प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अतिरिक्तम् अनुबुध्यन्ते। अथ ब्रूयान् मानु वषट्कार इति। तान् सर्वाहुतो हुत्वाभ्युत्पूर्यानु वषट्कारे जुहुयात्। यद्य् उ भूयान् एवातिरिच्येत सहैव कलशेन प्रतितिष्ठेत्। यदि राजानम् अववर्षेत् इन्दुर् इन्दुम् अवागात् तस्य त इन्द्व् इन्द्रियावतो मधुमतो विचक्षणस्योपहूतस्योपहूतो भक्षयामि॥ वाग् जुषाणा सोमस्य तृप्यतु इति। तद् आहुः कृत्स्नं वा एतद् अमृतम् अन्नाद्यम् इमं लोकम् आगच्छति यद् आपः। कृत्स्नं वेदम् अमृतम् अन्नाद्याम् इमं लोकम् अगाद् इत्य् एव मन्यमानो भक्षयेत्। सैव तत्र प्रायश्चित्तिः॥
यदि चमसम् अभ्युपाकुर्युस् तम् उत्तरवर्गेणाभिप्रवृत्यासीत। राजा हैतद् ऋचा मिथुनीभवति। तम् अध्वर्युः प्रत्याकीर्य यन् नादायेयाद् यद्य् उ मार्त्विज्यस्याद्य एवैनं संप्रति धिष्ण्यस् स्यात् तं प्रतिसदसो ऽपियुत्य प्रयच्छेत्। तं मार्जयित्वा यद्विधा इतरे चमसास् तद्विधं कुर्युः। सैव तत्र प्रायश्चित्तिः॥1.351॥

यदि प्रातस्सवने कलशो दीर्येत विश्वेत् ता विष्णुर् आ भरत् इति वैष्णवीर् वृहतीर् माध्यंदिने कुर्युः। यदि माध्यंदिने सवने कलशो दीर्येत पवस्व वाजसातये इति वैष्णवीर् अनुष्टुभ आर्भवपवमाने कुर्युः। यदि तृतीयसवने कलशो दीर्येतोक्थ्यं कृत्वा यत् सोमम् इन्द्र विष्णवे इत्य् एतासु ब्रह्मसाम कुर्युः। छिद्रं वा एतद् यज्ञस्य यतः कलशो दीर्यते। तद् विष्णुनैव यज्ञेनोपयच्छान्त। तद् ध्य् अस्य सदेवं वषट्कारणिधनं साम भवति। उभौ वा एताव् अग्नी यद् इयं च वषट्कारश् च। साम्नैवास्यां समिद्धे हूयते॥
श्रायन्तीयं ब्रह्मसाम। सम् एवैनत् तच् छ्रीणन्ति। यज्ञायज्ञीयम् अनुष्टुप्सु प्रोहन्ति। वाग् वै यज्ञायज्ञीयं वाग् अनुष्टुप्। वाचैवैनत् तत् समृद्धयन्ति॥
वारवन्तीयम् अग्निष्टोमसाम। इन्द्रियं वै वीर्यं वारवन्तीयम्। इन्द्रियेणैवैनत् तद् वीर्ये समृद्धयन्ति।
दीर्णस्य परिलाप्सेतापि। अथ उपस्थितम् इच्छेत्। स ब्रूयाद् अन्यं कलशम् आहरतेति। तद् उदीचीनदशं पवित्रं वितत्य शल्कम् अस्याथ राजानम् आनयेत्। अथाग्रयणस्य ग्रहस्याश्चोतयेत्। अथैकधनम्। एकं वा द्वौ वा यावद् अलं मन्येत। सैव तत्र प्रायश्चित्तिः॥1.352॥

