← कण्डिका ३११-३२० जैमिनीयं ब्राह्मणम्/काण्डम् १
कण्डिका ३२१-३३०
[[लेखकः :|]]
कण्डिका ३३१-३४० →

-स इन्द्रः। इन्द्रस् सर्वे देवाः। स हैव देवलोकं गमयति य एवं विद्वान् उद्गायति। अथ हान्ये गन्धर्वलोकं वा पितृलोकं वा गमयन्ति। अथो हास्यै ताभ्याम् एव धूर्भ्यां सर्वा धुर उपाप्ता भवन्ति॥

प्रजापतिर् यज्ञम् असृजत। तं देवेभ्यः प्रायच्छत्। गायत्रेणैव प्रातस्सवनं प्रायच्छत् सामभिर् माध्यंदिनं सवनं तृतीयसवनं च। आमहीयवप्रतिपद् एव माध्यंदिनं सवनम् आसीत् संहितप्रतिपत् तृतीयसवनम्। तेनायजन्त। तेषां यद् एव गायत्रं शिर आसीत् तत् समभवत्। ते देवाः प्रजापतिम् उपेत्याब्रुवन्न् एकं वाव किल सामास गायत्रम् एव। यद् वाव नो गायत्रं शिरो ऽभूत् तत् समभूत्। तथा न इदं यज्ञं विधेहि यथा सर्वं एव साङ्गास् सतनवो ऽअमृतास् संभवामेति। स एतस्माद् एव प्रातस्सवनात् षड् गायत्राण्य् उदखिदत्। त्रीणि माध्यंदिनं सवनम् अवहरत् त्रीणि तृतीयसवनम्। तम् अब्रुवन् यत इदम् आदिथाः किम् अह भविष्यतीति। सो ऽब्रवीच् छन्दांस्य् अत्र प्रतिवप्स्यामि छन्दोभिर् एता आ( यायिष्यन्त इति। यद् अब्रवीच् छन्दांस्य् अत्र प्रतिवप्स्यामि छन्दोभिर् एता आख्यायिष्यन्त इति तस्माद् एता गायत्रीस सतीश् छन्दोभिर् आख्यायन्ते॥

अथोपगीतनैव ते ऽयजन्त। ते सर्व एव साङ्गास् सतनवो ऽमृतास् समभवन्। सर्वो हैव साङ्गस् सतनुर् अमृतस् संभवति य एवं वेद। एतस्मिन् तद् यद् विद्वान् श्रेयान् भवतीति ह स्माह शाट्यायनिः॥1.321॥


अथैतद् आमहीयवं प्राजापत्यं सवनमुखे क्रियते। तद् एतत् स्वयं प्रशस्तं यत् प्रजापत्यम्। तस्मिन्न् उ प्रशस्त एव सत्य् एषा भूयसी प्रशंसा क्रियते यद् एतद् ओम् इत्य् आदत्ते। असौ वा आदित्य एतद् अक्षरम्। तद् एतत् त्रयस्य वेदस्यापीळितम् अक्षरम्। स यद् ओम् इत्य् आदत्ते ऽमुम एवैतद् आदित्यं मुख आधत्ते। स यथा मधुना लाजान् प्रयुयाद् एवम् एवैतेनाक्षरेण सामन् रसं दधाति। तद् आप्याययति। तेनास्यापीनेन रसवता स्तुतं भवति॥
प्रतिह्रियमाणं सामावसीदतीत्य् आहुः कुरवस् स यद् ऊर्ध्वं प्रतिहाराद् उद्गृह्णाति तद् उत्थापयतीति। सामान्न् एवेदं सामाभिगायामीत्य् एव तद् विद्याच् छ्रेष्ठताम् अनेन स्वानां गमिष्यामीति॥

पुनानस् सोम धारया इति प्रस्तौति। अपो वसानो अर्षसि इत्य् अष्टाक्षराणि॥ आ रत्नधा योनिम् ऋत-इत्य् अष्टेन तानि षोडश। -स्य सीदसि इति चत्वारि। ततो यानि षोडश स एव षोडशकलः पशुः। अथ यानि चत्वारि त एतस्य पशोस् स्तनाः। स यथा पशुं स्तनिनं प्रत्तं दुहीतैवम् एवैतेन गीतेनैतद् दुहे यं कामं कामयते। तत् पशव्यम् इति ह स्माह सुचित्तश् शैलनस् स पशुमान् भवति य एवं विद्वान् रौरवं गायतीति॥1.322॥


