प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तानि वा एतानि त्रीणि सन्ति द्विदेवत्यान्य् ऐन्द्रावारुणम् ऐन्द्राबार्हस्पत्यम् ऐन्द्रावैष्णवम् इति। एतावतैताप् षड् कामदुघा उदाहरन् गां चाश्वं चाजां चाविं च व्रीहिं च यवं च। उपैनम् एताष् षट् कामदुघास् तिष्ठन्ति य एवं वेद॥

एतावान् वाव यज्ञो यावान् अग्निष्टोमः। तद् आहुर् यद् एतावान् एव यज्ञो यावान् अग्निष्टोमस् तस्मिन्न् अन्तर्गते किम् अभ्युक्तानि प्रणयन्तीति। स ब्रूयाद् यज्ञायज्ञीयस्यैकाद् अक्षराद् ऊना ऋचः। तद् यज्ञस्य छिद्रं तद् अभिप्रणयन्तीति। प्रवतीभ्यः प्रणयन्त्य् एहिवतीषु। प्रेति च वा इदं सर्वम् एति च। यज्ञम् एवास्मिंस् तत् सम्यञ्चं दधाति॥

आग्नेयीषु प्रणयन्त्य् आग्नेयीभ्यः। यथाग्नाव् अग्नीन् अभिसमादध्यात् तादृक् तत्। यो वा एकम् अग्निं सन्तं बहुधा विहरेद् बहवस् स्युः। य एनान् बहून् सतस् सार्धं संहरेद् एक एव स्यात्। स यथाग्नाव् अग्नीन् अभिसमादध्यात् तादृक् तत्॥1.181॥


तासु साकमश्वम्। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। तद् एनान् अश्व एव भूत्वा स्वर्गं लोकम् अवहत्। ते ऽब्रुवन् स्वर्गं लोकं गत्वा साकं वा अश्वेन स्वर्गं लोकम् अगन्मेति। तद् एव साकमश्वस्य साकमश्वत्वम्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद॥

प्रमंहिष्ठीयं भ्रातृव्यवान् कुर्वीत। इन्द्रो वृत्राय वज्रम् उदयच्छत्। तं नाशक्नोत् प्रहर्तुम्। स यदैव प्र इत्य् अपश्यद् अथैनम् अहन्। हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। यद् उ प्र इत्य् अपश्यत् तस्मात् प्रमंहिष्ठीयम् इत्य् आख्यायते॥

सत्रासाहीयं कुर्वीत यस्य त्वद् इवाजितं स्यात्। इन्द्रो ऽसुरान् अजयत्। तेषां त्वान् इव नाजयत्। सो ऽकामयत सत्रा सर्वान् असुरान् सहेयेति। स एतत् सामापश्यत्। तेनास्तुत। तेन सत्रा सर्वान् असुरान् असहत। तद् यत् सत्रा सर्वान् असुरान् असहत तत् सत्रासाहीयस्य सत्रासाहीयत्वम्। सत्रा द्विषन्तं भ्रातृव्यं सहते य एवं वेद॥

दैवोदासं पुरोधाकामः कुर्वीत। आग्नेयो ब्राह्मण ऐन्द्रो राजन्यः। आग्नेयैन्द्रम् एतत् साम। ब्रह्म वा अग्निः क्षत्रम् इन्द्रः। ब्रह्मणैवैतत् क्षत्रं दधार क्षत्रेण ब्रह्म। तथा हास्माद् राष्ट्रम् अनपक्रामि भवति गच्छति पुरोधां पुर एनं दधते॥1.182॥


हारिवर्णं ब्रह्मसाम रक्षोगृहीतः कुर्वीत। आङ्गिरसस् स्वर्गं लोकं यत एभ्यो लोकेभ्यो रक्षांस्य् अन्वसचन्त। ते ऽकामयन्ताप रक्षांसि हनीमहीति। स एतद् धरिवर्ण आङ्गिरसस् सामापश्यत्। तेनास्तुत। तेनैभ्यो लोकेभ्यो रक्षांस्य् अपाघ्नत। हरिश्रियम् इत्य् एवास्माल् लोकात् विराजसि इत्य् अन्तरिक्षात् दिवेदिवे इत्य् अमुष्मात्। ततो वै ते सर्वेभ्य एभ्यो लोकेभ्यो रक्षांस्य् अपहत्य स्वर्गं लोकम् आरोहन्। सर्वेभ्य एवैभ्यो लोकेभ्यो रक्षांस्य् अपहत्य स्वर्गं लोकम् आरोहति य एवं वेद। यद् उ हरिवर्ण आङ्गिरसो ऽपश्यत् तस्माद् धारिवर्णम् इत्य् आख्यायते॥1.183॥


