← तृतीयो मयूखः चन्द्रालोकः
चतुर्थो मयूखः
जयदेवः
पञ्चमो मयूखः →

श्लेषो विघटमानार्थ-घटमानत्ववर्णनम् ।
स तु शाब्दः सजातीयैः शब्दैर्बन्धः सुखावहः ।। ४.१ ।।

उल्लसत्तनुतां नीतेऽनन्ते पुलककण्टकैः ।
भीतया मानवत्यैव श्रियाश्लिष्टं हरिं स्तुमः ।। ४.२ ।।

यस्मादन्तःस्थितः सर्वः स्वयं अर्थोऽवभासते ।
सलिलस्येव सूक्तस्य स प्रसाद इति स्मृतः ।। ४.३ ।।

समताल्पसमासत्वं वर्णाद्यैस्तुल्यताथ वा ।
श्यामला कोमला बाला रमणं शरणं गता ।। ४.४ ।।

समाधिरर्थमहिमा लसद्घनरसात्मना ।
स्यादन्तर्विशता येन गात्रमङ्कुरितं सताम् ।। ४.५ ।।

माधुर्यं पुनरुक्तस्य वैचित्र्यं चारुतावहम् ।
वयस्य पश्य पश्यास्याश्चञ्चलं लोचनाञ्चलम् ।। ४.६ ।।

ओजः स्यात्प्रौढिरर्थस्य संक्षेपो वातिभूयसः ।
रिपुं हत्वा यशः कृत्वा त्वदसिः कोशं आविशत् ।। ४.७ ।।

सौकुमार्यं अपारुष्यं पर्यायपरिवर्तनात् ।
स कथाशेषतां यातः समालिङ्ग्य मरुत्सखम् ।। ४.८ ।।

उदारता तु वैदग्ध्यं अग्राम्यत्वात्पृथङ्मता ।
मानं मुञ्च प्रिये किंचिल्लोचनान्तं उदञ्चय ।। ४.९ ।।

शृङ्गारे च प्रसादे च कान्त्यर्थव्यक्तिसंग्रहः ।
अमी दश गुणाः काव्ये पुंसि शौर्यादयो यथा ।। ४.१० ।।

तिलकाद्यं इव स्त्रीणां विदग्धहृदयङ्गमम् ।
व्यतिरिक्तं अलङ्कारं प्रकृतेर्भूषणं गिराम् ।। ४.११ ।।

विचित्रलक्षणो न्यासो निर्वाहः प्रौढिरौचिती ।
शास्त्रान्तररहस्योक्तिः संग्रहो दिक्प्रदर्शिता ।। ४.१२ ।।

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
चतुर्थस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ।। ४.१३ ।।