प्रस्तूयमानं साम प्रजाकामो ऽभ्युद्गायेद् विहृते प्रस्तावे क्षत्रकामः। प्रतिह्रियमाणम् एव पशुकामो ऽभ्युद्गायेत्। निधनम् एव स्वरम् उपयन् ब्रह्मवर्चसं ध्यायेत। ब्रह्मवर्चसं हि स्व (रः)। ते चत्वारस् सामन् कामा इति ह स्माह जानश्रुतेयः। अथ ह स्माह वैतहव्यस् त्रय एव सामन् कामाः। यद् एव वाचा करोति सा प्रजा। मनसो हि वाक् प्रजायते। स यद् वाचा करोमि-प्रजा म एषा-प्रजावान् एतेन भविष्यामीत्य् एव तद् विद्यात्। अथ यद् ऋचं गायति ते पशवः। पशवो ह्य् ऋक्। स यद् ऋचं गायामि-पशवो म एते-पशुमान् एतेन भविष्यामीत्य् एव तद् विद्यात्। अथ यन् निधनं स्वरम् उपैति तद् ब्रह्मवर्चसम्। ब्रह्मवर्चसं हि स्वरम् उपैमि-ब्रह्मवर्चसं म एतत्-ब्रह्मवर्चस्य् एतेन भविष्यामीत्य् एव तद् विद्यात्। अत्रैवैते सर्वे कामा उपाप्यन्त एवं विदुष इति॥
तद् एतत् सत्यम् अक्षरं यद् ओम् इति। वज्रा ह खलु वा एते यद् यौधाजयस्य साम्नो निधनानि। ते देवा एतेन सत्येनाभिगीय ओम् इत्य् एतैर् यौधाजयस्य निधनैर् असुरान् पाप्मानं भ्रातृव्यान् अघ्नन्। एवम् एवैवं विद्वान् एतेन सत्येनाभिगीय ओम् इत्य् एतैर् यौधाजयस्य निधनैर् द्विषन्तं पाप्मानं भ्रातृव्यं हन्ति॥

तत् त्रिणिधनं भवति। त्रयो वा इमे लोकाः। वज्रा एते यन् निधनानि। एभ्यो लोकेभ्य एतैर् वज्रैस् सर्वं पाप्मानम् अपहते। अथो हास्यैत एव वज्रा एषु लोकेषु सर्वं पाप्मानम् अपहत्य ओम् इत्य् एव स्वर्गे लोकम् आरोहति॥1.323॥


अथैतद् औशनं त्रैष्टुभम्। तद् यत्र देवासुरास् संयत्ता आसंस् तद् एष्व् अव्रवीत् त्रिर् अहं ष्टुब् अस्मीति। यद् अब्रवीत् त्रिर् अहं ष्टुब् अस्मीति तस्मात् त्रिष्टुप्। ते देवा एतया त्रिस् स्तुत्वा द्विषन्तं पाप्मानं भ्रातृव्यम् अघ्नन्। एवम् एवैवं विद्वान् एतया त्रिस्स्तुत्वा द्विषन्तं पाप्मानं भ्रातृव्यं हन्ति। तस्य त्रिः प्ररोहति। त्रैष्टुभो वा असाव् आदित्यश् शुक्लं कृष्णं पुरुषः। त्रैष्टुभम् इदं चक्षुश् शुक्लं कृष्णं पुरुषः। तच् छ्रेष्ठया देवतया संपाद्योद्गायति। स श्रेष्ठतां स्वानाम् अश्नुते य एवं विद्वान् औशनं गायतीति॥1.324॥


अथ निर्बाधापस्तम्भौ। साम्नो हिंक्रियमाण एतां दिशं यं द्विष्यात् तं मनसा निर्बाधेत। तत एव स पराभवति। प्रतिह्रियमाण एताम् उ एव दिशं यं द्विष्यात् तं मनसापस्तभ्नुयात्। तत उ एव स पराभवति॥

