प्रमुखा विकल्पसूचिः उद्घाट्यताम्

नार्मेधं नाथकामः कुर्वीत। नृमेधश् च वै सुव्रतश् च भ्रातरौ। तौ ह निकात्वियादधाते। स ह नृमेधस् सुव्रतस्योज्जगौ। तद् ध यज्ञायज्ञीयेनैवास्तुतम् आस। अथ हैनम् आसस्रुः। यजमानस्य वै त उद्गातुः पुत्रौ पुत्रम् अमीमरताम् अन्तकधृतिं सौव्रतिं नकिरश् च शकपूतश् चेति। तं ह बाहू परामृशन्न् उवाच ब्राह्मणा एष वो यज्ञस् तेन यं कामयन्ते तं याजयतानेन न्वा अहं तद् याजयिष्य इति। तं हौदुम्बर्याम् अनुवेष्ट्य शणशलाकाभिर् उपादीपयांचकार। सो ऽकामयतोद् इत इयां गातुं नाथं विन्देय न मायम् अग्निर् दहेद् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स गातुं नाथम् अविन्दत नैनम् अग्निर् अदहत्। अपि ह तच् छुल्बकं प्रददाह येनानुवेष्टित आस। तद् एतद् गातुविन् नाथवित् साम। गातुं वै स नाथम् अविन्दत। विन्दते गातुं नाथं य एवं वेद। यद् उ नृमेधो ऽपश्यत् तस्मान् नार्मेधम् इत्य् आख्यायते॥1.171॥


दाशस्पत्यं श्रैष्ठ्यकामः कुर्वीत। देवासुरा अस्पर्धन्त। ते देवा इन्द्रम् उपाधावंस् त्वयाधिपत्येदं जयामेति। स इन्द्रो ऽकामयत जयेमासुरान् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै देवा असुरान् अजयन्। तस्मै विजित्यासीनाय दशपतये - दशपतय आ इत्य् अवोद्धारान् उदहरन्। तद् एव दाशस्पत्यस्य दाशस्पत्यत्वम्। उद्धारं हरत उद्धार्यो भवति य एवं वेद॥

विशोविशीयम् अन्नाद्यकाम कुर्वीत। अग्निर् वा अकामयत विशोविश एवान्नादश् श्रेष्ठो ऽधिपतिस् स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स विशोविश एवान्नादश् श्रेष्ठो ऽधिपतिर् अभवत्। तत एनम् विशोविशो व्यवाहरन्त। तद् यद् एनं विशोविशो व्यवहरन्ति तद् विशोविशीयस्य विशोविशीयत्वम्। स हैष विशोविश एवान्नादश् श्रेष्ठो ऽधिपतिः। विशोविश एवान्नादश् श्रेष्ठो ऽधिपतिर् भवति य एवं वेद॥

वारवन्तीयं पशुकामः कुर्वीत। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपाक्रामन्। तान् वारवन्तीयेनैवावारयत। यद् अवारयत तद् वारवन्तीयस्य वारवन्तीयत्वम्। तद् यद् वारवन्तीयम् अग्निष्टोमसाम भवति पशूनाम एवोपस्थित्यै पशूनाम् अनपक्रमाय॥1.172॥


यो वै यज्ञस्योधर् वेद प्रत्तं यज्ञं दुहे। यज्ञायज्ञीयं वा यज्ञस्योधः। तस्यैते स्तना गायत्रं रथन्तरं च बृहच् च वामदेव्यं च। तद् गायत्रम् इव प्रस्तुयात्। रथन्तरस्येव स्तोभान् स्तोभेत्। बृहत इव रोहान् रोहत्। हिंकारो वामदेव्यं स्वयम् एव यज्ञायज्ञीयम्। एतद् वै यज्ञं यजमानो दुहे। स हेष्ट्वैव श्रेयान् भवति। यज्ञायज्ञा वो अग्नये इति भवति। एष ह वै यज्ञोयज्ञो यद् यज्ञायज्ञीयम्। यज्ञंयज्ञं वहतीति ह वै यज्ञायज्ञीयस्य यज्ञायज्ञीयत्वम्॥

