← कण्डिका १४१-१५० जैमिनीयं ब्राह्मणम्/काण्डम् १
कण्डिका १५१-१६०
[[लेखकः :|]]
कण्डिका १६१-१७० →

पौरुमीढं दक्षोणिधनम् आयुष्कामः कुर्वीत। तरन्तपुरुमीढौ वै वैतदश्वी माहेयौ मह्या आर्चनानस्यै पुत्रौ। तौ ह यन्तौ स्त्री पर्येत्योवाच पुत्रस्य वै त्यस्या उपतपति तं स्म मे चिकित्सतम् इति। तौ ह क्रुध्यन्ताव् इवोचतुः कथं नाव् इत्थं ब्रूयाद् इति तं वा अर्वीष उपवपेति। सा हेयं स्त्री श्रद्धाय देवर्षी मा मन्त्रकृताव् अवोचताम् इत्य् अर्वीष उपोवाप। तौ ह पुनर् आयन्तौ पर्येत्योवाच यं वै कुमारम् अवोचतम् अर्वीष उपवपेत्य् अयं वै सो ऽर्वीष उपोप्तश् शेत इति। तौ हासाध्व् इव कृत्वा मेनाते। ताव् अकामयेताम् उद् इत इयाव गातुं नाथं विन्देवहि सम् अयं कुमारो जीवद् इति। स एतत् पुरुमीढस् सामापश्यत्। तेनास्तुत
अग्निम् ईळिष्वावसे गाथाभिश् शीरशोचिषम्।
अग्निं राये पुरुमीढ श्रुतं नरः॥
को नाम कुमार इति। सुदीतिर् नामेति। तम् अग्निस् सुदीतये छर्दिः इत्य् एवाभ्यमृशत्। स तान्तो निरवर्तत। तम् एतेन निधनेन समैरयत् दक्षायै इति। प्राणा वै दक्षाः। प्राणान् एवास्मिंस् तद् अदधात्। तद् एतद् गातुविन् नाथवित् साम। गातुं व स तन् नाथम् अविन्दत। विन्दते गातुं नाथं य एवं वेद। यद् उ पुरुमीढो ऽपश्यत् तस्मात् पौरुमीढं दक्षो णिधनम् इत्य् आख्यायते॥1.151॥


जमदग्नेस् सप्ताहम् अभिचरन् वा भ्रातृव्यवान् वा कुर्वीत। जमदग्निर् ह वै माहेनानां पुरोहित आस। तान् ह वित्तेनात्यादधौ। त उ हैनम् उपजिहिंसुः। स हेक्षांचक्रे कथं न्व् अहम् एषां सप्तसप्तैकाहनि ग्राम्याणां पशूनां हन्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स तेषां सप्तसप्तैकाहनि ग्राम्याणां पशूनाम् अहन्। तथो एवैषाम् एतद् घ्नन्ति। तद् उ भ्रातृव्यहा। हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। यद् उ जमदग्निर् अपश्यत् तस्माज् जमदग्नेस् सप्ताहम् इत्य् आख्यायते। तद् एषोपगीता

अतिमात्रम् अवर्धन्त नोद् इव दिवम् अस्पृशन्।
भुगुं हिंसित्वा माहेना असंहेयं पराभवन्॥

इति। असंहेयं ह वै स पराभवति य एवं विद्वांसं हिनस्ति॥1.152॥


देवासुरा यज्ञे ऽस्पर्धन्त। ते देवा असुरान् बहिष्पवमानान् निरवाघ्नन्। ते ऽसुरा आग्नेयम् आज्यं पर्यवायन्। ते देवा मैत्रावरुणम्। ते ऽसुरा ऐन्द्रम्। ते देवा ऐन्द्राग्नम्। ते ऽसुरा माध्यंदिनं पवमानम्। ते देवा रथन्तरम्। ते ऽसुरा वामदेव्यम्। ते देवा नौधसम्। ते ऽसुराः कालेयम्। तान् कालेय एवान्वभ्यवायन्। तान् कालेयेनैव कालेयाद् अकालयन्त। यद् अकालयन्त तत् कालेयस्य कालेयत्वम्। कालयते वै द्विषन्तं भ्रातृव्यं य एवं वेद॥

ते दिशो व्युदसीदन्। तान् कालेयेनैवानुपर्यायम् अकालयन्त। यद् अनुपर्यायम् अकालयन्त तच् चैव कालेयस्य कालेयत्वम्। अनुपर्यायम् एव द्विषन्तं भ्रातृव्यं कालयते य एवं वेद॥

