्तन्वो यद्धिष्ण्या यद्धिष्ण्यान् व्याघारयति ता एवैतत् समुद्धर्षयत्यग्निर्वा एष वैश्वानर उपावसृज्यते यदग्निष्टोमस्स ईश्वरोऽशान्तो यजमानं च सदस्याँश्चाभ्युषः प्रोर्णुवीत यजमान आत्मनोऽनभिदाहाय सवने वै यज्ञस्याशिष ईरते यत् प्रोर्णुवीत ताभ्य आत्मान मन्तर्दध्यान्नाभिं वै पितरोऽभिसंजानत आविर्नाभिं कुर्वीताभीव कर्णौ प्रोर्णुवीत नाशीर्भ्य आत्मानमन्तर्दधाति जानन्त्वेनं पितरो घ्नन्ति वा एतत् सोमं यदभिषुण्वन्ति यावन्तः प्रसृप्तास्स्युस्ते सर्वेऽग्निष्टोममुपगायेयुरन्तो वा अग्निष्टोमोऽन्तमेवैनमागत्य समीरयन्तीन्द्रियाय वै कं ब्राह्मणस्सोमं पिबति यदुपगायेदिन्द्रियं निस्स्वरेत् तस्मान्नोपगेयँ संवत्सरो वा अग्निष्टोमो द्वादशाग्निष्टोमस्य स्तोत्राणि द्वादश मासास्संवत्सरस्संवत्सरं प्रजा अनुप्रजायन्ते यदग्निष्टोमस्य स्तोत्रेऽप उपप्रवर्तयति प्रजननाय यद्वै पत्नी यज्ञे करोति तन्मिथुनं यत् पत्न्यप उपप्रवर्तयति मिथुन एव रेतः प्रसिञ्चत्युद्गात्रा पत्नीँ संख्यापयति वृषा वा उद्गाता पत्न्याः प्रजाः प्रजायन्ते वृषाणमेवास्यामपिसृजति प्रजननायोरुभ्यां प्रवर्तयत्यूरुभ्याँ हि प्रजाः प्रजायन्ते प्रजननायान्तरत इव नु देवतान्तरतो ह्येषा वीर्यं करोति दूरमुपर्युदूहेताह्रीतमुख्यस्या जायते न दक्षिणा प्रवर्तयेद्यद्दक्षिणा प्रवर्तयेत् पितृभ्यः प्रजा निधूवेदुदीचीः प्राची प्रवर्तयत्येषा वै मनुष्याणां दिङ् मनुष्यलोक एवैना उपप्रजनयति ॥१॥

उपसद्भिर्वै देवा इमांल्लोकान् व्यजयँस्तान् वैसर्जनैरभिव्यसृजन्त यथा ग्रामस्संग्रामाद्विसृज्यते तद्वैसर्जनानां वैसर्जनत्वं प्राञ्चँ सोममिमे प्रणयन्ति प्राचीं पत्नीमुदानयन्तीमानेवैतल्लोकानभिप्रयन्त्यग्निना वै मुखेन देवा इमांल्लोकानभ्यजयन् गार्हपत्येनेममाग्नीध्रेणान्तरिक्षमाहवनीयेनामुं यद्गार्हपत्य इमं तेन लोकमभिजयति यदाग्नीध्रोऽन्तरिक्षं तेन यदाहवनीयोऽमुं तेन स्वर्गाय वा एष लोकाय प्रह्रियते द्वाभ्यां गार्हपत्ये जुहोति द्विपाद्यजमानोऽस्यामेवैनमाक्रमयति यदाग्नेय्याग्नीध्रे जुहोत्यन्तरिक्ष एवैनमाक्रमयति यद्वैष्णव्याहवनीये जुहोति स्वर्गमेवैनं लोकं गमयति स्वर्गो हि लोक आहवनीयो रक्षाँसि वा एतमेतर्हि जिघाँसन्ति प्रच्युतमितोऽप्राप्तमदस्त्वँ सोमेति सौम्या गार्हपत्ये जुहोति सौमीरिमाः प्रजाः प्रजाभ्य एवैनं प्राह जुषाणो अप्तुरित्यप्तुमेवैनं कृत्वेमामतिनयति यदाग्नेय्याग्नीध्रे जुहोत्यग्निमेवैनं कृत्वान्तरिक्षमपिनयति यद्वैष्णव्याहवनीये जुहोति स्वर्गमेवैनं लोकं गमयति स्वर्गो हि लोक आहवनीयस्सर्वेभ्यो वा एष आह्रियते मनुष्येभ्यः पितृभ्यो देवेभ्यस्त्वँ सोमेति सोम्या गार्हपत्ये जुहोति सौमीरिमा: प्रजाः प्रजाभ्य एवैनं प्राह जुषाणो अप्तुरिति पितृभ्य एवैनं प्राह यदाग्नेय्याग्नीध्रे जुहोत्यग्निस्सर्वा देवता देवताभ्य एवैनं प्राह ॥ वैष्णवो वै सोमस्तं देवतया व्यर्धयति यदन्यामन्यां देवतां करोति यद्वैष्णव्याहवनीये जुहोति स्वयैवैनं देवतया समर्धयति सर्वान् वा एतद्वरुणो गृह्णाति यद्दीक्षिते मनुष्यान् पितॄन देवाँस्त्वँ सोमेति सौम्या गार्हपत्ये जुहोति सौमीरिमाः प्रजाः प्रजा एव वरुणपाशान्मुञ्चति जुषाणो अप्तुरिति पितॄनेव वरुणपाशान्मुञ्चति यदाग्नेय्यानीध्रे जुहोत्यग्निस्सर्वा देवता देवता एव वरुणपाशान्मुञ्चति सोऽनृण इमांल्लोकानभिविसृजमान एति तद्वैसर्जनानां वैसर्जनत्वम् ॥ तस्मादाहुरपि वा एतर्ह्यारण्येभ्यः पशुभ्यो विसृजत इत्याग्नीध्रे ग्राववायव्यानि सादयति प्राञ्चँ सोमं प्रणयत्येतैर्वा एतं घ्नन्ति हन्तृभिरेवेनं व्यावर्तयति न हन्तॄन् प्रतिपद्यते य एवं वेद पुरस्तात् प्रतिपद्येत रुद्रो वा अग्निः पशवोँऽशवो रुद्राय पशूनपिदध्यादपशुस्स्यात् पश्चात् प्राञ्चः प्रपद्यन्ते श्रीर्वै सोमः पश्चादिव प्राङ् श्रियमाप्नोति तस्मात् पश्चात् प्राची: प्रजाः क्षेत्राण्यभिजयन्तीर्यन्ति पुरस्ताद्गतश्रीः प्रपद्येत पुरस्तादेव प्रत्यङ् श्रियमाप्नोतीममेव लोकमभि प्रतितिष्ठति पश्चात् सोमं प्रपादयन्ति पुरस्ताद्यजमानः प्रपद्यत उभयत एवास्मै श्रियं परिगृह्णात्युर्वन्तरिक्षं वीहीत्यन्तरिक्षदेवत्यो ह्येष एतर्ह्यदित्यास्त्वगस्यदित्यासदने सीदेत्यादित्यो वै सोमः पृथिव्यदितिः पृथिव्या अनस्संभृतँ स्व एवैनं योनौ दधाति ॥ देव सवितरेष ते सोम इति सविता वै देवानामधिपतिर्मनुष्या एतमतः प्राचीनं गोपायन्ति तस्मा एवैनँ संप्रयच्छति गोपीथायैतत्त्वं देव सोम देवानुपागा इति देवो ह्येष देवानुपैतीदमहं मनष्यान् सह प्रजया सह रायस्पोषेणेति सहैव प्रजया पशुभिरिमं लोकमुपावर्तते नमो देवेभ्यस्स्वधा पितृभ्य इति नमो हि देवानाँ स्वधा पितॄणां निर्द्रुहो निर्वरुणस्य पाशान्मुक्षीयेति द्रुह एवैनं वरुणपाशान्मुञ्चति स्वरभिव्यख्यमितीमे वै लोकास्स्वरिमानेव लोकानभिविपश्यत्यग्ने व्रतपा इत्यग्निना वा एष तन्वं विपरिधत्ते तानूनप्त्रे सैनमीश्वरा हिँसितोरग्निनैवैतत् तन्वं यथायथं कुरुत एतर्हि वा एष देवैस्तन्वं विसृजते तद्वैसर्जनानां वैसर्जनत्वं यात्मनस्तां पूर्वां ब्रूयाद्यदितरस्य पूर्वां ब्रूयादीश्वरो निकमो यं द्विष्यात् तस्योत्तरं ब्रूयादग्निर्वै रुद्रो रुद्रायैवैनमपिदधाति ताजक् प्रधन्वति ॥२॥

न दीक्षितेन होतव्यँ हविर्वै दीक्षितो रुद्रोऽग्निर्यज्जुहुयाद्धविर्भूतमात्मानं रुद्रायापिदध् याद्यन्न जुहुयाद्यज्ञपरुरन्तरियाद्यदि क्रीतस्सोमस्स्याद्दीक्षितस्याग्नौ जुहुयाद्विसृष्टो हि तर्हि यज्ञः प्रेता आहुतयो भवन्ति यद्यक्रीतोऽरणी चाज्यं चादाय परेत्यानिं मथित्वा वैष्णव्यर्चा यूपस्यान्ते जुहुयाद्वैष्णवो वै यूपस्स्वयैवैनं देवतयाच्छैत्यत्यन्यानगां नान्यानुपागामित्यति ह्यन्यानेति नान्यानुपैति यान्नाजुजोषं परि तानवृजमिति यान् हि न जुषते परि तान् वृणक्त्यर्वाक् त्वा परेभ्योऽविदं परोऽवरेभ्य इत्यर्वाग्घ्येनं परेभ्यो विन्दति परोऽवरेभ्यस्तं त्वा जुषामहे वनस्पते देवयज्याया इति देवयज्यायै ह्येनं जुषते जुष्टं विष्णव इति यज्ञो वै विष्णुर्यज्ञायैवैनं जुष्टं करोति देवस्त्वा सविता मध्वानक्विि ति घृतं वै देवानां मधु मेध्यमेवैनं यज्ञियं करोत्योषधे त्रायस्वैनमिति वर्मेव करोति स्वधिते मैनँ हिंसीरिति वज्रो वै स्वधितिरहिँसायै यः प्रथमश्शकलः परापतति तस्माहरेदेतं वा एतस्य परापतन्तं तेजोऽनुपरापतति सतेजसमेवैनं मिनोति ॥ यो दक्षिणावृन्न तं वृश्चेद्गर्त्यस्स य उदङ्ङावृतो न तँ स्थूण्यस्स य ऊर्ध्वशाख ऊर्ध्वशकलस्तं वृश्चेदेष वै यूप्यो य एव यूप्यस्तं वृश्चति योऽशुष्काग्रो बहुशाखो बहुपर्णस्तं वृश्चेदोषधयो चै वनस्पतयः पशव ओषधयः पशुभिरेवैनँ समर्धयति यश्शुष्काग्रोऽशाखोऽपर्णस्तं वृश्चेद्यं द्विष्यात् तस्यौषधयो वनस्पतयः पशव ओषधयः पशुभिरेवैनं व्यर्धयति य उदङ् प्राङुपनतस्तं वृश्चेदेष वै मेधमभ्युपनतो य एव मेधमभ्युपनतस्तं वृश्चति द्यां मा लेखीरन्तरिक्षं मा हिंसीः पृथिव्या संभवेति वज्रो वै यूप एषां लोकानामहिँसाया उदञ्चं प्राञ्चं प्रश्रयत्येष वै देवलोको देवलोकमेवैनमुपप्रश्रयति ॥ वनस्पते शतवल्शो विरोहेत्याव्रश्चने जुहोति वनस्पतिष्वेव भूमानं दधाति तस्मादेत आव्रश्चनाद्भूयाँसो जायन्ते सहस्रवल्शा वि वयं रुहेमेत्याशिषमेवाशास्ते यं त्वायँ स्वधितिस्तेतिजानः प्रणिनाय महते सौभगायेति महते ह्येष सौभाग्याय प्रणीयते यो यज्ञाय प्रणीयते य आरोहस्तं वृश्चेद्यं द्विष्यात् तस्यायोनिर्वा एषोऽनायतनो य आरोहोऽयोनिमेवैनमनायतनं करोति यस्स्वारुत् तं वृश्चेदेष वै योनिमानायतनवान् यस्स्वारुद्योनिमन्तमेवायतनवन्तं यजमानं करोति गुल्फदघ्ने वृश्चेत् परुर्हि गुल्फो यज्ञपरुषा संमितं जानुदघ्ने वृश्चेत् परुर्हि जानु यज्ञपरुषा संमितं यावत्यनक्षसङ्गस्यात् तावति वृश्चेद्यज्ञपरुषा संमितं पशूनामप्रतिनोदाय ॥३॥

पशुसंमितो व्रष्टव्यो दशारत्निर्दश वै पशोः प्राणा आत्मैकादशोऽष्टा अश्रयो द्वे परुषी आत्मैकादशः पशुसंमितमेव वृश्चति स्तोमसंमितो व्रष्टव्यो नवारत्निस्तेजसा त्रिवृता संमितः पञ्चदशारत्निर्व्रष्टव्यः पञ्चदशेन संमितो वज्रः पञ्चदशो वज्रेण संमितस्सप्तदशारत्निर्व्रष्टव्यस्सप्तदशेन संमितः प्रजापतिस्सप्तदशः प्रजापतिना संमित एकविँशत्यरत्निर्व्रष्टव्य एकविँशेन संमितोऽसा आदित्यः एकविँशोऽमुनादित्येन संमितस्सप्तविँशत्यरत्निर्व्रष्टव्यस्सप्तविँशेन संमितस्त्रिणवा इमे लोका एभिर्लोकैस्संमितस्त्रयस्त्रिँशदरनिर्व्रष्टव्यस्त्रयस्त्रिँशेन संमितस्त्रिँशद्देवता देवताभिस्संमितश्छन्दस्संमितो व्रष्टव्यः पञ्चारत्निः पङ्क्त्या छन्दसा संमितष्षडरत्निरतिच्छन्दसा संमितस्सप्तारत्निश्शक्वर्या संमितोऽष्टारत्निर्गायत्र्या संमितो नवारत्निर्वृहत्या संमितो दशारत्निर्विराजा संमित एकादशारत्निस्त्रिष्टुभा संमितो द्वादशारन्निजगत्या संमितस्त्रयोदशारनिस्साध्यैर्देवैस्समितो वृहन्नपरिमितो ब्रष्टव्यो यूपाद्वै देवास्स्वर्ग लोकमायन स्वर्गस्य लोकस्य समष्टयै य एवं कश्च पुरुपाद्वर्षीयान् स्यात् तं वश्वेदेषा वै यूपस्य मात्रा यावानेव यूपस्तं वृश्चति चपालं भवति चपालाद्वै देवतास्स्वर्ग लोकमायन् स्वर्गस्य लोकस्य समष्टया इन्द्रो वै वृत्राय वनं प्राहरत् तस्य यावदालब्धमासीत् तत् प्राशीर्यत तचपालं प्रत्यवृञ्जन यच्चषालं भवति द्रढिम्न एवालब्ध्या अशिथिलत्वायेयद्भवत्येतावद्धि तदालब्धमासीन यूपस्यातिरेचयेद्यदतिरेचयेदर्य दिनीर्जनयस्स्युर्यावदुत्तममङ्गुलिकाण्डं तावदतिरेचयेद्यज्ञपरुषा संमितं पशूनामप्रतिनोदाय यदै यज्ञस्यातिरिच्यते साध्यान्तद्देवानभ्यतिरिच्यते यज्ञस्य तदतिरिच्यते यद्यूपस्यातिरिच्यते साध्यानेव तेन देवान् प्रीणात्यन्यस्य वृक्षस्य चषालं कुर्याद्यस्य च यूपस्स्यायं कामयेत भ्रातृव्यमस्मै जनयेयमिति भ्रातृव्या वा एतस्यान्ये वनस्पतयो भ्रातृव्यमेवास्य लोकमभ्यारोहयत्यलोकमेनं करोति ॥४॥

पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वेति यूपं प्रोक्षत्येभ्य एवैनं लोकेभ्यः प्रोक्षत्यस्मै वै लोकायौदुम्बरी मीयतेऽमुष्मै यूपस्तस्मादितः पराञ्चं यूपं प्रोक्षत्यमुतोऽर्वाचीमौदुम्बरीमनयोर्लोकयोर्विधृत्यै देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादत्ते सवितृप्रसूत एवैनां देवताभिरादत्त इदमहं रक्षसो ग्रीवा अपिकृन्तामीति भ्रातृव्यो वै रक्षो भ्रातृव्यस्यैव ग्रीवा अपिकृन्तति शुन्धन्तां लोकाः पितृषदना इति शुन्धत्येवैनमथो यदेवास्य खनन्तः क्रूरं कुर्वन्ति तच्छमयति यवमतीरवसिञ्चत्यन्नं वै यवास्तेजो यूपोऽन्न एव तेजो दधात्यन्नं वै यवा वज्रो यूपोऽन्न एव वज्रं दधाति ॥ पितृषदनं त्वा लोकमास्तृणामीति यद्वा एतमपबर्हिषं मिनुयुर्गर्तमित्स्यादस्या उत्तरार्ध ओषधयोऽस्या एवैनमुत्तरार्धे मिनोत्यगर्तमितमेवाकस्स्वावेशोऽस्यग्रेगा नेतॄणामिति यूपशकलमवास्यत्यृक्षो वा एष तष्टोऽपशव्यस्सत्वचसमेवैनं मिनोति घृतेन द्यावापृथिवी आपृणेथामिति घृतेनैव द्यावापृथिवी व्युनत्ति तस्मादोषधयोऽनभ्यक्ता रेभन्ते देवस्त्वा सविता मध्वानक्त्विति घृतं वै देवानां मधु मेध्यमेवैनं यज्ञियं करोति। सुपिप्पला ओषधीस्कृधीति चषालं प्रतिमुञ्चत्योषधीरेव फलं ग्राहयति तस्मादेता अकृष्टपच्याः पच्यन्ते घृतेनानिष्ठामनक्ति तेजो वै घृतं यजमानोऽग्निष्ठास्तेजसैव यजमानँ समर्धयत्यान्तँ संततमनक्ति तेजसस्संतत्या अविच्छेदाय यं द्विष्यात् तस्य विच्छिन्द्यात् तेजसैवैनं व्यर्धयति सर्वतोऽनक्ति सर्वत एवैनं तेजसा समर्धयति द्यामग्रेणास्पृक्ष आन्तरिक्षं मध्येनाप्राः पृथिवीमुपरेणादृँहीरिति वजो वै यूप एषां लोकानां विधृत्यै ॥ता वां वास्तूनीति वैष्णव्यावहरति वैष्णवो वै यूपस्स्ववैनं देवतयावहरति विष्णोः कर्माणि पश्यतेति वैष्णव्या कल्पयति वैष्णवो वै यूपस्स्वयैवैनं देवतया कल्पयत्यग्निं प्रत्यग्निष्ठां कुर्यात् तेजो वा अग्निर्यजमानोऽग्निष्ठास्तेजसैव यजमानँ समर्धयति यं द्विष्यात् तस्येत्थं वेत्थं वा नमयेत् तेजसैवैनं व्यर्धयति ब्रह्मवनिं त्वा क्षत्रवनिमित्याशिषमेवाशास्ते ब्रह्म दृँह क्षत्रं दृँहेत्याशिषमेवास्मा आशिष्टां दृँहति तद्विष्णोः परमं पदमिति वैष्णव्योदीक्षते वैष्णवो वै यूपस्स्वयैवैनं देवतयोदीक्षते ॥५॥

अर्धं वेद्यां यूपावटस्य कुर्यादर्धं बहिर्वेदि परिमितस्य चापरिमितस्य चावरुद्ध्यै नाविरुपरस्य कुर्याद्यदाविरुपरस्य कुर्याद्गर्तमित्स्यान्नापरिवीतमवसृजेद्यदपरिवीतमवसृजेत् क्षोधुको यजमानस्स्यान्नग्नंभावुकोऽध्वर्युरूर्ग्वै रशना मध्यं प्रतिपरिव्ययत्यूर्जमेव मध्यतो दधाति यजमाने च प्रजासु च तस्मान्मध्यतः प्रजा ऊर्गूर्जयत्यरशनं मिनुयाद्यं द्विष्यात् तस्योर्ग्वै रशनोर्जैवैनं व्यर्धयत्यूर्ध्वामुदुहेदवाचीं यं द्विष्यात् तस्योर्वैतम रशनोर्जैवैनं व्यर्धयत्युपरि दूरे परिव्ययेद्यदि कामयेत वर्षेदित्यद्भ्यो वा एष ओषधिभ्यो वर्षति यर्हि वर्षत्योषधयो रशनौषधीरेव नेदीयो वृष्टयाः करोति ताजक् प्रवर्षत्यधो दूरे परिव्ययेद्यदि कामयेत न वर्षेदित्यद्भ्यो वा एष ओषधिभ्यो वर्षति यर्हि वर्षत्योषधयो रशनौषधीरेव दवीयो वृष्ट्याः करोति