एतेन ह स्म वै पुरा सर्वाणि स्तोत्राणि स्तुवन्ति। तद् आहुर् ऊर्ध्वा वा एते स्वर्गं लोकं रोहन्ति ये यजन्ते। त ईश्वराः पराञ्चो ऽतिपत्तोर् इति तद् यज्ञायज्ञीयेनोपरिष्टात् स्तुवन्ति। इयं वै यज्ञायज्ञीयम्। अस्याम् एवैतत् प्रतितिष्ठन्ति। अप उपनिधाय स्तुवन्ति -- अग्निर् वा एष वैश्वानरो यद् यज्ञायज्ञीयं -- तस्य शान्त्या अप्रदाहाय॥

ऊरुभ्यां पत्न्य् उपप्रवर्तयति। अग्निम् एव तद् वैश्वानरं शमयति। नग्नम् इवोरुं कृत्वोपप्रवर्तयति। नग्नम् इव ह्य् ऊरुं कृत्वा पत्नी वीर्यं करोति। तां संख्यापयन्ति रेतोधेयाय। तद् आहुर् आ वा एतत् प्रत्युद्गातुः प्रजां दत्ते यद् विगीते सामन् संख्यापयन्तीति॥1.173॥


तां प्रतिसमीक्षेत वामी नाम संदृशि विश्वा वामानि धीमहि इति। प्रजा वै वामम्। प्रजाम् एव तद् आत्मन् धत्ते। वृष्णस् ते वृष्ण्यावतो विश्वा रेतांसि धीमहि इतीतरा प्रतिसमीक्षते॥

तद् आहुः प्रावृत उद्गायेत् -- अग्निर् वा एष वैश्वानरो यद् यज्ञायज्ञीय - तस्य शान्त्या अप्रदाहायेति। ईश्वरो ह तु पितृदेवत्यो भवितोर् यत् प्रावृत उद्गायेत्। अथो आहुर् यावद् एव श्रोत्रं तावत् प्रावृत्योद्गायेद् इति। तद् उ वा आहुः कर्णाभ्यां वै शृणोत्य् अक्षिभ्यां पश्यति। तस्माद् आत्मानम् अन्तर्याद् यत् प्रावृत उद्गायेत्। अथो आशिरं वै तृतीये सवने ऽवनयन्ति। प्रजा वै पशव आशीः। तस्मात् सर्वस्माद् आत्मानम् अन्तर्यात् प्रावृत उद्गायेत्। अप्रावृत एवोद्गायेद् इति॥1.174॥


वयो वै यज्ञायज्ञीयम्। स यं कामयेत यजमानं स्वर्गलोकस् स्याद् इति वयो यज्ञा वो अग्नये इत्य् अस्य प्रस्तुयात्। वय एवैनं शकुनो भूत्वा स्वर्गं लोकं वहति। तद् उ तद् अनायुष्यम् इव। प्रधमितम् इव वा एतद् यद् वयो ऽनालयम् इव। तस्माद् एवं न प्रस्तुयात्॥

ओ यिरा यिरा चा दाक्षासा इति यत् गिरा गिरा च इति ब्रूयाद् अग्निर् वैश्वानरो यजमानं गिरेत्। अथ यत् ओ यिरा यिरा चा दाक्षासा इत्य् आह - अन्नं वा इरा - अन्नाद्यम् एव तद् अग्नेर् वैश्वानरस्य मुखतो ऽपिदधाति। ईश्वरो ह तु रूक्षो भवितोर् यद् ओ यिरा यिरा चा दाक्षासा इति ब्रूयात्। ओ यिरा इहा चा दाक्षासा इत्य् एव ब्रूयात्॥1.175॥


