← कण्डिका ७१-८० जैमिनीयं ब्राह्मणम्/काण्डम् १
कण्डिका ०८१-०९०
[[लेखकः :|]]
कण्डिका ९१-१०० →

स यत् प्रथमम् अपाहन् सा कृष्णाविर् अभवत्। यद् द्वितीयम् अपाहन् सा धूम्राविर् अभवत्। यत् तृतीयम् अपाहन् सा फाल्गुन्य् अविर् अभवत्। स यं कामयेत पापीयान् स्याद् इति कृष्णम् अस्य पवित्रे ऽप्यस्येत् पापीयान् एव भवति। अथ यं कामयेत नार्वाङ् न परस् स्याद् इति धूम्रम् अस्य पवित्रे ऽप्यस्येन् नैवार्वाङ् न परो भवति। अथ यं कामयेत श्रेयान् स्याद् रुचम् अश्नुवीतेति फाल्गुनम् अस्य पवित्रं कुर्याच् छ्रेयान् एव भवति रुचम् अश्नुते॥

अस्ति हि तत्राप्य् आदित्यस्य न्यक्तम्। तद् अन्तरेषे अवहृत्य संमार्ष्टि वसवस् त्वा संमृजन्तु गायत्रेण छन्दसा॥ रुद्रास् त्वा संमृजन्तु त्रैष्टुभेन छन्दसा॥ आदित्यास् त्वा संमृजन्तु जागतेन छन्दसा इति॥

तद् उदीचीनदशं पवित्रवत्या वितनोति पवित्रं ते विततं ब्रह्मणस् पते इति समष्ट्यै। तपोष् पवित्रं विततं दिवस् पदे इति स्वर्गकामस्य। अरूरुचद् उषसः पृश्निर् अग्रयुः इति प्रजाकामस्य। सर्वाभिर् एव वितनुयाद् एतेषां सर्वेषां कामानाम् उपाप्त्यै॥

राजानम् आनयति। तम् अभिमन्त्रयते स पवस्व सुधामा देवानाम् अभि प्रियाणि धाम॥ त्रिर् देवेभ्यो ऽपवथास् त्रिर् आदित्येभ्यस् त्रिर् अङ्गिरोभ्यः। येन तुर्येण ब्रह्मणा बृहस्पतये ऽपवथास् तेन मह्यं पवस्व॥
स नः पवस्व शं गवे शं जनाय शम् अर्वते।
शं राजन्न् ओषधीभ्यः॥

इति। शम् एवोद्गात्रे भवति शं यजमानाय शं प्रजाभ्यः॥

अध्वर्युर् आग्रायणं ग्रहं गृह्नन् हिंकरोति। तद् एव हिंकृतं भवति। अथोद्गात्रैकर्चो गायत्रं गायति उच्चा ते जातम् अन्धसा इति। स उदित्येवेतो देवेभ्यो हव्यं वहति दिवि सद् भूम्य् आ ददे इत्य् अमुतो वृष्टिम् आच्यावयति। ताव् इमौ लोकौ सवासिनौ करोति। ताव् अस्मै कामं पिन्वाते। कामम् अस्मा इमौ लोकौ पिन्वाते य एवं वेद॥1.81॥


क्रूरम् इव वा एतद् यज्ञस्य कुर्वन्ति यद् धविर्धाने ग्रावभिस् सोमं राजानं हत्वा बहिष्पवमानं सर्पन्ति। का तस्य प्रायश्चित्तिर् इत्य् आहुर् अप उपस्पृशेयुः। आपो वै सर्वस्य शान्तिः। अद्भिर् एवैनत् तच् छमयन्ति। वाग् वा एतस्मा अग्रे ऽध्वने ऽतन्द्रायत बहिष्पवमानं सर्पन्ती। तां प्रजापतिर् अब्रवीद् भागधेयं ते करोम्य् अथ सर्पेति। बहिष्पवमानं सर्प्स्यन् होमं जुहुयात् जुष्टो वाचो भूयासं जुष्टो वाचस्पत्युः॥ देवि वाग् यत् ते वाचो मधुमत् तस्मिन् मा धाः॥ स्वाहा सरस्वत्यै इति। यत् सरस्वत्यै स्वाहा इति जुहुयाद् वाचं सरस्वतीं स्वाहाकारेण परिगृह्णीयात्। अथ यत् स्वाहा सरस्वत्यै इति जुहोति वाचं तद् उत्तरां स्वाहाकाराद् दधाति। तया परिगृहीतया यज्ञं तनुते। वाचा ह्य् ऊर्ध्वो यज्ञस् तायते। वेकुरा नामासि प्रेषिता दिव्याय कर्मणे शिवा नस् सुयमा भव। सत्याशीर् यजमानाय स्वाहा इति वा जुहुयात्। वाग् वै वेकुरा। ब्रह्म वाक्। ब्रह्मण एवं तद् वाचे होमं हुत्वा सर्पति नार्तिम् आर्छति॥1.82॥


