← कण्डिका २५१-२६० जैमिनीयं ब्राह्मणम्/काण्डम् १
कण्डिका २६१-२७०
[[लेखकः :|]]
कण्डिका २७१-२८० →

तां बलवद् उपब्दिमतीं निघातं गायेत्। निघ्नद् अव ह खलु वा एतच् छन्दो यद् अनुष्टुप्। अनुष्टुभा वै वाचा छन्दसा देवा असुरान् अवाचो ऽवाघ्नन्। तां यद् बलवद् उपब्दिमतीं निघातं गायति -- भ्रातृव्यो वै पाप्मा -- भ्रातृव्यम् एतत् पाप्मानं वाचम् अवहन्ति श्रियम् आत्मनाश्नुते। ताम् अधीयन् गायेत्। यद् अनधीयन् गायेद् अजिह्वा गर्भा जायेरन्। अजिह्वा ह वै दुरुद्गातुर् वर्तन्या गर्भा जायन्ते॥

पंक्तिं गायति। ऋतवो वै पंक्तिः। तां गायत्रीम् एव प्रसृतां गायति। तस्माद् गर्भा जायमानाः प्रसार्यन्ते। ताम् अधीयन् गायेत्। यद् अनधीयन् गायेत् सामि गर्भाः पतेयुः। सामि ह वै दुरुद्गातुर् वर्तन्यां गर्भाः पतन्ति। अथ यद् एतद् उत्तमं तृचं जन्मैव तत्। प्रैव तेन जनयति॥

मनो वै रेतस्या प्राणो गायत्री चक्षुस् त्रिष्टुप् श्रोत्रं जगती वाग् अनुष्टुप्। स यो मनो रेतस्येति विद्वान् उद्गायति महामना मनस्व्य् अस्माद् आजायते। अथ यः प्राणो गायत्रीति विद्वान् उद्गायति महामना मनस्व्य् अस्माद् आजायते। अथ यः प्राणो गायत्रीति विद्वान् उद्गायति महामना मनस्व्य् अस्माद् आजायते। अथ यः प्राणो गायत्रीति विद्वान् उद्गायति सर्वम् आयुर् एति। अथ यो ऽस्माद् आजायते स सर्वम् आयुर् एति। अथ यश् चक्षुस् त्रिष्टुब् इति विद्वान् उद्गायत्य् अह्रीतमुखी पश्यो दृष्ट्यास्माद् आजायते दर्शनीयः। अथ यश् श्रोत्रं जगतीति विद्वान् उद्गायति शुश्रूषुश् श्रोत्रियेणास्माद् आजायते श्रवणीयः। अथ यो वाग् अनुष्टुब् इति विद्वान् उद्गायति शस्तोद्गाता वाचोरार्द्ध्य् अस्माद् आजायते -- ॥1.261॥


-- सभेयः॥

एवं ह्य् एतत् कुरुपञ्चाला अविदुः। तस्मात् कुरुपञ्चालेषु सर्वैर् वीरैस् सह वीर आजायते। अथ यर्ह्य् एतद् उदन्ताः पुरा नावेदिषुस् तस्माद् उदन्तेषु पुरा सर्वैर् वीरैस् सह वीरो नाजनि। अथ यत इदम् उदन्तान् एवंविदश् च सचन्त एवंविदश् चैनान् याजयन्ति ततो हर्वाचीनम् उदन्तेषु सर्वैर् वीरैस् सह वीर आजायते॥

कुरुपञ्चाला ह ब्रह्मोद्यम् ऊदिरे। ते ह पञ्चालाः कुरून् पप्रच्छुः किं वयं तद् यज्ञे ऽकुर्म येनास्मासु सर्वैर् वीरैस् सह वीर आजायत इति। तद् ध न प्रत्यूचुः। तेन हैनान् जिग्युः। ते यत् प्रत्यवक्ष्यन् यस्माद् वयम् एवंविदश् च स्म एवंविदश् च नो याजयन्ति तेनास्मासु सर्वैर् वीरैस् सह वीर आजायत इति। सर्वैर् ह वा अस्माद् वीरैस् सह वीर आजायते य एवं वेद॥

तद् आहुर् विगेया धुरा न विगेया इति। विगेया इत्य् आहुः --॥1.262॥


--कुरवः॥

गायत्रं वै प्रातस्सवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनम्। तद् एवानुष्टुब् अन्वायत्ता। स यद् गायत्रे सति प्रातस्सवने गायत्रीं गायति -- ब्रह्म वै गायत्री ब्रह्म प्रातस्सवनं -- स्व एव तद् आयतने ब्रह्म दधाति॥