तरो वै यज्ञस् स्तोमो विदद्वसुः।यज्ञेन च वाव ते तान् स्तोमेन चाकालयन्त। यज्ञेन चैव स्तोमेन च द्विषन्तं भ्रातृव्यं कालयते य एवं वेद॥1.153॥


ऋचा वा असुरा आयन् साम्ना देवाः। ते देवा असुरान् ऋच्य एव परिगृह्य साम्नापीडयन्तेव पीडयत् पीडतो भ्रातृव्यस्य व्यधाय। इन्द्रा सबाध उतो याः इति बृहद् गायन्तः। सुतसोमे धीरो इति रथन्तरसाम्नः धोरो इति बृहत्साम्नः। उभे ह वा एते एतद् अनु। तस्माद् उभे रूपे गायेद् यच् च राथन्तरं यच् च बार्हतम्। नाना वा एतयोर् ब्रह्मसामनी भवतः। अथैतद् उभे अनु। तस्माद् उभे एव रूपे गायेत्॥

तद् एळं भवति। पशवो वा इळा। पशुभिर् वाव ते तान् अकालयन्त। तस्माद् यत् पशुमांश् चापशुश् च भ्रातृव्यौ स्पर्धेते य एव पशुमान् भवति स एव तयोर् अभिभवति॥

एतद् ध वै साम प्रजा इमा अनुव्य् आस। ते तस्यैतां नितताम् इळाम् अन्तत उपयन्ति प्रजानां यथायतनाद् अनुद्धाताय। तस्मात् प्रजा यथायतनाद् अनुद्धताः॥

देवाः पितरो मनुष्यास् ते ऽन्यत आसन्न् असुरा रक्षांसि पिशाचा अन्यतः। त एषु लोकेष्व् अस्पर्धन्त। अथ ह कलयो गन्धर्वा अन्तस्थां चेरुर् नेतरान् नेतरान् आद्रियमाणाः। ते देवाः पितरो मनुष्या असुरान् रक्षांसि पिशाचान् अभ्यभवन्। त इमान् लोकान् व्यभजन्त देवलोकम् एव देवा अभजन्त पितृलोकं पितरो मनुष्यलोकं मनुष्याः। तत् कलयो गन्धर्वा एत्याब्रुवन्न् अनु न एषु लोकेष्व् आभजतेति। नेत्य् अब्रुवन्। अनाद्रियमाणा वै यूयम् अचारिष्ट नेतरान् नेतरान् आद्रियमाणा इति। अथ वै वो मनसान्वासिष्मह इत्य् अब्रुवन्न् अन्व् एव न आभजतेति॥1.154॥


नेत्य् अब्रुवन्। साधुविभक्ता नो लोकास् तान् न शक्ष्यामस् संलोभयितुम् इति। ते ऽब्रुवन् यद् वयम् इह स्वयं पश्यामस् तद् अस्माकम् अस्त्व् इति। तेभ्य एता कलिन्दाः प्रायच्छन्न् एतासु श्राम्यतेति। तद् यत् कलिभ्यः कलिन्दाः प्रायच्छंस् तत् कलिन्दानां कलिन्दत्वम्। स एतत् कलिर् वैतदन्यस् सामापश्यत्। तेनास्तुत। तेनेमम् अवान्तरदेशं दुर्यन्तं लोकम् अपश्यत्। तम् अजयत्। तद् एतल् लोकवित् साम। विन्दते लोकम् एतेन तुष्टुवानः। गन्धर्वलोकतां ह त्वाव नातिजयति गन्धर्वलोकताम् इवैव जयति। यद् उ कलिर वैतदन्यो ऽपश्यत् तस्मात् कालेयम् इत्य् आख्यायते॥

देवा वै पूर्वाभ्यां सवनाभ्यां तृतीयसवनं प्रवृह्य स्वर्गं लोकम् आयन्। त इमे लोका व्यवृह्यन्त वि यज्ञो ऽवृह्यत। ते देवा अकामयन्त सम् इमान् लोकान् दध्याम सं यज्ञं दध्यामेति। त एतत् सामापश्यन्। तेनास्तुवत। तेनेमान् लोकान् समदधुस् सं यज्ञम् अदधुः। तद् यद् इमान् लोकान् समदधुस् तद् वा अस्य स्वर्ग्यम्। तेन गन्धर्वलोकताम् अतिजयति। तरो वै यज्ञस् स्तोमो विदद्वसुः। यज्ञेन च वाव ते तत् स्तोमेन चेमान् लोकान् समदधुस् सं यज्ञम् अदधुः। यज्ञेन चैवास्य स्तोमेन च यज्ञस् संहितो भवतीमे च लोका य एवं वेद॥