अरण्यम् इव वा एते यन्ति ये बहिष्पवमानं सर्पन्ति। तान् ईश्वरो रक्षो वा हन्तोर् अन्या वा नंष्ट्रा। अथ द्वितीयां जुहोति सूर्यो मा देवो दिव्येभ्यो रक्षोभ्यः पातु वात आन्तरिक्षेभ्यो ऽग्निः पार्थिवेभ्यस् स्वाहा इति। य एवैषां लोकानाम् अधिपतयस् तेभ्य एवैतद् आत्मानं परिदाय सर्पति नार्तिम् आर्छति॥

प्रजापतिर् यद् यज्ञम् असृजत तं हविर्धान एवासृजत। स सृष्ट उदङ् प्राद्रवत्। तम् एतद् अत्राप्त्वास्तुवन्। यत्रैतद् उद्ञ्चयित्वा बहिष्पवमानेन स्तुवन्ति यज्ञम् एवैतद् आप्त्वा स्तुवन्ति॥

यो वै दैव्यं वाजिनं वेद वाजी भवति। यज्ञो वाव दैव्यो वाजी। य इन् नु मानुषं वाजिनम् अशान्तम् असंमृष्टम् आरोहति तम् इन् नु स हिनस्ति वा प्र वा क्षिणोति। अथ किं यो दैव्यं वाजिनम् अशान्तम् असंमृष्टम् आरोहात्॥1.83॥


अध्वर्युः प्रस्तरं हरन् सर्पति। तम् अनुमन्त्रयते एतद् अहं दैव्यं वाजिनं संमाज्मि इति। संसृष्टम् एवैनं शान्तम् आरोहति नार्तिम् आर्छति॥

देवक्षेत्रं वा एषो ऽध्यवस्यति यस् सोमस्योद्गायति। य इन् नु मानुषाय क्षेत्रपतये प्रोच्यावस्यति तम् इन् नु स हिनस्ति वा प्र वा यापयति। अथ किं यो दैव्याय क्षेत्रपतये प्रोच्यावस्यात्। सोमोद्गायोद्गाय सोम इत्य् आह। सोमो वै देवानां क्षेत्रपतिः। सोमायैव तद् देवानां क्षेत्रपतये प्रोच्योद्गायति नार्तिम् आर्छति। मह्यं तेजसे मह्यं ब्रह्मवर्चसाय मह्यम् अन्नाद्याय मह्यं भूम्ने मह्यं पुष्टयै मह्यं प्रजननाय प्रजानां भूम्ने प्रजानां पुष्टयै प्रजानां प्रजननाय सोमस्य राज्ञो राज्याय मम ग्रामणेयाय इति॥

ग्रावो ह स्माह मैत्रेयः किं मम एकस्मा आगास्यामि किम् एकस्मा इति। एतेन ह स्म वै स तद् आह सोमोद्गायोद्गाय सोमेदम् अमुष्मा इदम् अमुष्मै इति। ते ह स्मास्मै कामास् समृध्यन्ते॥

