← कण्डिका २४१-२५० जैमिनीयं ब्राह्मणम्/काण्डम् १
कण्डिका २५१-२६०
[[लेखकः :|]]
कण्डिका २६१-२७० →

पञ्चदशान्य् आज्यानि भवन्ति पञ्चदशापूर्यमाणस्यार्धमासस्य रात्रयः। तद् एव तेनाप्नोति। दश हस्त्याह्गुलयश् चत्वार्य् ऊर्वष्ठीवानि यद् ऊर्ध्वं नाभेस् तत् पञ्चदशम्। तद् एवात्रोपसंदधाति॥

पञ्चदशो माध्यंदिनः पञ्चदशापोछतो ऽर्धमासस्य रात्रयः। तद् एव तेनाप्नोति। दश पद्याङ्गुलयश् चत्वार्य् ऊर्वष्ठीवानि यद् अवाचीनं नाभेस् तत् पञ्चदशम्। तद् एवात्रोपसंदधाति॥

सप्तदशानि पृष्ठानि। द्वादश मासाः पञ्चर्तवः। तद् एव तेनाप्नोति। दश हस्त्याङ्गुलयस् सप्त शीर्षन्प्राणाः। तत् सप्तदशम्। तद् एवात्रोपसंदधाति॥

सप्तदशार्भवः। द्वादश मासाः पञ्चर्तवः। तद् एव तेनाभिपूर्वम् आप्नोति। दश पद्याङ्गुलयश् चत्वार्य् ऊर्वष्ठीवानि त्रयो ऽवाचः प्राणाः। तत् सप्तदशम्। तद् एवात्रोपसंदधाति॥

एकविंशम् अग्निष्टोमसाम। द्वादश मासाः पञ्चर्तवस् यत्र इमे लोका असाव् आदित्य एकविंशः। तद् एव तेनाप्नोति। दश हस्त्याङ्गुलयो दश पद्या आत्मैकविंशः। तद् एवात्रोपसंदधाति॥1.251॥


स हैवं विद्वान् अहोरात्रयोर् अर्धमासशो मासश ऋतुशस् संवत्सरश एतस्मिन् सर्वस्मिन्न् आत्मानम् उपसंधाय तं मृत्युं तरति यस् स्वर्गे लोके। न हैवंवित् पुनर् म्रियते। तस्य हर्ङ्मयान्य् अस्थानि भवन्ति साममयानि मांसानि। स एषो ऽपहतपाप्मा धूतशरीरो ऽतीत्यैतं मृत्युं शरीरं धूनुते॥

अथैते दैवी च मानुषी च विराजौ। तयोर् एव एतद् आदित्यो ऽध्यूढस् तपति। चतस्रो दिशस् चत्वारो ऽवान्तरदेशा द्वाव् इमौ लोकौ। एषा दैवी विराट्। अथ मानुषी। चत्वारो ऽत्तारष् षड् आद्याः। ब्राह्मणश् च राजन्यश् च वैश्यश् च शूद्रश् चैते ऽत्तारः। गौश् चाश्वश् चाजाश् चाविश् च व्रीहिश् च यवश् चैत आद्याः। एतयोर् एष एतद् आदित्यो ऽध्यूढस् तपति। तन् न शोको न हिमो नाशनायति न पिपासति नास्य का चनावृत्तिर् अस्ति। न ह वा अशनायति न पिपासति नास्य का चनावृत्तिर् भवति य एवं वेद॥1.252॥


यजमानं ह वा एतद् उद्गाता रेतो भूतं सिञ्चति यद् बहिष्पवमानं गायति। मन एव रेतस्यया समीरयति प्राणं गायत्र्या चक्षुस् त्रिष्टुभा श्रोत्रं जगत्या वाचम् अनुष्टुभा। आत्मानम् एव पंक्त्या प्रत्युपदधाति। अथ यद् एतद् उत्तमं तृचं जन्मैव तत्। प्रैव तेन जनयति॥

