प्रमुखा विकल्पसूचिः उद्घाट्यताम्

नासाव् अस्तम् एति नायम् अनुगच्छति। इमम् एवासाव् अभ्य् अस्तम् एति। तद् अस्यास्तत्वम्। इमं ह्य् एवासाव् अभ्य् अस्तम् एत्य् अमुम् एवायम् अभ्यनुगच्छति। तद् अमुष्यामुत्वम्। अमुं ह्य् एवायम् अभ्यनुगच्छति न हास्तम् एति नानुगच्छति य एवं वेद॥

ते हैते सवासिन्यौ देवते। गच्छति हैताभ्यां सवासित्वम्। अथो हास्यैते एव देवते। एषु लोकेषु सर्वपाप्मानम् अपघ्नत्यौ तिष्ठतः॥

यावद् उ ह वा अयम् अग्निर् अस्मिन् लोके दीप्यते तावद् अमुष्मिन् लोक आदित्यः न हैव तावद् एवंविदो लोकः क्षय्यः॥

यथा ह वा इदम् आयतनम् आयतनीं प्रेप्सेद् एवम् इमं लोकम् आपः प्रेप्सन्ति याश् चामूर् याश् चेमाः। तायन्न संभिन्दन्त्य् एतस्यैव स्तोमस्य क्रतोः। एष एवैनास् स्तोमो ऽपिददते। स यो न्वावैकस्य राज्यस्य त्राता द्वयोर् यस् त्रयाणां लोकी वाव स तेन मन्येत। अन्त्ये तु सलोक्य् असद् यस् तेषाम् एको ऽसद् ये ऽस्य लोकस्य त्रातारः। अस्य ह स लोकस्य त्रातॄणाम् एको भवति य एवं वेद। तेन लोकी सः। यावद् ध वा अप्य् एवंविदो ब्राह्मणा भवितारो न हैव तावद् याश् चामूर् आपो याश् चेमास् ता उभयीस् संपद्येमं लोकं निर्मृष्टारः॥1.241॥


तस्य वा एतस्याग्निष्टोमस्य गायत्रीम् एव प्रातस्सवनं संपद्यते त्रिष्टुभं माध्यंदिनं सवनं जगतीं तृतीयसवनम्। तद् एतत् स्वयंसंपन्नं प्रातस्सवनम्। गायत्रम् एव सर्वम्॥

अथ चत्वारि छन्दांसि माध्यंदिनं सवनं गायत्री बृहती ककुप् त्रिष्टुप्। तस्या एतस्यै ककुभो ऽष्टाविंशत्यक्षरायै विंशतिम् अक्षराणि गायत्र्याम् उपदधाति। सा त्रिष्टुप् संपद्यते। अथ यान्य् अष्टाव् अतिरिच्यन्ते तानि बृहत्याम् उपदधाति। सा त्रिष्टुप् संपद्यते। त्रिष्टुब् एव त्रिष्टुप्॥

अथ षट् छन्दांसि तृतीयसवनं गायत्र्य् उष्णिक्ककुभाव् अनुष्टुब् जगती बृहती। तस्या एतस्यै गायत्र्यै चतुर्विंशत्यक्षरायै विंशतिम् अक्षराणि ककुभ्य् उपदधाति। सा जगती संपद्यते। अथ यानि चत्वार्य् अतिरिच्यन्ते तान्य् उष्णिह्य् उपदधाति। सा द्वात्रिंशदक्षरानुष्टुप् संपद्यते। अनुष्टुब् एवानुष्टुप्। तां द्वेधा व्यूहति। तस्यै षोडशाक्षराण्य् अनुष्टुभ्य् उपदधाति। सा जगती संपद्यते। स्वयम् एव परस्ताज् जगती। अथ यानि षोडशातिरिच्यन्ते तानि यज्ञायज्ञीयस्य बृहत्याम् उपदधाति। सा द्वापञ्चाशदक्षरा जगती संपद्यते। चत्वार्य् अक्षराणि जगतीम् अतियन्ति य एते चतुष्पादाः पशवः। अथो स्तना एव विराजो दोहः। अथो प्रतिष्ठैव। यथा चतुष्पदी प्रतिष्ठात् तथा। तद् व् अत्रैवानुव्येति। न किं चनातिरिच्यते। वामदेव्यस्य न्यूने त्रीण्य् उपदधाति -- ॥1.242॥


