← कण्डिका ६१-७० जैमिनीयं ब्राह्मणम्/काण्डम् १
कण्डिका ०७१-०८०
[[लेखकः :|]]
कण्डिका ८१-९० →

प्रजापतेर् वा एतद् उदरं यत् सदः ऊर्ग् उदुम्बरः। यन् मध्यतस् सदस औदुम्बरीम् ईयते मध्यत एवैतत् प्रजानाम् अन्नम् ऊर्जे दधाति। तस्मान् मध्यतो ऽशनम् अशितं धिनोति। तस्माद् यत्रैषा यातयाम्नी क्रियते तत् प्रजा अशनायुका भवन्ति। पोषुका ह त्वै भवन्ति॥

उपस्पृश्यां नोपस्पृश्याम् इति मीमांसन्ते। सर्वे वावेदम् आत्मन्वत्। यस् त्वा अन्नम् अभीव कामयते तम् एवैतद् भूयिष्ठं द्वेष्टि। यद् उपस्पृशेद् अन्नाद्यं प्रथमेत्। यन् नोपस्पृशेद् अन्नाद्याद् आत्मानम् अन्तर्यात्। उपस्पृश्य नस्वास्पृष्टेनैवोद्गेयन् नान्नाद्यं प्रथमति नान्नाद्याद् आत्मानम् अन्तरेति॥

साम देवानाम् अन्नम् ऊर्ग् उदुम्बरः। यद् उद्गातौदुम्बरीं श्रयते सामन्न् एवतैद् देवानाम् अन्नम् ऊर्जं दधाति। तस्माद् यत्र साम्नार्त्विज्यं कुर्वन्ति तद् एव देवा भूयिष्ठम् इवादन्ति॥1.71॥


प्रजापतिर् उद्गातोर्ग् उदुम्बरः। स एष ऊर्जि श्रितः प्रजापतिः प्रजाभ्य ऊर्जम् अन्नाद्यं विभजति। उद्ङ्ङ् आसीनः प्रस्तौति। उद्गायति। उदीचीम् एव तद् दिशम् ऊर्जा भाजयति। प्रत्यङ्ङ् आसीनः प्रस्तौति। प्रतीचीम् एव तद् दिशम् ऊर्जा भाजयति। दक्षिणासीनः प्रतिहरति। दक्षिणाम् एव तद् दिशम् ऊर्जा भाजयति। प्राञ्चो ऽन्य ऋत्विज आर्त्विज्यं कुर्वन्ति। प्राचीम् एव तद् दिशम् ऊर्जा भाजयन्ति। तस्माद् एषा दिशां वीर्यवत्तमोपजीवनीयतमा भूयिष्ठैः प्रीता। तस्माद् यत् प्रजा अवृत्तिं नीयन्ति प्राचीर् एव यन्ति। एषा हि दिशां वीर्यवत्तमोपजीवनीयतमा भूयिष्ठैः प्रीता।
यद् उदीचीनदेवत्या उद्गातारो ऽथ कस्माद् विपर्यावृत्य दिश आर्त्विज्यं कुर्वन्तीत्य् आहुः। ब्रूयाद् दिशाम् अभिष्टयै दिशाम् अभिप्रेत्यै। तस्मात् सर्वासु दिक्ष्व् अन्नं विद्यत इति॥

उद् दिवं स्तभनान्तरिक्षं पृण पृथिवीम् उपरेण दृंह॥ द्युतानस् त्वा मारुतो मिनोतु मित्रावरुणयोर् ध्रुवेण धर्मणा। घृतेन द्यावापृथिवी आ प्रीणीथाम्॥ सुपिप्पला ओषधीः कृधि स्वाहा। इत्य् औदुम्बरीम् अभिजुहोति। इमान् एवैतल् लोकान् रसेनानक्ति॥1.72॥


