← कण्डिका २११-२२० जैमिनीयं ब्राह्मणम्/काण्डम् १
कण्डिका २२१-२३०
[[लेखकः :|]]
कण्डिका २३१-२४० →

ताम् अब्रवीद् अपाले किंकामासीति। साब्रवीत्
इमानि त्रीणि विष्टपा तानीन्द्र विरोहय।
शिरस् ततस्योर्वराम् आद् इदं म उपोदरे॥
सर्वा ता रोमशा कृधि॥
इति। खलतिर् हास्यै पितास। तं हाखलतिं चकार। उर्वरा हास्य न जज्ञे। सो ह जज्ञे। उपस्थे हास्यै रोमाणि नासुः। तान्य् उ ह जज्ञिरे। तां खे रथस्यात्यबृहत्। सा गोधाभवत्। तां खे ऽनसो ऽत्यबृहत्। सा कृकलास्य् अभवत्। तां खे युगस्यात्यबृहत्। सा संश्लिष्ठिकाभवत्। तद् एषाभ्यनूच्यते
खे रथस्य खे ऽनसः खे युगस्य शतक्रतो।
अपालाम् इन्द्र त्रिष् पूत्व्य् अकृणोस् सूर्यत्वचम्॥
इति। तस्यै ह यत् कल्याणतमं रूपाणां तद् रूपम् आस। तद् एतत् कामसनि साम। एतं वै सा कामम् अकामयत। सो ऽस्यै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते। यद् व् अपालात्रेय्य् अपश्यत् तस्माद् आपालम् इत्य् आख्यायते॥1.221॥


अभि त्वा वृषभा सुते इत्य् आर्षभम्। इन्द्रो वा अकामयतर्षभस् सर्वासां प्रजानां स्याम् ऋषभतां गच्छेयम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स ऋषभस् सर्वासां प्रजानाम् अभवद् ऋषभताम् अगच्छत्। तद् एवार्षभस्यार्षभत्वम्। ऋषभ एव स्वानां भवत्य् ऋषभतां गच्छति य एवं वेद॥

तद् व् एवाचक्षते दैवोदासम् इति। दिवोदासो वै वाध्र्यश्विर् अकामयतोभयं ब्रह्म च क्षत्रं चावरुन्धीय राजा सन्न् ऋषिस् स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स उभयं ब्रह्म च क्षत्रं चावारुन्ध राजा सन्न् ऋषिर् अभवत्। उभयम् एव ब्रह्म च क्षत्रं चावरुन्द्धे राजा सन्न् ऋषिर् भवति य एवं वेद। यद् उ दिवोदासो वाध्र्यश्विर् अपश्यत् तस्माद् दैवोदासम् इत्य् आख्यायते॥1.222॥


इदं वसो सुतम् अन्धः इति गारम्। देवेभ्यो वा असुरा गरान् प्राकिरन्। तान् अविद्वांसो ऽगिरन्न् अन्नम् एव मन्यमानाः। ते गरगिरो ऽमन्यन्त। ते ऽकामयन्तापेमान् गरान् गीर्णान् हनीमहीति। त एतत् सामापश्यन्। तेनास्तुवत। तेनेमान् गरान् गीर्णान् अपाघ्नत। त एवेमे गिरयो ऽभवन्। तद् यद् गरान् गीर्णान् अपाघ्नत तद् एव गारस्य गारत्वम्। स यो गरगीर् मन्येताप्रतिगृह्यस्य प्रतिगृह्य, अनाश्यान्नस्यान्नम् अशित्वा स एतेन स्तुवीत। अप हैव तं गरं गीर्णं(गार्णं?) हते। यद् अनेन किं च पापं कृतं भवति तद् अपहते॥

तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठति॥1.223॥


इदं ह्य् अन्व् ओजसा इति घृतश्चुन्निधनम्। घृतश्चुता च वै मधुश्चुता च देवा यत्रयत्रैषां यज्ञस्योपादस्यत तद् आप्याययन्त। तस्माद् आहुस् सोमस्यैवांशुर् आप्यायस्वेति। उपदस्तेवैषा यद् रात्रिः। तद् यद् घृतश्चुन्निधनं भवत्य् ऐवैतम् एतेन प्याययन्ति॥