--यज्ञायज्ञीय एकम्॥

गायत्रं वै प्रातस्सवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनम्। ब्रह्मणो ऽस्य सतः क्षत्रस्येव प्रकाशो भवति वैश्यस्येव रयिः पुष्टिर् य एवं वेद॥

तस्यो एवाक्षरशो गायत्रीम् एव प्रातस्सवनं संपद्यन्ते त्रिष्टुभं माध्यंदिनं सवनं जगतीं तृतीयसवनम्। एकान्नसप्ततिः प्रातस्सवनस्य स्तोत्रियाष् षष्टिस् त्रिष्टुभो माध्यंदिनं सवनं चतुर्विंशतिश् च जगतीस् तृतीयसवनम्। एका च ककुप्। पुरुषो वै ककुप्। स ह स यजमान एवैतस्यां संपद्य् अध्यूढः। तद् व् अत्रैवानुव्येति। न किं चनातिरिच्यते। एकस्यै ककुभो ऽष्टाविंशत्यक्षरायै चत्वार्य् अक्षराण्य् आदाय वामदेव्यस्य न्यूने त्रीण्य् उपदधाति यज्ञायज्ञीय एकम्। अथ या गायत्री परिशिष्यते ताम् अद एकान्नसप्तत्यां प्रातस्सवनस्य स्तोत्रियासु प्रत्युपदधाति। तद् उ हानन्तम्। अनन्तां श्रियं जयति य एवं वेद॥1.243॥


तस्यो एव द्वे सवने बृहतीं संपद्येते। यथैव पुरा तृतीयसवनं तथा तृतीयसवनम्। एकान्नसप्ततिः प्रातस्सवनस्य स्तोत्रियाः। ताष् षट्चत्वारिंशद् बृहत्यस् संपद्यन्ते। या हि तिस्रो गायत्र्यस् ते द्वे बृहत्यौ। न ताष् षट्चत्वारिंशद् बृह्त्यस् संपद्यन्ते। तद् एतद् आयद् एव प्रातस्सवनं बृहतीम् अभिसंपद्यते। यस्माद् आयद् एव प्रातस्सवनं बृहतीम् अभिसंपद्यते तस्माद् ब्राह्मणो जायमान एव लोकी जायते। तं वा त्वै चरणेन भूयांसं कुरुते तं वा कनीयांसम्॥

अथैतद् द्वौ माध्यंदिनं सवनं संपादयत उद्गाता च होता च। चत्वारि छन्दांस्य् उद्गाता युनक्ति। तानि च होतानुशंसत्य् उप च त्रीण्य् आहरत्य् अनुष्टुभं पंक्तीं जगतीम्। गायत्री च जगती च ते द्वे बृहत्यौ। बृहत्य् एव बृहती। यस्माद् एतद् द्वौ माध्यंदिनं सवनं संपादयतस् तस्माद् राजन्यस्य कार्यो लोक इष्टापूर्तेन श्रद्धया ब्रह्मण्यतया। अथ यस्माद् यथैव पुरा तृतीयसवनं तस्माद् उ ब्राह्मणाच् च राजन्याच् च वैश्यो लोकी। इतरो न हि तथा लोकी यथा ब्राह्मणश् च राजन्यश् च॥1.244॥


क्लृप्तं ह वै लोकं यजमानो ऽभिजायते। पशून् एव प्रथमस्य तृचस्य प्रथमया स्तोत्रियया जयति भूमिं द्वितीययाग्निं तृतीयया। अन्तरिक्षम् एव द्वितीयस्य च तृचस्य प्रथमया स्तोत्रियया जयति वायुं द्वितीयया प्राणं तृतीयया। दिवम् एव तृतीयस्य तृचस्य प्रथमया स्तोत्रियया जयत्य् आदित्यं द्वितीयया नक्षत्राणि तृतीयया। नवैता बहिष्पवमान्यो भवन्ति नव देवलोकाः। तान् एवैताभिर् आप्नोति॥