तथा ह न रूक्षो भवति॥

एतद् ध स्म वै तत् पूर्वे ब्राह्मणा मीमांसन्ते क उ स्विद् अद्य शिंशुमार्यै व्यात्तम् अतिप्रोष्यत इति। एषा ह वा एकायने शिंशुमारी प्रतीपं व्यादाय तिष्ठति यद् यज्ञायज्ञीयम्। तस्या एतद् अन्नाद्यम् एव मुखतो ऽपिधाय स्वस्त्य् अत्येति॥

पोप्रिं वयम् अमृतं जातो वा इति। यत् प्रप्र वयम् इति ब्रूयात् प्रमायुको यजमानस् स्यात्। अथ यत् पोप्रिम् इत्य् आहैष एवास्मै पोप्रिर् भवति॥

हिं मायि दायिवम् इति। यत् दासम् इति ब्रूयाद् दंसुको यजमानस् स्यात्। अथ यत् दायिवम् इत्य् आह - दिवं संस्तुतो यज्ञो गमयितव्य इत्य् आहुः - दिवम् एवैतत् संस्तुतं यज्ञं गमयन्ति॥

प्रियं मित्रं नु शंसिषम् इति। यत् प्रियं मित्रं न शंसिषम् इति ब्रूयान् न प्रियं मित्रं शंसेत। अथ यत् प्रियं मित्रं नु शंसिषम् इत्य् आह प्रियम् एव मित्रं शंसते॥1.176॥


प्रायां मायित्रान् नू शांसीषाम् ऊर्जो नपातं स ह्य् आयुमा इति। यत् नायुमा इति ब्रूयान् नायुष्मान् यजमानस् स्यात्। अथ यत् आयुमा इत्य् आहायुर् एवैतद् उद्गातात्मंश् च यजमाने च दधाति॥

हिं मायास्मायूः आशेमा हव्यदातायाउवा इति। यत् दाशेम इति ब्रूयाद् दंशुका एनं स्युः। अथ यद् आशेमा इत्य् आहाश्नुत एव॥

आशेमा हाव्यादातायायि भुवद् वाजेष्व् अविता भूवाद् धिं मायि वार्धा इति। वृद्ध इव ह्य् एतर्हि यज्ञो भवति॥

उत त्राता बहूनाम् इति। यत् तनूनाम् इति ब्रूयात् तनुर् इव यजमानस् स्यात्। अथ यत् बहूनाम् इत्य् आह बहूनाम् एवैनम् एतत् त्रातारं करोति॥1.177॥


तद् आहुर् यज्ञायज्ञीयस्यैकाद् अक्षराद् ऊना ऋचः। तद् यज्ञस्य छिद्रम्। यस् तद् उद्गायन् नापिदधाति यज्ञायज्ञीयं छिद्रं करोति। यज्ञायज्ञीयं छिद्रम् अनु यज्ञस् स्रवति यज्ञम् अनु यजमानो यजमानम् अनु प्रजाः। तस्मिन् वाचं दध्यात्। वाग् वै ब्रह्म। उत त्राता वाग् बहूनाउवा इति। गौः इति हैके दधति - गौर् वै कृत्स्नम् अन्नाद्यम् - कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्यै। तद् आहुर् नैतद् आद्रियत। यद् वाव वाङ्निधनं भवति तेनैव संधीयत इति॥

तद् आहुर् यथापूर्वं यथाज्यैष्ठ्यं छन्दांसि विमुच्यानि छन्दसां क्लृप्तिं विमुक्तिम् अनु प्रजाः कल्पान्ता इति। यज्ञा वो अग्नये इति षड्भिर् अक्षरैः प्रस्तौति। गिरा च दक्षसे इति षड्भिर् अक्षरैर् आदिम् आदत्ते। तद् द्वादश संपद्यन्ते। द्वादशाक्षरा जगती। जगतीं प्रथमतः पर्यूहन्ति। तज् जगत्या विमुच्यन्ते। प्र वयम् अमृतं जातवेदसम् इत्य् एकादशाक्षराणि संपद्यन्ते। एकादशाक्षरा त्रिष्टुप्। तत् त्रिष्टुभा विमुच्यन्ते। प्रियं मित्रं नु शंसिषम् इत्य् अष्टाभिर् अक्षरैर् निधनम् उपयन्ति। अष्टाक्षरा गायत्री। तद् गायत्र्या विमुच्यन्त। तद् यथापूर्वं यथाज्यैष्ठ्यं छन्दांसि विमुच्यमानानि यन्ति। छन्दसां क्लृप्तिं विमुक्तिम् अनु प्रजाः कल्पन्ते नापरामारी पूर्वी म्रियते॥1.178॥


