चतुर्दण्डीप्रकाशिका/ठायप्रकरणम्

← आलापप्रकरणम् चतुर्दण्डीप्रकाशिका
ठायप्रकरणम्
वेङ्कटमखी
गीतप्रकरणम् →
एवं षष्ठप्रकरणे प्रोक्तमालापलक्षणम् ।
सप्तमेथ प्रकरणे ठायलक्षणमुच्यते ॥७.१
तत्तद्रागानुसारेण यत्र कुत्रापि च स्वरे ।
स्थित्वा स्वरं तमेवाथ स्थायिनं परिकल्प्य च ॥७.२
तत्पुरोवर्तिषु चतुःस्वरेष्वथ यथाक्रमम् ।
तत्तद्रागानुसारेणारोहे तानचतुष्टयम् ॥७.३
अवरोहे तथा तानचतुष्टयमिति क्रमात् ।
गीत्वा तानाष्टकं पञ्चादारभ्य स्थायिनं स्वरम् ॥७.४
यदुक्तं कश्चिदाकल्प्य विन्यस्येन्मन्द्रषड्जके ।
स्थायिस्थितस्य तस्यैव यडुपस्याभिधीयते ॥७.५
लोके मकरिणीत्येवं संज्ञा मुक्तायिका ततः ।
ठायसामान्यलक्ष्मेदं वेङ्कटाध्वरिणोदितम् ॥७.६
परमो गुरुरस्माकं तानप्पाचार्यशेखरः ।
सर्वेषामपि रागाणामेतल्लक्ष्मानुसारतः ॥७.७
ठायान्प्रकल्पयामास लक्ष्यमस्य तदेव सः ।
इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्रसाग्निचित्याप्तवाजपेययाजिगोविन्ददीक्षितनागमाम्बिकावरद्वितीयनन्दनस्य
साग्निचित्यसर्वक्रतुयाजियज्ञनारायणदीक्षिताव्यवहितानुजस्याच्युतविजयराघवभूपालप्रेरितस्य वेङ्कटेश्वरदीक्षितस्य
कृतौ चतुर्दण्दीप्रकाशिकायां सप्तमं ठायप्रकरणं संपूर्णम्