ता एतास् तिस्रो विराजो दैवी यज्ञिया मानुषी। एतासु ह सुचित्तश् शैलनो जनकं वैदेहं समूदे। स होवाच् श्रद्धाम् आविदद् ऋत्विजो मे ह्वयन्त्व् इति। तस्मै ह कुरुपञ्चालान् ऋत्विज ऊहुः। तेषु हागतेषु शैलनो बिभयांचकार गच्छद् ब्राह्मणा इवोदन्तायं वाहन लघूयेद् इति। स होवाच सम्राड् वाक्यम् एवम् अस्तीति। तिस्रो वा इमा विराजो तृष्यन्तीस् सर्वकामा अन्नाभिधानाः। तासु स्म त्वा यो ऽन्तर् अवदधाति तस्मै वोद्गातारं वृणीष्व। स वाव तेषां कामानाम् अभिवोढा। य एतासु कामास् स उ एव पुनर्मृत्योर् अतिवोढा य एवं वेदेति॥1.245॥


अथ ह प्रधावयांचकार। तस्मिन् ह प्रैष्यन्नैमान् ह स्म पृच्छत्य् आसां विराजाम् ऋद्धिम्। ते ह स्मानाभ्यावयन्ति य उ ह स्माभ्यावयन्तीति। यां ह स्मैकाम् अभ्यावयन्ति स ह स्मात् ते ब्राह्मणं बताहं ब्राह्मणम् एतासु मीमांसमानम् अपश्यं मच् च धावत शैलनम् इति। तद् व्यचरं हास यथा शैलन इयेष॥

ता एतास् तिस्रो विराजो दैवी यज्ञिया मानुषी। सैषा दैवी विराड् यद् इमे लोकाः। सा न्यूना। यजमानावधानायैव तन् न्यूना। तद् अन्तर् यजमानम् अवदधाति। तस्या एतस्यै चन्द्रमा एवापिधानम्। एतद् धि देवानां प्रत्यक्षम् अन्नाद्यं यच् चन्द्रमाः॥

अथैषा यज्ञिया विराड् यद् एता बहिष्पवमान्यः। सा न्यूना। यजमानावधानायैव तन् न्यूना। तद् अन्तर् यजमानम् अवदधाति। तस्या एतस्यै हिंकार एवापिधानम्। हिंकारेण ह्य् एव देवेभ्यो ऽन्ततो ऽन्नाद्यं प्रदीयते॥

अथैषा यज्ञिया विराड् यद् एता बहिष्पवमान्यः। सा न्यूना। यजमानावधानायैव तन् न्यूना। तद् अन्तर् यजमानम् अवदधाति। तस्या एतस्यै हिंकार एवापिधानम्। हिंकारेण ह्य् एव देवेभ्यो ऽन्ततो ऽन्नाद्यं प्रदीयते॥

अथैषा मानुषी विराड् यद् इमे पुरुषे प्राणाः। सा न्यूना। स उ एव यजमानप्रत्यक्षम्। तस्या एतस्या अन्नम् एवापिधानम्॥

नाभिर् वा एतास् तिस्रो विराजः। अभि ह तान् कामान् आप्नोति य एतासु कामा अपि त्व् इह तेषु भवत्य् अति ह पुनर्मृत्यु मुच्यते बहुपुरुषम् अस्मिन् लोके ऽन्नम् अत्ति। न ह्य् एतद् एकपुरुषायान्नाद्यं यद् एतासु। यद् ध वै किं चेदम् अस्मिन् लोक आत्मन्वत् तद् ध सर्वं मत्युर् एवाभिव्यादाय तिष्ठति। स यो ह स मृत्युस् संवत्सर एव सः। तस्य हर्तव एव मुखानि। तद् यद् वै किं च म्रियते न हास्यानृतौ म्रियते य एवं वेद। ऋतुषु वाव प्रजायते प्रजया पशुभिर् य एवं वेद॥1.246॥


