प्रमुखा विकल्पसूचिः उद्घाट्यताम्

षोडशाक्षराणि स्तोभति। षोडशकलो वै पुरुषः। कलाश एव तद् यजमानम् एतस्यां देवयोन्यां सिञ्चति। स एतस्यै देवयोन्यै जायते देवान् अधि। चतुर्दशचतुर्दशोत्तरयोः। ततो यानि दश सा विराड् अन्नं विराट्। अथ यानि चत्वारि त एव चतुष्पादाः पशवः। चतुष्पदः पशून् अवरुन्द्धे॥

षोडणाक्षराणि स्तोभति। ततो यानि पञ्चदश स वज्रः पञ्चदशः। अथ यत् षोडषम् अक्षरं स इन्द्रः। इन्द्रो वज्रस्योद्यन्ता षोडशः। तम् इन्द्रं यजमानम् अकृत्। तद् उद्गाता यजमानस्य पञ्चदशेन वज्रेण द्विषन्तं पाप्मानं भ्रातृव्यं स्तृणाति। चतुर्दश-चतुर्दशोत्तरयोः। स ह स वज्र ऊनो नारम्भणः। तद् उद्गाता यजमानस्य भ्रातृव्यायतने भ्रातृव्यं वितक्ष्णोति भ्रातृव्याययतने भ्रातृव्यं विनाशं नयति। न हास्य कश् चन भ्रातृव्यो भवति य एवं वेद॥

षोडशाक्षराणि स्तोभति। चतुर्दशचतुर्दशोत्तरयोः। तानि चतुश्चत्वारिंशद् अक्षराणि संपद्यन्ते। चतुश्चत्वारिंशदक्षरा त्रिष्टुप्। त्रैष्टुभ इन्द्रः। स ह स इन्द्रश् छन्दसां मध्यत प्रावसितो बहूनि छन्दांसि पुरस्ताद् बहून्य् उपरिष्टात्॥1.331॥


छन्दांसि वै सर्वे स्तोमास् सर्वे पशवस् सर्वे देवास् सर्वे लोकास् सर्वे कामाः। तत् सर्वान् स्तोमान् सर्वान् पशून् सर्वान् देवान् सर्वान् लोकान् सर्वान् कामान् आप्नोति॥

अग्निर् एष यद् रथन्तरम्। अग्निर् वै मृत्युः। स यो ऽन्यत्राक्षरेभ्यस् स्तोब्धि स एवोद्गाता यजमानं मृत्योर् आस्ये ऽप्यस्यति। अथो यो ऽक्षरेषु स्तोब्धि-अन्नम् उ वै स्तोभः -स्तोभेनस्तोभेनैव मृत्योर् आस्यम् अपिधायैतं मृत्युम् अतितरति। अथो समुद्र एष यद् रथन्तरम्। अथ यो ऽन्यत्राक्षरेभ्यस् स्तोब्धि स एवैतं समुद्रं प्रविशति। अथ यो ऽक्षरेषु स्तोब्धि यथा नावा वा प्लवेन वा द्वीपाद् द्वीपं संक्रामेद् एवम् एवैतं समुद्रम् अतितरति॥

स्वर्दृशम् इति निराह। यदा वै स्वर् गच्छत्य् अथामृतो भवति। तं सर्वेभ्यो देवेभ्यस् सर्वेभ्यो भूतेभ्यः प्राह स्वर् अयं ब्राह्मणो ऽगन्न् अमृतो ऽभूद् इति। सर्वे देवास् सर्वाणि भूतान्य् अनुवुध्यन्ते॥1.332॥


अथैतद् वामदेव्यम्। आ प्रतिहाराद् अनवानं गेयम्। प्राणो हि वामदेव्यम्। प्राणान् नेद् अवच्छिद्या इति॥

नो हान्यस्यानुवर्त्म गेयम्। ईश्वरो होपजीवी भवितोर् यो ऽन्यस्यानुवर्त्म गायति। स्वधूर् एव गेयम्॥