त्रैतं नाथकामः कुर्वीत। आप्त्यान् साते नयतो ऽरण्ये पिपासाविन्दत्। ते धन्वन् कूपम् अविन्दन्। तन् नैकतो ऽवरोढुम् अकामयत न द्वितः। तत् त्रितो ऽवारोहत्। तौ यदापिबताम् अतृप्यताम् अथ हैनं तद् एव रथचक्रेणापिधाय गोभिः प्रैताम्। सो ऽकामयतोद् इत इयां गातुं नाथं विन्देयेति। स एतत् सामापश्यत्। तेनास्तुत। स सम् इन्दुभिः इत्य् एव निधनम् उपैत्। तं पर्जन्यो वृष्ट्योर्ध्वम् उदप्लावयत्। अभि हि तद् रथचक्रम् उत्प्लावयांचकार येनापिहित आस। तद् एतद् गातुविन् नाथवित् साम। गातुं वै स तं नाथम् अविन्दत। विन्दते गातुं नाथं य एवं वेद॥

स पदेनान्वैत्। तं प्रतिख्यायायन्तम् ऋक्षो ऽन्यो भूत्वा मर्कटो ऽन्यो वनम् अवास्कन्दताम्। तद् उ भ्रातृव्यहा साम। भ्रातृव्यतां वाव तस्य ताव् अगच्छतां याव् ऋक्षं च मर्कटं चाकरोत्। अथो हास्मै वर्षुक एव पर्जन्यो भवति। तद् उ पशव्यम् एव। केवलान् वै स तान् पशून् अकुरुत। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद॥

यद् उ त्रित आप्त्यो ऽपश्यत् तस्मात् त्रैतम् इत्य् आख्यायते॥1.184॥


त्रैककुभम् अन्नाद्यकामः कुर्वीत। इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत्। तेषाम् अद्यमानानां त्रयः कुमाराः पर्यशिष्यन्त रायोवाजः पृथुरश्मिर् बृहद्गिरिः। त इन्द्रम् अस्तुवन्। तान् अब्रवीत् किंकामाः कुमारास् स्तुथेति। बिभृह्य् एव नो मघवन्न् इत्य् अब्रुवन्। तान् अन्तरांसयोर् अध्यास्यत। ता अस्य तिस्रः ककुभो ऽलम्बन्त। इमे वै लोकास् सह सन्तस् त्रेधा व्यायन्। तांस् ते सान्नाद्यम् अनुव्यैनो उ। एषां त्रयाणां लोकानां तिस्रः ककुभो ऽन्नाद्यम् अवलम्बत। स ऐक्षतैषां चेद् वै त्रयाणां लोकानां तिस्रः ककुभो ऽन्नाद्यम् अवारुन्धते नेमास् तिस्रः ककुभो ऽन्नाद्यम् ऽवहरेयेति। स एतत् सामापश्यत्। तेनास्तुत। तेनैषां त्रयाणां लोकानां तिस्रः ककुभो ऽन्नाद्यम् ऽवारुन्धत। तेनेमास् तिस्रः ककुभो ऽवाहरत। तद् यद् एतेषां त्रयाणां लोकानां तिस्रः ककुभो ऽन्नाद्यम् अवारुन्धत तत् त्रैककुभस्य त्रैककुभत्वम्। तद् एतद् अन्नाद्यस्यावरुद्धिस् साम। अवानाद्यं रुन्द्धे ऽन्नादश् श्रेष्ठस् स्वानां भवति य एवं वेद॥1.185॥


त्रीन्द्रियं वा एतत् साम। ऐन्द्रीर् ऋच ऐन्द्रस् साम। इन्द्रः इति निधनं भवति। त्रीणि पुरुष इन्द्रियाण्य् आत्मा प्रजाः पशवः। तान्य् एवैतेनात्मन् परिगृह्णीते॥