यदि ध्रुवः प्रवर्तेत संलिख्य न्युब्ज्य यच् छुद्धं तेनाभ्युत्पूरयेत्। यद्य आग्रयणो ग्रहः प्रवर्तेतेतरेभ्यो ऽभ्युत्पूरयेत्। आत्मा वा आग्रयणो ग्रहः प्राणा इतरे। प्राणेभ्यो वा आत्मा संभवत्य् आत्मनो वा प्राणाः। स एष सर्वाणि सवनानि परिशये यज्ञस्यैवारिष्टयै॥
यदि पृषदाज्यं प्रवर्तेताभ्युत्पूर्य पुनर् गृह्णीयात्॥
यदि श्वावलिह्याद् अहविष्यं वा स्यात्। तद् उत्तरवेद्यां निनीय मार्जयित्वा स्रुचम् अन्यद् गृह्णीयात्॥
यदि नाराशंसं सन्नं चमसम् अभ्युन्नयेरन् नाह सो ऽहुतो भक्षाय नो भक्षितो होमाय। तम् अन्तरा परिधींश् चमसं च निनयेत् हुतस्य चाहुतस्य हुतस्य च पीतापीतस्य सोमस्येन्द्राग्नी पिबतं सुतं स्वाहा इति यजुषां हैके निनयन्ति। तूष्णीम् एवेति ह स्माह शाट्यायनिः। मार्जयित्वा चमसं येनाध्वर्युर् ग्रहेण प्रतिष्ठेत तस्य लिप्सेत। प्राणं वा एतस्योपदासयन्ति यस्य चमसम् उपदासयन्ति। प्राणो वै ग्रहः। प्राणेनैवैनं तत् समृद्धयन्ति॥
यदि पर्युन्नयेरन् पुनस् समवनयध्वम् इति ब्रूयात्। अथ तम् एवानून्नयेरन्। यद्य् उद्गायेयुर् अपि तेषाम् एव संप्रच्छिन्द्युः। यदि परिभक्षयेयुर् उपहवम् इच्छेत॥
यदि बहिर्वेदि चरन्तम् अभ्य् अस्तम् इयाद् अपि वा श्रावयेयुर् गृहपताव् उपहवम् इच्छेत। प्रजापतिर् वै गृहपतिः। प्रजापतिनैवैनं तद् उपह्वयते॥
यदि ग्रावा विशीर्येत द्युतानस्य मारुतस्य ब्रह्मसाम्ना स्तुवीरन्। यदि वान्यो ग्रावा स्यात् तेनाभिषुणुयुः। यदि तन् न विन्देयुर् औदुम्बरं वा पालाशं वा कृत्वा तेनाभिषुणुयुः। सैव तत्र प्रायश्चित्तिः॥1.353॥

यद्य् अक्रीतं राजानम् उपहरेयुर् आं वेत्तोर् इच्छेयुः। अपि गिरिर धावेयुर् यद् दीक्षित एव तावद् आसीत। यदि क्रीतम् अपहरेयुर् यम् एव कं चाधिगत्याभिषुणुयुः। येनैवास्य पूर्वक्रयेण क्रीतो भवति तेनैवास्यायं क्रीतो भवति। सोमविक्रयिणे तु किं चित् कं देयं नेन् नो ऽभिषवो हतो ऽसद् इति॥
यदि तं न विन्देयुर् बभ्रुतूलानि फाल्गुनान्य् अभिषुणुयुः। इन्द्रो वृत्रं वज्रेणाहन्। तस्य यो नस्तस् सोमो निरद्रवत् तान्य् एव बभुतूलानि फाल्गुनान्य् अभवन्। अथ यो वपायाम् उत्खेदनतस् तानि रोहिततूलानि। तस्माद् बभ्रुतूलान्य। एवाभिषुत्यानि मेध्यतराणि॥
असुर्यस् तेनानभिषुत्य इत्य् आहुः। असुरेषु वा इदम् अग्र आसीत्। तद् देवा अभिजित्यात्मन्न् अकुर्वत। तस्माद् अभिषुत्य एवेति॥
यदि तं न विन्देयुर् ऊतीकान् अभिषुणुयुः। इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानस् स ऊतीकान् एव प्राविशत्। तस्मै त एवोतिम् अविन्दन्। ऊतिर् वा एतस्य नश्यति यस्य राजानम् अपहरन्ति। ऊतिम् एवास्मै विन्दन्ति। यज्ञस्य वै यत्र शिरो ऽछिद्यत तस्य यो रसः प्राणेदत् त एवोतीका अभवन्। तम् उ तद् यज्ञम् एव प्रत्यक्षम् अभिषुण्वन्ति यद् ऊतीकान्॥
यदि तं न विन्देयुः - ॥1.354॥

