गोल-पाद
आर्यभटीय
संभवत: ५९९ ई. पू. (599 BC) में रचित
आर्य ४.१क/ मेष-आदेस् कन्या-अन्तम् समम् उदच्-अपमण्डल-अर्धम् अपयातम्।
आर्य४.१ख/ तौल्य-आदेस् मीन-अन्तम् शेष-अर्धम् दक्षिणेन एव ॥
आर्य४.२क/ तारा-ग्रह-इन्दु-पातास् भ्रमन्ति अजस्रम् अपमण्डले अर्कस् च।
आर्य४.२ख/ अर्कात् च मण्डल-अर्धे भ्रमति हि तस्मिन् क्षिति-छाया ॥
आर्य४.३क/ अपमण्डलस्य चन्द्रस् पातात् याति उत्तरेण दक्षिण-तस्।
आर्य४.३ख/ कुज-गुरु-कोणास् च एवम् शीघ्र-उच्चेन अपि बुध-शुक्रौ ॥
आर्य४.४क/ चन्द्रस् अंशैस् द्वादशभिस् अविक्षिप्तस् अर्क-अन्तर-स्थितस् दृश्यस्।
आर्य४.४ख/ नवभिस् भृगुस् भृगोस् तैस् द्वि-अधिकैस् द्वि-अधिकैस् यथा श्लक्ष्णास् ॥
आर्य४.५क/ भू-ग्रह-भानाम् गोल-अर्धानि स्व-छायया वि-वर्णानि।
आर्य४.५ख/ अर्धानि यथा-सारम् सूर्य-अभिमुखानि दीप्यन्ते ॥
आर्य४.६क/ वृत्त-भ-पञ्जर-मध्ये कक्ष्या-परिवेष्टितस् ख-मध्य-गतस्।
आर्य४.६ख/ मृद्-जल-शिखि-वायु-मयस् भू-गोलस् सर्वतस् वृत्तस् ॥
आर्य४.७क/ यद्-वत् कदम्ब-पुष्प-ग्रन्थिस् प्रचितस् समन्ततस् कुसुमैस्।
आर्य४.७ख/ तद्-वत् हि सर्व-सत्त्वैस् जल-जैस् स्थल-जैस् च भू-गोलस् ॥
आर्य४.८क/ ब्रह्म-दिवसेन भूमेस् उपरिष्टात् योजनम् भवति वृद्धिस्।
आर्य४.८ख/ दिन-तुल्यया एक-रात्र्या मृद्-उपचिताया भवति हानिस् ॥
आर्य४.९क/ अनुलोम-गतिस् नौ-स्थस् पश्यति अचलम् विलोम-गम् यद्-वत्।
आर्य४.९ख/ अचलानि भानि तद्-वत् सम-पश्चिम-गानि लङ्कायाम् ॥
आर्य४.१०क/ उदय-अस्तमय-निमित्तम् नित्यम् प्रवहेण वायुना क्षिप्तस्।
आर्य४.१०ख/ लङ्का-सम-पश्चिम-गस् भ-पञ्जरस् स-ग्रहस् भ्रमति ॥
आर्य४.११क/ मेरुस् योजन-मात्रस् प्रभा-करस् हिम-वता परिक्षिप्तस्।
आर्य४.११ख/ नन्दन-वनस्य मध्ये रत्न-मयस् सर्व-तस् वृत्तस् ॥
आर्य४.१२क/ स्वर्-मेरू स्थल-मध्ये नरकस् बडवा-मुखम् च जल-मध्ये।
आर्य४.१२ख/ अमर-मरास् मन्यन्ते परस्परम् अधस्-स्थितास् नियतम् ॥
आर्य४.१३क/ उदयस् यस् लङ्कायाम् सस् अस्तमयस् सवितुर् एव सिद्ध-पुरे।
आर्य४.१३ख/ मध्य-अह्नस् यम-कोट्याम् रोमक-विषये अर्ध-रात्रस् स्यात् ॥