यस्माद् एतद् घोषीवोपब्दिमद् इव गायते तस्माद् घोषीवोपब्दिमद् इव गर्भा जायन्ते। तद् उ वा आहुर् अघोषम् एव गेयम्। यदा वै विजायमाना क्ररिकुरुते ऽथ सा घोषा- करोति। अथो शनैर् इव वा अघोषम् इव मागामृष्टिद् विजायते। अथो हैतत् सत्यं यद् गायत्रम्। तस्य संपदं लोभयेद् रथन्तरवर्णाम् अभ्यस्येत्। तस्माद् अघोषम् एव गेयम् इति॥

अथाग्नेयम् आज्यम् एकदेवत्यम्। प्रेतिर् एव सा। अथैन्द्राग्नं द्विदेवत्यम्। प्रतिष्ठितिर् एव सा। सा वा एषा प्रेतिश् चैव प्रतिष्ठितिश् च। प्रतितिष्ठति य एवं वेद॥

त्रिवृत्पञ्चदशाभ्यां पुरुषो ऽस्मिन् लोके प्रतिष्ठितः। स यम् एव हरति स त्रिवृद् येन प्रतितिष्ठति स पञ्चदशः। तौ वा एताव् उभाव् एव त्रिवृताव् उभौ पञ्चदशौ। तेजो वै ब्रह्मवर्चसं त्रिवृत् स्तोम ओजो वीर्यं पञ्चदशः। ओजसैव तद् वीर्येण प्रतिष्ठाय तेजो ब्रह्मवर्चसं हरति य एवं वेद॥1.253॥

अथ माध्यंदिनस्य पवमानस्य गायत्री। यो ऽयम् अवाङ् प्राण एष एव सः। तस्यां द्वे सामनी। तस्माद् एतेन द्वयं प्राणेन करोति भस्म च करोति वातं च। नाना प्रस्तावो नाना निधने हिंकारो ऽन्तरेण। तस्मान् नेतर इतरम् अनुनिनर्दति नेतर इतरम्। एतेन हि तद् विहृतम्॥

अथ बृहती। यो ऽयं प्राङ् प्राण एष एव सः। तस्यां द्वे सामनी। तस्माद् एतेन द्वयं प्राणेन करोति रेतश् च सिञ्चति मेहति च। नाना प्रस्तावो नाना निधने हिंकारो ऽन्तरेण। तस्मान्न् नेतर इतरम् अनुनिनर्दति नेतर इतरम्। एतेन हि तद् विहृतम्॥

अथ त्रिष्टुप्। नाभिर् एव सा। तस्याम् एकं साम। तस्माद् एतेनैकम् एव प्राणेन करोति यद् एव प्राणान् उदनतो ऽनूदनिति॥

अथ पृष्ठानि। इन्द्रियं वै वीर्यं पृष्ठानि। तस्माद् ये के चानूकभाजो गोर् अश्वस्य पुरुषस्य तेषाम् अनूकम् एव बलिष्ठम्। इन्द्रियं ह्य् एतद् वीर्यं यत् पृष्ठानि। तानि बृहतीषु भवन्ति। तस्माद् इमा बृहतीर् इव कीकसा बृहतीर् इव पशवः पृष्ठम् अभिसमायन्ति॥

अथार्भवस्य पवमानस्य गायत्री। यो ऽयं प्राण एष एव सः। तस्यां द्वे सामनी। तस्माद् द्वयं प्राणेन करोति प्राण्यापानिति। नाना प्रस्तावो नाना निधने हिंकारो ऽन्तरेण। तस्मान् नेतर इतरम् अनुनिनर्दति नेतर इतरम्। एतेन हि तद् विहृतम्॥

अथोष्णिक्ककुभौ। चक्षुषी ते। समानं छन्दः। द्वे सामनी। तस्माद् द्वे अक्ष्यौ समानं पश्यतः। त्रिपदोर् ऋचोर् भवतः। तस्मात् त्रिवृच् चक्षुश् शुक्लं कृष्णं कनीनिका। परोवरीस्योर् ऋचोर् भवतः। तस्मात् परोवरीयः पुरुषः पश्यति। नाना प्रस्तावो नाना निधने हिंकारो ऽन्तरेण। तस्मान् नानावीर्ये चक्षुषी॥