तद् ध स्माह व्रह्मदत्तश् चैकितानेयो रूक्षितम् इवैतद् यद् वामदेव्यं निर्धूतम् इव। सामानि ह्य् अस्मात् सृष्टानि यथा जरत्कोशो वा स्याद् अश्वतरा वा विच्छिद्वहा। पृष्ठंपृष्ठं हि प्रतिवहतीति। तस्मिन् पृष्ठरूपं वा गायेद् एता वा व्याहृतीर् व्याहृत्योद्गायेद् गोश् चाश्वश् चाजा चाविश् च व्रीहिश् च यवश् चेति। गौर् एव रथन्तरम् अश्वो बृहद् अजा वैरूपम् अविर् वैराजं व्रीहयश् शक्वर्यो यवा रेवतयः। तद् ये ऽस्माद् रसात् सृष्टा भवन्ति तान् अस्मिन् दधाति। तद् आप्याययति। तेनास्यापीनेन रसवता स्तुतं भवति॥

स यदि वृष्टिकामस् स्यात् आपो वायुर् आपो वायुः इति पुरस्ताद् व्याहृत्य वामदेव्येन स्तुवीत। तथो हैवास्मै वर्षति॥

अथो पशवो वै वामदेव्यम्। स पशुमान् भवति य एवं विद्वान् वामदेव्येन स्तुते॥

तद् ध वै सुगीतं ब्रह्मसाम्नो यद् एनद् ब्रह्मलोकैस् संपाद्योद्गायति। सप्त कृत्वो ब्रह्मसाम्नः प्ररोहति। सप्तम् उ लोके ब्रह्म। वासो मान्दानो वा इति चतुः प्रारुक्षत् आन्धासा भी वात्सान् नो वा इति त्रिः। तत् सप्त संपद्यते॥1.333॥


उपोदको नाम लोको यस्मिन्न् अयम् अग्निर् ऋतधाम यस्मिन् वायुर् अपराजितो यस्मिन्न् आदित्यो ऽभिद्युर् यस्मिन् वरुणः प्रद्युर् यस्मिन् मृत्यू रोचनो यस्मिन् अशया। विष्टप एव सप्तमो ब्रह्मलोको यस्मिन्न् एतद् ब्रह्म। तत् सप्तमेन प्ररोहेण विष्टपे ब्रह्मलोक आत्मानं दध्याद् अथो यजमानम्। अथो हैनद् गमयति। यद् एनत् स्पृशतीव तद् धैनत् प्रियेण धाम्ना समृद्धयति। यद् ध स्म सुचित्तश् शैलन उद्गृह्णाति स्वासाराधिषु धेनो वा इत्य् अभि ब्रह्मलोकम् आरोहयति प्रियेण धाम्ना समृद्धयति। तद् उ हैनत् समृद्धं प्रियेणो एव धाम्ना समृद्धयति। तद् व् इमं लोकम् आगमयति तेनो सर्वम् आयुर् एति॥1.334॥


अथैतत् कालेयं विस्तृणन्न् इव व्यवसायन्न् इवासंरुन्धन्न् इव गायेत्। यथा यवाचितं वा स्वाचितं यायान् भाषाचितं वेति ह स्म पुरा कुरूणां ब्राह्मणा मीमांसन्त एवम् एतद् यत् कालेयं तद् विकर्षतेव गेयम् इति॥

तद् धैतद् एतद् एके रथन्तरसाम्न ऊर्ध्वम् इळाम् उपयन्ति नकारिणाम् ओयिळा इति। तद् उ होवाच शाट्यायनिर् उद्धतेवैषेळा प्रच्युतेव निततामेव। इळाम् अन्तत उपयन् बृहत्साम्नो द्वितीयस्यै स्तोत्रियायै धोरो इत्य् उद्गृह्णीयात्। तद् एव बृहतो रूपान् न यन्ति। अथ हैके रथन्तरसाम्नश् चैव बृहत्साम्नश् चोर्ध्वाम् एवेळाम् उपयन्त्य् अनवध्मातैषेळा स्वर्ग्येति। तद् उ होवाच शाट्यायनिर् अग्निर् वै रथन्तरं वायुर् वामदेव्यम् इन्द्रो नौधसं विश्वे देवाः कालेयम्। अथैष स्वर्ग एव लोको विश्व एव देवाः। स्वर्ग एव तल् लोके विश्वेषु देवेषु प्रतितिष्ठति स य एनांस् तथा चक्रुषो ऽअनुव्याहरेद् इति वेति वा भविष्यन्तीति। तथा हैव स्युः। तस्माद् एषा निततैवेळान्तत उपेत्या सर्वायुष्टाया अस्य लोकस्यानुद्धातायेति॥1.325॥