चिरं प्रवर्षति परिवीरसि परि त्वा दैवीर्विशो व्ययन्तामिति दैवीर्वा एता विशो यदोषधय ओषधयो रशना यजमानो यूपो यजमानमेव प्रजा अभिसंमुखाः करोति परीमं रायो मनुष्यमिति पशवो वै रायः पशुभिरेवैनँ समर्धयत्यन्तरिक्षस्य सानूपेषेति स्वरुमुपोहत्यन्तरिक्षदेवत्यो ह्येष एतर्ह्युपरीवास्माल्लोकादधोऽमुष्मात् स्वयैवैनं देवतयापोहति पितॄणामुपरं मनुष्याणामूर्ध्वमुपरादोषधीनां रशनां प्रति विश्वेषां देवानामूर्ध्वं रशनाया इन्द्रस्य चषालँ साध्यानामतिरिक्तमेवमिव वा एषु लोकेषु पितरो मनुष्या देवास्सर्वदेवत्यो यूपस्सर्वाभिरेवैनं देवताभिस्समर्धयत्यग्नेरर्धादुपनतं यूपस्य कुर्याद्बहिष्टान्निर्णतमग्नेर्वा अर्धादुपनतेन यजमानाय लोकं करोति बहिष्टान्निर्णतेन भ्रातृव्यं यज्ञान्निर्णुदते ॥ यज्ञेन वै देवास्स्वर्गं लोकमायँस्तेऽकामयन्तेमं नो लोकमन्यो नानुप्रजानीयादिति ते दिशोऽयोपयन् यद्दिशोऽयोपयँस्तद्यूपस्य यूपत्वं तेऽमुं लोकं गत्वा व्यतृष्यँस्तेऽविदुरमुतःप्रदानाद्वा इहाजगामेति त एतं पुनः प्रायच्छँस्तेनार्ध्नुवन्नेष वै यज्ञस्य तन्तुरेष उत्तमपदी यथा वै मयूखात् तन्त्रं तायत एवमतो यज्ञस्तायते तँ ह स्म वा एतं पुरावृह्यैव जुह्वति यत् स्वरुं जुहोत्येतस्यैव निष्क्रीत्यै सोऽस्य निष्क्रीतः प्रीतस्स्वगाकृत इमांल्लोकानुपतिष्ठते द्यां ते धूमो गच्छत्वन्तरिक्षमर्चिः पृथिवीं भस्म स्वाहेतीमानेवैनं लोकान् गमयति ॥६॥

साध्या वै नाम देवा आसन् पूर्वे देवेभ्यस्तेषां न किंचन स्वमासीत् तेऽग्निं मथित्वाग्नौ जुह्वत आसत तस्माद्बन्धोः पशवोऽजायन्त तस्मादाग्नेयास्सर्वे पशव उच्यन्ते यदग्निं मथित्वा पशुमालभते प्रजातमेवैनमालभतेऽथो यथापूर्वमेव करोति तदाहुः पशुमालभ्याग्निर्मथितव्य इत्यग्निस्सर्वा देवतास्सर्वा एव देवताः पशव आलब्धाय जनयति पशुना सर्वाणि सवनानि पशुमन्ति वीर्यावन्ति कर्तव्यानि यद्वपया प्रातस्सवने चरन्ति तेन तत् पशुमद्वीर्यावद्यद्दक्षिणाभिर्मध्यन्दिने तेन तत् पशुमद्वीर्यावद्यदितरेण पशुना तृतीयसवने तेन तत् पशुमद्वीर्यावत् सर्वाण्यस्य सवनानि पशुमन्ति वीर्यावन्ति भवन्ति य एवं वेद ॥ सर्वाभ्यो वा एष दिग्भ्य ऋद्ध्या आलभ्यते यत् पशुर्यत् प्राञ्चमाप्रीणन्ति देवलोकं तेनाभिजयति यदुदञ्चमाप्रीतं नयन्ति मनुष्यलोकं तेनाभिजयति यदक्षिणतः परिहृत्यावद्यन्ति पितृलोकं तेनाभिजयन्ति यत् प्रतीचीनँ समवत्तँ हरन्त्येतां तेन दिशमभिजयति यदूर्ध्वस्तिष्ठञ्जुहोति स्वर्गं तेन लोकमभिजयति पशुना वै देवास्स्वर्गं लोकमायँस्ते शरीरमधून्वत स्वर्गो वपा यद्वपया प्रातस्सवने चरन्ति स्वर्गस्य लोकस्य समष्ट्यै यदितरेण पशुना तृतीयसवने शरीरस्य निष्क्रीत्यै यार्द्रा बहुपर्णा तयोपाकुर्यादोषधयो वै वनस्पतयः पशव ओषधयः पशुभिरेवैनँ समर्धयति या शुष्कापर्णा तयोपाकुर्याद्यं द्विष्यात् तस्यौषधयो वै वनस्पतयः पशव ओषधयः पशुभिरेवैनँ व्यर्धयति ॥ घोरो वा अन्यो वज्रश्शिवोऽन्यो यश्शुष्कस्स घोरो य आर्द्रस्स शिवो य एव शिवस्तेनोपाकरोति बर्हिषोपाकरोति पशवो वै बर्हिः पशुभिरेवास्मै पशूनुपाकरोत्युपावीरसीत्युप ह्येषोऽवत्युप देवान् दैवीर्विशः प्रागुरिति दैवीर्वा एता विशो यत् पशवः पशूनेवास्मा उपाकरोति वह्नीनुशिज इत्यृत्विजो वै वह्नय उशिज ऋत्विग्भ्य एवैनानुपाकरोति बृहस्पते धारया वसूनीति ब्रह्म वै बृहस्पतिर्ब्रह्मणा प्रजाः प्रजायन्ते ब्रह्मणैवैनाः प्रजनयति देव त्वष्टर्वसु रणेति त्वष्टा वै रूपाणां विकर्ता सोऽस्मै रूपाणि विकरोति रेवती रमध्वमिति ब्रह्म वै बृहस्पतिः पशवो रेवतीर्र्ाह्मणैवास्मै पशून् यच्छत्यग्नेर्जनित्रमसीत्यग्नेर्ह्येतज्जनित्रं वृषणौ स्थ इति न ह्यमुष्काः प्रजाः प्रजायन्ते प्रजननायोर्वश्यस्यायुरसि पुरूरवा असीति माता वा उर्वश्यायुर्गर्भः पिता पुरूरवा रेतो घृतं यद् घृतेनारणी समनक्ति मिथुन एव रेतो दधाति गायत्रं छन्दोऽनुप्रजायस्व त्रैष्टुभं जागतमित्येतावन्ति वै छन्दाँसि च्छन्दोभी रेतो हितं प्रजायते छन्दोभिरेवास्मै रेतो हितं प्रजनयति ॥ दक्षिणा वर्तयत्येषा वा आदित्यस्य प्रजनिष्णुस्तनूस्तामेवानुप्रजायतेऽग्नी वा एतर्हि यजमानमभिसंधत्तो भवतं नस्समनसा इति समनसा एवैनौ करोति मा हिँसिष्टं यज्ञपतिं मा यज्ञं जातवेदस इत्यात्मनोऽहिँसायै शिवौ भवतमद्य न इति शिवा एवैनौ कुरुते रक्षसां वा एतेऽनवजयाय परिधीयन्ते यत् परिधयो यदुपर्युपरि प्रहरेद्रक्षोभ्यस्तीर्थं कुर्यात् संधिना वा प्रहरत्यग्रेण वा तीर्थेनैव स्रुवेण जुहोति संजग्मानाभ्यामेवाभ्यां भागधेयमपिदधाति ॥७॥

सावित्रीमन्वाह सवितृप्रसूत एवैनं प्रजनयत्येकदेवत्यामन्वाहैकधैवैनं प्रजनयति यद् द्विदेवत्यामनुब्रूयाद्भ्रातृव्यमस्मै द्वितीयं जनयेद् द्यावापृथिव्यामन्वाह प्रजानां प्रजातानां परिगृहीत्यै न धूमवतीमनुब्रूयादिन्द्रो वै यद्वृत्रमहंस्तस्य यत्र यत्र व्यृद्धमासीत् ततो धूम उदायत व्यृद्धाद्वा एष जातो व्यर्धुकमस्मै भवति यदि मथ्यमानो न जायेत रक्षोघ्नीमनुब्रूयाद्रक्षसामपहत्या अनवानमनुब्रूयादवानं वा अनु यज्ञं रक्षाँसि जिघाँसन्ति रक्षोभ्य एवातीर्थं करोति गायत्रीं ब्राह्मणस्यानुब्रूयाद्गायत्रो हि ब्राह्मणस्त्रिष्टुभं राजन्यस्य त्रैष्टुभो हि राजन्यो जगतीं वैश्यस्य जागतो हि वैश्यो यथाछन्दसमेव । देवस्य त्वा सवितुः प्रसव इति रशनामादत्ते सवितृप्रसूत एवैनां देवताभिरादत्त ऋतस्य त्वा देवहविः पाशेन प्रतिमुञ्चामीति यो वै यज्ञियो मेध्यस्स ऋतस्य पाशस्तेनैवैनमालभतेऽमुष्मै जुष्टमिति यस्या एव देवताया आलभते तस्या एव जुष्टं करोति धर्षा मानुषँ इति वज्रो वै यूपः पशवो मानुषा वज्रेणैवास्मै पशून् यच्छत्यृक्षो वा एष तष्टोऽमेध्यो यत् पशुं नियुनक्ति मेध्यमेवैनं यज्ञियं करोति ॥ पुरस्ताद्वै पशवो मेधमुपतिष्ठन्ते देवता एतस्मिन् प्राणा यत् पुरस्तात् प्रत्यञ्चमाप्रीणन्ति देवतानामेवैनमर्धमाप्रीणन्त्यद्भ्यस्त्वौषधीभ्य इत्यद्भ्यो वा एष ओषधिभ्य आलभ्यते यत् पशुरद्भ्य एवैनमोषधिभ्यः प्रोक्षत्यनु त्वा माता मन्यतामनु पितेति पिता च ह्येतस्य माता चानुमन्तारा आपो वै सर्वा देवतास्सर्वदेवत्यः पशुस्सर्वाभिरेवैनं देवताभिस्समर्धयति बह वा एषोऽमेध्यमयज्ञियं निगच्छति यत् पशुरापो मेध्या यज्ञिया यदद्भिः प्रोक्षति मेध्यमेवैनं यज्ञियं करोत्यपां पेरुरसीत्यप उपगृह्णाति यान्यन्तरतोऽवदानानि तानि तन्मेध्यानि करोति स्वात्तँ हव्यं देवेभ्यो घृतवदित्युरः प्रत्युपोक्षति यान्यधस्तादवदानानि तानि तन्मेध्यानि करोति सर्वत उपोक्षति सर्वत एवैनं मेधेन समर्धयति शिरो वा एतद्यज्ञस्य यदाघार आत्मा पशुर्यदाघारमाघार्य पशुँ समनक्ति शिर एव यज्ञस्यात्मन् प्रतिदधाति सं ते वायुः प्राणेन गच्छतामिति वायुमेवास्य प्राणं गमयति सं यजत्रैरङ्गानीति देवता वै यजत्रा देवता एवास्याङ्गानि गमयति सं यज्ञपतिराशिषेत्याशिषैव यजमानँ समर्धयति ॥८॥