अथानुष्टुप्। वाग् एव सा। तस्यां द्वे सामनी। तस्माद् द्वयं वाचा करोत्य् अन्नं चैनयात्ति वदति च। नाना प्रस्तावो नाना निधने हिंकारो ऽन्तरेण। तस्मान् न सर्वं सत्यं वाचा वदति न सर्वम् अनृतम्। एतेन हि तद् विहृतम्॥

अथ जगती। श्रोत्रम् एव तत्। तस्याम् एकं साम। तस्माद् एतेनैकम् एव श्रोत्रेण करोति यद् एव शृणोति। चतुष्पदायाम् ऋचि भवति। तस्मात् समानत्र सन् सर्वा अनुदिशश् शृणोति। अपि पराङ् यन् पश्चाद् वदतश् शृणोति॥

अथ यज्ञायज्ञीयम्। शिर एव तत्। अध्यूढं वा एतद् अन्येष्व् अङ्गेषु यच् छिरः। अध्यूढम् अन्येषु स्तोत्रेषु यज्ञायज्ञीयम्। अध्यूढो ऽन्येषु स्वेषु भवति य एवं वेद। उपरि वा एतद् अन्येभ्यो ऽङ्गेभ्यो यच् छिरः। उपर्य् अन्येभ्यस् स्तोत्रेभ्यो यज्ञायज्ञीयम्। उपर्य् अन्येभ्यस् स्वेभ्यो भवति य एवं वेद॥

स एषो ऽपहतपाप्मा यज्ञ एव प्रत्यक्षम्। तस्य ह नोपवदंश् च न पापं कर्तास्ति। यद्य् एनं बहिष्पवमाने ऽनुव्याहरेद् यज्ञस्य रेतस् सिक्तम् अचीक्लृपं यज्ञमारो ऽरेतस्का ते प्रजा भविष्यतीत्य् एनं ब्रूयात्। यद्य् एनम् एकदेवत्य आज्ये ऽनुव्याहरेद् यज्ञस्य प्रेतिम् अचीक्लृपं यज्ञमार् प्रेत्य् अजनयं मरिष्यसीत्य् एनं ब्रूयात्। यद्य् एनं द्विदेवत्य आज्ये ऽनुव्याहरेद् यज्ञस्य प्रतिष्ठाम् अचीक्लृपं यज्ञमारो ऽप्रतिष्ठितो भविष्यसीत्य् एनं ब्रूयात्। यद्य् एनं माध्यंदिनस्य पवमानस्य गायत्र्याम् अनुव्याहरेद् यज्ञस्यावाञ्चं प्राणम् अचीक्लृपं यज्ञमारो वीघातस् त्वा हनिष्यतीत्य् एनं ब्रूयात्। अथो ह ब्रूयाद् अवस्नावस् त्वा हनिष्यतीति। यद्य् एनं बृहत्याम् अनुव्याहरेद् यज्ञस्य शिश्नम् अचीक्लृपं यज्ञमारो मूत्रग्राहस् त्वा हनिष्यतीत्य् एनं ब्रूयात्।अथो ह ब्रूयाद् अरेतस्को भविष्यसीति। यद्य् एनं त्रिष्टुभ्य् अनुव्याहरेद् यज्ञस्य नाभिम् अचीक्लृपं यज्ञमार उदावर्तस् त्वा हनिष्यतीत्य् एनं ब्रूयात्। यद्य् एनं पृष्ठेष्व् अनुव्याहरेद् यज्ञस्येन्द्रियं वीर्यम् अचीक्लृपं यज्ञमारो वज्रस् त्वा हनिष्यतीत्य् एनं ब्रूयात्। अथो ह ब्रूयाद् अनाज्ञातवधस् त्वा हनिष्यतीति॥1.254॥