अथैतत् संहितं ब्रह्म सवनमुखे क्रियते। तद् एतत् स्वयं प्रशस्तं यद् ब्रह्म। तस्मिन्न् उ प्रशस्त एव सत्य् एषा भूयसी प्रशंसा क्रियते यद् एतद् ओम् इत्य् आदत्ते। असाव् आदित्य एतद् अक्षरम्। तद् एतत् त्रयस्य देवस्यापीळितम् अक्षरम्। स यद् ओम् इत्य् आदत्ते ऽमुम् एवैतद् आदित्यं मुख आधत्ते। स यथा मधुना लाजान् प्रयुयाद् एवम् एवैतेनाक्षरेण सामन् रसं दधाति। तद् आप्यायति। तेनास्यापीनेन रसवता स्तुतं भवति। प्रतिह्रियमाणं सामावसीदतीत्य् आहुः कुरवस् स यद् ऊर्ध्वं प्रतिहाराद् उद् गृह्णाति तद् उत्थापयतीति। सामन्न् उ हैवैतत् सामाभिगीयते। तद् ध वै सुगीतं यत् सामन् सामाभिगायात्। सामन्न एवेदं सामाभिगायामीत्य् एव तद् विद्याच् छ्रेष्ठताम् अनेन स्वानां गमिष्यामीति॥1.336॥


अथैते उष्णिक्ककुभाव् आ प्रतिहाराद् अनवानं गेये। संशीर्णम् इवैतच् छन्दः पुरुषछन्दसम् उष्णिक्ककुभौ। तद् ध शमस्तोमी बालाकिस् सायकं जानश्रुतेयम् अन्तेवासिनम् उद्गापयन् स्वयज्ञे ऽनुव्याजहार। तथा न्वा अयं जानश्रुतेयम् सामागासीद् यथास्येदानीं रुधिरम् उत्पतिष्यतीति। अथ हाजिनवासिनो युध्यमानास् सदः प्रपेदुः। तस्य ह दण्डः पतित्वा रुधिरम् उत्पातयांचकार। स होवाचाथ कथं गायेद् इति। तस्मै हैतद् उवाच असृक् इत्य् एव न निर्द्योतयेत् हो इत्य् एव गायेत्। नो ह सर्वं तृतीयसवनं छन्नं गायेत्। यो हैनं छादयन्तं ब्रूयाद् अधक्षन् वा अयम् उद्गातात्मानं च यजमानं चेति तथा हैव स्याद् दृंह्याम् एव निर्द्योतयेद् दृंहीमानीति वै पशन्त्य सन्ति॥

अथैतच् छ्यावाश्वम्। ऐहो वा एहि या इत्य् एवैते गायन्ति। वाग् एषा वाग् अनुष्टुब् वाच्य् एतद् वाचा प्रतितिष्ठामेति। तद् ध तथा गायन्तं ब्रह्मदत्तं चैकितानेयं गळुना आर्क्षाकायणो ऽनुव्याजहार तथा त्वा अयं दाल्भ्यश् श्यावाश्वम् अगासीद् यथैनं स्वः पामाभ्यारोक्ष्यतीति। तद् उ हेतरो ऽनुबुध्योवाच तथो वाव स वामदेव्यम् अगायद् यथा रूक्ष एवापशुश् चरिष्यतीति॥