अथ यत् त्रिष्टुभं गायति -- क्षत्रं वै त्रिष्टुप्। एनानि वै क्षत्रे शिल्पानि हस्तिनिष्को ऽश्वतरीरथो ऽश्वरथो रुक्मः कंसः -- तान्य् एव तद् आहृत्य ब्रह्मण्य् अनक्ति॥

अथ यज् जगतीं गायति - - विड् वै जगती। एतानि वै विशि शिल्पानि गोऽश्वं हस्तिहिरण्यम् अजाविकं व्रीहियवास् तिलमाषास् सर्पिः क्षीरं रयिः पुष्टिः -- तान्य् एव तद् आहृत्य ब्रह्मण्य् अनक्ति॥

तद् एवानुष्टुब् अन्वायत्ता। अथ यद् अनुष्टुभं गायति -- आनुष्टुभो वै शूद्रः -- शूद्राद् एव तद् आहृत्य ब्रह्मण्य् अनक्ति॥1.263॥


तद् यथा तूष्णीं कशनैर् विहन्याद् एवम् एवैतानि सर्वाणि शिल्पान्य् आहृत्य ब्रह्मण्य् अनक्ति। तस्माद् विगेया इति॥

यतो ह वा इदम् एता विगीयन्ते ततो हेदं ब्राह्मणा जीयन्ते। अथ यर्ह्य् एता न विजगुर् अन्नाद्या ह ब्राह्मणा आसुः। एकापच्चादेवा (एकापश्चादेवा?) हर्वाशत एकशकटे वशे हस्मद् अमथित्वा सत्ययज्ञः पौलुषिर् याति। अथ यत इदम् एता विगीयन्ते ततो हैतानि शिल्पानि ब्राह्मणेष्व् अधिगम्यन्ते॥

गायत्रीं पुरस्ताद् गायति गायत्रीम् उपरिष्टात्। ब्रह्म वै गायत्री। ब्रह्मणैव तद् एतान्य् उभयतश् शिल्पानि परिगृह्णाति। ब्रह्मणा हैनम् एतान्य् उभयतश् शिल्पानि परिगृहीतान्य् उपतिष्ठन्ते य एवं वेद॥

न विगेया इत्य् आहुः पञ्चालाः। स्वयं विगीता वा एता यद् धुरः। अनुसवनं वा एता विगायन्न् अभ्यारोहति। अथ यद् एनान् पापी कीर्त्तिर् अनुतिष्ठति व्यगासिषुर् इति। यौ वै युध्येते याव् ऋतीयेते ताव् आहुर् व्यगासिष्ठाम् इति। अथो ये राष्ट्रे प्यवभिन्दाने -- ॥1.264॥


--तिष्ठत इति॥

गायत्रं वै प्रातस्सवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनम्। तद् एवानुष्टुब् अन्वायत्ता। स यद् गायत्रे सति प्रातस्सवने गायत्रीं गायति -- ब्रह्म वै गायत्री -- ब्रह्मैव तद् ब्राह्मणस्य स्वे ऽन्वाभजति। सो ऽस्यादित्सत उपजिहीर्षते। अथो ऽस्यैव तत्। स्वेन ह्य् एनम् आभजति॥

अथ यत् त्रिष्टुभं गायति -- क्षत्रं वै त्रिष्टुप् -- क्षत्रियम् एव तद् ब्राह्मणस्य स्वे ऽन्वाभजति। सो ऽस्यादित्सत उपजिहीर्षते। अथो ऽस्यैव तत्। स्वेन ह्य् एनम् आभजति॥

अथ यज् जगतीं गायति -- विड् वै जगती -- वैश्यम् एव तद् ब्राह्मणस्य स्वे ऽन्वाभजति। सो ऽस्यादित्सत उपजिहीर्षते। अथो ऽस्यैव तत्। स्वेन ह्य् एनम् आभजति॥

तद् एवानुष्टुब् अन्वायत्ता। अथ यद् अनुष्टुभं गायति -- आनुष्टुभो वै शूद्रः -- शूद्रम् एव तद् ब्राह्मणस्य स्वे ऽन्वाभजति। सो ऽस्यादित्सत उपजिहीर्षते। अथो ऽस्यैव तत्। स्वेन ह्य् एनम् आभजति॥

यद्य् आवृङ् (आविर्?) नाथो पाके नैव लिप्सते। तस्मान् न विगेया इति। यतो ह वा इदम् एता विगीयन्ते ततो हेदं ब्राह्मणा जीयन्ते। अथ यर्ह्य् एता न विजगुर् अजेया ह ब्राह्मणा आसुः॥1.265॥


