← कण्डिका २०१-२१० जैमिनीयं ब्राह्मणम्/काण्डम् १
कण्डिका २११-२२०
[[लेखकः :|]]
कण्डिका २२१-२३० →

अहोरात्रयोर् वै देवासुरा अधिसंयत्ता आसन्। ते देवा अहर् अभ्यजयन्। अथासुरा ऋचं च रात्रिं च प्राविशन्। ते देवा अब्रुवन्न् अर्धिनो वा अस्य भुवनस्याभूम कथं सत्रा रात्रिम् अभिजयेम रत्नैर् अन्वभ्यवायमिति। तव छन्दसेत्य् अग्निम् अब्रुवन्। तव स्तोमेनेतीन्द्रम्। तव संपदेति प्रजापतिम्। युष्माकम् आयतननेति विश्वान् देवान्। यद् अग्निम् अब्रुवंस् तव छन्दसेति तस्माद् गायत्रीषु स्तुवन्ति। यद् इन्द्रम् अब्रुवंस् तव स्तोमेनेति तस्मात् पञ्चदशस्तोमो रात्रेः। यत् प्रजापतिम् अब्रुवंस् तव संपदेति तस्माद् अनुष्टुभं संपद्यते। यद् विश्वान् देवान् अब्रुवन् युष्माकम् आयतनेनेति तस्माज् जगत्यो ऽनुशंस्यन्ते। तान् संधिनाभिपलायन्त। आश्विनेनासंहेयम् अगमयन्। असंहेयं ह वै द्विषन्तं भ्रातृव्यं गमयति य एवं वेद॥1.211॥


अहोरात्राभ्यां वै देवा असुरान् निर्हृत्य तांस् त्रिवृतैव वज्रेणाभिन्यदधुः। इमे वै लोकास् त्रिवृतः। एभिर् एवैनांस् तल् लोकैर् अभिन्यदधुः। तस्माद् आहुर् नैव तावद् असुरा अन्वाभवितारो यावद् इमे लोका भवितार इति। एभिर् हि लोकैर् अभिनिहिताः॥

एषा वा अग्निष्टोमस्य च संवत्सरस्य संमा यद् रात्रिः। चतुर्विंशत्यर्धमासस् संवत्सरश् चतुर्विंशति रात्र्या उक्थामदानि। त्रीणि सवनानि त्रयः पर्यायाः। रात्रिम् एव तत् त्रिषवणां कुर्वन्ति। अथो एनां तद् अह्न इव समुत्कल्पयन्ति। अहोरात्रे देवा अभिजित्य ते ऽमुम् आदित्यं सवनैर् एव प्रत्यञ्चम् अनयन्। तं पर्यायैः पुनः प्राञ्चम्। तम् आश्विनेन पुरस्ताद् उदस्तभ्नुवन्। तस्माद् आहुर् नोदिते सूर्य आश्विनम् अनुशस्यम् इति। वि हैनं गमयति। स य एतद् एवं वेद नीतो ऽस्य सवनैर् असाव् आदित्यः प्रत्यङ् भवत्य् आनीतः पुनः पर्यायैः प्राङ् उत्तब्धः पुरस्ताद् आश्विनेन। उभे ऽस्याहोरात्रे स्पृते अवरुद्धे भवतो भोगायास्मा आदित्या केतूंश् चरति॥1.212॥


