प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अविता जरायितॄणाम् आ औ हो हा यि शतां भवस्य् औ हो हुं मा ता या हुं मा इत्य् उत्तमाया उत्तरार्धे कुर्यात्। स यथा व्रजे गा अनपाद्य् अर्गलेनापिहन्यात् तादृक् तत्। तद् आहुस् स्वयोनाव् एव तत् स्वारं कार्यम्। य एनम् एवं चकृवांसम् उपमीमांसेत स्वरेण यजमानस्य पशून् निरस्वारीर् इति तं ब्रूयान् निधनवत् पुरस्ताद् रथन्तरं निधनवद् उपरिष्टान् नौधसम्। ताभ्यां म एतद् उभयतः प्रजाः पशवः परिगृहीताः। प्राणम् एवैतद् अधा मध्यतः पशूनाम् इति। य एवैनम् एवं चकृवांसम् उपमीमांसते स आर्तिम् आर्छति॥

अष्टाक्षरा गायत्र्य् अष्टौ वसवः। गायत्रं प्रातस्सवनम्। अक्षरेऽक्षरे देवतान्वायत्ता॥

एकादशाक्षरा त्रिष्टुब् एकादश रुद्राः। त्रैष्टुभं माध्यंदिनं सवनम्। अक्षरेऽक्षरे देवतान्वायत्ता॥

द्वादशाक्षरा जगती। द्वादशादित्याः। जागतं तृतीयसवनम्। अक्षरेऽक्षरे देवतान्वायत्ता॥

अथ किं प्रतियज्ञं यजमानम् अपिनयन्तीति। स ब्रूयात् प्रजापतिर् यद् वामदेव्यम् असृजत तस्य त्रीण्य अक्षराण्य् उदखिदत्। स एव त्र्यक्षराः पुरुषो ऽभवत्। वामदेव्यस्य स्तोत्रे पुरुषः इति ब्रूयात्॥

तत् प्रतियज्ञं यजमानम् अपिनयन्तीति तद् आहुर् न पुरुषः इति ब्रूयात् परोक्षम् एव ध्यायेन् मनसैव नियच्छेद् इति। तद् उ वा आहुर् नैव परोक्षं ध्यायेन् न मनसा नियच्छेद् यद् वाव वेद तेनैवाप्तम् इति॥1.141॥


देवा वा असुरान् युधम् अपप्रयन्तो ऽब्रुवन् यन् नो वामं वसु तद् अपनिधाय युध्यामहै यद् अद्य कस्मिंश् चिद् भूते ऽभ्यवधावामेति। प्राणा वाव तेषां वामं वस्व् आसीत्। तद् अपनिधाय युधम् अपपरायन्। तद् एकधा भूत्वासृजमानम् अतिष्ठद् ऋचस् सामानि यजूंषि गाम् अश्वम् अजाम् अविं व्रीहिं यवं ब्राह्मणं राजन्यं वैश्यं शूद्रं यद् इदं किं चित् तत् सर्वम्। तद् एभ्य आचक्षतेदं वै वस् तद् वामं वस्व् एकधा भूत्वासृजमानं तिष्ठतीति। ते देवा असुरान् अजयन्। ते विजिग्यानाः पुनर् आयन्त एकं भूतम् अभ्यवायन्। तन् न व्यजानतेदं मम वामम् इदं ममेति। ते ऽब्रुवन् वीदं भजामहा इति। तस्य विभागे न समपादयन्। तद् एवैनान् अब्रवीत् सर्वान् एव वो मया स्तोष्यन्ति सर्वान् वो ऽहम् अवैष्यामि मा मा विभग्ध्वम् इति॥

तद् यद् गायत्रीषु स्तुवन्ति तेनाग्नेयम्। गायत्रो ह्य् अग्निःः। यत् पृष्ठं माध्यन्दिनं तेनैन्द्रम्। यत् कवतीषु स्तुवन्ति तेन प्राजापत्यम्। यद् अनिरुक्तं तेन वैश्वदेवम्। यन् मैत्रावरुणाय स्तुवन्ति तेन मैत्रावरुणम्॥