देवपाशा वा एते वितायन्ते यद् धिष्ण्या अग्नयो विह्नियन्ते। तान् यो विद्वान् अभ्यवैति देवपाशान् प्रतिमुञ्चते। एषा वै यज्ञस्य द्वार् यद् अन्तराग्नीध्रं च चात्वालं च। तयाभ्यवेयात्। तयोदेयात्। धा वै नाम वेदिः। ताम् अभ्यवयन् ब्रूयात् धा असि सुधां मे धेहि॥ आयुष्मन्तस् त्वद् वर्चस्वन्त उद्गेष्म इति। न देवपाशान् प्रतिमुञ्चते नार्तिम् आर्छति॥1.84॥

बहिष्पवमानसर्पणम्

प्राणान् वै तत् संतत्य स्वर्ग लोकं सर्पन्ति यद् अन्तर् हविर्धाने ग्रहान् गृहीत्वा बहिष्पवमानं सर्पन्ति। संततास् सर्पन्ति। संतत इव वै स्वर्गो लोकः। स्वर्गस्यैव लोकस्य संतत्या अव्यवच्छेदाय। प्रावभ्रा इव सर्पन्ति। प्रतिकूलम् इव वा इतस् स्वर्गो लोकः। तद् यथा वा अदः प्रतिकूलम् उद्यन् प्रावभ्र इव भवत्य् एवम् एवैतत्। स्वर्गस्य लोकस्य समष्ट्या अनपव्याधाय॥

अध्वर्युः प्रथमस् सर्पति प्राणो यज्ञस्य। तस्माद् यद् अवच्छिद्येरन् प्राणाद् अवच्छिद्येरन् प्रमायुकास् स्युः। प्रस्तोता द्वितीयस् सर्पति मुखं साम्नः। तस्माद् यद् अवच्छिद्येरन् मुख्याम् आर्तिम् आर्छेयुः। उद्गाता तृतीयस् सर्पति सर्वदेवत्यः प्रजापतिः। तस्माद् यद् अवच्छिद्येरन् सर्वज्यानिं जीयेरन्। प्रतिहर्ता चतुर्थस् सर्पति तुरीयं साम्नः। तस्माद् यद् अवच्छिद्येरंस् तुरीयेणात्मनो यातयेयुः। यजमानः पञ्चमस् सर्पति। पांक्तो यज्ञः पांक्ताः पशवः। तस्माद् यद् अवच्छिद्येरन् यज्ञात् पशुभ्यो ऽवच्छिद्येरन्॥1.85॥


ब्रह्मा षष्ठस् सर्पति। षड् वै छन्दांसि। छन्दोभिर् एव तद् रक्षः पाप्मानम् अपघ्नते। सर्वं वावैतद् ब्रह्म। यद् ब्रह्मा पश्चाद् भवति ब्रह्मणैव तद् रक्षः पाप्मानम् अपहत्य स्वर्गं लोकं सर्पन्ति॥

प्रस्तरं हरन्तस् सर्पन्ति। यजमानो वै प्रस्तरो बर्हिः प्रजाः। यद् उपर्युपरि बर्हिः प्रस्तरं हरन्ति यजमानम् एव तत् प्रजास्व् अध्यूहन्ति। तस्माद् यजमान उपर्युपर्य् एवान्याः प्रजाः॥

यद् उपास्येत् स्वर्गलोको यजमानस् स्याद् अवास्माल् लोकाच् छिद्येत। यद् अत्यस्येद् अस्मिन् लोके प्रतितिष्ठेद् अव स्वर्गाल् लोकाच् छिद्येत॥
तद् आहुर् अर्धात्मा वा एष यजमानस्य यत् पत्नी। यत् सा बहिर्वेदि भवति तेनास्माल् लोकान् नावच्छिद्यते। उपैवास्येद् इत्य् उत वै पत्नी न भवति। अथो यद्य् अपि स्याद् उपैवान्यद् अस्येद् अत्य् अन्यद् अस्येत्। यद् उपास्यति तेन स्वर्गलोको यद् अत्यस्यति तेनास्माल् लोकान् नावच्छिद्यते॥1.86॥