यद्य् एनम् आर्भवस्य पवमानस्य गायत्र्याम् अनुव्याहरेद् यज्ञस्य प्राणम् अचीक्लृपं यज्ञमारः प्राणस् त्वा हास्यतीत्य् एनं ब्रूयात्। अथो ह ब्रूयात् प्रमायुको भविष्यसीति। यद्य् एनम् उष्णिक्ककुभोर् अनुव्याहरेद् यज्ञस्य चक्षुषी अचीक्लृपं यज्ञमारो ऽन्धो भविष्यसीत्य् एनं ब्रूयात्। यद्य् एनम् अनुष्टुभ्य् अनुव्याहरेद् यज्ञस्य वाचम् अचीक्लृपं यज्ञमारो वाक् ते ऽपक्रमिष्यतीत्य एनं ब्रूयात्। अथो ह ब्रूयाद् अशनया मरिष्यसीति। यद्य् एनं जगत्याम् अनुव्याहरेद् यज्ञस्य श्रोत्रम् अचीक्लृपं यज्ञमारो बधिरो भविष्यसीत्य् एनं ब्रूयात्। यद्य् एनं यज्ञायज्ञीये ऽनुव्याहरेद् यज्ञस्य शिरो ऽचीक्लृपं यज्ञमारश् शिरस्ते विपतिष्यतीत्य् एनं ब्रूयात्॥1.255॥


एते ह वै प्रतिव्याहराः न हैवंविद् यज्ञियाम् आर्तिम् आर्छति। य एवैनम् उपवदति स आर्तिम् आर्छति। स य एनम् उपवदेत् तं ब्रूयात् पूर्णम् एवाहम् एतं साङ्गं सतनुं सर्वंयज्ञं वेद स यत् त्वम् अत्रोनं वेत्थ तत् त्वयैवापिदधानीति। स एवार्तिम् आर्छति य एवं विद्वांसम् उपवदति॥

स एष प्रजापतिर् अग्निष्टोमो ऽमूम् एकविंशीं यज्ञायज्ञीयस्यासु बहिष्पवमानीषु नवसु प्रत्युपधाय शय एता द्विष्टना विराजो दुहानः पञ्च पञ्चदशानि पञ्च सप्तदशानि। ता एव पञ्च द्वात्रिंशिनीर् विराजः दुहे ह वै विराजं सर्वान् कामान् य एवं वेद। स हैवं विदो ऽनृतं चन वदतो यज्ञस् स्रवति। स्रवति ह वा अनृतं वदतो यज्ञो ऽथो ह पूयति। नो ह त्व् एवंविदो यज्ञस् स्रवति न पूयति। तस्मात् कुरुपञ्चाला द्विष्टनां न दुह्रे। प्रजापतेर् ह सा। तस्माद् व् अन्य उदन्ता दुह्रे। नहि ते तां विदुः। तस्माद् व् अन्य उदन्ता अशनायुकतरा इव॥

स एष प्रजापतिर् अग्निष्टोमः --॥1.256॥


--परिमण्डलो भूत्वानन्तो भूत्वा शये। तदनुकृतीदम् अप्य् अन्या देवताः परिमण्डलाः परिमण्डल आदित्यः परिमण्डलश् चन्द्रमाः। परिमण्डला द्यौः परिमण्डलम् अन्तरिक्षं परिमण्डलेयं पृथिवी। अपि यद् इदं पुरुषे दिव्यं तत्परिमण्डलम्। एतस्यैव न्यङ्गम् अनुन्यञ्जानः परिमण्डलां महतीम् अनन्तां श्रियं जयति य एवं वेद॥

स एष यज्ञ ऊर्ध्व एव पुरुषम् अन्वायत्तः। तस्य पादाव् एव बहिष्पवमानम्। इमान्य् एव चत्वार्य् ऊर्वष्ठीवान्य् आज्यानि। यद् अर्वाचीनं नाभेस् स त्रिछन्दा माध्यंदिनः। पृष्ठान्य् एव पृष्ठानि। अयम् आर्भव इदम् अग्निष्टोमसाम॥

