प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← मेलप्रकरणम् चतुर्दण्डीप्रकाशिका
रागप्रकरणम्
वेङ्कटमखी
आलापप्रकरणम् →
तुर्यप्रकरणे मेलाः सप्रपञ्चमुदिरीताः ।
अथ मेलोद्भवा रागा लक्ष्स्यन्ते नातिविस्तरम् ॥५.१
रञ्जयन्ति मनांसीति रागास्ते दश लक्षणाः ।
भवन्ति ते मतङ्गाद्यैः प्रापितास्तानि च क्रमात् ॥५.२
लक्षणानि दशोक्तानि लक्ष्यन्ते तावदादितः ।
ग्रहांशौ मन्द्रतारौ च न्यासापन्यासकौ तथा ॥५.३
अथ संन्यासविन्यासौ बहुत्वं चाल्पता तथा ।
लक्षणानि दशैतानि रागाणां मुनयोब्रुवन् ॥५.४
दशानामपि चैतेषां क्रमाल्लक्षणमुच्यते ।
येनादौ गीयते गीतं स्वरेण स भवेद् ग्रहः ॥५.५
बहुशो गीयते येन स्वरेणांशः स कथ्यते ।
अंशस्वरस्त्वसावेव जीवस्वर इति स्मृतः ॥५.६
नीचैः स्वरेण यद्गानं स मन्द्रस्वर उच्यते ।
उच्चैः स्वरेण यद्गानं स तारस्वर उच्यते ॥५.७
न्यासस्वरः स कथितो येन गीतं समाप्यते ।
अवान्तरसमप्तिं यो रागस्यापि तनोति सः ॥५.८
अपन्यासः स्मृतो न्यासस्त्वात्यन्तिकसमाप्तिकृत् ।
इति भेदो भवेन्न्यासापन्यसस्वरयोर्द्वयोः ॥५.९
संन्यासो नाम गीताद्यखण्डभागसमाप्तिकृत् ।
गीतखण्डाद्यावयवस्यान्ते तिष्ठति स स्वरः ॥५.१०
विन्यास एतौ संन्यासविन्यासौ भरतादिभिः ।
अन्तर्भूतावपन्यासस्वर एवेति कीर्तितौ ॥५.११
अलङ्घनं तथाभ्यासो बहुत्वं द्विविधं मतम् ।
स्वरस्यास्पर्शनं यत्र लङ्घनं तत्र कीर्तितम् ॥५.१२
साकल्येन स्वरस्पर्शस्त्वलङ्घनमिति स्मृतम् ।
यदेकस्य स्वरस्स्यैव नैरन्तर्येण वाथवा ॥५.१३
व्यवधानेन वा भूयो भूयोप्युच्चारणं हि तत् ।
अभ्यास इति शंसन्ति बहुत्वं द्विविधं ततः ॥५.१४
अल्पत्वं च द्विधा प्रोक्तमनभ्यासाच्च लङ्घनात् ।
पूर्वोक्ताभ्यासराहित्यमनभ्यासः प्रकीर्तितः ॥५.१५
पूर्वोक्तालङ्घनाभावो लङ्घनं परिकीर्तितम् ।
लक्षणानि दशाप्येवं लक्षितानि मया स्फुटम् ॥५.१६
अथैतल्लक्षणान्रागानुद्दिशामि क्रमादहम् ।
रागास्तावद्दशविधा भरताद्यैरुदीरिताः ॥५.१७
ग्रामरागाश्चोपरागा रागा भाषाविभाषिकाः ।
तथैवान्तरभाषाख्या रागाङ्गाख्यास्ततः परम् ॥५.१८
भाषाङ्गाणि क्रियाङ्गाणि ह्य्पाङ्गानीति च क्रमात् ।
दशस्त्वेतेषु रागेषु ग्रामरागादयः पुनः ॥५.१९
रागास्त्वन्तरभाषान्ता मार्गरागा भवन्ति षट् ।
ततो गन्धर्वलोकेन प्रयोज्यास्ते व्यवस्थिताः ॥५.२०
तस्माद्रागङ्गभाषाङ्गक्रियाङ्गोपाङ्गसंज्ञिताः ।