तान् अब्रवीत् किंकामो वा एकः किंकाम एकः किंकाम एक इति। सो ऽब्रवीद् रायोवाजः पशुकामो ऽहम् अस्मीति। तस्मा इळां प्रायच्छत्। पशवो वा इळा। अथाब्रवीत् पृथुरश्मिः क्षेत्रकामो ऽहम् अस्मीति। तस्मै क्षेत्रं प्रायच्छत्। स एव पृथुर् वैन्यः। अथाब्रवीद् बृहद्गिरिर् अन्नाद्यकामो ऽहम् अस्मीति। तस्मा अथकारं प्रायच्छत्। अन्नं वा अथकारः॥

सौभरं प्रजाकामः कुर्वीत। हुस् इति निधनम् उपेयात्। सौभरम् अन्नाद्यकामः कुर्वीत। ऊर्क् इति निधनम् उपेयात्। सौभरं वृष्टिकामः कुर्वीत। हिस् इति निधनम् उपेयात्। सौभरम् उद्ग्रहणकामः कुर्वीत्। उत् इति निधनम् उपेयात्। सौभरं स्वर्गकामः कुर्वीत। ऊ इति निधनम् उपेयात्॥

भारद्वाजायनान् ह सत्त्रम् आसीनान् पप्रच्छुः केन प्रजाकामा अस्तोढ्वम् इति। सौभरेणेति। केनान्नाद्यकामा इति। सौभरेणेति। केन वृष्टिकामा इति। सौभरेणेति। केनोद्ग्रहणकामा इति। सौभरेणेति। केन स्वर्गकामा इति। सौभरेणेति। एवम् इव वा एतत् साम। एते वा एतस्मिन् कामा। एतान् एव कामान् अवरुन्द्धे। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते॥1.186॥


सौभरं ब्रह्मसाम कुर्वीत यः कामयेता मे प्रजायां सूपकाशो दर्शनीयः क्षत्रियरूपं पुरुषरूपो जायेतेति। तेजो वै पुरुषस्य प्रजा तेजस् सौभरम्। बृहत् क्षत्रम्। बृहतः क्षत्रियस्यो एषा प्रजा। आ हैवास्य प्रजायां सूपकाशो दर्शनीयः क्षत्रियरूपं पुरुषरूपो जायते य एवं वेद॥

प्रजापतिः प्रजा असृजत। ता अस्य सृष्टाः पराभवन्। तद् इदं सरीसृपम् अभवद् यद् अन्यत् सर्पेभ्यः। स द्वितीया असृजत। ता अस्य परैवाभवन्। ते मत्स्या अभवन्। स तृतीया असृजत। ता अस्य परैवाभवन्। तानि वयांस्य् अभवन्। स चतुर्थीर् असृजत। स ऐक्षत कथं नु म इमाः प्रजास् सृष्टा न पराभवेयुर् इति। स एतत् सामापश्यत्। तेनैना ऊर्क् इत्य् एवाभ्यमृशत्। ता अस्योर्जा समक्ता अवर्धन्त। सो ऽब्रवीत् सुभृतं वा इमाः प्रजा अभार्षम् इति। तद् एव सौभरस्य सौभरत्वम्। सुभृतां प्रजां बिभर्ति य एवं वेद॥1.187॥


नार्मेधेनातिरात्रे ऽच्छावाकाय स्तुवन्ति। इळया रात्रिम् अभिसंतन्वन्ति। तद् आहुर् यन्ति वा एते ऽनुष्टुभो य उष्णिक्ष्व् अच्छावाकसाम कुर्वन्तीति। अर्वाग् उष्णिहश् च खलु वा एतासाम् एका मध्य उष्णिग् एकापर उष्णिग् एका। नवधृतं छन्दो नवधृतं वाक् वदति। वाग् अनुष्टुप्। तेनानुष्टुभो न यन्ति। यैतासाम् उत्तमा सा प्रत्यक्षानुष्टुप्। तेनो वावानुष्टुभो न यन्ति। यथा ह वा इदं मधुकृतः पुष्पाणां रसान् संभरन्त्य् एवं ह वा एता देवताश् छन्दसां रसान् समभरन्। छन्दसां हास्य रसेन स्तुतं भवति य एवं वेद॥