आर्य४.१४क/ स्थल-जल-मध्यात् लङ्का भू-कक्ष्यायास् भवेत् चतुर्-भागे।
आर्य४.१४ख/ उज्जयिनी लङ्कायास् तद्-चतुर्-अंशे सम-उत्तरतस् ॥
आर्य४.१५क/ भू-व्यास-अर्धेन ऊनम् दृश्यम् देशात् समात् भ-गोल-अर्धम्।
आर्य४.१५ख/ अर्धम् भूमि-छन्नम् भू-व्यास-अर्ध-अधिकम् च एव ॥
आर्य४.१६क/ देवास् पश्यन्ति भ-गोल-अर्धम् उदच्-मेरु-संस्थितास् सव्यम्।
आर्य४.१६ख/ अर्धम् तु अपसव्य-गतम् दक्षिण-बडवा-मुखे प्रेतास् ॥
आर्य४.१७क/ रवि-वर्ष-अर्धम् देवास् पश्यन्ति उदितम् रविम् तथा प्रेतास्।
आर्य४.१७ख/ शशि-मास-अर्धम् पितरस् शशि-गास् कु-दिन-अर्धम् इह मनु-जास् ॥
आर्य४.१८क/ पूर्व-अपरम् अधस्-ऊर्ध्वम् मण्डलम् अथ दक्षिण-उत्तरम् च एव।
आर्य४.१८ख/ क्षिति-जम् सम-पार्श्व-स्थम् भानाम् यत्र उदय-अस्तमयौ ॥
आर्य४.१९क/ पूर्व-अपर-दिश्-लग्नम् क्षिति-जात् अक्ष-अग्रयोस् च लग्नम् यत्।
आर्य४.१९ख/ उन्मण्डलम् भवेत् तत् क्षय-वृद्धी यत्र दिवस-निशोस् ॥
आर्य४.२०क/ पूर्व-अपर-दिश्-रेखा अधस् च ऊर्ध्वा दक्षिण-उत्तर-स्था च।
आर्य४.२०ख/ एतासाम् सम्पातस् द्रष्टा यस्मिन् भवेत् देशे ॥
आर्य४.२१क/ ऊर्ध्वम् अधस्तात् द्रष्टुर् ज्ञेयम् दृश्-मण्डलम् ग्रह-अभिमुखम्।
आर्य४.२१ख/ दृश्-क्षेप-मण्डलम् अपि प्राच्-लग्नम् स्यात् त्रि-राशि-ऊनम् ॥
आर्य२.२२क/ काष्ठ-मयम् सम-वृत्तम् समन्ततस् सम-गुरुम् लघुम् गोलम्।
आर्य४.२२ख/ पारत-तैल-जलैस् तम् भ्रमयेत् स्व-धिया च काल-समम् ॥
आर्य४.२३क/ दृश्-गोल-अर्ध-कपाले ज्या-अर्धेन विकल्पयेत् भ-गोल-अर्धम्।
आर्य४.२३ख/ विषुवत्-जीवा-अक्ष-भुजा तस्यास् तु अवलम्बक्स् कोटिस् ॥
आर्य४.२४क/ इष्ट-अपक्रम-वर्गम् व्यास-अर्ध-कृतेस् विशोध्य यत् मूलम्।
आर्य४.२४ख/ विषुवत्-उदच्-दक्षिणतस् तत् अहोरात्र-अर्ध-विष्कम्भस् ॥
आर्य४.२५क/ इष्ट-ज्या-गुणितम् अहोरात्र-व्यास-अर्धम् एव काष्ठ-अन्त्यम्।
आर्य४.२५ख/ स्व-अहोरात्र-अर्ध-हृतम् फलम् अजात् लङ्का-उदय-प्राच्-ज्यास् ॥
आर्य४.२६क/ इष्ट-अपक्रम-गुणिताम् अक्ष-ज्याम् लम्बकेन हृत्वा या।
