प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← आचारकाण्डः, अध्यायः १६५ गरुडपुराणम्
अध्यायः १६६
वेदव्यासः
आचारकाण्डः, अध्यायः १६७ →

श्रीगरुडमहापुराणम् १६६
धन्वन्तरिरुवाच ।
वातव्याधिनिदानं ते वक्ष्ये सुश्रुत तच्छृणु ।
सर्वथानर्थकथने विघ्न एव च कारणम् ॥ १,१६६.१ ॥

अदृष्टदुष्टपवनशरीरमविशेषतः ।
स विश्वकर्मा विश्वात्मा विश्वरूपः प्रजापतिः ॥ १,१६६.२ ॥

स्रष्टा धाता विभुर्विष्णुः संहर्ता मृत्युरन्तकः ।
तद्वदुक्तं च यत्नेन यतितव्यमतः सदा ॥ १,१६६.३ ॥

तस्योक्ते दोषविज्ञाने कर्म प्राकृतवैकृतम् ।
समासव्यासतो दोषभेदानामवधार्य च ॥ १,१६६.४ ॥

प्रत्येकं पञ्चधा वीरो व्यापारश्चेह वैकृतः ।
तस्योच्यते विभागेन सनिदानं सलक्षणम् ॥ १,१६६.५ ॥

धातुक्षयकरैर्वायुः क्रुद्धो नातिनिषेव्यते ।
चतुः स्नोतोऽवकाशेषु भूयस्तान्येव पूरयेत् ॥ १,१६६.६ ॥

तेभ्यस्तु दोषपूर्णेभ्यः प्रच्छाद्य विवरं ततः ।
तव वायुः सकृत्क्रुद्धः शूलानाहान्त्रकूजनम् ॥ १,१६६.७ ॥

मलरोधं स्वरभ्रंशं दृष्टिपृष्ठकटिग्रहम् ।
करोत्येव पुनः काये कृच्छ्रानन्यानुपद्रवान् ॥ १,१६६.८ ॥

आमाशयोत्थवमथुश्वासकासविषूचिकाः ।
कण्डूपरोधघर्मादिव्याधीनूर्ध्वञ्च नाभितः ॥ १,१६६.९ ॥

श्रोत्रादीन्द्रियबाधां च त्वचि स्फोटनरूक्षताम् ।
चक्रेतीव्ररुजाश्वासगरामयविवर्णताः ॥ १,१६६.१० ॥

अन्त्रस्यान्तञ्च विष्टम्भमरुचिं कृशतां भ्रमम् ।
मांसमेदोगतग्रन्थिं चर्मादावुपकर्कशम् ॥ १,१६६.११ ॥

गुर्वङ्गन्तुद्यतेऽत्यर्थं दण्डमुष्टिहतं यथा ।
अस्थिस्थः सक्थिसन्ध्यस्थिशूलं तीव्रञ्च लक्षयेत् ॥ १,१६६.१२ ॥

मज्जस्थोऽस्थिषु चास्थैर्यमस्वप्नं यत्तदा रुजाम् ।
शुक्रस्य शीघ्रमुत्सङ्गसर्गान्विकृतिमेव वा ॥ १,१६६.१३ ॥

तत्तद्गर्भस्थशुक्रस्थः शिरस्याध्मानरिक्ताता ।
तत्र स्थानस्थितः कुर्यात्क्रुद्धः श्वयथुकृच्छ्रताम् ॥ १,१६६.१४ ॥

जलपूर्णदृतिस्पर्शं शोषं सन्धिगतोऽनिलः ।
सर्वाङ्गसंश्रयस्तोदभेदस्फुरणभञ्जनम् ॥ १,१६६.१५ ॥

स्तम्भनाक्षेपणं स्वप्नः सन्धिभञ्जनकम्पनम् ।
यदा तु धमनीः सर्वाः क्रुद्धोऽभ्येति मुहुर्मुहुः ।
तदाङ्गमाक्षिपत्येष व्याधिराक्षेपणः स्मृतः ॥ १,१६६.१६ ॥