अहोरात्रयोर् ह खलु वा एतद् रूपं साम। ऐन्द्राग्नेयं तत् साम। ऐन्द्रम् अहर् आग्नेयी रात्रिः। यो ह वा एतस्मात् साम्नो ऽतिरात्र इयाद् अहोरात्रयोर् ह वै स् रूपेण विवृह्येत। स य एनं तत्र ब्रूयाद् अहोरात्रयोर् एनं रूपेण व्यवृक्षद् इति तथा हैव स्यात्। तस्माद् उ हैतस्मात् साम्ना ऽतिरात्रे नैतव्यम्॥1.188॥


क्षेपीयसी ह खलु वै रात्रिर् अह्नः। एहीळं भवत्य् अप्रवर्हाय॥

यद् ऋचश् च साम्नश् चात्यरिच्यत तद् उद्वंशीयम् अभवत्। स हर्चा च साम्ना च प्रतितिष्ठति य एवं वेद। तद् अनृशंसस्य कुर्यान् न नृशंसस्य - परिमितजीवी हि नृशंसो ऽतिरिक्तजीव्य् अनृशंसः - अतिरिक्तस्यैवावरुद्ध्यै। अथ ह वा एतेन देवास् साम्ना वंशम् इवोद्यत्यासुरान् अभ्यत्यक्रामन्। यद् उद्वंशम् इवोद्यत्यासुरान् अभ्यत्यक्रामंस् तद् उद्वंशीयम् अभवत्। तद् उद्वंशीयस्योद्वंशीयत्वम्। अभ्य् अजितं जयति न जितं पराजयते य एवं वेद॥

सर्वेषां वा एतत् पृष्ठानां रूपं साम गायन्ति त्वा गायत्रिणः इति गायत्रस्य अर्चन्त्य् अर्कम् अर्काविणा इति रथन्तरस्य ब्रह्माणस् त्वा होयि शतक्रताव् इति बृहतः उद्वंशम् इव यायिमिरायि इति वैरूपस्य उद् वंशामि इति पुनर् नित्तिन्वं वैराजस्य वायावुवाउम् इति महानाम्नीनां या इरा इति रेवतीनां हाई इति वामदेव्यस्य। सर्वस्मिन्न् एवैतत् पृष्ठरूपो रसे तेजस्य् अपराजिते छन्दसि यज्ञस्यान्ततः प्रतितिष्ठति॥1.189॥


सर्वो ह खलु वै षोडशिमान्। यत्रोद्वंशीयं क्रियत उत्तमं पदं पुनर् अभ्यस्यति। षोडश्य् एव तेन रूपेण क्रियते। वज्रो वै भ्रातृव्याय षोडशी। वज्रम् एवैतद् द्विषते भ्रातृव्याय प्रहरति स्तृत्यै॥

तमो वै देवासुरान् अन्तरासीत्। ते देवा एतम् अर्धेळम् अपश्यन्। तेनैनद् द्वियानम्। यं द्विष्यात् तं मनसा ध्यायेत्। एतम् अर्धेळम् उपावयन्त्य् एव। एनम् एत्य् अध्यर्धेळं स्वरति तस्माद् धूपर्धरा अतिक्षरन्ति॥

अषाढो ह सावयसो ऽतिरात्रेणेजे। तद् उ हातिधन्वश् शौनकः प्रसुप्त आस। स होद्वंशीयम् अतिरात्रे ऽच्छावाकसाम चक्रे। तं होवाच मैवं कुरुत पलिप्तेळ स्वरः परस्ताद् अप्रतिष्ठितः पारिचर्यस्य रूपम् इति। स होवाच तां वै वयं कृत्स्नाम् इळाम् उपेत्य स्वरेणैव संतत्य रात्रिं प्रवत्स्यामहा इति। नेति हेतर उवाच। इन्द्रो वाव तेन साम्नासुरान् अन्वभ्यवैत्। ते बलं स्वरं विदित्वा प्रत्याद्रवन्। तं प्राकुर्वत। स प्रकृत एतम् अर्धेळं न्यहन्। त्राणाय वा एष यद् अर्धेळम् इति॥1.190॥