आदित्यो वा एतद् अत्राग्र आसीद् यत्रैतच् चात्वालम् अदो ऽग्निः। स इदं सर्वे प्रातपत्। तस्य देवाः प्रदाहाद् अबिभयुः। ते ऽब्रुवन् सर्वं वा अयम् इदं प्रधक्ष्यति वीमौ परिहरामेति। तम् अतस् तिसृभिर् आददत तिसृभिर् अन्तरिक्षात् तिसृभिर् दिवम् अगमयन्। स ततः पराङ् एवातपत्। त एतद् आवद् उत्तमम् अक्षरम् अपश्यन्। तेनैनम् अर्वाञ्चम् अकुर्वन्। तत एतद् अर्वाङ् तपति। ऐतनो एवावताक्षरेणाग्निम् अस्मिन् लोके ऽदधुः। स यं कामयेत यजमानस् स्वर्गलोकस् स्याद् इति चात्वालम् एवैनम् अवख्याप्योद्गायेत्। तम् अतस् तिसृभिर् एवाददते तिसृभिर् अन्तरिक्षात् तिसृभिर् दिवं गमयन्ति। स्वर्गलोको यजमानो भवति। ईश्वरो ह तु प्रमायुको भवितोः। पराचीभिस् स्तुवन्ति। सदैव सर्वाभिस् स्तुयुर् अथोत्तमाम् अग्रे ब्रूयाद् अथावराम् अथावराम्। तास् सर्वा अर्वाचीः। तद् उ वा आहुस् सत्रैतत् प्रत्यवरुढं स्वर्गकाम्या वै यजत् इति। यद् एवाद आवद् उत्तमम् अक्षरं भवति तेनास्माल् लोकान् नावच्छिद्यते॥1.87॥


रथन्तरवर्णाम् उत्तमां गायन्ति। इयं वै रथन्तरम्। अस्याम् एवैतत् प्रतितिष्ठिति। प्रजापतिः प्रजा असृजत। ता एनं सृष्टा अन्नकाशिनीर् अभितस् समन्तं पर्यविशन्। ताभ्यो हिंकारेणान्नाद्यम् असृजत। तद् ओंकारेण सृष्टम् अवारयत॥

प्रजापतिर् एष यद् उद्गाता तम् एतत् प्रजा अन्नकाशिनीर् अभितस् समन्तं परिविशन्ति। ताभ्यो हिंकारेणैवान्नाद्यं सृजते। तद् ओंकारेण सृष्टं वारयते। स यद् धिंकृत्येनोंकुर्यात् पराङ् देवान्नाद्यम् इयात्। यत् साम प्रथमम् अभिव्याहरेत् क्षत्रं बलम् ऋच्छेत्। क्षत्रं हि साम। यद् ऋचं प्रथमम् अभिव्याहरेद् विशं बलम् ऋच्छेत्। विड् ढय् ऋक्। यद् यजुः प्रथमम् अभिव्याहरति-ब्रह्म वै यजुः-ब्रह्मवर्चसम् एतत् करोति। भूर् भुवस् स्वः॥ मधु करिष्यामि॥ मधु जनयिष्यामि॥ मधु भविष्यति॥ भद्रंभद्रम्॥ इषम् ऊर्जम् इति। यद् भूर् भुवस् स्वः इत्य् एतद् वै ब्रह्मैतद् यजुः। यत् मधु करिष्यामि इति-प्रजा वै मधु-ता एव तत् करोति। यत् मधु जनयिष्यामि इति प्रैवैनास् तज् जनयति। यत् मधु भविष्यति इति भूतिम् एवैनास् तद् गमयति। भद्रंभद्रम् इति - यद् वै पुरुषस्य वित् तद् भद्रं गृहा भद्रं प्रजा भद्रं पशवो भद्रं - तद् एवैतेनावरुन्द्धे। इषम् ऊर्जम् इति - वर्षे वा इषे यद् उपरिष्टाद् वर्षस्यैधते तद् ऊर्जे - तद् एवैतेनावरुन्द्धे॥1.88॥


प्रजापतिं कल्पयित्वोद्गायेत्। यो ह वै प्रजापतिं कल्पयित्वोद्गायति कल्पते ऽस्मै दिशः प्रदिश आदिशो विदिश उद्दिशो दिश इति। दिशो वै प्रजापतिः। प्रजापतिम् एव तत् कल्पयित्वोद्गायति। कल्पते ऽस्मै य एवं वेद॥