अथ ह ब्रह्मदत्तं चैकितानेयं ब्रह्मदत्तः प्रासेनजितः -॥1.337॥


- कौसल्यो राजा पुरो दधे। तस्य ह पुत्रः प्राच्यवद् बभाषे। स होवाच प्रमेयो वा अयम्। युक्त मे पुनर् यास्यामीति। स ह प्रययौ। अथ हास्य जैमवं सजातं वैळूनय आनिन्यिरे। तेषां ह समितिम् आजगाम। स ह स तृणेभ्यो ऽनूत्तस्थौ। उत्पतति ह स्म पुरा। तं ह बहु प्रदाय बह्नाधेतौ समाजग्मतुः। स होवाचेत्थं चेद् इदम् अभूद् एहीदं संप्रब्रवावहा इति। स होचाच गळुनाश् श्यावाश्वं वा आर्चनानसं समिद्धारं परेतं प्रतिसत्त्रिणो हित्वा स्वर्गं लोकम् आयन्। तं हैनं श्यावाश्वेनैव ऐहो वा एहि या इत्य् उदाह्नयन्। हीन इवैष यत् सजातः। स यत् ऐ हो वा एहि या इति गायति स्वेनैवैनत् तत् पाप्मनाभ्यारोहयत इति। तस्मै हैतद् उवाच ओहोइया इत्य् एव गायेत्। ओहो वै नामेन्द्रः। य एवासौ तपत्य् एष एवेन्द्रः। स उ एव सः। तस्यै सर्वे देवा अनुवर्त्मानः। सर्वे हास्य स्वा अनुवर्त्मानो भवन्ति य एवं विद्वान् श्यावाश्वं गायतीति॥1.338॥


अथैतद् आन्धीगवं मध्येनिधनं प्रतिष्ठायै। तद् यद् एवात्र यज्ञस्य दुष्टुतं दुश्शस्तं विधुरं तद् एवैतेनानुवस्ते। अथैतस्य कावस्य पञ्च कृत्वः प्ररोहति। पञ्चदशो वै पंक्तिः पांक्ताः पशवः पशवो जगती। तान् एतान् पशुषु पशून् वितनोति। तत् पशव्यम् इति ह स्माह सुचित्तश् शैलनस् स पशुमान् भवति नास्य तन्तिः कुलाच् छिद्यते य एवं विद्वान् कावं गायतीति। तन्तिर् इति ह स्मैतद् गीतम् आचष्टे ऽथो स्वर्गस्य लोकस्य व्याप्तिर् इति॥
इयं वै गायत्र्य् अन्तरिक्षं त्रिष्टुब् असौ जगती। तत् तृतीयेन प्ररोहेण स्वर्गं लोकम् आरोहति। तत् पशव्यं स्वर्ग्यम् इति ह स्माह। एताव् उभौ कामाव् उपाप्नोति॥1.339॥


यौ वै यज्ञस्योधर् वेद प्रत्तं यज्ञं दुहे। यज्ञायज्ञीयं वाव यज्ञस्योधः। तस्यैते स्तना गायत्रं च रथन्तरं च बृहच् च वामदेव्यं च। तद् गायत्रम् इव प्रस्तुयाद् रथन्तरस्येव स्तोभान् स्तोभेद् बृहत इव रोहान् रोहेत्। हिंकारो वामदेव्यं स्वयम् एव यज्ञायज्ञीयम्। एतद् वै यज्ञं यजमानो दुहे। स हेष्ट्वैव श्रेयान् भवति॥
तस्य दश कृत्वः प्ररोहति। षट् कृत्वः पूर्वयोश् चतुर् उत्तमायै। ते दश प्ररोहास् संपद्यन्ते। दशाक्षरा विराड् अन्नं विराट्। य एवासौ तपत्य् एष एव विराट्। एतस्मिन्न् एव तत् स्वर्गे लोके ऽन्ततः प्रतितिष्ठन्ति॥

अथोक्थानि छन्नमिश्राणीव गायेत्। अह्नो ह्य् उक्थानि। अथ रात्रिम् आविर् एव गायेत्। छन्नेवाह्नो रात्रिः। तद् आहुः उद्गातर् अहन् रात्रिम् अगासी रात्र्याम् अहा3ः इति। उभयम् इति ब्रूयात् अहन्न् एव रात्रिम् अगासिषं रात्र्याम् अहः इति। आविर् वा अहः। तस्मिन् यच् छन्नं गायति मिथुनम् एव तत् प्रजननं दधाति। छन्ना वै रात्रिः। तां यद् आविर् गायति यथा तमसि ज्योतिर् दध्यात् तादृक् तत्। तस्माद् रात्र्या एव रूपेणाहर् गायेद् अह्नो रूपेण रत्रिम्॥1.340॥