घृतश्चुच् च वै मधुश्चुच् आङ्गिरसां स्वर्गं लोकं यताम् अहीयेताम्। ताव् अकामयेताम् अनूत्पतेव स्वर्गं लोकम् इति। तौ तपो ऽतप्येताम्। ताव् एते सामनी अपश्यताम्। ताभ्याम् अस्तुवाताम्। तौ स्तुत्वैव घृतश्चुते मधुश्चुत इत्य् एव स्वर्गं लोकम् अनूदपतताम्। अन्तो वै पयसां घृतम् अन्तस् स्वर्गो लोकानाम्। अन्तो वै रसानां मध्व् अन्तस् स्वर्गो लोकानाम्। अन्त्याभ्यां वाव तौ तत् सामभ्याम् अन्त्यं स्वर्गं लोकम् आश्नुवाताम्। अन्त्याभ्याम् एवैतत् सामभ्याम् अन्त्यं स्वर्गं लोकम् अश्नुते य एवं वेद॥

पशवो ह खलु वै घृतश्चुतः पशवो मधुश्चुतः। पशून् वाव तौ तद् एताभ्याम् अवारुन्धाताम्। तैर् उ पशुभिर् इष्ट्वा स्वर्गम् एव लोकम् अगच्छताम्। ते एते पशव्ये स्वर्ग्ये सामनी। अव पशून् रुन्द्धे गच्छति स्वर्गं लोकं य एवं वेद॥1.224॥


यज्ञस्तनौ वा एते सामनी। एताभ्यां वा इन्द्रो यज्ञं सर्वान् कामान् अदुग्ध। दुहे ह वै यज्ञं सर्वान् कामान् य एवं वेद। यजुर्निधनं वा एतयोर् अन्यतरत् सामनिधनम् अन्यतरत्। तद् यद् घृतश्चुन्निधनं तद् यजुर्निधनम् अथ यन् मधुश्चुन्निधनं तत् सामनिधनम्। या यजुषश् च साम्नश् चर्धिर् ऋध्नोति ताम् ऋद्धिम् आप्नोति तान् कामान् य एवं वेद॥

तद् आहुर् यद् आज्येन दिवा चरन्त्य् अथ केनैषां रात्रिर् आज्यवती भवतीति। घृतश्चुन्निधनेनेति ब्रूयात्। एतेन ह वै रात्रिर् आज्यवती भवति। यद् उ घृतश्चुच् च मधुश्चुच् चाङ्गिरसाव् अपश्यतां तस्माद् एवम् आख्यायते॥1.225॥


अथ मैधातिथम्। काण्वायनास् सत्त्राद् उत्थायायन्त आयुञ्जानाः। ते होद्गीथा इति किमुद्वत्यैतद्धनाम् उर्वारुबहुप्रवृत्तं शयानम् उपेयुः। ते ऽकामयन्तेमान् एव पशून् भूतान् उत्सृजेमहीति। स एतन् मेधातिथिः काण्वः सामापश्यत्। तेनोपन्यषीदन्
आ त्व् एता निषीदतेन्द्रम् अभि प्र गायत
सखायस् स्तोमवाहसः॥
पुरूतमं पुरूणाम् ईशानं वार्याणाम्।
इन्द्रं सोमे सचा सुते॥
स घा नो योग आ भुवत् स राये स पुरन्ध्याम्॥
इति। पशवो वै रयिः। ततो वै ते तान् पशून् भूतान् उदसृजन्त। हिंकारेण हैवैनान् उत्ससृजिरे। ते हैते ऽत्र पश्चाद् उर्वारुपृश्नय इति पशवः। तद् एतत् पशूनाम उत्सृष्टिस् साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ मेधातिथिः काण्वो ऽपश्यत् तस्मान् मैधातिथम् इत्य् आख्यायते॥1.226॥


अथ सौमेधम्। देवा वा असुरान् हत्वापूता इवामेध्या अमन्यन्त। तै ऽकामयन्त पूता मेध्यास् स्यामेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै पूता मेध्या अभवन्। ते ऽब्रुवन् सुमेध्या वा अभूमेति। तद् एव सौमेधस्य सौमेधत्वम्। पूतो मेध्यो भवति य एवं वेद॥