ता वा एता नव बहिष्पवान्यः। ताष् षड् बृहत्यः। षड् उ मृत्योर् मुखान्य् ऋतव एव। अथ ह वा एतानि मृत्योर् मुखानि बृहत्य् एव प्रतिविभवितुम् अर्हति नान्यच् छन्दः। स बृहत्यैवर्तोर् मुखम् अपिदधाति। बृहत्य् ऋतोर् बृहत्य् ऋतोः। स यथा समेन विषमम् अतीत्य प्रत्यवेक्षेतैवम् एवैतं मृत्युं पराङ् अतीत्य प्रत्यवेक्षते॥

तम् एव तं त्रिवृतं वज्रम् उपप्रवर्तयति। स एषो ऽहरहर् इमान् लोकान् अनुवर्तते। तद् ध स्माह नगरी जानश्रुतेयो न हैव तावद् देवासुरं भविता यावद् एव त्रिवृद् वज्रो ऽहरहर् इमान् लोकान् अनुवर्तत इति। ऊर्ध्वो ह्य् अयम् अग्निर् दीप्यते तिर्यङ्ङ् अयं वायुः पवते ऽर्वाङ् असाव् आदित्यस् तपति। त एते ऽनिमेषम् अन्योन्यम् ईक्षन्ते। कथम् एतेष्व् एवं सत्सु देवासुरं स्याद् इति। एष उ एवास्य त्रिवृद् वज्रो ऽहरहर् इमान् लोकान् अनुवर्तमानस् सर्वं पाप्मानम् अपघ्नन् पल्ययते य एवं वेद॥1.247॥


तद् आहुस् स वाद्य यजेत स वान्यं याजयेद् यच् चतुष्टोमेन याजयन् सर्वस्तोमेन याजयति। नवैता बहिष्पवमान्यो भवन्ति। तासां सप्तविंशतिः पदानि। तेन त्रिणवं स्तोमं नान्तर्यन्ति। नवैवैता बहिष्पवमान्यो भवन्ति। चतुर्विंशत्यक्षरा गायत्री। तत् त्रयस्त्रिंशत्। तेन त्रयस्त्रिंशं स्तोमं नान्तर्यन्ति। एतद् वै चतुष्टोमेन याजयति॥

यो वै स्तोमानाम् अवमं परमं वेद गच्छति परमताम्। त्रिवृद् वाव स्तोमानाम् अवमस् त्रिवृत् परमः। तद् उ होवाच प्रकुर् वार्ष्णस् त्रिवृतं स्तोमं त्रयस्त्रिंशं भवन्तम् अपश्यं तस्माद् अहं परमताम् अगच्छम् इति। गच्छति परमतां य एवं वेद॥

अथ ह स्माहारुणिः किं सो ऽभिचरेत् किं वाभिचार्यमाण आद्रियेत य एतं त्रिवृतं वज्रं त्रिभृष्टिम् अच्छिद्रम् अच्छम्बट्कारिणम् अहरहर् इमान् लोकान् अनुवर्तमानं वेद। स्वयम् अभिचरितो वाव स यम् एवंविद् द्वेष्टि यो वैवंविदं द्वेष्टीति। एष उ एवैनं त्रिवृद् वज्रस् त्रिभृष्टिर् अच्छिद्रो ऽच्छम्बट्कार्य् अहरहर् इमान् लोकान् अनुवर्तमानो ऽभिवर्तते। तस्य न भूत्य् अल्पिकेव चनाशास्ति परापरैव भवतीति॥1.248॥


तद् उ ह स्माहोपजीवः खाळायनो ऽहम् एवैतं त्रिवृतं वज्रं प्रत्यक्षं वेद तस्माद् यम् अहं द्वेष्मि यो मां द्वेष्टि ताव् उभौ शश्वद् एव पापीयांसौ भवत इति। अग्निर् वा अस्य लोकस्य वज्रो वायुर् अन्तरिक्षस्यादित्यो दिवः। तद् इद् अध्यात्मम्। यो ऽग्निर् वाग् एव सा यो वायुः प्राण एव स य आदित्यश् चक्षुर् एव तत्। तस्माद् यद् अहं द्विषन्तम् अभिवदामि यद् अभिप्राणिमि यद् अभिवीक्षे वज्रम् एवाहं तस्मै तं प्रहरामि। तस्य हरश्वेम्णेत्मिकेव नाशास्ति। एता उ एवैनं देवता धूर्वन्ति य एवं विद्वांसं धूर्वतीति॥