रागाश्चत्वार एवैते देशीरागाः प्रकीर्तिताः ॥५.२१
तत्र रत्नाकरग्रन्थे शार्ङ्गदेवेन धीमता ।
चतुःषष्ट्यधिकं रागशतद्वयमुदीरितम् ॥५.२२
लक्ष्यन्ते तेन कुत्रापि लक्ष्यवर्त्मनि संप्रति ।
ततः प्रसिद्धिवैधुर्यात्त्य्क्त्वा रागांस्तु तान्पुनः ॥५.२३
सर्वत्र लक्ष्यमार्गेत्र संप्रति प्रचरन्ति ये ।
तानस्मत्परमाचार्यतानप्पार्यसमुद्धृतान् ॥५.२४
रागान्निरूपयिष्यामि लक्ष्यलक्षणसंमतान् ।
ग्रहांशन्यासमन्द्रादिव्यवस्था तेषु यद्यपि ॥५.२५
देशीत्वात्सर्वरागेषु नैकान्तेन प्रवर्तते ।
तथापि लक्ष्यमाश्रित्य गानलक्ष्मानुसृत्य च ॥५.२६
रागाणां लक्षणं ब्रूमः संप्रति प्रचरन्ति ये ।
निरूप्यमाणरागाणां षड्जादिक्रमतो ब्रुवे ॥५.२७
लिख्यन्ते पञ्चभिः पद्यै रागाः षड्जग्रहस्वराः ।
नाटः सौराष्ट्रसारङ्गनाटौ शुद्धवसन्तकः ॥५.२८
गुण्डक्रिया मेचबौलिर्नादरामक्रियस्तथा ।
वराली ललिता पाडिरागः सालगभैरवी ॥५.२९
श्रीरागारभिधन्यासिशंकराभरणाभिधाः ।
रागा हिन्दोलभूपालहिन्दोलाद्यवसन्तकाः ॥५.३०
आहर्याभेरिसामन्ता वसन्ताद्या च भैरवी ।
हेज्जुज्जिर्मालवश्रीश्च शुद्धरामक्रिया तथा ॥५.३१
काम्भोजी च मुखारी च देवगान्धारिका तथा ।
नागध्वनिः सामरागस्तथा सामवरालिका ॥५.३२
एकत्रिंशदिमे रागाः षड्जन्यासग्रहांशकाः ।
गुर्जरी भिन्नषड्जश्च रेवगुतिस्त्रयोप्यमी ॥५.३३
रिन्यासांशग्रहाः प्रोक्ता मतङ्गभरतादिभिः ।
नारायणाख्यदेशाक्षी देशाक्षी राग एव च ॥५.३४
नारायण्यथ कर्णाटो बङ्गालश्चेति विश्रुताः ।
इमे रागास्तु चत्वारो गन्यासांशग्रहाः स्मृताः ॥५.३५
जयन्तसेनो बहुली मध्यादिरिमे त्रयः ।
मग्रहा मध्यमन्यासा मांशकाः परिकीर्तिताः ॥५.३६
आन्धाली चैव सावेरी पन्यासांशग्रहे उभे ।
रागो मल्लहरी घण्टारवो वेलावली तथा ॥५.३७
भैरवी चेति चत्वारो धन्यासांशग्रहाः स्मृताः ।
गौलकेदारगौलौ द्वौ च्छायागौलाभिधस्तथा ॥५.३८
रीतिगौलः पूर्वगौलो गौलो नारायणाभिधः ।
रागः कन्नडगौलश्च सप्त गौला इमे पुनः ॥५.३९
निषादग्रहनिन्यासनिषादांशाः प्रकीर्तिताः ।
चतुःपञ्चाददुद्दिष्टा इति रागा ग्रहादिभिः ॥५.४०
अथैतेषां क्रमाल्लक्ष्म लक्ष्यलक्षणसंगतम् ।
नाटो भाषाङ्गरागोत्र वादी षड्जः स्वरो मतः ॥५.४१
संवादी पञ्चमो ज्ञेयो गनी प्रोक्तौ विवादिनौ ।
अनुवादी रिधद्वन्द्वं चायं सायं प्रगीयते ॥५.४२
अवरोहे निधगरिवर्जमेनं प्रचक्षते ।
संपूर्णरागश्चैवैष संमतो गनवेदिनाम् ॥५.४३