आर्य४.२६ख/ स्व-अहोरात्रे क्षिति-जा क्षय-वृद्धि-ज्या दिन-निशोस् सा ॥
आर्य४.२७क/ ुदयति हि चक्र-पादस् चर-दल-हीनेन दिवस-पादेन।
आर्य४.२७ख/ प्रथमस् अन्त्यस् च अथ अन्यौ तद्-सहितेन क्रम-उत्क्रमशस् ॥
आर्य४.२८क/ स्व-अहोरात्र-इष्ट-ज्या क्षिति-जात् अवलम्बक-आहताम् कृत्वा।
आर्य४.२८ख/ विष्कम्भ-अर्ध-विभक्ते दिनस्य गत-शेष्सयोस् शङ्कुस् ॥
आर्य४.२९क/ विषुवत्-जीवा-गुणितस् स्व-इष्टस् शङ्कुस् स्व-लम्बकेन हृतस्।
आर्य४.२९ख/ अस्तमय-उदय-सूत्रात् दक्षिणतस् सूर्य-शङ्कु-अग्रम् ॥
आर्य४.३०क/ परम-अपक्रम-जीवाम् इष्ट-ज्या-अर्ध-आहताम् ततस् विभजेत्।
आर्य४.३०ख/ ज्या लम्बकेन लब्धा अर्क-अग्रा पूर्व-अपरे क्षिति-जे ॥
आर्य४.३१क/ सा विषुवत्-ज्या-ऊना चेद् विषुवत्-उदच्-लम्बकेन सङ्गुणिता।
आर्य४.३१ख/ विषुवत्-ज्यया विभक्ता लब्धस् पूर्व-अपरे शङ्कुस् ॥
आर्य४.३२क/ क्षिति-जात् उन्नत-भागानाम् या ज्या सा परस् भवेत् शङ्कुस्।
आर्य४.३२ख/ मध्यात् नत-भाग-ज्या छाया शङ्कोस् तु तस्य एव ॥
आर्य४.३३क/ मध्य-ज्या-उदय-जीवा-संवर्गे व्यास-दल-हृते यत् स्यात्।
आर्य४.३३ख/ तद्-मध्य-ज्या-कृत्योस् विशेष-मूलम् स्व-दृश्-क्षेपस् ॥
आर्य४.३४क/ दृश्-दृश्-क्षेप-कृति-विशेषितस्य मूलम् स्व-दृश्-गतिस् कु-वशात्।
आर्य४.३४ख/ क्षिति-जे स्वा दृश्-छाया भू-व्यास-अर्धम् नभस्-मध्यात् ॥
आर्य४.३५क/ विक्षेप-गुण-अक्ष-ज्या लम्बक-भक्ता भवेत् ऋणम् उदच्-स्थे।
आर्य४.३५ख/ उदये धनम् अस्तमये दक्षिण-गे धनम् ऋणम् चन्द्रे ॥
आर्य४.३६क/ विक्षेप-अपक्रम-गुणम् उत्क्रमणम् विस्तर-अर्ध-कृति-भक्तम्।
आर्य४.३६ख/ उदच्-ऋण-धनम् उदच्-अयने दक्षिण-गे धनम् ऋणम् याम्ये ॥
आर्य४.३७क/ चन्द्रस् जलम् अर्कस् अग्निस् मृद्-भू-छाया अपि या तमस् तत् हि।
आर्य४.३७ख/ छादयति शशी सूर्यम् शशिनम् महती च भू-छाया ॥
आर्य४.३८क/ स्फुट-शशि-मास-अन्ते अर्कम् पात-आसन्नस् यदा प्रविशति इन्दुस्।
आर्य४.३८ख/ भू-छायाम् पक्ष-अन्ते तदा अधिक-ऊनम् ग्रहण-मध्यम् ॥
आर्य४.३९क/ भू-रवि-विवरम् विभजेत् भू-गुणितम् तु रवि-भू-विशेषेण।