अथैष राथन्तरस् संधिर् भवति। प्रजापतिर् उषसं स्वां दुहितरं बृहस्पतये प्रायच्छत्। तस्या एतत् सहस्रम् आश्विनं वहतुम् अन्वाकरोत्। स देवान् अब्रवीद् इयम् एव मम युष्माकम् एतद् इतरद् इति। तस्माद् यदानृशंसो जायां विन्दते व्य् एव वहतुम् आदिशति। ते देवा अब्रुवन् वीदं भजामहा इति। तस्य विभागे न समपादयन्। ते ऽब्रुवन्न् आजिम् अस्यायामेति। त आजिम् आयन्। अग्नेः प्रथमो रथ आसीद् अथोषसो ऽथाश्विनोः। ताव् अश्विनाव् अश्वी अश्वीयाम् अत्यकुरुताम्। तौ देवा अब्रुवन् वारो ऽयं वाम् अथ नस् सहास्त्व् इति। तस्मान् नानादेवत्यास् स्तुवन्ति। अथाश्विनम् इत्य् आख्यायते। अग्नये प्रथमाय स्तुवन्त्य् अथोषसे ऽथाश्विभ्याम्। एवं ह्य् एषाम् एता उज्जितयः॥

एकं साम द्वे छन्दसी। द्विपदम् एव तच् चतुष्पात्सु पशुष्व् अध्यूहति। तस्माद् द्विपाच् चतुष्पदः पशून् अधितिष्ठति॥

अनुदिते सूर्ये परिदध्याद् यं कामयेत पापीयान्स्याद् इति पापीयान् एव भवति। व्युषिते परिदध्याद् यं कामयेत नार्वाङ् न परस् स्याद् इति। नैवार्वाङ् न परो भवति। बहुवर्षी ह तु पर्जन्यो भवति। उदिते परिदध्याद् यं कामयेत श्रेयान् स्याद् रुचम् अश्नुवीतेति। श्रेयान् एव भवति रुचम् अश्नुते॥1.213॥


पान्तम् आ वो अन्धसः इत्य् अन्धस्वतीर् भवन्ति। अहर् वा अन्धो रात्रिः पान्तम्। अहोरात्रयोर् एव संतत्या अहोरात्रयोस् समारम्भाय॥

तास्व् ओकोनिधनं वैतहव्यम्। ओकोनिधनेन वै वैतहव्येन देवा असुरान् ओकसओकसो ऽनुदन्त। ओकसओकस एव द्विषन्तं भ्रातृव्यं नुदते य एवं वेद। प्राणा ह खलु वा ओकः। प्राणान् एवैतद् द्विषतो भ्रातृव्यस्य वृंक्ते प्राणान् आत्मन् धत्ते॥

तद् आहुः प्रेव वा एते ऽस्माल् लोकाच् च्यवन्ते ये ऽतिरात्रम् उपयन्तीति। तद् यद् ओकोनिधनं भवति -- अयं वौ लोकः पुरुषस्यौकः -- अस्मिन्न् एवैतल् लोके प्रतितिष्ठति॥

वीतहव्य आश्रायसो ज्योग् अपरुद्धश् चरन्। सो ऽकामयताव स्व ओकसि गच्छेयम् इति। स एतत् सामापश्यत्। तेनास्तुत। स ओकाय इत्य् एव निधनम् उपैत्। ततो वै सो ऽव स्व ओकस्य् अगच्छत्। एतत् कामसनि साम। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते। यद् उ श्रीर् एव राज्यं वै स तद् अगच्छत्। अश्नुते श्रियं गच्छति राज्यं य एवं वेद। यद् उ वीतहव्य आश्रायसो ऽपश्यत् तस्माद् ओकोनिधनं वैतहव्यम् इत्य् आख्यायते॥1.214॥


प्र व इन्द्राय मादनम् इति मद्वतीर् भवन्ति। रसो वै मदः। धीतेवैषा यद् रात्रिः पीडितेव। नाभिषुण्वन्ति। यद् एवादस् तृतीयसवनाद् ऋजीषम् अतिरेचयन्ति तेनास्यां चरन्ति। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्याम् एतद् दधत्य् एव। एनाम् एतेनाप्याययन्ति॥