तद् ध नगरिणं दाल्भ्यं ब्राह्मणः पप्रच्छ कद्र्यङ् यज्ञ इति। स होवाचोर्ध्व एव पुरुषम् अन्वायत्त इति। एवं ह तद् उवाच। स य एवम् एतद् ऊर्ध्वम् आत्मन् यज्ञं तायमानं वेदोर्ध्व् एव प्रजया पशुभी रीहन्न(रोहन्न्) एति। य उ एनं प्रत्यञ्चं वेद प्रत्यङ भूतिं भवति। तस्येदम् एव बहिष्पवमानम् इमान्य् आज्यान्य् अयं माध्यंदिनः पृष्ठान्य् एव पृष्ठान्य् अयम् आर्भवः प्रतिष्ठैव यज्ञायज्ञीयम्। प्रत्यङ् भूतिं भवति। य एवम् एताव् आत्मन् यज्ञौ तायमानौ वेदोप हैनं यज्ञौ नमतः॥1.257॥


तस्यैष श्लोकः
यद् अस्य पूर्वम् अपरं तद् अस्य यद् व् अस्यापरं तद् व् अस्य पूर्वम्।
अहेर् इव सर्पणं शाकलस्य न विजानामि यतरत् पुरस्तात्॥
इति। शकलो ह गौपायनो यज्ञं मिमान इयाय। स ह स्मैतन् न विजानाति कतरद् यज्ञस्य पूर्वं कतरद् अपरं कतरद् अणीयः कतरत् स्थवीय इति। तद् आहुः कुतो यज्ञस्याणिष्ठम् इति। यतो वरिष्ठम् इति। कुतो वरिष्ठम् इति। यतो ऽणिष्ठम् इति। बहिष्पवमानं वाव प्रति यज्ञो ऽणिष्ठः। तद् इदं पादाव् अवोचत्। पादौ वै प्रति पुरुषो ऽणिष्ठः। तद् वै वरिष्ठः। पद्भ्यां ह्य् एति। कुतो वरिष्ठ इति। यतो ऽणिष्ठ इति। यज्ञायज्ञीयं वाव प्रति यज्ञो ऽणिष्ठः। तद् इदं शिरो ऽवोचत्। शिरो वै प्रति पुरुषो ऽणिष्ठः। तद् वै वरिष्ठः। अक्षिभ्यां हि पश्यन्न् एति॥

तद् आहुर् यद् ऊर्ध्वो यज्ञस् तायेत देवा एव जीवेयुर्न मनुष्याः। यद् अर्वाङ् तायेत मनुष्या एव जीवेयुर् न देवा इति। ऊर्ध्वश् च ह वै यज्ञस् तायते ऽर्वाङ् चाथो ह तिर्यङ्। तद् यत् पृच्छेयुः कद्र्यङ् यज्ञ इत्य् ऊर्ध्व इति ब्रूयाद् अथो ऽर्वाङ् इत्य् अथो तिर्यङ्ङ् इति। सर्वा एव दिश इति ब्रूयात्। सर्वा उ ह वै दिश एवंविदो यज्ञस् ततो भवति॥

कुरुपञ्चाला ह ब्रह्मोद्यम् ऊदिरे। ते ह श्वानं संवेष्टितं शयानम् उपेयुः। ते होचुर् अस्मिन् न्व् एव नो विजयो ऽध्य् अस्त्व् इति। ते ह पञ्चालाः कुरून् पप्रच्छुः किम् अस्य यज्ञस्येवेति। तद् ध न प्रत्यूचुः। स होवाच वसिष्ठश् चैकितानेयो यथा वा असाव् अदो ऽमूम् एकविंशीं यज्ञायज्ञीयस्यासु बहिष्पवमानीषु नवसु प्रत्युपधाय शय एवं वा अयम् इदम् उभाव् अन्तौ संधाय शये। तस्य वा अयं यज्ञक्रतोर् अनया शय्ययो रूपं निगच्छतीति। तस्माद् इदम् अनर्थ्यं सन्तं बिभृतेति। तेन ह जिग्युः॥1.258॥


द्विर् ह वै यजमानो जायते मिथुनाद् अन्यज् जायते यज्ञाद् अन्यत्। तद् यन् मिथुनाज् जायते तद् अस्मै लोकाय जायत। अथ यद् यज्ञाज् जायते तद् अमुष्मै लोकाय जायते गन्धर्वलोकाय जायते देवलोकाय जायते स्वर्गलोकाय जायते॥