प्रजपतिः प्रजा असृजत। सो ऽअग्निम् अपि मुखाद् असिसृक्षत। सो ऽग्निर् मुखाद् बीभत्समान ऊर्ध्व उद्द्रुत्य मस्तिष्कम् उद्धत्यासृज्यत। तं देवाश् चर्षयश् चोपसमेत्याब्रुवन् वितुन्नो ऽयं मस्तिष्को मामुया भूत् करवामेमं कस्यां चिताचितीति। ते बृहस्पतिम् अब्रुवन् सोमम् अस्मिन् गृहाणेति। स बृहस्पतिर् अब्रवीत् स वा अयं क्रूर इवापूतो ऽमेध्यो ऽशृतंकृत इति। वयं त एतं पूतं मेध्यं शृतंकृतं कुर्म इत्य् अब्रुवन्। तं वै म आहरतेति। तथेति। तम् अस्मै प्रायच्छन्। तं प्रत्यगृह्णात् देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि इति। देवाङ्गैर् वावैनं तत् प्रत्यगृह्णात्। तं प्रतिगृह्यापवयत्
वसवस् त्वा पुनन्तु गायत्रेण छन्दसा सुप्रजावनिं रायस् पोषवनिम्॥
रुद्रास् त्वा पुनन्तु त्रैष्टुभेन छन्दसा सुप्रजावनिं रायस् पोषवनिम्॥
आदित्यास् त्वा पुनन्तु जागतेन छन्दसा सुप्रजावनिं रायस् पोषवनिम्॥
इति। छन्दोभिश् च वावैनं तद् देवताभिश् चापवयत्। तं पवयित्वा पश्चाद् अक्षं सादयति बार्हस्पत्यम् असि वानस्पत्यम् प्रजापतेर् मूर्धात्यायुपात्रम् इति। यद् आह बार्हस्पत्यम् असि इति बृहस्पतिर् ह्य् एतम् अग्रे प्रत्यगृह्णात्। यद् आह वानस्पत्यम् इति वनस्पतिभ्यो ह्य् एनम् अधिकुर्वन्ति। यद् आह प्रजापतेर् मूर्धा इति प्रजापतेर् ह्य् एष मूर्धासीत्। यद् आह अत्यायुपात्रम् इत्य् अति ह्य् एतद् अन्यानि पात्राणि पात्रम्। यद् एतद् देवपात्रं प्रथमं युज्यत उत्तमं विमुच्यते तेनैवात्य् अन्यानि पात्राणि। प्र श्रेयसः पात्रम् आप्नोति य एवं वेद। तं पश्चात् अक्षं सादयित्वा गायत्रं विश्वरूपासु गायति॥1.73॥


नमः पितृभ्यः पूर्वसद्भ्यो नमस् साकंनिषद्भ्यः।
युञ्जे वाचं शतपदीं गाये सहस्रवर्तनीम्॥
गायत्रं त्रैष्टुभं जगद् विश्वा रूपाणि संभृतम्।
देवा ओकांसि चक्रिरे॥

इति। यत् नमः पितृभ्यः पूर्वसद्भ्यः इति पितरो वा अत्र पूर्व उपसीदन्ति। न तेभ्य एवैतन् नमस्करोति नमस् साकंनिषद्भ्यः इति यैर् एव ब्राह्मणैस् सहोपसीदत्य् आर्त्विज्यं करिष्यंस् तेभ्य एवैतन् नमस्करोति। युञ्जे वाचं शतपदीम् इति वाचम् एवैतच् छतपदीं युङ्क्ते। गाये सहस्रर्वनीम् इति युक्ताम् एवैनाम् एतत् सहस्रवर्तनीं भूतां गायति। गायत्रं त्रैष्टुभं जगत् इति- एतानि वै त्रीणि सवनानि-तान्य् एवैतान्य आत्मन् परिगृह्णीते। विश्वा रूपाणि संभृतम् इति-यज्ञो वै विश्वा रूपाणि-यज्ञम् एवैतेन संभरति। देवा ओकांसि चक्रिरे इति सदेवम् एवैतेन यज्ञं कुरुते॥1.74॥


कुसुर्विन्दो हौद्दालकिस् सोमानाम् उज्ज्गौ। तम् उ हासितमृगा कश्यपानां पुत्रा उचुः को ऽनु नो ऽयं नृशंसको ऽन्त उद्गायत्य् एतेमम् अनुव्याहरिष्याम् इति। ते ऽनुव्याहरिष्यन्त आस्तावम् उपसेदुः। स होवाच नमो ब्राह्मणा अस्तु पुरा वा अहम् अद्य प्रातरनुवाकाद् गायत्रेण विश्वरूपासु यज्ञं समस्थापयम्। स यथा गोभिर् गवायम् इत्वा श्रमणम् अबलम् अनुसंनुदेद् एवं वावेदं यज्ञशरीरम् अनुसंनुदाम इति। ते होत्थाय प्रवव्रजुर् नमो ऽस्मै ब्राह्मणायास्तु विदां वा अयम् इदं चकारेति। पुरा ह वा अस्य प्रातरनुवाकाद् गायत्रेण विश्वरूपासु यज्ञस् संस्थितो भवति य एवं वेद॥1.75॥


