चतुर्दण्डीप्रकाशिका/आलापप्रकरणम्

← रागप्रकरणम् चतुर्दण्डीप्रकाशिका
आलापप्रकरणम्
वेङ्कटमखी
ठायप्रकरणम् →
एवं रागप्रकरणे रागाः सम्यङ् निरूपिताः ।
अथालापप्रकरणे तेषामालाप उच्यते ॥६.१
तत्रालापेषु सर्वत्राप्यादावाक्षिप्तिका स्मृता ।
आक्षिप्तिकैव लोकेस्मिन्नायत्तमिति गीयते ॥६.२
पीनत्वेन यथक्षिप्तं स्वनिर्वाहाय भोजनम् ।
रागेणापि तथाक्षिप्तेत्यादावाक्षिप्तिका मता ॥६.३
आक्षिप्तिकानन्तरं तु कर्तव्या रागवर्धनी ।
इयमेव जनैर्लोके यडुपित्यभिधीयते ॥६.४
यस्मादाक्षिप्तिकोद्भूतं रागं वर्धयते स्फुटम् ।
तस्मादाख्यायते रागवर्धनीत्यभिधानतः ॥६.५
रागवर्धन्यसावेव प्रोक्ता करणमित्यपि ।
ततो विदारी गातव्या लोके मुक्तायिसंज्ञिता ॥६.६
आद्यद्वितीययो रागवर्धन्योश्छेदकत्वतः ।
विदारीति वदन्त्येवमुत्तरत्रापि योज्यताम् ॥६.७
अनन्तरं समुद्गेया द्वितीया रागवर्धनी ।
तस्या एव च लोकेस्मिन्द्वेधा यडुपिति प्रथा ॥६.८
तद्विदारी द्वितीयाथ तृतीया रागवर्धनी ।
तृतीया तद्विदारी च कर्तव्या तदनन्तरम् ॥६.९
सेयं तृतीयका रागवर्धनी तद्विदारिका ।
विकल्पेन क्वचित्स्यातां न स्यातां वा क्वचित्क्वचित् ॥६.१०
ततः स्थायी भवेत्तत्र स्थायिशब्दार्थ उच्यते ।
यत्रोपवेश्यते तानः स्वरे स्थायी स कथ्यते ॥६.११
तत्रादौ मध्यषड्जाख्यः स्थायी तल्लक्ष्म चक्ष्महे ।
मध्यषड्जं समारभ्य तारषड्जावधि क्रमात् ॥६.१२
भवन्त्यष्टौ स्वरा रागे संपूर्णे सप्त षाडवे ।
औडुवे षट् क्रमात्तेषामारोहः क्रमतः पुनः ॥६.१३
एकैकस्य स्वरस्यैषां तानद्वितयसंख्यया ।
मध्यषड्जादितारान्तस्वरेष्वष्टस्वपि स्मृताः ॥६.१४
द्व्यष्ट ताना मध्यषड्जन्यासवन्तो भवन्त्यमी ।
तानद्वयं स्वरे यस्मिन्गीयते तत्पुरःस्थिताः ॥६.१५
न संग्राह्याः स्वराः किं तु स्वाधःस्थाने गतेष्वपि ।
आमन्द्रर्षभमारोहावरोहक्रमतः स्वरान् ॥६.१६
यथायोगं समादाय विन्यस्येन्मध्यषड्जके ।
अवरोहेप्येवमेव विशेषस्तु प्रदर्श्यते ॥६.१७
तानद्वयं तारषड्जे गीत्वा तारनिषादके ।
तानद्वयं यथा गायेत्तस्मिनवसरे पुनः ॥६.१८
न संस्पृशेदेवमेव पञ्चमे मध्यमे तथा ।
गांधारर्षभयोर्मध्यषद्जेपि च पृथक्पृथक् ॥६.१९
तानद्वये गीयमाने स्पृशेन्नाधस्तनस्वरान् ।
तदेवमवरोहे तु ग्राह्या नाधस्तनाः स्वराः ॥६.२०
आरोहे त्वग्रिमा नैव स्वरा ग्राह्या इति स्थितिः ।
अत्ररोहेवरोहे च द्वौ द्वौ तानौ प्रतिस्वरं ॥६.२१
तयोरादिमताने तु न कार्यो निष्क्रमः स्वरे ।
किं तु स्वरस्पर्शमात्रं ततः स्थाने द्वितीयके ॥६.२२
क्षणमात्रं स्वरे स्थित्वा पश्चात्तानं समापयेत् ।
नियमोयं मध्यषड्जस्थायिमात्रे प्रकीर्तितः ॥६.२३
तदेवं मध्यषड्जाख्यः स्थायी समनुवर्णितः ।
एवं मध्यनिषादाख्यस्वरादामन्द्रषड्जकम् ॥६.२४
सप्त स्वराः संभवन्ति तेषु सप्तस्वरेष्वपि ।
निधपाद्याः स्वरा ये ये सहन्तेवस्थितिं पृथक् ॥६.२५
तान्स्वरान्स्थायिनः कृत्व पश्चादारोहमार्गतः ।
तत्तत्स्वरापेक्षयाष्टौ स्वरा ग्राह्या यथाक्रमम् ॥६.२६
तदूर्ध्वं विद्यमानांस्तु स्वरांस्तांश्चैव संस्पृशेत् ।
एवं मन्द्रस्वरेष्वेवारोहे तानचतुष्टयम् ॥६.२७
अवरोहे चतुस्तानान्गीतस्थायिस्वरेष्वथ ।
न्यासः कर्तव्य इत्येवं संप्रदायः प्रदर्शितः ॥६.२८
समाप्यैवं स्थायिविधिं कुर्यात्तदनुवर्तनम् ।
वर्धनीमेव लोकेस्मिन्नाहुर्मकरणीं जनाः ॥६.२९
वर्धन्याश्च भवेन्मन्द्रषड्जे तावदुपक्रमः ।
न्यासस्तु मध्यषड्जेथ चतुर्थी रागवर्धनी ॥६.३०
ततस्तदनुसारेण चतुर्थी स्याद्विदारिका ।
साधारणं सर्वरागेष्वेतदालापलक्षणम् ॥६.३१
तानप्पाकृतपञ्चाशद्रागालापेषु मत्कृतम् ।
आलापलक्षणमिदं लक्ष्यतां लक्ष्यकोविदैः ॥६.३२
इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्रसाग्निचित्याप्तवाजपेययाजिगोविन्ददीक्षितनागमाम्बिकावरद्वितीयनन्दनस्य
साग्निचित्यसर्वक्रतुयाजियज्ञनारायणदीक्षिताव्यवहितानुजस्याच्युतविजयराघवभूपालप्रेरितस्य वेङ्कटेश्वरदीक्षितस्य
कृतौ चतुर्दण्दीप्रकाशिकायां षष्ठमालापप्रकरणं संपूर्णम्