सोमो ह खलु वै राजा कालेयम्। सदेवो हास्य यज्ञो भवति। यथा ह वा इदं बद्धवत्सा हिंकरी तुरीयत्य् एवं ह वाव तम् इन्द्रस् सोमम् आगच्छति यस्मिन् कालेयेन स्तुवन्ति। तस्माद् उ हैतस्मात् साम्नो नैव कदा चनेयात् सेन्द्रो मे सदेवो यज्ञो ऽसद् इति। सेन्द्रम् एवैतेन सदेवं यज्ञं कुरुते॥

तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व एव तत् प्रतितिष्ठति॥1.155॥


द्वे वावेदम् अग्रे सवने आस्ताम्। द्वाभ्यां वावेदं सवनाभ्यां देवा अग्रे व्यजयन्त। तान् विजित्य यथालोकम् आसीनान् इन्द्र एत्याब्रवीत् त्रीणि छन्दांसि त्रयः प्राणापानव्यानास् त्रय इमे लोकास् त्रिर् देवेष्व् इत्य् आहुः। एतेमानि त्रीणि सवनानि करवामेति। ते ऽब्रुवन् न शक्ष्यामो ऽनेन न्वाव वयं पूर्वेण कर्मणा परिश्रान्तास् स्म इति। स इन्द्रो ऽब्रवीत् स वा अहं मद् एवाधि तृतीयसवनं निर्मिमा इति। स आत्मन एवाधि तृतीयसवनं निरमिमीत। तद् इन्द्रो ह वा एतद् देवतानां यत् तृतीयसवनम्। इन्द्रेण हास्य देवतानां स्तुतं भवति य एवं विद्वांस् तृतीयसवनेन स्तुते॥

धीतम् इव वै तृतीयसवनम्। जागतं सुपर्ण आहरन्न् अधयत्। तद् एतद् पीडितम् इव। स्वादिष्ठया इति। स्वदयन्त्य् एवैनत् तेन। मदिष्ठया इति। रसम् एवास्मिंस् तन्मदं दधति। आशिरम् अवनयन्ति पशुना चरन्त्य् ऐवैतेन प्याययन्ति॥

रक्षोहा विश्वचर्षणीर् अभि योनिम् अयोहते इति पूर्वयोर् एवैष सवनयोर् अभिसंक्रमः। तासु गायत्रम् उक्तब्राह्मणम्॥1.156॥


अथ संहितं द्व्यक्षरणिधनं प्रतिष्ठायै। द्विपाद् वै यजमानः प्रतिष्ठित्यै॥

देवासुरा अस्पर्धन्त। तेऽब्रुवन् यन् न इदम् उभयं धनं तत् संनिदधामहै। तेषां नो यतरे जयन्ति तेषां न एतद् उभयं धनं संहितम् अस्त्व् इति। तद् यद् एषाम् उभयं धनम् आसीत् तत् संन्यदधत। ते देवा अकामयन्तोभयम् इदं धनं संहितं जयेमेति। त एतत् सामापश्यन्। तेनास्तुवत। तेनोभयं धनं संहितम् अजयन्। तद्यद् उभयं धनं संहितम् अजयंस् तत् संहितस्य संहितत्वम्। उभयम् एव संहितं द्विषन्तं भ्रातृव्यं जयति य एवं वेद॥

तद् उ होवाचारुणिर् अश्वो वाव स संहित आसीत्। तस्मिन्न् एवैषां तद् धनं संहितम् आसीत् तम् एव तद् असुराणाम् अवृञ्जत प्रजापतिं वावैषां तद् अवृञ्जतेति। ततो वै देवा अभवन् परासुराः। भवत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद॥1.157॥


अथो हैतद् अविच्छिन्नम् इव वै माध्यंदिनात् सवनात् तृतीयसवनम्। ते देवा एतद् व्यवेक्ष्याविदुर् अविच्छिन्नम् इव वा इदं माध्यंदिनात् तृतीयसवनम् इति। त एतत् सामापश्यन्। तेनैतत् समदधुः। यत् समदधुस् तद् व् एव संहितस्य संहितत्वम्। संहितं हास्यैतत् तृतीयसवनम् अनवच्छिन्नं भवति य एवं वेद॥