अधः प्रतिहतो वायुर्व्रजेदूर्ध्वं यदा पुनः ।
तदावष्टभ्य हृदयं शिरः शङ्खौ च पीडयेत् ॥ १,१६६.१७ ॥

सक्षिपेत्परितो गात्रं हनुं वा चास्य नामयत् ।
कृच्छ्रादुच्छ्वसितं चापि निमीलन्नयनद्वयम् ॥ १,१६६.१८ ॥

कपोत इव कूजेच्च निः संगः सोपतन्त्रकः ।
स एव वामनासायां युक्तस्तु मरुता हृदि ॥ १,१६६.१९ ॥

प्राप्नोति च मुहुः स्वास्थ्यं मुहुरस्वास्थ्यवान्भवेत् ।
अभिघातसमुत्थश्च दुश्चिकित्स्यतमो मतः ॥ १,१६६.२० ॥

स्वेदस्तम्भं तदा तस्य वायुश्छिन्नतनुर्यदा ।
व्याप्नोति सकलं देहं यत्र चायाम्यते पुनः ॥ १,१६६.२१ ॥

अन्तर्धान्तुगतश्चैव वेगस्तम्भं च नेत्रयोः ।
करोति जृम्भां सदनं दशनानां हतोद्यमम् ॥ १,१६६.२२ ॥

पार्श्वयोर्वेदनां बाह्यां हनुपृष्ठसिरोग्रहम् ।
देहस्य बहिरायामं पृष्ठतो हृदये शिरः ॥ १,१६६.२३ ॥

उरश्चोत्क्षिप्यते तत्र स्कन्धो वा नाम्यते तदा ।
दन्तेष्वास्ये च वैवर्ण्यं ह्यस्वेदस्तत्र गात्रतः ॥ १,१६६.२४ ॥

बाह्यायामं हनुस्तम्भं ब्रवते वातरोगिणम् ।
विण्मूत्रमसृजं प्राप्य ससमीरसमीरणाः? ॥ १,१६६.२५ ॥

आयच्छन्ति तनोर्देषाः सर्वमापादमस्तकम् ।
तिष्ठतः पाण्डुमात्रस्य व्रणायामः सुवर्धितः ॥ १,१६६.२६ ॥

गात्रवेगे भवेत्स्वास्थ्यं सर्वेष्वाक्षेपणेन तत् ।
जिह्वाविलेखनादुष्णभक्षणादतिमानतः ॥ १,१६६.२७ ॥

कुपितो हनुमूलस्थः स्तम्भयित्वानिलो हनुम् ।
करोति विवृतास्यत्वमथवा संवृतास्यताम् ॥ १,१६६.२८ ॥

हनस्तम्भः स तेन स्यात्कृच्छ्राच्चर्वणभाषणम् ।
वाग्वादिनी शिरास्तम्भो जिह्वां स्तम्भयतेऽनिलः ॥ १,१६६.२९ ॥

जिह्वास्तम्भः स तेनान्नपानवाक्येष्वनीशता ।
शिरसा भारहरणादतिहास्यप्रभाषणात् ॥ १,१६६.३० ॥

विषमादुपधानाच्च कठिनानां च चर्वणात् ।
वायुर्विवर्धते तैश्च वातूलैरूर्ध्वमास्थितः ॥ १,१६६.३१ ॥

वक्रीकरोति वक्त्रं च ह्युच्चैर्हसितमीक्षितम् ।
ततोऽस्य कुरुते मृद्वीं वाक्शक्तिं स्तब्धनेत्रताम् ॥ १,१६६.३२ ॥

दन्तचालं स्वरभ्रंशः श्रुतिहानीक्षितग्रहौ ।
गन्धाज्ञानं स्मृतिध्वंसस्त्रासः श्वासश्च जायते ॥ १,१६६.३३ ॥

निष्ठीवः पार्श्वतोदश्च ह्येकस्याक्ष्णो निमीलनम् ।
जत्रोरूर्ध्वं रुजस्तीव्राः शरीरार्धधरोऽपि वा ॥ १,१६६.३४ ॥