तासु शाक्त्यम्। शाक्त्येन वै शाक्त्याः पशू्न् अवारुन्धत। तच् छाक्त्यस्य शाक्त्यत्वम्। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। शाक्त्या अन्नाद्यकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते ऽन्नाद्यम् अरुन्धत। तस्य वा एतस्यास्ति यथैव गौरीवितस्यैवम्। अन्नं वै गौरीवितम्। अन्नम् उ वै श्वस्तनम्। अन्नम् उ ह वा इदं सर्वम् अतिरिरिचे। अतिरिक्तेवैषा यद् रात्रिः। अतिरिक्तं रात्र्याम् अन्नाद्यं दधति। तत् स्वारं भवति। प्राणो वै स्वरः। अन्नम् उ वै प्राणाः। तद् एतद् अभिपूर्वस्यैवान्नाद्यस्यावरुद्धिस् साम। अवान्नाद्यं रुन्द्धे ऽन्नादश् श्रेष्ठस् स्वानां भवति य एवं वेद। यद् उ शाक्त्या अपश्यंस् तस्माच् छाक्त्यम् इत्य् आख्यायते॥1.215॥


वयम् उ त्वा त्वदिदर्थाः इति काण्वम्। कण्वो वै नार्षदो ज्योग् अप्रतिष्ठितश् चरन् सो ऽकामयत प्रतितिष्ठेयम् इति। स एतत् सामापश्यत्। तेनास्तुत। स रन्ताया इत्य् एव निधनम् उपैत्। अरत इव वा एष भवति यो न प्रतितिष्ठति। लेलेव वै रात्री रतिर् वा एषा। ततस् स प्रत्यतिष्ठत्। तद् एतत् प्रतिष्ठा साम। प्रतितिष्ठति य एवं वेद। यद् उ कण्वो नार्षदो ऽपश्यत् तस्मात् काण्वम् इत्य् आख्यायते॥

इन्द्राय मद्वने सुतम् इति मद्वतीर् भवन्ति। रसो वै मदः। धीतेवैषा यद् रात्रिः पीडितेव। नाभिषुण्वन्ति। यद् एवादस् तृतीयसवनाद् ऋजीषम् अतिरेचयन्ति तेनास्यां चरन्ति। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्याम् एतद् दधत्य् एव। एताम् एतेनाप्याययन्ति॥1.216॥


तासु श्रौतकक्षम्। श्रुतकक्षः काक्षीवतः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद॥

पुनर्नितुन्नछन्दो भवति। यत्रयत्र वै देवाश् छन्दसां रसम् अन्वविन्दंस् तत् पुनर्नितुन्नम् अकुर्वन्। तत् पुनर् अभ्याघ्नन्। धीतवैषा यद् रात्रिः। तद् यत् पुनर्नितुन्नछन्दो भवति रसम् एवास्याम् एतद् दधति। रसस्यैवैषानुवृत्ति। यद् उ श्रुतकक्षः काक्षीवतो ऽपश्यत् तस्माच् छ्रौतकक्षम् इत्य् आख्यायते॥

तदैळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठति॥1.217॥


अयं त इन्द्र सोमः इति। पुनःप्रोक्तिर् ह वा एषा हविषो यन् नुते। परो यज्ञ इति ह वा एतद् इन्द्राय प्राहुः। द्वितीयं ह्य् एतद् धविः क्रियते यद् रात्रिः॥

तास्व् और्ध्वसद्मनम्। और्द्वसद्मनेन वै देवा एषु लोकेषूर्ध्वा असीदन्। यद् एषु लोकेषूर्ध्वा असीदंस् तद् और्ध्वसद्मनस्यौर्ध्वसद्मनत्वम्। तद् एतत् स्वर्ग्यं साम। ऊर्ध्व एवैतेन स्वर्गे लोके सीदति य एवं वेद। और्ध्वसद्मनेन वै देवा असुराणां सुवृक्तिभिः इति पशून् अवृञ्जत नृमादनम् इति वज्रं प्राहरन् भरेष्व् आ इति स्वर्गं लोकम् आरोहन्। और्ध्वसद्मनेनैव द्विषतो भ्रातृव्यस्य सुवृक्तिभिः इत्य् एव पशून् वृंक्ते नृमादनम् इति वज्रं प्रहरति भरेष्व् आ इति स्वर्गं लोकम् आरोहति॥