सौराष्ट्ररागो मेलस्य गौलस्याभ्युदयः परः ।
संपूर्णश्चैष वादी च षड्जः संवादिनौ मपौ ॥५.४४
निषादश्चानुवादीह रिधौ द्वौ च विवादिनौ ।
सर्ववेलासु गातव्यः ख्यातः संगीतवेदिभिः ॥५.४५
सारङ्गनाटः संपूर्णः संभूतो गौलमेलतः ।
अस्यापि च भवेद्वादी षड्जः संवादिनौ मपौ ॥५.४६
विवादिनौ गनी चानुवादिनौ धैवतर्षभौ ।
सायं चायं प्रगातव्यः संगीताम्बुधिपारगैः ॥५.४७
रागः शुद्धवसन्ताख्यो रागाङ्गो गीयते प्रगे ।
शंकराभरणाख्यातरागमेलसमुद्भवः ॥५.४८
आह बैकाररामस्त्वारोहे पञ्चमवर्जनात् ।
षाडवत्वं न तद् युक्तं यस्मादस्यावरोहणात् ॥५.४९
आरोहेपि प्रयोगोस्ति तस्मात्संपूर्णरागता ।
दिनस्य चरमे यामे गीतः सोयं शुभावहः ॥५.५०
गुण्डक्रिया गौलमेलजाता संपूर्णतामता ।
नादरमक्रियारागः संपूर्णस्वरसंगतः ॥५.५१
गेयः सायाह्नसमये गौलमेलसमुद्भवः ।
वरालिरागः संपूर्णो वादी षद् द्जोथ कथ्यते ॥५.५२
संवादिनौ मपौ ज्ञेयौ गनी चैव विवादिनौ ।
रिषभो ह्यनुवादी स्यात्सर्वदाप्येष गीयते ॥५.५३
प्रगे प्रगेया ललिता पवर्जा गौलमेलजा ।
पाडीरागो गौलमेलप्रभूतः षाडवो मतः ॥५.५४
गलोपश्चरमे यामे दिनस्य परिगीयते ।
श्रीरागमेलसंभूतो रागः सालगभैरवी ॥५.५५
संपूर्णस्वरसंयुक्ता यामे गेया तुरीयके ।
श्रीरागः परिपूर्णोपि गधयोः स्थानवर्जितः ॥५.५६
गेयः साय्ह्नसमये सर्वसंपद्प्रदायकः ।
आरभीनामको रागः संपूर्णस्वरसंगतः ॥५.५७
मेलस्त्वस्य स एव स्याच्छंकराभरणः स्वयम् ।
धन्यासिरागो रागाङ्गो जातः श्रीरागमेलतः ॥५.५८
रिधलोपादौडुवोयं प्रातर्गीतः शुभप्रदः ।
शंकराभरणो रागः पूर्णः सायं प्रगीयते ॥५.५९
हिन्दोलसंज्ञको रागो भैरवीमेलसंभवः ।
औडुवी रिधलोपेन सर्वकालेषु गीयते ॥५.६०
भूपालः प्रातरुद्गेय औडुवी मनिवर्जनात् ।
एष रागाङ्गरागेषु गणितः शार्ङ्गसूरिण ॥५.६१
आहरीमेलजः पूर्णो हिन्दोलाद्यवसन्तकः ।
संपूर्णस्त्वाहरीरागः षड्जपञ्चमकौ क्रमात् ॥५.६२
वादिसंवादिनौ तत्र गनी चैव विवादिनौ ।
अनुवादिस्वरौ ज्ञेयौ रिधौ सायं प्रगीयते ॥५.६३
आभेरिरागः पूर्णोयमाहरीमेलसंभवः ।
सामन्तरागः पूर्णोत्र वदिसंवादिनौ सपौ ॥५.६४
विवादिनौ निगावन्ये स्वराः स्युरनुवादिनः ।
शंकराभरणच्छायः सायमेष प्रगीयते ॥५.६५
वसन्तभैरवीरागः संपूर्णोप्यल्पपञ्चमः ।
प्रातर्गातव्य इत्येवं ख्यातो वातात्मजन्मना ॥५.६६
हेज्जुज्जिरागः संपूर्णो यामेह्नो गीयतेन्तिमे ।