तद् एनान् अब्रवीत् सृजध्वं मद् इति। तथेति। तद् अभ्यस्वरन्। ते ऽब्रुवन् सृजस्वेति॥1.142॥


तद् रथन्तरम् असृजत। तद् रथघोषो ऽन्वसृज्यत। ते ऽब्रुवन्न् अरात्स्मानेन स्तोत्रेणेति। तस्माद् रथन्तरस्य स्तोत्रे रथघोषं कुर्वन्ति। अरात्स्मानेन स्तोत्रेणेत्य एव तद् विद्यात्॥

तद् अब्रुवन् सृजस्वैवेति। तद् बृहद् असृजत। तत् पर्जन्यस्य घोषो ऽन्वसृज्यत। ते ऽब्रुवन्न् अरात्स्मानेन स्तोत्रेणेति। तस्माद् बृहतस् स्तोत्र दुन्दुभीन् उद्वादयन्ति। वर्षुकः पर्जन्यो भवति। अरात्स्मानेन स्तोत्रेणेत्य् एव तद् विद्यात्॥

तद् अब्रुवन् सृजस्वैवेति। तद् वैरूपम् असृजत। तद् ग्रामघोषो ऽन्वसृज्यत। ते ऽब्रुवन्न् अरात्स्मानेन स्तोत्रेणेति। तस्माद् वैरूपस्य स्तोत्रे ग्रामघोषं कुर्वन्ति। अरात्स्मानेन स्तोत्रेणेत्य् एव तद् विद्यात्॥

तद् अब्रुवन् सृजस्वैवेति। वैराजम् असृजत। तद् अग्नेर् घोषो ऽन्वसृज्यत। ते ऽब्रुवन्न् अरात्स्मानेन स्तोत्रेणेति। तस्माद् वैराजस्य स्तोत्रे ऽग्निं मन्थन्ति। अरात्स्मानेन स्तोत्रेणेत्य् एव तद् विद्यात्॥

तद् अब्रुवन् सृजस्वैवेति। तच् छाक्वरम् असृजत। तद् अपां घोषो ऽन्वसृज्यत। ते ऽब्रुवन्न् अरात्स्मानेन स्तोत्रेणेति। तस्माच् छाक्वरस्य स्तोत्र ऽप उपनिधाय स्तुवन्ति। अरात्स्मानेन स्तोत्रेणेत्य् एव तद् विद्यात्॥

तद् अब्रुवन् सृजस्वैवेति। तद् रैवतम् असृजत। तद् पशुघोषो ऽन्वसृज्यत। ते ऽब्रुवन्न् अरात्स्मानेन स्तोत्रेणेति। तस्माद् रैवतस्य स्तोत्रे पशुघोषं कुर्वन्ति वत्सान् मातृभिस् संवाशयन्ति। अरात्स्मानेन स्तोत्रेणेत्य् एव तद् विद्यात्॥

तद् अब्रुवन् सृजस्वैवेति॥1.143॥


तन् नासृजत। तद् ऊर्ध्वम् उदैषद् यथा पृष्ठं यथा ककुद् एवम्। तद् देवास् संगृह्योर्ध्वा उदायन्। ते ऽब्रुवन्न् इयद् वावेदम् आसेदं वाव नो देवानां वामम् इति। यद् अब्रुवन्न् इयद् वावेदम् आसेदं वाव नो देवानां वामम् इति वामदेव्यस्य तद् वामदेव्यत्वम्॥

तद् वा एतत् पिता माता साम्नां यद्व वामदेव्यम्। यद् वै पुत्रो ऽतिपादयति पिता वै तस्य शमयिता पिता निषेद्धा॥

तद् यन् मध्यतः क्रियते शान्त्या एव निषिद्ध्यै। तद् यानि ह वै स्तुतानि सामानि पश्चात्त्वं तेषां वामदेव्यम्। अथ यान्य् अस्तुतानि पुरस्त्वं तेषाम्। तेषाम् उभयेषां शान्त्यै निषिद्ध्यै॥