गायत्रं वै प्रातस्सवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनम्। तद् एवानुष्टुब् अन्वायत्ता। स यद् गायत्रं सत् प्रातस्सवनं सर्वम् एव गायत्रं गायति ब्रह्मण एव तं केवलम् उद्धारम् उद्धरति। सो ऽस्य ब्रह्मणः केवल उद्धार उद्धृतो भवति॥

अथ यत् त्रैष्टुभं सन् माध्यंदिनं सवनं गायत्रेणैवानुप्रतिपद्यते ब्राह्मणम् एव तत् क्षत्रियस्य स्वे ऽन्वाभजति। सो ऽस्मै दित्सति श्रद्धया कर्मणोपचारेण। यदा वै क्षत्रियं श्रद्धा विन्दति ब्राह्मणं वाव स तर्हीछति। सो ऽस्मै ददाति॥

अथ यज् जागतं सत् तृतीयसवनं गायत्रेणैवानुप्रतिपद्यते ब्राह्मणम् एव तद् वैश्यस्य स्वे ऽन्वाभजति। सो ऽस्मै दित्सति श्रद्धया कर्मणोपचारेण। यदा वै वैश्यं श्रद्धा विन्दति ब्राह्मणं वाव स तर्हीछति। सो ऽस्मै ददाति॥

तद् एवानुष्टुब् अन्वायत्ता। अथ यद् अनुष्टुभं गायति -- आनुष्टुभो वै शूद्रः -- ब्राह्मणम् एव तच् छूद्रस्य स्वे ऽन्वाभजति। सो ऽस्मै दित्सति श्रद्धया कर्मणोपचारेण। यदा वै शूद्रं श्रद्धा विन्दति ब्राह्मणं वाव स तर्हीछति। सो ऽस्मै ददाति। केवलं स्वं कुरुते ऽपित्वी क्षत्रे भवत्य् अपित्वी विशि। यात्य् अन्तस्थान्तस्थायां जीयते। उप हैनं शतं परिस्कन्दास् तिष्ठन्ते ऽथो भूयांसो य एवं विद्वान् धुरो न विगायतीति। स यदि विगायेद् अदो विद्वान् विगायेत्। यद् उ न विगायेद् इदं विद्वान् न विगायेत्। आर्तिस् सा यो ऽन्यतरद् एव वेदेति ह स्माह शाट्यायनिः॥1.266॥


रेतस्यां गायति। रेतस् तत् सिञ्चति। तद् रेतस् सिक्तं गायत्र्योद्वर्धयति वर्षीयसा छन्दसा। तत् त्रिष्टुभोद्वर्धयति वर्षीयसा छन्दसा। तज् जगत्योद्वर्धयति वर्षीयसैव छन्दसा। तद् यद् वर्षीयसा छन्दसोद्वर्धयति तस्माद् वर्धमानस्य भूयोभूयो वीर्यं भवति॥

अनुष्टुभाणिष्ठं गच्छति ह्रसीयसैव छन्दसा। तस्माद् उत्तरवयसे प्रतितराम् इवाववर्धते। पंक्त्याणिष्ठां गच्छति। तस्मात् पञ्चमे मासि गर्भा विक्रियन्ते। अनुष्टुभा वाचाणिष्ठां गच्छति। तस्माद् उ जीर्णस्य वाचं शुश्रूषन्ते। शिरो वा एतद् यज्ञस्य यद् बहिष्पवमानम्। तद् वै तत्। रेतस्यैवापि सर्व आत्मा। स यद् बहिष्पवमाने -- ॥1.267॥


-- गायत्रीं गायति प्राणो वै गायत्रो गायत्रं शिर एव। तदायतनो वै प्राणः। यच् छिरस् स्व एव तद् आयतने प्राणं दधाति॥

त्रिष्टुभं गायति। चक्षुर् वै त्रिष्टुप्। ताम् एव तद् आहृत्य शीर्षन् नियुनक्ति। यन् नियुनक्ति तस्मान् नियुक्तम् इव चक्षुः। ताम् अन्यत्रायतनां सतीं नियुनक्ति। तस्माद् उत जीवत एव चक्षुर् अपक्रामति॥