तद् व् एवाचक्षते पौर्वतिथम् इति। पूर्वतिथिर् वा आर्चनानसश् श्यावाश्वात् कनीयान्। सो ऽकामयताव पशून् रुन्धीय भूमानं पशूनां गच्छेयम् इति। स एतत् सामापश्यत् तेनास्तुत।

आ घा गमद् यदि श्रवत् सहस्रिणीभिर् ऊतिभिः।

इति। सहस्रम् एव पशून् अवारुन्द्ध भूमानं पशूनाम् अगच्छत्। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे भूमानं पशूनां गच्छति य एवं वेद। यद् उ पूर्वतिथिर् आर्चनानसो ऽपश्यत् तस्मात् पौर्वतिथम् इत्य् आख्यायते॥

इन्द्र सुतेषु सोमेषु इत्य् उष्णिहो भवन्ति। देवपुरा वा एषा यद् उष्णिहः। ता यद् अन्ततः क्रियन्ते देवपुराम् एवैतद् अन्ततः परिहरन्ति पशूनां गुप्त्या असुराणाम् अनभ्यवचाराय॥1.227॥


तासु कौत्सम्। कुत्सश् च लुशश् चेन्द्रं व्यह्वयेताम्। स कुत्सस्य हवम् आगच्छत्। तं शतेन वार्ध्रीभिर् आण्डयोर् अबध्नात्। तं लुशो ऽभ्यवदत्
स्ववृजं हि त्वाम् अहम् इन्द्र शुश्रवानानुदं वृषभ रध्रचोदनम्।
प्र मुञ्चस्व परि कुत्साद् इहागहि किम् उ त्वावान् मुष्कयोर् बद्ध आसते॥
इति तास् सर्वास् संलुप्य लुशम् अभि प्राद्रवत्। तं कुत्सः इन्द्र सुतेषु सोमेषु इत्य् अन्वाह्वयत्। तम् अभ्यावर्तत। तं लुशः इन्द्रा होयी हावे होयी इति। ताव् अन्तरातिष्ठत्। ताव् अब्रवीद् अंशम् आहरेताम् आत्मना वाम् अन्यतरस्य पास्यामि महिम्नान्यतरस्येति। तथेति। ताव् अंशम् आहरेताम् आत्मानम् अन्यतर उदजयन् महिमानम् अन्यतरः। आत्मानं कुत्स उदजयन् महिमानं लुशः। आत्मनान्यतरस्यापिबन् महिम्नान्यतरस्य। आत्मना कुत्सस्यापिबन् महिम्ना लुशस्य। उभा उ ह त्वाव तस्य ताव् आत्मानौ यद् आत्मा च महिमा च। तद् एतत् सेन्द्रं साम। सेन्द्रो हास्य सदेवो यज्ञो भवत्य् अभ्य् अस्येन्द्रो यज्ञम् आवर्तते नास्येन्द्रो यज्ञाद् अपाक्रामति य एवं वेद। यद् उ कुत्सो अपश्यत् तस्मात् कौत्सम् इत्य् आख्यायते॥

तद् एळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठति॥1.228॥

 
तद् आहू रथन्तरम् एव प्रथमे तृचे स्याद् वामदेव्यं द्वितीये बृहत् तृतीय एषां लोकानां समारोहायेति। इमे वै लोका एतानि सामानि। अयम् एव लोको रथन्तरम् अन्तरिक्षं वामदेव्यम् असाव् एव बृहत्। तस्माद् एवम् एव कार्यम् एषां लोकानां समारोहायेति। प्राणव्यानोदाना ह खलु वा एतानि सामानि। प्राण एव रथन्तरं व्यानो वामदेव्यम् उदानो बृहत्। तस्माद् एवम् एव कार्यं प्राणव्यानोदानानां संतत्या अव्यवच्छेदायेति॥

अथ यः कामयेत प्रजा मे श्रेयसी स्याद् इति रथन्तरम् एव प्रथमे तृचे कुर्याद् वामदेव्यम् उत्तरयोः। प्रजापतिर् वै वामदेव्यम्। प्रजापतिम् एव तत् स्वरम् अन्तत उपयन्ति प्रजननाय॥