अथो त्रयस् साम्नस् स्वर्गास् त्रयो नारकाः। प्रस्तुते पुरादेस् स नारकः। तद् द्विषन्तं भ्रातृव्यं पातयित्वादिस् स्वर्गो लोकः। तस्मिन् आत्मानं दध्यात्। प्रतिहृते पुरोपद्रवात् स नारकः। तद् द्विषन्तं भ्रातृव्यं पातयित्वोपद्रवस् स्वर्गो लोकः। तस्मिन्न् आत्मानं दध्यात्। उपद्रुते पुरा निधनात् स नारकः। तं द्विषन्तं भ्रातृव्यं पातयित्वा निधनं स्वर्गो लोकः। तस्मिन्न् आत्मानां दध्यात्॥

तद् उ होवाच शाट्यायनिर् अपहतपाप्मैतत् साम्नो यद् ऊर्ध्वं प्रस्तावात् स्वर्ग एषु लोकः। कस् तस्मिन् द्विषन्तं भ्रातृव्यम् आभजेत। प्रस्तुत एव पुरादेस् स एवैको नारकः। तद् द्विषन्तं भ्रातृव्यम् पातयित्वा सर्वस्मिन्न् एव सामन्न् आत्मानं दध्यात्। अथो यजमानम्। सो ऽपहत्य पाप्मानं स्वर्गं लोकम् एति। एतत् तद् यत् कृत्वा श्रेयान् मन्यत इति॥1.325॥


यो वा ऋक्सामाभ्याम् आयतनवद्भ्याम् आर्त्वि्ज्यं करोत्य् आयतनवान् भवति। प्रस्ताव एवर्चस् सामन्न् आयतनम्। यद् ऊर्ध्वं प्रस्तावाच् छन्नं गायति तत् साम्न ऋच्य् आयतनम्। प्रतिहार एवर्चस् सामन्न् आयतनम्। यद् ऊर्ध्वं प्रतिहाराच् छन्नं गायति तत् साम्न ऋच्य् आयतनम्। निधनम् एवर्चस् सामन्न् आयतनम्। यन् निधनम् अतिस्वरति तत् साम्न ऋच्य् आयतनम्। स य एवम् एताभ्याम् ऋक्सामाभ्याम् आयतनवद्भ्याम् आर्त्विज्यं करोत्य् आयतनवान् एव भवति॥

तद् वा एतद् द्वयम् एवर्क् च साम च। तयोर् यत् सत्यं प्रजासु भवति जयति तं लोकं यस् सत्येन जेयः। वाग् वा ऋचस् सत्यं मनस् साम्नः। एते ह वा ऋक्सामयोस् सत्ये। सत्यं प्रजासु भवति जयति तं लोकं यस् सत्येन जेयः। ( ऋचस्) सत्येन साम गायात् साम्नास् सत्येनर्चम्। ऋक्साम्ने उ ह वै स्वर्गस्य लोकस्येशाते। तं ह वा एते स्वर्गे लोकं गमयतः। स स्वर्गस्य लोकस्येशे य एने एवं गायति। तस्माद् एवम् एव गेये॥1.326॥


रथन्तरेण स्तोष्यमाणः पृथिवीम् अभिमृशति नमो मात्रे पृथिव्यै रथन्तर मा मा हिंसीः इति। अथ महिम्नस् संभरति यस् ते अग्नौ महिमा यस् ते अप्सु रथे यस् ते महिमा स्तनयित्नौ य उ त वाते यस् ते महिमा तेन संभव रथन्तर द्रविणस्वन् न एधि इति। अथ वामदेव्यं पुरस्ताच् छान्तिम् अभिव्याहरंति प्रजापतिर् असि वामदेव्यं ब्रह्मणश् शरण तन् मा पाहि इति। अथैता अमृतव्याहृतीर् अभिव्याहरति भूर् भुवस् स्वः॥ क इदम् उद्गास्यति स इदम् उद्गास्यति इति। प्रजापतिर् वै कः। तम् एवादाव् आर्त्विज्याय वृणीते। स य एवं तद् उद्गायति वाचैवास्य कृतं भवत्य् अनृण आत्मना भवति। अथाभ्यनिति। प्राणे वै शान्तिर् अग्निर् वै बृहद्रथन्तरे। ते प्राणेन शमयति। अथ ये शान्ते बृहद्रथन्तरे गायति ते हैते युवानश् श्रोत्रियाः प्रमीयन्ते स्वयम् उपरिष्टाद् वामदेव्यम्॥1.327॥