यज्ञो वै यजमानो यज्ञस् सोमो राजा। तद् यद् धविर्धाने ग्रावभिस् सोमं राजानम् अभिषुण्वन्ति यजमानम् एव तद् रेतः कुर्वन्ति॥

प्रजापतिर् एष यद् उद्गाता। स त्वष्टा स रेतसस् सेक्ता स रूपाणां विकर्ता। तद् यद् बहिष्पवमान रेतस्यां गायति यजमानम् एव तद् रेतोभूतं सिञ्चति। यद् ऋचम् असाम्नीं गायेद् अस्थ्य् एव जायेत न मांसम्। यत् सामानृचं गायेन् मांसम् एव जायेत नास्थि। ऋचं साम्नाभिलिप्तां गायति। तस्माल् लोम्ना त्वचा मांसेन पुरुषो ऽभिलिप्तो जायते॥

तस्यां न हिंकुर्यात्। यद् धिंकुर्याद् वज्रेण हिंकारेण रेतो विच्छिन्द्यात्। यो हि तद् अपि बालेन वीयात् स एवैनद् विच्छिन्द्यात्। ताम् अधीयन् गायेत्। यद् अनधीयन् गायेद् अरेतस्का गर्भा जायेरन्। अरेतस्का ह वै दुरुद्गातुर् वर्तन्यां गर्भा जायन्ते॥1.259॥


गायत्रीं गायति। प्राणो वै गायत्री। तस्यै द्वे अक्षऱे व्यतिषजति। प्राणापानाव् एव तद् व्यतिषजति। तस्मात् प्राणापानौ तद् व्यतिषक्तौ प्रजा अनुसंचरत आ च परा चायातयामानौ। ताम् अधीयन् गायेत्। यद् अनधीयन् गायेन् मृता गर्भा जायेरन्। मृता ह वै दुरुद्गातुर् वर्तन्यां गर्भा जायन्ते॥

त्रिष्टुभं गायति। चक्षुर् वै त्रिष्टुप्। तस्यै द्वे अक्षरे द्योतयति। चक्षुषी एव तद् दधाति। तस्माद् युक्ते इव चक्षुषी। ताम् अधीयन् गायेत्। यद् अनधीयन् गायेद् अन्धा गर्भा जायेरन्। अन्धा ह वै दुरुद्गातुर् वर्तन्यां गर्भा जायन्ते॥

जगतीं गायति। श्रोत्रं वै जगती। तस्यै चत्वार्य् अक्षराणि द्योतयति। श्रोत्रम् एव तद् दधाति। श्रोत्रे द्वे परिश्रवणे द्वे। तस्मात् समानत्र सन् सर्वा अनुदिशश् शृणोति। अपि पराङ् यन् पश्चाद् वदतश् शृणोति। ताम् अधीयन् गायेत्। यद् अनधीयन् गायेद् बधिरा गर्भा जायेरन्। बधिरा ह वै दुरुद्गातुर् वर्तन्यां गर्भा जायन्ते॥

अनुष्टुभं गायति। वाग् वा अनुष्टुप्। ताम् अर्वाचीम् अभिनुदन् गायति वाचो ऽनपक्रामाय। यत् पराचीम् अपनुदन् गायेद् वाचं प्रधमेद् वाग् अस्माद् अपक्रामुका स्यात्। तां यद् अर्वाचीम् (?) अभिनुदन् गायत्य् आत्मन्न् एव तद् वाचं प्रतिष्ठापयति। तस्यै निरुक्तं चानिरुक्तं च पदे गायति। निरुक्तेन वै वाचो भुञ्जते ऽनिरुक्तम् अस्या उपजीवनीयम्। भुंक्ते वाचोप चैनं जीवति य एवं वेद। स यन् निरुक्तम् एव गायेद् वदेयुर् एव प्रजा न तूष्णीम् आसीरन्। अथ यद् अनिरुक्तं गायेत् तूष्णीम् एव प्रजा आसीरन् न वदेयुः। यस्मान् निरुक्तं चानिरुक्तं च पदे गायति तस्मात् प्रजा वदन्ति च तूष्णीं चासते॥1.260॥