तत् स्वधूर् गेयं नोच्चैर् इव न नीचैर् इव। यद् उच्चैर् गायेच् छ्रेयसो भ्रातृव्यस्य निधनेन गायेत्। यन् नीचैर् गायेत् पापीयसो भ्रातृव्यस्य नियानेन यायात्। इयं वावैतस्य धूर् इदम् अन्तरिक्षम्। एतद् एवैनं धूर्वति य एवं विद्वांसं धूर्वतीति॥

तद् आहुः प्रादेशमात्राद् वा एतद् इदं लोकं न स्पृशति प्रादेशमात्राद् अमुं नैति॥

अथो आहुर् यावद् एव गोस् सूताया उल्बं तावतैवेमं लोकं न स्पृशति तावतामुं नैति। अथो आहुर् यावद् एव शकृत्य् उल्बं तावतैवेमं लोकं न स्पृशति तावतामुं नैति। तद् एवम् इवैव मन्यमानेन गेयम्। तद् उ वा आहुर् यथा वा अक्षेण चक्रौ विष्टब्धाव् एवम् एतेनेमौ लोकौ विष्टब्धौ। नीवेमं लोकं स्पृशति नीवामुम् इति॥

नो हान्यस्यानुवर्त्म गेयम्। ईश्वरो होपजीवी भवितोर् यो ऽन्यस्यानुवर्त्मा गायति। स्वधूर् एव गेयम्॥

यो वै देवानां मधु वेद मधव्यो भवति। वामदेव्यं वामदेवानां मधु। मधव्यो भवति य एवं वेद॥1.144॥


इमौ वै लोकौ सह सन्तौ व्यैताम्। तयोर् न किं चन समपतत्। ते देवमनुष्या अशनायन्। इतः प्रदानाद् धि देवा जीवन्त्य् अमुतः प्रदानान् मनुष्याः। ते बृहद्रथन्तरे अब्रूतां ये नाव् इमे प्रिये तन्वौ ताभ्यां विवहावहा इति। श्यैतं ह वा अग्ने रथन्तरस्य प्रिया तनूर् आस नौधसं बृहतः। ताभ्यां व्यवहेताम्। ऊषान् एवासाव् अमुतो ऽस्यै शुल्कम् अकरोद् धूमम् इत इयम् अमुष्यै। वर्षम् एवासाव् अमुतो ऽस्यै शुल्कम् अकरोद् देवयजनम् इत इयम् अमुष्यै। स वहतोरुहैनै वेद य एवं वेद॥

मेनानेनं वाव ते तद् व्यवहेताम्। तस्माद् आहुर् न मेनामेनं व्यूह्यम् इति। बहद्रथन्तरयोर् ह वा एष विवाहम् अभ्यारोहति। स ईश्वर पराभवितोः। ते तन्वाव् अब्रूताम् आवं नु निधनाभ्यां विवहावहा इति॥1.145॥


पदनिधनं ह वा अग्रे श्यैतम् आस वसुनिधनं नौधसम्। ताभ्यां व्यवहेताम्। ततो ह वा इदम् अर्वाचीनम् अन्योन्यस्य गृहे वसन्ति। यथागृहं ह वाव ततः पुरोषुर् यथाज्ञाति वा॥

रथन्तरेण स्तुवन्ति। इदं वै रथन्तरम्। अथ वामदेव्येन। इदं वा अन्तरिक्षं वामदेव्यम्। अथ नौधसेन। अदो वै नौधसम्। अनन्तर्हितान् एवेत ऊर्ध्वान् लोकान् जयति॥

बृहता स्तुवन्ति। अदो वै बृहत्। अथ वामदेव्येन। इदं वा अन्तरिक्षं वामदेव्यम्। अथ श्यैतेन। इदं वै श्यैतम्। अनन्तर्हितान् एवामुतो ऽवाचो लोकान् जयति। उभयान् लोकान् जयति ये चोर्ध्वा ये चार्वाचो य एवं वेद॥1.146॥