स यथा घर्मं तप्तं शफाभ्यां परिगृह्य हरेद् एवम् एवैतद् बृहद्रथन्तरे वामदेव्याभ्यां परिगृह्य हरति। ते एनं नोदोषतः। स सर्वम् आयुर् एति य एवं विद्वान् बृहद्रथन्तरे गायति। इयं वै रथन्तरम्। तस्या असौ वत्सो यो ऽसौ तपति। स यत् भा भा इति स्तोब्ध्य् एतम् एव तद् आदित्यं रथन्तरं दुहे यं कामं कामयते॥

श्रीर् वै रथन्तरम्। तस्या इमे स्तोभा यद् अस्यां पृथिव्याम् अधि। सैषा श्रीर् नान्यत्राक्षरेभ्य आप्तव्या। स यद् अक्षरेषु स्तोब्ध्य् एताम् एव तच् छ्रियम् आप्त्वैतस्यां प्रतितिष्ठति। सा हैषैकस्था श्रीर् यद् अक्षरेषु। तस्माद् अक्षरेषु स्तोब्धव्यम्॥1.328॥


तद् एतद् अमूलं रथन्तरं यद् अन्यत्राक्षरेभ्यः। एतस्माद् धीदम् आयतनात् प्रच्यवन्ते ये ऽन्यत्राक्षरेभ्यस् स्तोभन्ति। अथ यो ऽक्षरेषु स्तोब्धि स्व एव तद् आयतने प्रतितिष्ठति। तस्माद् अक्षरेष्व् एव स्तोब्धव्यम्॥

देवतागायिनः कुरुपञ्चाला आयतनाद् अच्यवन्तेति ह स्माह शाट्यायनिः। मनो वै पूर्वम् अथ वाक्। मनो वै बृहद् वाग् रथन्तरम्। तद् यत्र बृहद्रथन्तरे आजिम् ऐतां तद् बृहद् उदजयद् रथन्तरं हीयमानम् अमन्यत। तद् यत् क्षिप्रं रथन्तरं गायति मनश् च वै तद् वाचं च समे करोति। तद् इदं रथन्तरम् ईक्षते यो माम् अनेन समम् अकृद् धन्तायं क्षिप्रे पाप्मानं निजहात्व् इति। स क्षिप्रे पाप्मानं विजहाति य एवं विद्वान् क्षिप्रं रथन्तरं गायति॥1.329॥


तत् पूर्णमुखेन प्रधून्वन् क्षिप्रं गायेत्। श्रीर् एषा यद् रथन्तरम्। श्रियम् एतद् आत्मन् धत्ते। अथो अग्निर् एष यद् रथन्तरम्। तस्मात् क्षिप्रं मुमुक्षितव्यम्। यत्र वा अग्निर् उपतिष्ठमानो दहति दूर इव वै तत्रौषधयः प्रजायन्ते। यत्रोपधून्वन्न् एति क्षिप्रं तत्रौषधयः प्रजायन्ते। क्षिप्रं प्रजया पशुभिः प्रजाया इति प्रतिहारेप्रतिहार उद्गाता इळ् इति ब्रूयात्। पशवो वा इळायतनं रथन्तरम्। आयतन एव तद् एतान् पशून् प्रतिष्ठापयति॥

तद् धैतद् एक एकरूपम् एव भा भा इति स्तोभन्ति। असौ वा आदित्यो भा इति। तद् उ होवाच शाट्यायनिर् अमिथुनम् एतद् अप्रजननं यद् एकरूपम्। भगो वा असौ भिद् इयम्। पुमान् वा असौ स्त्रीयम्। यदा वा असौ वर्षत्य् अथेयं प्रजायते। यदो वै पुमान् योषायां रेतस् सिञ्चत्य् अथ सा प्रजायते। तस्मात् अभुभाभिभभेभम इत्य् एवं मिथुनं प्रजननं स्तोब्धव्यम्। यावत् स्तोभेत् तावत् पृथिव्यां हस्तौ स्यातां देवरथस्यानपव्याधाय॥1.330॥