ऋत्विजो वृणीते छन्दाँसि वा ऋत्विजश्छन्दाँस्येव तद्वृणीते तैरस्य वृतैर्युक्तैर्वषट्काराः पुरो युज्यन्ते होतारं वृणीते जगतीं तच्छन्दसां वृणीतेऽग्निधं वृणीते पङ्क्तिं तच्छन्दसां वृणीतेऽध्वर्यू वृणीतेऽतिच्छन्दसं तच्छन्दसां वृणीतेऽन्तरा होतारं चाध्वर्यू चाग्निधं वृणीते तस्मादग्निर्मध्यत ओषधीः प्रविष्टो यदुत्तमस्संयजति तस्मादुपरिष्टान्मथ्यमानो जायते मैत्रावरुणं वृणीते गायत्रीं तच्छन्दसां वृणीते ब्राह्मणाच्छँसिनं वृणीते त्रिष्टुभं तच्छन्दसां वृणीते पोतारं वृणीत उष्णिहं तच्छन्दसां वृणीते नेष्टारं वृणीते ककुभं तच्छन्दसां वृणीते ॥ पश्चाजमिव वा एतच्छन्दो यदनुष्टुप् पश्चाजेवैषा होत्रा यदच्छावाक्या तस्मादच्छावाकमुपैव ह्वयन्ते न वृणतेऽथैता आप्रियः प्रजापतिः प्रजास्सृष्ट्वा स रिरिचान इवामन्यत स एता आप्रीरपश्यत् ताभिरात्मानमाप्रीणीत यज्ञः प्रजापतिर्यज्ञात्मा यजमानो यदेताः पूर्वार्धे यज्ञस्य क्रियन्ते मुखत एव यजमानमाप्रीणाति प्रयाजान् यजति प्राणा वै प्रयाजाः प्राणानेव तत् प्रयजति तत् प्रयाजानां प्रयाजत्वमनवानमाप्रीणीयाद्यं कामयेत सर्वमायुरियादिति प्राणा वै प्रयाजा अविच्छिन्नानेवास्मिन् प्राणान् प्रतिदधाति सर्वमायुरेत्यात्मा वै पशोर्वपात्मा यजमानस्याप्रीर्यदुत्तमाप्रीर्वपां परिशय आत्मैवात्मानं परिशये यज्ञस्य संतत्या अविच्छेदायैकादश प्रयाजा एकादशानुयाजा एकादशोपयज एतावतीर्वै देवतास्सर्वदेवत्यः पशुस्सर्वाभिरेवैनं देवताभिस्समर्धयति त्रयस्त्रिँशद्वै देवतास्सोमपास्त्रयस्त्रिँशदसोमपा अष्टौ वसव एकादश रुद्रा द्वादशादित्या वषट्कारश्च प्रजापतिश्च ते सोमपाः प्रयाजा अनुयाजा उपयजस्तेऽसोमपास्तस्मात् ते बहिर्यज्ञं क्रियन्ते सोमेन वै तद्देवान् सोमपान् प्रीणाति पशुनासोमपाँस्तेऽस्योभये प्रीता यज्ञे भवन्त्येतद्ध वा उवाच श्यापर्णस्सायकायनोऽषाढं कैशिनं यत्रैनमदस्सोमान्नयति यदि वै मा सोमान्नेष्यस्युभयैर्मा देवैस्सह नेष्यसि सोमपैश्चासोमपैश्च विदेवस्ते यज्ञोऽवहास्यतेऽथो यद्र्यञ्च मा नेष्यन्ति ततस्त्वाभीत्य ज्यास्यन्तीति ते मीमाँसित्वेतो नो भयं नास्तीति दक्षिणा प्रत्यञ्चं निन्युस्ततः कुन्तयः पञ्चालानभीत्य जिनन्ति य एवंविदँ सोमान्नयत्युभयैरेनं देवैस्सह नयति सोमपैश्चासोमपैश्च विदेवोऽस्य यज्ञोऽवहीयतेऽथो यद्र्यञ्चमेनं नयन्ति तत एनमभीत्य जिनन्ति ॥९॥

देवाश्च वा असुराश्च समावदेव यज्ञेऽकुर्वत यदेव देवा अकुर्वत तदसुरा अकुर्वत ततो देवा एतमुपाँशुमपश्यँस्त एतस्मिन् यज्ञँ सँस्थाप्यमपश्यँस्तस्मिन्नेव यज्ञँ समस्थापयन्नष्टौ कृत्वोऽभ्यषुण्वन् गायत्रीं तच्छन्द आप्नुवन्नेकादश कृत्वस्त्रिष्टुभं तद् द्वादश कृत्वो जगतीं तत् त्रिर्व्यगृह्णन् सवनान्येव तदाप्नुवँस्ते देवा यावानेव यज्ञस्तं परिगृह्योपोदतिष्ठन् होतुं तेऽसुरा अपश्यञ्जुह्वति वै देवा इति तान् वज्रमुद्यत्याभ्यपतँस्तान् देवा