← द्वितीयो मयूखः चन्द्रालोकः
तृतीयो मयूखः
जयदेवः
चतुर्थो मयूखः →



अल्पाक्षरा विचित्रार्थ-ख्यातिरक्षरसंहतिः ।
उषाकान्तेनानुगतः शूरः शौरिरयं पुनः ।। ३.१ ।।

शोभा ख्यातापि यद्दोषो गुणकीर्त्या निषिध्यते ।
मुधा निन्दन्ति संसारं कंसारिर्यत्र पूज्यते ।। ३.२ ।।

अभिमानो विचारश्चेदूहितार्थनिषेधकृत् ।
इन्दुर्यदि कथं तीव्रः सूर्यो यदि कथं निशि ।। ३.३ ।।

हेतुस्त्यक्त्वा बहून्पक्षान्युक्त्यैकस्यावधारणम् ।
नेन्दुर्नार्कोऽयं और्वाग्निः सागरादुत्थितो दहन् ।। ३.४ ।।

प्रतिषेधः प्रसिद्धानां कारणानां अनादरः ।
न युद्धेन भ्रुवोः स्पन्देनैव वीरा निपातिताः ।। ३.५ ।।
निरुक्तं स्यान्निर्वचनं नाम्नः सत्यं तथानृतम् ।
ईदृशैश्चरितै राजन्सत्यं दोषाकरो भवान् ।। ३.६ ।।

स्यान्मिथ्याध्यवसायश्चेदसती साध्यसाधने ।
चन्द्रांशुसूत्रग्रथितां नभःपुष्पस्रजं वह ।। ३.७ ।।

सिद्धिः ख्यातेषु चेन्नाम कीर्त्यते तुल्यतोक्तये ।
युवां एवेह विख्यातौ त्वं बलैर्जलधिर्जलैः ।। ३.८ ।।

युक्तिर्विशेषसिद्धिश्चेद्विचित्रार्थान्तरान्वयात् ।
नवस्त्वं नीरदः कोऽपि स्वर्णैर्वर्षसि यन्मुहुः ।। ३.९ ।।

कार्यं फलोपलम्भश्चेद्व्यापाराद्वस्तुतोऽथ वा ।
असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवाम् ।। ३.१० ।।

इत्यादि लक्षणं भूरि काव्यस्याहुर्महर्षयः ।
स्वर्णभ्राजिष्णुभालत्व-प्रभृतीव महीभुजः ।। ३.११ ।।

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
तृतीयस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ।। ३.१२ ।।