बृहता श्रीकामस् स्वर्गकामस् स्तुवीत। श्रीर् वै स्वर्गो लोकः। बृहद् अश्नुते श्रियं गच्छति स्वर्गं लोकं य एवं वेद। अथो ह भ्रातृव्यलोकम् एव नावजहाति। भ्रातृव्यभाजनम् इव ह्य् एषा यद् रात्रिः॥

रथन्तरेण प्रतिष्ठाकामस् स्तुवीत। प्रतिष्ठा वै रथन्तरम्। प्रत्य् एव तिष्ठति॥

गायत्रीषु संधिना ब्रह्मवर्चसकामस् स्तुवीत। ब्रह्म वै गायत्री। ब्रह्मवर्चस्य् एव भवति॥

ककुप्सु पुरुषकामः। पुरुषो वै ककुप्। पुरुषवान् एव भवति॥

उष्णिक्षु पशुकामः। पशवो वा उष्णिक्। पशुमान् एव भवति॥

विराट्स्व् अन्नाद्यकामः। अन्नं वै विराट्। अन्नाद एव भवति॥

अनुष्टुप्सु प्रतिष्ठाकामः। प्रतिष्ठा वा अनुष्टुप्। प्रत्य् एव तिष्ठति॥

पंक्तिषु यज्ञकामः। यः कामयेत पुनर् मा यज्ञ उपनमेद् इति। यज्ञो वै पंक्तिः पुनर् एवैनं यज्ञ उपनमति॥

त्रिष्टुप्स्व् ओजस्कामः वीर्यकामः।ओजो वै वीर्यं त्रिष्टुप्। ओजस्व्य् एव वीर्यवान् भवति॥

जगतीषु पशुकामः।पशवो वै जगती। पशुमान् एव भवति॥

तद् आहुर् एकस्मिन् वावैतस्य छन्दस्य् एकस्मिन् कामे स्तुतं भवति य एवं स्तुते। अथैतस्य सर्वेषु छन्दस्सु सर्वेषु कामेषु स्तुतं भवति यो बृहतीषु स्तुते। बृहती ह्य् एवैतानि सर्वाणि छन्दांस्य् अभिसंपद्यन्त इति। गायत्री च जगती च ते द्वे बृहत्यौ। उष्णिक् च त्रिष्टुप् च ते द्वे बृहत्यौ। अनुष्टुप् च पंक्तिश् च ते द्वे बृहत्यौ। बृहत्य् एव बृहती। तस्माद् बृहतीष्व् एव स्तोतव्यम् एतेषां सर्वेषां छन्दसां सर्वेषां कामानाम् अवाप्त्यै॥1.229॥


तद् आहुर् यत् त्रिवृद् एव स्तोमानां लघिष्ठो रथन्तरं साम्नाम्। आश्विनम् उ वै शस्त्राणां गरिष्ठम्। अथ कस्मात् त्रिवृद् एव स्तोमानां रथन्तरं साम्नाम् आश्विनस्य शस्त्रं प्रत्युद्यन्तुम् अर्हत इति। स ब्रूयात् प्राणो वै त्रिवृतः प्राणेष्व् इदं सर्वं प्रतिष्ठितं प्राणा इदं सर्वं प्रत्युद्यच्छन्ति प्राणा इदं सर्वं प्रतिप्रति। इमे वै लोकास् त्रिवृतः। एष्व् इदं लोकेषु सर्वं प्रतिष्ठितम्। इम इदं लोकास् सर्वं प्रत्युद्यच्छन्ति। इम इदं लोकास् सर्वं प्रतिप्रति। वाग् वै रथन्तरम्। वाचीदं सर्वं प्रतिष्ठितम्। वाग् इदं सर्वं प्रत्युद्यच्छति। वाग् इदं सर्वं प्रतिप्रति। इयं वै रथन्तरम्। अस्याम् इदं सर्वं प्रतिष्ठितम्। इयम् इदं सर्वं प्रत्युद्यच्छति। इयम् इदं सर्वं प्रतिप्रति। तस्मात् त्रिवृद् एव स्तोमानां रथन्तरं साम्नाम् आश्विनस्य शस्त्रं प्रत्युद्यन्तुम् अर्हत इति॥1.230॥