तमाहुरर्दितं केचिदेकाङ्गमथ चापरे ।
रक्तमाश्रित्य च शिराः कुर्यान्मूर्धधराः शिराः? ॥ १,१६६.३५ ॥

रूक्षः सवेदनः कृष्णः सोऽसाध्यः स्याच्छिरोग्रहः ।
तनुं गृहीत्वा वायुश्च स्नायुस्तथैव च ॥ १,१६६.३६ ॥

पक्षमन्यतरं हन्ति पक्षाघातः स उच्यते ।
कृत्स्नस्य कायस्यार्धं स्यादकर्मण्यमचेतनम् ॥ १,१६६.३७ ॥

एकाङ्गरोगतां केचिदन्ये कक्षरुजां विदुः ।
सर्वाङ्गरोधः स्तम्भश्च सर्वकायाश्रितेऽनिले ॥ १,१६६.३८ ॥

शुद्धवातकृतः पक्षः कृच्छ्रसाध्यतमो मतः ।
कृच्छ्रश्चान्येन संसृष्टो विवृद्धः क्षयहेतुकः ॥ १,१६६.३९ ॥

आमबद्धायनः कुर्यात्संस्तभ्याङ्गं कफान्वितः ।
असाध्य एव सर्वो हि भवेद्दण्डापतानकः ॥ १,१६६.४० ॥

अंसमूलोत्थितो वायुः शिराः संकुच्य तत्रगः ।
बहिः प्रस्यन्दितहरं जनयत्येव बाहुकम् ॥ १,१६६.४१ ॥

तलं प्रत्यङ्गुलीनां यः कण्डरा बाहुपृष्ठतः ।
बाह्वोः कर्मक्षयकरी विपूची वेति सोच्यते ॥ १,१६६.४२ ॥

वायुः कट्याश्रितः सक्थ्नः कण्डरामाक्षैपेद्यदा ।
तदा खञ्जो भवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोर्वधात् ॥ १,१६६.४३ ॥

कम्पते गमनारम्भे खञ्जन्निव च गच्छति ।
कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम् ॥ १,१६६.४४ ॥

शीतोष्णद्रवसंसुष्कगुरुस्निग्धैश्च सेवितैः ।
जीर्णाजीर्णे तथायासक्षोभस्निग्धप्रजागरैः ॥ १,१६६.४५ ॥

श्लेष्मभेदः समये परमत्यर्थसंचितम् ।
अभिभूयेतरं दोषं शरीरं प्रतिपद्यते ॥ १,१६६.४६ ॥

सक्थ्यस्थीनि प्रपूर्यान्तः श्लेष्मणा स्तम्भितेन तत् ।
तदास्थि स्नाति तेनोरोस्तथा शीतानिलेन तु ॥ १,१६६.४७ ॥

श्यामाङ्गमङ्गस्तैमित्यतन्द्रामूर्छारुचिज्वरैः ।
तमूरुस्तम्भमित्याह बाह्यवातमथापरे ॥ १,१६६.४८ ॥

वातशोणितसंशोथो जानुमध्ये महारुजः ।
ज्ञेयः क्रोष्टुकशीर्षस्तु स्थूलक्रोष्टुकशीर्षवत् ॥ १,१६६.४९ ॥

रुक्पादविषमन्यस्ते श्रमाद्वा जायते यदा ।
वातेन गुल्फमाक्षित्य तमाहुर्वातकण्टकम् ॥ १,१६६.५० ॥

पार्ष्णिप्रत्यङ्गुलीनाभौ कण्ठे वा मारुतार्दिते ।
सतिक्षेपं निगृह्णाति गृध्रसीं तां प्रचक्षते ॥ १,१६६.५१ ॥

हृष्येते चरणौ यस्य भवेतां चापि सुप्तकौ ।
पादहर्षः स विज्ञेयः कफमारुतकोपजः ॥ १,१६६.५२ ॥

पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः ।
विशेषतश्चङ्क्रमतः पाददाहं तमादिशेत् ॥ १,१६६.५३ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वातव्याधिनिदानं नाम षटूषष्ट्यधिकशततमोऽध्यायः