जगतीं गायति। श्रोत्रं वै जगती। ताम् एव तद् आहृत्य शीर्षन् नियुनक्ति। यन् नियुनक्ति तस्मान् नियुक्तम् इव श्रोत्रम्। ताम् अन्यत्रायतनां सतीं नियुनक्ति तृतीयसवनायतनां वा। तां यद् अन्यत्रायतनां सतीं नियुनक्ति तस्माद् उत जीवत एव श्रोत्रम् अपक्रामति।

अनुष्टुभं गायति। वाग् वा अनुष्टुप्। ताम् एव तद् आहृत्य शीर्षन् नियुनक्ति। यन् नियुनक्ति तस्मान् नियुक्तेव वाक्। ताम् अन्यत्रायतनां सतीं नियुनक्ति तृतीयसवनायतनां वा सर्वायतनां वा। तां यद् अन्यत्रायतनां सतीं नियुनक्ति तस्माद् उत जीवत एव वाग् अपक्रामति। अवान्ये प्राणाः क्रामन्ति न प्राणः॥1.268॥


तद् आहुः किं तद् यज्ञे क्रियते यस्माज् जीवत एवान्ये प्राणा अपक्रामन्ति न प्राण इति। स ब्रूयाद् यस्मात् स्व आयतने गायत्रीं गायति तस्माद् यावज् जीवति तावत् प्राणो नापक्रामतीति॥

अथ ह वै धुरां विज्ञाश् च संज्ञाश् च। मानो वै रेतस्या प्राणो गायत्री चक्षुस् त्रिष्टुप् श्रोत्रं जगती वाग् अनुष्टुप्। मनसा सुहार्दसं च दुर्हार्दसं च विजानाति। प्राणेन सुरभि चासुरभि च विजानाति। चक्षुषा दर्शनीयं चादर्शनीयं च विजानाति। श्रोत्रेण श्रवणीयं चाश्रवणीयं च विजानाति। वाचा स्वादु चास्वादु च विजानाति। एता इह विज्ञाः। वि ह वै ज्ञायते श्रेयान् भवति य एवं वेद॥

ता उ एव संज्ञाः। मनो वै रेतस्या प्राणो गायत्री चक्षुस् त्रिष्टुप् श्रोत्रं जगती वाग् अनुष्टुप्। रेतस्यायां प्रस्तुतायां यस्य कामयेत - ॥1.269॥


-- तस्य मनसा मनो ध्यायेत्। गायत्र्यां प्रस्तुतायां यस्य कामयेत तस्य प्राणेन प्राणं ध्यायेत्। त्रिष्टुभि प्रस्तुतायां यस्य कामयेत तस्य चक्षुषा चक्षुर् ध्यायेत्। जगत्यां प्रस्तुतायां यस्य कामयेत तस्य श्रोत्रेण श्रोत्रं ध्यायेत्। अनुष्टुभि प्रस्तुतायां यस्य कामयेत तस्य वाचा वाचं ध्यायेत्। एता उ ह संज्ञाः। सं ह वै तेन जानीते येन कामयते ऽनेन संजानीयेति य एवं वेद॥

अथैता देवधुरश् च मनुष्यधुरश् च संदधति। मनो वै मनुष्यधुर् आपो देवधुरः। रेतस्यायां प्रस्तुतायां मनसापस् संदध्यात्। तद् अन्तरा यजमानस्य मनो ऽवयातयेत्। प्राणो वै मनुष्यधूर् वायुर् देवधूः। गायत्र्यां प्रस्तुतायां प्राणेन वायुं संदध्यात्। तद् अन्तरा यजमानस्य प्राणम् अवयातयेत्। चक्षुर् वै मनुष्यधूर् आदित्यो देवधूः। त्रिष्टुभि प्रस्तुतायां चक्षुषादित्यं संदध्यात्। तद् अन्तरा यजमानस्य चक्षुर् अवयातयेत्। श्रोत्रं वै मनुष्यधूर् दिशो देवधूः। जगत्यां प्रस्तुतायां श्रोत्रेण दिशस् संदध्यात्। तद् अन्तरा यजमानस्य श्रोत्रम् अवयातयेत्। वाग् वै मनुष्यधूः पृथिवी देवधूः। अनुष्टुभि प्रस्तुतायां वाचा पृथिवीं संदध्यात्। तद् अन्तरा यजमानस्य वाचम् अवयातयेत्। एतद् वै देवधुरश् च मनुष्यधुरश् च संदधाते। तद् वै देवधुरश् च मनुष्यधुरश् च संधाय तं मृत्युं तरति यस् स्वर्गलोके। न हैवंवित् पुनर् म्रियते। देवतास्व आत्मनम् उपसंदधाति॥1.270॥