कपिवनो ह स्माह भौवायनः किं ते यज्ञं गच्छन्ति यद् एव सोमस्याभक्षयित्वा प्र वा सर्पन्ति प्र वा धावयन्तीति। बहिष्पवमानम् उपसन्नेषु ब्रूयाद् यं ब्रह्माणं शुचिम् इव मन्येताहरहस् तम् इति। तेन समुपहूयाथानुमन्त्रयेत।
यो देवानाम् इह सोमपीथो ऽस्मिन् यज्ञे बर्हिषि वेद्याम्।
तस्येदं भक्षयामसि॥
इति। यदि च ह प्रधावयति यदि च नाथ हास्य भक्षित एव देवस् सोमो भवति॥

एतदायतना वा आरण्याः पशवः। यद् बहिष्पवमानम् अरण्ये स्तुवन्ति तस्माद् आरण्याः पशवो ऽरण्यं सचन्ते। पराचीषु स्तुवन्ति। तस्माद् आरण्याः पशवो ऽरण्याद् एवारण्यम् अभिप्रेरते। एकरूपासु स्तुवन्ति। तस्माद् आरण्याः पशव एकरूपाः। आवद् उत्तमम् अक्षरं भवति। तस्माद् एकैको ऽन्यो ऽचलो ग्रामे ऽधिगम्यते। अथो अरण्ये हतं ग्रामम् अभ्यवहरन्ति॥

स्तुत्वोद्द्रवन्ति। यजमानम् एव तत् स्वर्गं लोकं गमयन्ति। बाहून् उद्गृह्णन्ति। यजमानम् एव तत् स्वर्गे लोके समादधति। ते वै तद् अनृतं कुर्वन्ति ये मर्त्यं सन्तम् अमृतत्वं गमयन्ति। ते रूपेण वर्चसा व्यृध्यन्ते। स य एतद् एवान्य उत्तिष्ठेत् तम् उत्तिष्ठन्तम् आरभ्यानूत्तिष्ठेत्। न रूपेण वर्चसा व्यृध्यन्ते। स य एतद् एवान्य उत्तिष्ठेत् तम् उत्तिष्ठन्तम् आरभ्यानूत्तिष्ठेत्। न रूपेण वर्चसा व्यृध्यते नार्तिम् आर्छति॥

भविष्यद् विजानीयात्। यद्य् एताः प्रजा दोद्रुवा इव स्युर् दोद्रुवो योगक्षेमो भविष्यति। तयायम् उद्गातोदगासीदिति विद्यात्। यद्य् उ शान्ता इव स्युश् शान्तो योगक्षेमो भविष्यति। तथायम् उद्गातोदगासीद् इति विद्यात्। एषो ह विशः॥1.89॥


उपास्मै गायता नरः इति[] ग्रामकामो भूतिकामः प्रजननकामः प्रतिपदं कुर्वीत। अस्यै वावेदम् उपगायन्ति। उप वावेदम् अस्यां सर्वम्। उपैवास्यां प्रजया पशुभिः प्रजायते य एवं वेद। नरो ह वै देवविशः क्षत्रं सोम इन्दुः। विशं चैवैतेन क्षत्रं चावरुन्द्धे। अभिदेवं इयक्षते इति सर्वा एवैतेन देवता अनन्तरायम् अभियजते॥

उपो षु जातम् अप्तुरम् इति[] प्रजाकामः प्रतिपदं कुर्वीत। उपेव वा आत्मन् प्रजया पशुभिः प्रजायते। एताम् एवापरेद्युः प्रतिपदं कुर्वीत। अप्तुरम् इति ह्य् अस्या आप्त्वा श्रेयांसं वसीयान् आत्मना भवति। गोभिर् भङ्गं परिष्कृतम् इति। यज्ञो वै गोभिर् भङ्गः पशवः परिष्कृतः। यज्ञं चैवैतेन पशूंश् चावरुन्द्धे। इन्दुं देवा अयासिषुः इति। यजमानो वै सोमो राजेन्दुस् स्तोमा देवाः। स्तोमा एवैनं स्वर्गे लोकं गमयन्ति॥1.90॥


  1. सा.वे.कौ. ६५१
  2. सा.वे.कौ. १३३५