अथ ह स्माह श्वेतकेतुर् आरुणेयो यथाश्वस्य कृष्णकर्णस्येत्थादानीतस्य रूपं स्याद् एवम् एवाहम् एतस्य स्तोमस्य रूपं वेद। तावद् दृशेन्यं तावद् वपुषेण्यम्। तस्माद् आत्मा। य एव पूर्वाह्णे दिदृक्षन्ते ते ऽपराह्णे दिदृक्षन्ते। नैव सुदृशेन्यम् इव सन्तं नाहं कदा चन चक्षुष्मन्तं पर्येमीति॥

तद् उ होवाच शाट्यायनिः को ऽश्वश् श्वेतः किम् एकम् इति। यथैवास्याग्ने रूपं यथा त्विषिर् यथास्य वायोर् यथामुष्यादित्यस्यैवम् एवैतस्य स्तोमस्य रूपम् एवं त्विषिः। तद् एवैतत् प्रजा अभिवार्य दिदृक्षमाणास् तिष्ठन्ति। तस्माद् बहिष्पवमाने ये च विजानन्ति ये च न ते सर्वे ऽनीशाना अभिपरिवार्य दिदृक्षमाणास् तिष्ठन्तीति। अथो हैता यश एव। अप्य् अन्यासां देवतानाम्। तासाम् एतद् इन्द्रियं वीर्यं रसस् तेजस् संभृतं यद् एता बहिष्पवमान्यःः। स य एवम् एतद् देवतानाम् इन्द्रियं वीर्यं रसं तेजस् संभृतं वेदेन्द्रियवान् एव वीर्यवान् यशस्वी त्विषिमान् भवति॥1.249॥


तद् आहुर् यत् पुरुषो योषां संभविष्यन् परोक्षं निलयनम् इच्छते ऽन्त एवान्ये पशवो ऽन्योन्यस्य स्कन्दन्ति किं तद् यज्ञे क्रियते यस्मात् तत् तथेति ब्रूयाद् यस्मात् त्रिवृत् स्तोमो बहिष्पवमाने प्राङ् इवोत्क्रम्य धिष्ण्येभ्यो निलीय गायत्रीं स्कन्दति मध्य एवान्य ऋत्विजो धिष्ण्यानां यद् अन्त आसते तस्मात् तत् तथेति। त्रिवृतं हि स्तोमं पुरुषो ऽन्वायत्तो धिष्ण्यान् अन्ये पशव इति॥

तद् व् एवाहुर् यत् स त्रिवृत् स्तोमो गायत्रीं स्कन्दति किं सा ततः प्रजनयतीति। इळान्तं यज्ञं सप्तनाभिम् इति ब्रूयात्। गायत्री गर्भं धत्ते। सा पुरोनुवाक्यां प्रजनयति। पुरोनुवाक्या याज्या याज्या वषट्कारं वषट्कार आहुतीर् आहुतयो दक्षिणा दक्षिणास् स्वर्गं लोकम्। तद् यथा वित्तं प्रवाहं क्षिप्रं प्रवहेद् एवम् एवैनम् एता देवतास् स्वर्गाय लोकाय प्रवहन्ति। त्रिवृद् एवैनं स्तोमो गायत्र्यै प्रयच्छति गायत्री पुरोनुवाक्यायै पुरोनुवाक्या याज्यायै याज्या वषट्काराय वषट्कार आहुतीभ्य आहुतयो दक्षिणाभ्यो दक्षिणास्स्वर्गं लोकं गमयन्ति॥

स एष इळान्तो यज्ञस् सप्तनाभिः। तस्य ह त्रिवृद् एव स्तोमो नाभिर् गायत्री नाभिः पुरोनुवाक्या नाभिर् याज्या नाभिर् वषट्कारो नाभिर् आहुतयो नाभिर् दक्षिणा नाभिः। उप हैनम् एष यज्ञो नमति य एवं वेद॥1.250॥