← कण्डिका ३५१-३६० जैमिनीयं ब्राह्मणम्/काण्डम् १
कण्डिका ३६१-३६४
[[लेखकः :|]]

--प्राणो वै सोमो राजा. तद् यद् धविर्धाने ग्रावभिस् सोमं राजानम् अभिषुत्य नानाग्रहान् गृह्णन्ति नानाप्रवरान् प्रवृणते नाना यजन्ति तेनैवैषां तन् नानेष्टं भवति। अथो यद् एवैषां समाना सता देवता नाना प्रजासु प्रतिष्ठितातो नो असंसुतम् इति। यो ह त्वै संसवे संसवं वेद स हैव संसुन्वतोर् अभिभवति। अयम् एव यो ऽयं पवत एष एव संसवे संसवः। एतं हि सर्वे देवा अनुयन्ति। तस्माद् याम् एव दिशं वाति तां दिशम् ओषधयो वनस्पतयो ऽनुप्रतिहते। स एष वा आपो यदा ह्य् एष ऋच्छति। अथ वर्षास् तिष्ठन्ति। स एव ताव् अन्तरेणावकाशः। सैव सा नदी गिरिभिद् भवत्य् असंसवाय। तस्माद् उ हैव विद्वान् अप्य् उत्काशे दीक्षेत। स हैव संसुन्वतोर् अभिभवति। स एतां देवताम् उपतिष्ठेत शिवो ऽसि प्र त्वापद्ये नमस् ते अस्तु मा मा हिंसीः॥ यो मां द्वेष्टि स आर्तिम् आर्छतु इति। यो हैवैवंविद द्वेष्टि स आर्तिम् आर्छति॥1.361॥


तद् आहुः कतिधावकीर्यमाणः प्रविशतीति। चतुर्धेति ब्रूयात्। चतुर्धा ह वा एष प्रविशति यो ऽवकीर्यते। इन्द्रं बलेन मरुतः प्राणेन बृहस्पतिं ब्रह्मवर्चसेनाग्निम् एवेतरेण सर्वेण॥

अथाशुक्रः परिशिष्यते। तस्यैषा प्रायश्चित्तिः। अमावास्यां रात्रिम् अग्निम् उपसमाधाय परिस्तीर्य परिषिच्यैते आहुती जुहुयात् कामावकीर्णो ऽस्म्य् अवकीर्णो ऽस्मि काम कामाय स्वाहा॥ कामाभिद्रुग्धो ऽस्म्य् अभिद्रुग्धो ऽस्मि काम कामाय स्वाहा इति। सो ऽञ्जलिं कृत्वा त्रिर् उपतिष्ठतु
सं मा सिञ्चन्तु मरुतस् सम् इन्द्रस् सं बृहस्पतिः।
सं मायम् अग्निस् सिञ्चत्व् आयुषा च बलेन च।
दीर्घम् आयुः कृणोतु मे॥
इति। स यद् आह सं मा सिञ्चन्तु मरुतः इति मरुत एवास्मै तत् पुनः प्राणं दधति य एवं वेद तस्मै। स यद् आह सम् इन्द्रः इति इन्द्र एवास्मै तत्पुनर् बलं ददाति य एवं वेद तस्मै। स यद् आह सं बृहस्पतिः इति बृहस्पतिर् एवास्मै तद् ब्रह्मवर्चसं ददाति य एवं वेद तस्मै। स यद् आह सम् अग्नि- इत्य् अग्निर् एवैनं तत् सर्वेणेतरेण समृद्धयति येनावकीर्यमाणो व्यृध्यते। स त्रिर् अभिमन्त्रयते। त्रय इमे लोकाः। आप्नोतीमांस् त्रीन् लोकान् सर्वम् आयुर् एत्य् एव पाप्मानं हते गच्छति स्वर्गं लोकम्॥1.362॥


अथ ह वै नैमिशीया इति सत्त्रिणस् सोमशुष्मगृहपतयस् सत्त्रं निषेदुः। तेषां महेन्द्रो व्यर्धयिष्यन् मर्कटरूपेण पुरोडाशं प्रममाथ। अथ हैषां शितिबाहुर् ऐषकृतो ऽध्वर्युर् अनूचाना आस। स हैतं त्रय्यै विद्यायै शुक्रं रसं प्रवृढं विदांचकार सर्वस्य प्रायश्चित्तिं भूर् भुवस् स्वः इत्य् एताभिर् व्याहृतिभिः। एता वै व्याहृतयस् सर्वप्रायश्चित्तयः। तद् यथा वा अदस् समुद्रो ऽनन्तो ऽपारो ऽक्षितो द्यावापृथिवी सर्व इमे लोका एवं वा एता व्याहृतयो ऽक्षिताः --॥1.363॥


--अदुग्धा अनन्ता अक्षरा इति। तद् यद् वै भूः इति तद् अयं लोको यद् भुवः इति तद् इदम् अन्तरिक्षं यत् स्वः इति तद् असौ लोकः। एता वै व्याहृतयः। एता वै देवता एता व्याहृतय इत्य् एतद् धि तद्विदुषश् शितिबाहोर् ऐषकृतस्य नैमिशे मर्कटः पुरोडाशं प्रममाथ। स होवाच चतुर्गृहीतम् आज्यं गृहीत्वाऽऽ वाहरं जुहोमि वेति। स होवाच तद् अह त्वम् इत्थं चामुथा च यदि त्वम् अनूचिषे मर्कटः पुरोडाशं प्रमथिष्यति तस्य प्रायश्चित्तिम् इति। स होवाच तद् अहाहं वसीयान् भूयासं यद् अहम् अव्वभ्रव्यसमाज्ञातस्य प्रायश्चित्तिम् आ वाहर जुहोमि वेति। आहराणीति होवाच महौषीर् इति। तम् उ हाजहार। तद् यस्यैवं विद्वान् ब्रह्मा भवति दक्षिणतो हास्योदङ् यज्ञः प्रणवो भवति दक्षिणतो हास्योदङ् यज्ञः प्रणवस् संतिष्ठते यस्यैवं विद्वान् ब्रह्मा भवति य उ चैनम् एवं वेद य उ चैनम् एवं वेद॥1.364॥