अथ नौधसम्। नोधा वै काक्षीवतो ज्योग् अप्रतिष्ठितश् चरन् सो ऽकामयत प्रतितिष्ठेयम् इति। स ह देवान् ब्रह्म विभजमानान् उपावपपात। स होवाचर्षिर् अस्मि मन्त्रकृत् स ज्योग् अप्रतिष्ठितो ऽचार्षं तस्मै म एतद् दत्त येन प्रतितिष्ठेयम् इति। तस्मै ह ब्रह्मणो रसस्य ददुः। तद् एव नौधसम् अभवत्। तेनास्तुत। ततो वै स् प्रत्यतिष्ठत्। तद् एतत् प्रतिष्ठा साम। प्रतितिष्ठति य एवं वेद। ब्रह्मणो ह वा एष रसो यन् नौधसम्। ब्रह्मणो हास्य रसेन स्तुतं भवति य एवं विद्वान् नौधसेन स्तुते॥

तद् द्व्यक्षरणिधनं भवति प्रतिष्ठायै। द्विपाद् वै यजमानः प्रतिष्ठित्यै। यद् उ नोधाः काक्षीवतो ऽपश्यत् तस्मान् नौधसम् इत्य् आख्यायते॥1.147॥


श्यैतं पशुकामः कुर्वीत। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपाक्रामन्। सो ऽकामयत न मत् पशवो ऽपक्रामेयुर् अभि मा वर्तेरन्न् इति। स एतत् सामापश्यत्। तेनास्तुत। तस्य वसु इत्य् एव निधनम् उपैत्। तत् पशवो वै वसु। ततो वै तं पशवो ऽभ्यावर्तन्त। ततो ऽस्माद् अनपक्रामिणो ऽभवन्॥

सोऽब्रवीच् छ्येती वा इमान् पशून् अकृषीति। तद् एव श्यैतस्य श्यैतत्वम्। तद् एतत् पशव्यं साम। श्येतीकृता एनं पशव उपतिष्ठन्ते ऽभ्य् एनं पशव आवर्तन्ते नास्मात् पशवो ऽपक्रामन्ति य एवं वेद। तद् द्वयक्षरणिधनं भवति प्रतिष्ठायै। द्विपाद् वै यजमानः प्रतिष्ठित्यै॥1.148॥


गोतमस्य मनार्ये मनोऽपक्रान्तः कुर्वीत। गोतमाद् वै मनो ऽपाक्रामत्। सो ऽकामयत न मन् मनो ऽपक्रामेत् पुनर् मा मन आविशेद् इति। स एते सामनी अपश्यत्। ताभ्याम् अस्तुत। ततो वै तं पुनर् मन आविशन् नास्मान् मनो ऽपाक्रामत्। ऐनं पुनर् मनो विशति नास्मान् मनो ऽपक्रामति य एवं वेद। तत् पिबा इति रथन्तरसाम्नः पिबाई इति बृहत्साम्नः। यद् उ गोतमो ऽपश्यत् तस्माद् गोतमस्य मनार्ये इत्य् आख्यायेते॥1.149॥


वसिष्ठस्य जनित्रे प्रजननकामः कुर्वीत। वसिष्ठो वै जितो हतपुत्रो ऽकामयत बहु प्रजया पशुभिः प्रजायेयेति। स एते सामनी अपश्यत्। ताभ्याम् अस्तुत। ततो वै स बहु प्रजया पशुभिः प्राजायत। ते एते प्रजननी सामनी। बहु प्रजया पशुभिः प्रजायते य एवं वेद। तत् जनित्रम् इति रथन्तरसाम्नः जानित्राम् इति बृहत्साम्नः। यद् उ वसिष्ठो ऽपश्यत् तस्माद् वसिष्ठस्य जनित्रे इत्य् आख्यायेते॥1.150॥