अन्तर्यामेनान्तरदधतैभ्यो लोकेभ्यस्ततो देवा अभवन् परासुरा अभवन् यस्यैवं विदुष उपाँशुं जुह्वति यश्चैवं विद्वाञ्जुहोत्येभ्य एव लोकेभ्यो भ्रातृव्यमन्तर्धत्ते भवत्यात्मना परास्य भ्रातृव्यो भवत्यथ ह स्माहारुण औपवेशिः किमु स यजेत य उपाँशौ यज्ञँ सँस्थाप्यं न विद्यादित्यष्टौ कृत्वोऽभिषुणोति गायत्रीं तच्छन्द आप्नोत्येकादश कृत्वस्त्रिष्टुभं तद् द्वादश कृत्वो जगतीं तत् त्रिर्विगृह्णाति सवनान्येव तदाप्नोत्युपाँशा एवैतद्यज्ञस्सँस्थाप्यते न सँस्थितेनारिष्टेनाघात्येन प्रचरत्यष्टा अष्टा अभिषुणुयाद्ब्रह्मवर्चसकामस्याष्टाक्षरा गायत्री गायत्रीमेव यज्ञमुखेऽधि वियातयति गायत्र्यामेवैतत् तेजसि स्वे योनौ स्वर्गे लोके यज्ञमुखं तायते मुख्यो भवति य एवं वेद नोपयामगृहीतोऽसीति ब्रूयादियं वा उपयामोऽनया प्राणानपिहन्यान्न पवित्रं वितन्वन्त्यन्तरिक्षं वै पवित्रमन्तरिक्षेण प्राणान् परिगृह्णीयात् प्रमीयेतायं वाव यः पवते स प्राणस्तस्येदमपग्राहं प्राणिमो यन्नोपयामगृहीतोऽसीत्याह न पवित्रं वितन्वन्ति तस्मादयमपरिगृहीतः काममित्थं चेत्थं च पवते तस्मात् कामं प्राणिमः प्राणपवित्रो वा उपाँशुः प्राणैरेवैनं पावयति षडँशून् परि
गृह्णाति तस्मात् षट् प्राणा द्वन्द्वं पावयति तस्मात् प्राणा द्वन्द्वमुपाँशुसवनादुपाँशुं निगृह्णाति प्राणो वा उपाँशुसवनः प्राण उपाँशुः प्राणादेव प्राणं निगृह्णात्युत्तर उपाँशुसवनो भवत्यधरेँऽशवः प्राणो वा उपाँशुसवनः प्रजा अँशवः प्रजास्वेवं प्राणं दधाति तस्मात् प्राण उत्तमः ॥१०॥

क्रत्वा दा अस्तु श्रेष्ठोऽद्य त्वा वर्धन् सुरेक्णाः । मर्त आनाश सुवृक्तिम् ॥
इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिस्सीद । वीहि शूर पुरोडाशम् ।।
उप नस्सूनवो गिरश्शृण्वन्त्वमृतस्य ये । सुमृडीका भवन्तु नः ॥
ता नश्शक्तं पार्थिवस्य महो रायो दिव्यस्य । महि वां क्षत्रं देवेषु ॥
बृहस्पते जुषस्व नो अग्न आयाहि वीतय एन्द्र सानसिं रयिम् ॥
आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः ।
देवा नो यथा सदमिद्वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे ॥
आ नो मित्रावरुणा ॥
आ विबाध्या परिरापस्तमाँसि च ज्योतिष्मन्तं रथमृतस्य तिष्ठसि ।
बृहस्पते भीमममित्रदम्भनं रक्षोहणं गोत्रभिदँ स्वर्विदम् ॥
पञ्च व्युष्टीः ॥
सखे सखायमभ्याववृत्स्वाशुर्न चक्रं रथेऽवरोह्यास्मभ्यं दस्म रँह्या ।
अग्ने मृडीकं वरुणे सचा विदो मरुत्सु विश्वाभानुषु ।
तोकाय तुजे शुशुचान शं कृध्यस्मभ्यं दस्म शं कृधि ॥
अग्निँ होतारं मन्ये दास्वन्तं वसुँ सूनुँ सहसो जातवेदसं विप्रं न जातवेदसम् ।
य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा।
घृतस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥११॥

द्रष्ट्रे नम उपद्रष्ट्रे नमोऽनुद्रष्ट्रे नमः ख्यात्रे नम उपख्यात्रे नमोऽनुक्शात्रै नमश्शृण्वते नम उपशृण्वते नमस्सते नमोऽसते नमो जाताय नमो जनिष्यमानाय नमो भूताय नमो भविष्यते नमश्चक्षुषे नमश्श्रोत्राय नमो मनसे नमो वाचे नमो ब्रह्मणे नमश्रान्ताय नमस्तपसे नमः ॥१२॥ [१९२१] ॥


इति श्रीयजुषि काठके चरकशाखायां मध्यमिकायां धिष्ण्यं नाम षड्विंशं स्थानकं संपूर्णम् ॥२६॥