षाडवी मालवश्रीः स्याद्रागाङ्गमृषभोज्झितः ॥५.६७
मेलः श्रीरागमेलस्य सर्वकालेषु गीयते ।
संपूर्णः शुद्धरामक्री वादी षद् द्जोत्र कथ्यते ॥५.६८
संवादी पञ्चमः प्रोक्तो गनी चैव विवादिनौ ।
अनुवादी रिधद्वन्द्वं गेयं सायं प्रगीयते ॥५.६९
क्रियाङ्गरागोयमिति भरताद्यैरुदीरितम् ।
काम्भोजिरागः संपूर्णोप्यारोहे मनिवक्रितः ॥५.७०
सायं संगीयते सोयं संगीतागमपारगैः ।
मुखारिरागः संपूर्णो वादिसंवादिनाविह ॥५.७१
सपौ विवादिनौ त्वत्र गनी चैवानुवादिनौ ।
रिधाविति च बोद्धव्यं गातव्यः सर्वदाप्ययम् ॥५.७२
संपूर्णो देवगान्धारीरागः श्रीरागमेलजः ।
गातव्यः प्रातरेवैष नागध्वनिरथोच्यते ॥५.७३
संपूर्णरागो रागाङ्गंशंकराभरणोत्थितः ।
५.७४अब्॒ शंकराभरणान्मेलात्संभूतः सामरागकः
संपूर्णः सततं गेयो मन्द्रमध्यमभूषितः ।
रागः सामवराल्याख्यः सामवेदसमुद्भवः ॥५.७५
संपूर्णो गीयते नित्यमित्येकत्रिंशदीरिताः ।
रागाः सलक्षणाः सम्यक्षड्जन्यासग्रहांशकाः ॥५.७६
अथर्षभग्रहाणां त्रिरागाणां लक्ष्म चक्ष्महे ।
संपूर्णो गुर्जरीरागो रागाङ्गो गौलमेलजः ॥५.७७
प्रगे प्रगीयः कथितस्त्ववरोहे धवर्जितः ।
भिन्नषड्जाख्यरागोयं जातो भूपालमेलतः ॥५.७८
संपूर्णः प्रथमे यामे दिनस्य परिगीयते ।
रेवगुप्तिस्तु हेज्जुज्जिमेलोत्थो मनिवर्जनात् ॥५.७९
औडुवश्चरमे यामे दिवसस्यैष गीयते ।
चत्वारोथ निरूप्यन्ते रागा गान्धारकग्रहाः ॥५.८०
नारायणाद्यदेशाक्षिः संपूर्णो गीयते प्रगे ।
शंकराभरणाख्यानरागमेलसमुद्भवः ॥५.८१
संपूर्ण एव देशाक्षीरागः प्रातः प्रगीयते ।
मेलो नारायणीरागः शंकराभरणोदितः ॥५.८२
संपूर्णस्त्वेष गातव्यः प्रातः संगीतकोविदैः ।
रागः कर्णाटबङ्गालो भाषाङ्गं गौलमेलजः ॥५.८३
प्रातःकालेषु गातव्यः षाडवोयं निवर्जितः ।
सर्वदाप्येष गातव्यो गीतज्ञैः शुभरक्तिदः ॥५.८४
मन्यासांशग्रहा रागा निरूप्यन्ते त्रयोधुना ।
जयन्तसेनाख्यरागो जातः श्रीरागमेलतः ॥५.८५
रिवर्जितः षाडवोयं सायंकाले प्रगीयते ।
मध्यमादिस्तु रागाङ्गरागः श्रीरागमेलजः ॥५.८६
रिधलोपादौडुवोयं सायंकाले प्रगीयते ।
रक्तिरेतस्य रागस्य मुरल्यां दृश्यतेधिका ॥५.८७
बहुली गौलमेलोत्थो रागो मध्यमवर्जनात् ।
षाडवो गीयते सोयं सायंकाले विचक्षणैः ॥५.८८
पन्यासांशग्रहौ रागौ निरूप्येते मयाधुना ।
निगलोपादौडुवोयमान्धालीराग ईरितः ॥५.८९
मेलः श्रीरागमेलस्य कथ्यते गीतवेदिभिः ।