उष्णिक्ककुब्भ्यां वा इन्द्रो वृत्राय वज्रम् उदयच्छद् गायत्र्योस् तिष्ठन्। ते एनं नोदयच्छताम्। तयोश् चतुष्पादः पशून् उपादधाद् गां चाश्वं चाजां चाविं च। ते एनम् उदयच्छताम्। स उष्णिक्ककुभोस् तिष्ठन् सभपौष्कले बाहू कृत्वा प्राहरत्। तम् अहन्। हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद॥1.158॥


स प्राचान्येन पदा प्राभ्रंशत प्रतीचान्येन। येन प्राचा प्राभ्रंशत् सा ककुब् अभवत्। तस्मात् ककुभः पूर्वार्धे ऽक्षराणि भूयिष्ठानि। अथ येन प्रतीचा प्राभ्रंशत सोष्णिग् अभवत्। तस्माद् उष्णिहो जघनार्धे ऽक्षराणि भूयिष्ठानि। ते वा एते छन्दसी धेनुश् चैवानड्वांश् च। तस्मात् पशवः पूर्वार्धेन च जघनार्धेन च भूयिष्ठं भाजयन्ति वहन्ति पूर्वार्धेन दुह्रे च जघनार्धेन प्र च जनयन्ति। उभयं धेनुपयसं चानडुत्पयसं चावरुन्द्धे य एवंवेद॥1.159॥


तासु सभं यज्ञस्यैव सभतायै। यद् ध वै किं च यज्ञस्य दुष्टुतं दुश्शस्त विधुरं तस्य ह वा एतत् सभतायै। सभम् अविभम् असद् इति ह वा एतेन स्तुवन्ति। साभं ह वा एतन् नाम॥

सभेन वै देवा असुराणां तेजो बलम् इन्द्रियं वीर्यं पशून् अन्नाद्यं सभेन सभम् आत्मानम् अध्यकुर्वत। तत् सभस्य सभत्वम्। सभेनैव द्विषतो भ्रातृव्यस्य तेजो बलम् इन्द्रियं वीर्यं पशून् अन्नाद्यं सभेन सभम् आत्मानम् अधिकुरुते य एवं वेद॥

प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपाक्रामन्। सो ऽकामयत न मत् पशवो ऽपक्रामेयुर् अभि मा वर्तेरन्न् इति। स एतत् सामापश्यन्। तेनास्तुत। ततो वै तं पशवो ऽभ्यावर्तन्त ततो ऽस्माद् अनपक्रामिणो ऽभवन्। सो ऽब्रवीत् सभो वै पशुभिर् अभूवम् इति। तद् व् एव सभस्य सभत्वम्। सभो हाविभः पशुभिर् भवति य एवं वेद॥

तद् उ काकुभं स्वारं भवति। प्राणो वै स्वारं पुरुषच्छन्दसं ककुभि। ज्यैष्ठ्यं वै प्राणो ज्यैष्ठयं पुरुषः। ज्यैष्ठ्येनैव तज् ज्यैष्ठ्यं संदधाति ज्यैष्ठ्येन ज्यैष्ठ्ये प्रतितिष्ठति। अथो यजमानम् एव तत् प्राणेन समृद्धयन्ति। सम् अस्मा ऋध्यते य एवं वेद॥

तान् एकरूपान्न व्यजानात्। स एतत् पौष्कलं सामापश्यत्। तेनैषां रूपाणि व्यकरोत्। ते नानारूपा अभवन् श्वेतो रोहितः कृष्णः। एकरूपा ह वाव ते ततः पुरासू रोहिता एव। बहुरूपान् नानारूपान् पशून् अवरुन्द्धे बहुपशुर् भवति य एवं वेद॥

अथ पौष्कलम्। पुष्कल आङ्गिरसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ पुष्कल आङ्गिरसो ऽपश्यत् तस्मात् पौष्कलम् इत्य् आख्यायते। तच् चतुरक्षरणिधनं भवति। चतुष्पदा वै पशवः। पशव इव उष्णिक्। अभि पूर्वाणाम् एव पशूनाम् अवरुद्ध्यै॥1.160॥