तद् आहुः अध्वर्यो किं स्तुतं स्तोत्रं होता प्रातरनुवाकेनान्वशंसीत् इति। अकर्म वय तद् यद् अस्माकं कर्म इत्य् आह होतारं पृच्छत इति। होतः किं स्तुतं स्तोत्रं प्रातरनुवाकेनान्वशंसीः इति। अकर्म वयं तद् यद् अस्माकं कर्म इत्य् आह उद्गातारं पृच्छत इति। उद्गातः किं स्तुतं स्तोत्रं होता प्रातरनुवाकेनान्वशंसीत् इति। अकर्म वयं तद् यद् अस्माकं कर्म इति ज्योतींष्य् एवाहम् अगासिषम् इति व्रूयात् न तमांसि इति। ज्योतिस् तद् यद् ऋग् ज्योतिस् तद् यत् साम ज्योतिस् तद् यद् देवता। एतानि वा अहं ज्योतींष्य् अगासिषं युष्मान् एव तमसा पाप्मना विध्यानि इति। तमसा चैवैनांस् तत् पाप्मना च विध्यति॥1.76॥


पश्चात् प्राञ्च उपसीदन्ति। वाचम् एवैतन् मुखतो ऽवरुन्धते। यत् पुरस्तात् प्राञ्च उपसीदेयुर् वाचं पृष्ठतः कुर्वीरन्। वाग् एषाम् उपदासुका स्यात्॥
वाग् वै देवेभ्यो ऽपाक्रामत्। सा वनस्पतीन् प्राविशत्। सैष याक्षे। यद् अधोऽधो ऽक्षं द्रोणकलशं प्रोहन्ति दैवीम् एवैतद् वाचम् अवरुन्द्धे। उद्गातार उद्गीथायाधोऽधो ऽक्षं द्रोणकलशं प्रोहन्ति। अस्माद् लोकाद् द्विषन्तं भ्रातृव्यम् अन्तरेति। उपरिष्टाच् छुक्रम् अपहरति। अमुष्माद् एव तल् लोकाद् द्विषन्तं भ्रातृव्यम् अन्तरेति य एवं वेद॥

नाक्षम् उपस्पृशेत्। यद् अक्षम् उपस्पृशेद् भ्रातृव्ये श्रियम् ऋञ्ज्यात्। अन्तरा चक्रौ प्रोहति। तस्माद् यद् अन्तरा चक्राव् अनसस् तद् उपजीवनीयतमम्। तस्माद् अन्तरा शम्ये युक्तो भुनक्ति॥1.77॥


वसवो वा एतम् अग्रे प्रौहन्। ते ऽश्राम्यन्। ते रुद्रान् आह्वयन्। तं रुद्राः प्रौहन्। ते ऽश्राम्यन्। त आदित्यान् आह्वयन्। तम् आदित्याः प्रौहन्। तं प्रोहति वसवस् त्वा प्रोहन्तु गायत्रेण छन्दसा॥ रुद्रास् त्वा प्रोहन्तु त्रैष्टुभेन छन्दसा॥ आदित्यास् त्वा प्रोहन्तु जागतेन छन्दसा इति। देवतानाम् एवैनं तत् प्रौढिम् अनुप्रोहति। देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रोहामि इति वा प्रोहेत्। देवाङ्गैर् एवैनं तत् प्रोहति। बृहस्पतिर् वा एतम् अग्रे प्रौहत्। स रूपेण वर्चसा व्यार्ध्यत। स ऐक्षत कास्य प्रायश्चित्तिर् इति। तां द्रोणकलश एव पर्यपश्यत्। तम् अभ्यमृशत् तनूपा असि तन्वं मे पाहि॥ वर्चोधा असि वर्चो मे धेहि॥ आयुर्धा अस्य् अयुर् मे धेहि। वयोधा असि वयो मे धेहि इति। यद् एवास्य तत्रात्मनो मीयते तद् एतेनाप्यायनम्। एतेनैवोद्गाताभिमृशति तनूपा असि तन्वं मे पाहि॥ वर्चोधा असि वर्चो मे धेहि॥ आयुर्धा अस्य आयुर मे धेहि॥ वयोधा असि वयो मे धेहि इति। यद् एवास्यात्रात्मनो मीयते तद् एतेनाप्यायनम्। एतेनैवोद्गाताभिमृशति तनूपा असि तन्वं मे पाहि॥ वर्चोधा असि वर्चो मे धेहि॥ आयुर्धा-अस्य आयुर मे धेहि॥ वयोधा असि वयो मे धेहि इति। यद् एवास्यात्रात्मनो मीयते तद् एतेनैवाप्याययते। द्वयं वावेदं ब्रह्म चैव क्षत्रं च। तद् उभयं द्रोणकलशे। उभयं ब्रह्म च क्षत्रं चावरुन्द्धे य एवं वेद॥1.78॥