आर्य४.३९ख/ भू-छाया-दीर्घत्वम् लब्धम् भू-गोल-विष्कम्भात् ॥
आर्य४.४०क/ छाया-अग्र-चन्द्र-विवरम् भू-विष्कम्भेण तत् समभ्यस्तम्।
आर्य४.४०ख/ भू-छायया विभक्तम् विद्यात् तमसस् स्व-विष्कम्भम् ॥
आर्य४.४१क/ तद्-शशि-सम्पर्क-अर्ध-कृतेस् शशि-विक्षेप-वर्गितम् शोध्यम्।
आर्य४.४१ख/ स्थिति-अर्धम् अस्य मूलम् ज्ञेयम् चन्द्र-अर्क-दिन-भोगात् ॥
आर्य४.४२क/ चन्द्र-व्यास-अर्ध-ऊनस्य वर्गितम् यत् तमस्-मय-अर्धस्य।
आर्य४.४२ख/ विक्षेप-कृति-विहीनम् तस्मात् मूलम् विमर्द-अर्धम् ॥
आर्य४.४३क/ तमसस् विष्कम्भ-अर्धम् शशि-विष्कम्भ-अर्ध-वर्जितम् पोह्य।
आर्य४.४३ख/ विक्षेपात् यत् शेषम् न गृह्यते तत् शशाङ्कस्य ॥
आर्य४.४४क/ विक्षेप-वर्ग-सहितात् स्थिति-मध्यात् इष्ट-वर्जितात् मूलम्।
आर्य४.४४ख/ सम्पर्क-अर्धात् शोध्यम् शेषस् तात्कालिकस् ग्रासस् ॥
आर्य४.४५क/ मध्य-अह्न-उत्क्रम-गुणितस् अक्षस् दक्षिणतस् अर्ध-विस्तर-हृतस् दिक्।
आर्य४.४५ख/ स्थिति-अर्धात् च अर्क-इन्द्वोस् त्रि-राशि-सहित-अयनात् स्पर्शे ॥
आर्य४.४६क/ प्रग्रहण-अन्ते धूम्रस् खण्ड-ग्रहणे शशी भवति कृष्णस्।
आर्य४.४६ख/ सर्व-ग्रासे कपिलस् स-कृष्ण-ताम्रस् तमस्-मध्ये ॥
आर्य४.४७क/ सूर्य-इन्दु-परिधि-योगे अर्क-अष्टम-भागस् भवति अनादेश्यस्।
आर्य४.४७ख/ भानोस् भास्वर-भावात् सु-अच्छ-तनुत्वात् च शशि-परिधेस् ॥
आर्य४.४८क/ क्षिति-रवि-योगात् दिन-कृत् रवि-इन्दु-योगात् प्रसाधयेत् च इन्दुम्।
आर्य४.४८ख/ शशि-तारा-ग्रह-योगात् तथा एव तारा-ग्रहास् सर्वे ॥
आर्य४.४९क/ सत्-असत्-ज्ञान-समुद्रात् समुद्धृतम् ब्रह्मणस् प्रसादेन।
आर्य४.४९ख/ सत्-ज्ञान-उत्तम-रत्नम् मया निमग्नम् स्व-मति-नावा ॥
आर्य४.५०क/ आर्यभटीयम् नाम्ना पूर्वम् स्वायम्भुअवम् सदा नित्यम्।
आर्य४.५०ख/ सु-कृत-आयुषोस् प्रणाशम् कुरुते प्रतिकञ्चुकम् यस् अस्य ॥
संबंधित कड़ियाँ
सम्पाद्यताम्बाहरी कड़ियाँ
सम्पाद्यताम्- The Aryabhatiya Of Aryabhata (1930) - Author: Walter Eugene Clark (Internet Archieve)
- Aryabhatiya (in Qyoto encoding)
- दशगीतिकापाद