देवासुरा यज्ञे ऽस्पर्धन्त। ते देवा असुरान् यज्ञान् निरवाघ्नन्। ते ऽसुरास् त्रयाणां सवनानां रसं वीर्यं प्रवृह्यान्धं तमः प्राविशन्। यद् ध वै किं च पराचीनम् अग्निष्टोमात् तद् अन्धं तमः। यत् पराचीनं संवत्सरात् तद् अन्धं तमः। एतावान् वाव यज्ञो यावान् अग्निष्टोमः। एतावान् उ संवत्सरः। द्वादश वा अग्निष्टोमस्य स्तोत्राणि द्वादश मासास् संवत्सरः। द्वादश स्तोत्राणि द्वादश शस्त्राणि। द्वादश पूर्वपक्षा द्वादशापरपक्षाः। अथ यत् ततः पराचीनं तद् अन्धं तमः। तत् प्राविशन्। ते देवा असुरान् अन्वभ्यवायन्। तान् असुरान् एतैर् एवोक्थैः प्रत्युदतिष्ठन्। यद् उक्थैः प्रत्युदतिष्ठंस् तद् उक्थानाम् उक्थत्वम्। तांस् ततो निर् एवावाघ्नन्। ते ऽन्धम् एव तमः प्राविशन्। रात्रिम् एव॥

स इन्द्रो ऽब्रवीत् कश् चाहं चेदम् अन्वभ्यवैष्याव इति॥1.179॥


अहं चेत्य अब्रवीद् वरुणः। अहं वां ज्योतिर् धारयिष्यामीत्य् अग्निर् अब्रवीत्। ताव् अन्वभ्यवैताम्। ताव् एकं तृतीयम् उदाहरताम्। तेन प्रातस्सवनम् आप्याययन्। तस्माद् ऐन्द्रीषु स्तुवन्ति। ऐन्द्रावरुणम् अनुशस्यते। तस्माद् उ गायत्रीषु स्तुवन्ति। गायत्रं हि प्रातस्सवनम्॥

स एवाब्रवीत् कश् चाहं चेदम् अन्वभ्यवैष्याव इति। अहं चेत्य् अब्रवीद् बृहस्पतिः। ताव् अन्वभ्यवैताम्। ताव् एवैकं तृतीयम् उदाहरताम्। तेन माध्यन्दिनं सवनम् आप्याययन्। तस्माद् ऐन्द्रीषु स्तुवन्ति। ऐन्द्राबार्हस्पत्यम् अनुशस्यते। तस्माद् उ ककुप्सु स्तुवन्ति। काकुभं हि माध्यंदिनं सवनम्॥

स एवाब्रवीत् कश् चाहं चेदम् अन्वभ्यवैष्याव इति। अहं चेत्य् अब्रवीद् विष्णुः। ताव् अन्वभ्यवैताम्। ताव् एवैकं तृतीयम् उदाहरताम्। तेन तृतीयसवनम् आप्याययन्। तस्माद् ऐन्द्रीषु स्तुवन्ति। ऐन्द्रावैष्णवम् अनुशस्यते। तस्माद् अनुष्टुप्सु स्तुवन्ति। आनुष्टुभं हि तृतीयसवनम्॥

तान् सर्वस्माद् एवान्तरायन्। ते ऽतो तद् अभि प्रणयन्तीति प्रवतीभ्यः प्रणयन्त्य् एहिवतीषु। प्रेति च वा इदं सर्वम् एति च। ततो वै देवा अभवन् परासुराः। भवत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद॥1.180॥