संमुखान् ग्राव्णः कृत्वाभिमृशति श्येना अजिरा ऋतस्य गर्भाः प्रयुतो नपातः पर्वतानां ककुभ आ नस् तं वीरं वहत यं बहव उपजीवामो अभिशस्तिकृतम् अनभिशस्तेन्यम् अन्यस्याभिशस्त्याः कर्तारम् इति। आ हैवास्य वीरो जायते ऽभिशस्तिकृद् अनभिशस्तेन्यो ऽन्यस्याभिशस्त्याः कर्ता॥

द्रोणकलशम् अध्यूहति इदम् अहं मां ब्रह्मवर्चसे ऽध्यूहामि इति। यद्य् अस्यावरुद्धो राजन्यस् स्याद् विमुखान् ग्राव्णः कृत्वा तूष्णीं द्रोणकलशम् अध्यूह्य तम् अवह्नारयन् दक्षिणा निरूहेत् इदम् अहम् अमुं विशो निरूहामीदम् अस्य राष्ट्रं न्युब्जामि इति न्यञ्चं द्रोणकलशम् अध्यूहेत् इदम् अहम् अमुं विश्य् अध्यूहामि इति। अपेतरो रुध्यते ऽवेतरो गच्छति। स यद्य् एनम् अवगत्य नाद्रियेत तं कामयेत अत्रैवान्तर् अवरुद्धो ऽस्तु इति। विमुखान् ग्राव्णः कृत्वा तूष्णीं द्रोणकलशम् अध्यूह्य इमा पांशुसवनः इति ग्रावा। तम् उपरिष्टाद् अभिनिदध्यात् इदम् अहम् अमुष्मिन् विश्य् अध्यूहामि इति। अभिप्रक्षीणानाहीनं वितिष्ठति। स यद्य् एनं विदित्वोपधावेद् अस्मिन् वावेदं ब्राह्मणे ऽध्यास यद् इदम् अस्मै वचने वचेति। संमुखान् ग्राव्णः कृत्वा द्रोणकलशम् अध्यूहेत् इदम् अहम् अमुं विश्य् अध्यूहामि इति। ईशे स्वानाम् अपैनं स्वाश् चायन्त्य् अनन्तरम् अवरुद्धो भवति॥1.79॥


राष्ट्रं वै द्रोणकलशो विशो ग्रावाणः। यद् द्रोणकलशश् शिथिलस् स्याद् राष्ट्रं शिथिलं स्यात्। तद् अनु विशो विशम् अनु यजमानो यजमानम् अनु प्रजाः। तं दृंहति देवी त्वा धिष्णे निपातां ध्रुवे सदसि सीदेष ऊर्जे सीद इति। इमे वै देवी धिषणे इदं ध्रुवं सदः। एभिर् एवैनं तल् लोकैर् दृंहति इष ऊर्जे सीद इति - वर्षं वा इषे यद् उपरिष्टाद् वर्षस्यैधते तद् ऊर्जे--तद् एवैतेनावरुन्द्धे॥

स्वर्भानुर् वा आसुर आदित्यं तमसाविध्यत्। तं देवाश् चर्षयश् चाभिषज्यन्। ते ऽत्रिम् अब्रुवन्न् ऋषे त्वम् इदम् अपजहीति। तथेति। तद् अत्रिर् अपाहन्। तं ऽबुवन् यो नस् तमसा विद्धेभ्यो ज्योतिर् अविदज् ज्योतिर् अस्य भागधेयम् अस्त्व् इति। तद् एतद् अत्रिहिरण्यं ह्रियते। शतमानं ह स्म पुरा ह्रियते। अथैतर्हि यावद् एव कियच् च ददति। एतद् ध् वाव सर्वेषु लोकेषु ज्योतिर् यद् धिरण्यम्। सर्वेषु लोकेषु ज्योतिर् धत्ते य एवं विद्वान् अत्रिहिरण्यं ददाति॥1.80॥