तान्य् आहुर् नानोपेत्यानि। नानेव वा इमे लोका। एषां लोकानां विधृत्या इति। सुवृक्तिभिः इति वा अयं लोकः नृमादनम् इत्य् अन्तरिक्षं भरेष्व् आ इत्य् असौ। तस्मान् नानोपेत्यान्य् एषां लोकानां विधृ्त्यै॥1.218॥


तद् उ होवाच जानश्रुतेयो वीर्यं वा एतत् साम्नो यन् निधनम्। तद् विक्षुभ्णुयुस् तद् वियुञ्ज्युर् यन् नानोपेयुः। सार्धम् एवोपेत्यानि साम्नस् सवीर्यत्वायेति। तानि चतुरक्षराणि भवन्ति। याश् चतस्रो दिशो ऽस्मिन् लोके तासु सर्वासु प्रतितिष्ठाम याश् चतस्रो दिशो ऽन्तरिक्षे लोके तासु सर्वासु प्रतितिष्ठाम याश् चतस्रो दिशो ऽमुष्मिन् लोके तासु सर्वासु प्रतितिष्ठामेति॥

और्ध्वसद्मनेन ह खलु वै रात्रिः पृष्ठिनीदं वै रथन्तरम् अन्तरिक्षं वामदेव्यम् अद एव बृहत्। य उ ह वा एषां लोकानां श्रेष्ठास् ते पृष्ठानि। तेषाम् एको भवति य एवं वेद। प्रजापतिर् ह खलु वा ऊर्ध्वसद्म। अश्नुत प्रजापतितां य एवं वेद॥1.219॥


आ तू न इन्द्र क्षुमन्तम् इति वैणवम्। वेणुर् वै वैश्वामित्रो ऽकामयताग्र्यो मुख्यो ब्रहमवर्चसी स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽग्र्यो मुख्यो ब्रह्मवर्चस्य् अभवत्। अग्र्यो मुख्यो ब्रह्मवर्चसी भवति य एवं वेद। यद् वेणुर् वैश्वामित्रो ऽपश्यत् तस्माद् वैणवम् इत्य् आख्यायते॥

तद् व् एवाचक्षत आपालम् इति। अपाला ह वा आत्रेयी तिलका वा रुछ्वसाप्यास। सा कामयताप पापं वर्णं हनीयेति। सैतत् सामापश्यत् तेनास्तुत। सा तीर्थम् अभ्यवयती सोमांशुम् अविदन्त्। तं समखादत्। तस्यै ह ग्रावाण इव दन्ता ऊदुः। स इन्द्र आद्रवद् ग्रावाणो वै वदन्तीति। साभिव्याहरत् कन्या वार् अवायती सोमम् अपि स्रुताविदत्। अस्तं भरन्त्य् अब्रवीत् इन्द्राय सुनवै त्वा शक्राय सुनवै त्वा इति। अस्यै वा इदं ग्रावाण इव दन्ता वदन्तीति विदित्वेन्द्रः पराङ् आवर्तत। तम् अब्रवीत्
असौ य एषि वीरको गृहंगृहं विचाकशत्। (ऋ. ८.९१.२)
इमं जम्भसुतं पिब धानावन्तं करम्भिणम् अपूपवन्तम् उक्थिनम्॥
इति। अनाद्रियमाणैवैतम् अब्रवीत्।

आ चन त्वा चिकित्सामो ऽधि चन त्वा नेमसि।

इति पुरा मा सर्वयर्चापाला स्तौतीत्य् अपपर्यावर्तत।

शनैर् इव शनकैर् इवेन्द्रायेन्दो परि स्रव।

इत्य् एवास्यै मुखात् सोमं निरधयत्। सोमपीथ इव ह वा अस्य स भवति य एवं विद्वांस् स्त्रियै मुखम् उपजिघ्रति(उपाजघ्रति?)॥1.220॥