गौलमेलसमुद्भूतः सावेरीराग ईरितः ॥५.९०
आरोहे गनिलोपोयं प्रातर्गीतो विचक्षणैः ।
निरूप्यन्तेधुना रागाश्चत्वारो धैवतग्रहाः ॥५.९१
ख्याता मलहरी गौलमेलजाता निलोपतः ।
षाडवत्वं गता प्रातर्गातव्या गीतकोविदैः ॥५.९२
घण्टारवाख्यरागस्तु भैरवीमेलसंभवः ।
संपूर्णस्वरसंयुक्तः सर्वकालेषु गीयते ॥५.९३
वेलावली तु भाषाङ्गं जातः श्रीरागमेलतः ।
संपूर्णभावं भजते प्रभाते चैष गीयते ॥५.९४
सायाह्नरागः संपूर्णस्तूपाङ्गं भैरवी स्मृतः ।
वादी षड्जोत्र संवादी पञ्चमः स्याद्विवादिनौ ॥५.९५
स्वरौ निषादगांधारौ रिधौ चैवानुवादिनौ ।
निरूप्यन्ते सप्त रागा निन्यासांशग्रहा मया ॥५.९६
गौलस्तु षाडवो रागो रागाङ्गं धैवतोज्झितः ।
वादिसंवादिनावत्र रिगौ शश्वत्प्रगीयते ॥५.९७
केदारगौलः संपूर्णः काम्भोजीमेलसंभवः ।
गेयोसौ सुतरां रक्तिदायको गायकोत्तमैः ॥५.९८
उपाङ्गराग इत्येवमूचिरे भरतादयः ।
गौलमेलोद्भवश्छायागौलः संपूर्णतां गतः ॥५.९९
रीतिगौलाख्यरागस्तु भैरवीमेलसंभवः ।
संपूर्णश्चैष गातव्यः सोयं संगीतकोविदैः ॥५.१००
पूर्वगौलस्य मेलः स्याच्छुद्धगौलश्च यः स्मृतः ।
संपूर्णश्चैष गातव्यः सायाह्ने गीतकोविदैः ॥५.१०१
नारायणाद्यगौलस्तु संपूर्णः परिकीर्तितः ।
केदारगौलमेलोत्थः सायाह्ने त्वेष गीयते ॥५.१०२
रागः कन्नडगौलोयं जातः श्रीरागमेलतः ।
संपूर्णोपि कदाचित्स्यादारोहे त्यक्तमध्यमः ॥५.१०३
रागः सिंहरवो नाम षड्जन्यासग्रहांशकः ।
सोयमस्माभिरुन्नीतः संपूर्णो गीयते सदा ॥५.१०४
लक्षिताः पञ्चपञ्चाशदिति रागाः स्फुटं मया ।
गीतठायप्रबन्धा हि तानप्पार्यैः प्रवर्तिताः ॥५.१०५
देशीयरागाः कल्याणीप्रमुखाः सन्ति कोटिशः ।
गीतठायप्रबन्धेषु नैते योग्या कदाचन ॥५.१०६
कल्याणिरागः संपूर्ण आरोहे मनिवर्जितः ।
गीतप्रबन्धयोग्योपि तुरुष्काणामतिप्रियः ॥५.१०७
रागः पन्तुवराल्याख्यः संपूर्णः पामरप्रियः ।
गीतठायप्रबन्धानां दूराद् दूरतरः स्मृतः ॥५.१०८
एवं प्रकारेणोन्नेया रागा देशसमुद्भवाः ।
आनन्यात्संकराच्चैव नास्माभिर्लक्षिताः पृथक् ॥५.१०९
इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्र साग्निचित्याप्तवाजपेययाजिगोविन्ददीक्षित नागमाम्बिकावरद्वितीयनन्दनस्य
साग्निचित्यसर्वक्रतुयाजियज्ञनारायणदीक्षिताव्यवहितानुजस्याच्युतविजयराघवभूपालप्रेरितस्य वेङ्कटेश्वरदीक्षितस्य
कृतौ चतुर्दण्दीप्रकाशिकायां पञ्चमं रागप्रकरणं संपूर्णम्