- शुक्लाश् शादो ऽभिषुणुयुः। सोमो वै राजा यद् इमं लोकम् आजगाम स शात्स्व् एव तद् उवास। स एवास्य संन्यङ्गः। तम् एव तद् अभिषुण्वन्ति॥
यदि तं न विन्देयुः पर्णम् अभिषुणुयुः। सोमं वै राजानं यत् सुपर्ण आजहार तस्य यत् पर्ण् अपतत् स एव पर्णो ऽभवत् स एवास्य संन्यङ्गः। तम् एव तद् अभिषुण्वन्ति॥
यदि तं न विन्देयुर् य एव काश् चौषधीर अभिषुणुयुः। सोमं वै राजानं यत् सुपर्ण आहरन् समभिनत् तस्य वा विप्रुषो अपतंस् ता एवेमा ओषधयो ऽभवन्। सर्वा उ ह वै सौम्या ओषधयः। स एवास्य संन्यङ्गः। तम् एव तद् अभिषुण्वन्ति॥
प्रतिधुक् प्रातस्सवने ऽवनयेच् छ्रितं माध्यंदिने सवने दधि तृतीयसवने। तम् उ तं सोमम् एव प्रत्यक्षं भक्षयन्ति यत् पयः। ओषधीनां हि स रसः॥
पञ्च दक्षिणा दद्यात्। पांक्तो यज्ञः। यावती यज्ञस्य मात्रा तस्याम् एवैतत् प्रतितिष्ठन्ति। अवभृथाद् उदेत्य पुनर् दीक्षेत। स यावद् दास्यन् स्यात्् तद् दद्यात्। सैव तत्र प्रायश्चित्तिः॥1.355॥

यद् अर्वाक् स्तुतम् अस्तुतं तत्। यद् अतिष्टुतं दुष्टुतं तत्। यत् संप्रति तत् स्तुतम्। यद् अर्वाक् स्तुयुर् उत्तरे स्तोत्रे तावतीर् वोपप्रस्तुयुर् भूयोक्षरासु वा स्तुवीरन्। न्यून एव तद् अतिरिक्तं दधति मिथुनत्वाय प्रजननाय॥
यद्य् अतिष्टुयुर् उत्तरे स्तोत्रे तावतीभिर् वा न स्तुवीरन् कनीयोक्षरासु वा स्तुवीरन्। अतिरिक्त एव वा तन् न्यूनं दधति न्यूने वातिरिक्तं मिथुनत्वाय प्रजननाय। मिथुनेन जायते य एवं वेद॥
यद् अर्वाक् स्तुयुस् त्रीळम् अग्निष्टोमसाम कुर्युः। द्वे यज्ञस्य छिद्रम् अपिधत्तः। स्व आयत एका भवति। यद्य् अतिष्टुयुस् स्वारम् अग्निष्टोमसाम कुर्युः। न्यूनो वै स्वरः। अत्य् एतद् रेचयन्ति यद् अतिष्टुवन्ति। यद् एकयातिष्टुतं विराट् सा लोमशा। यद् द्वाभ्यां स्तनौ तौ। यत् तिसृभिर् दोहस् सः। दोग्धा ह्य् एव यत् तृतीयः। यच् चतसृभिस् स्तनास् ते। यत् पञ्चभिर् दोहः सः। दोग्धा ह्य् एव पञ्चमः। षष्ठ्या वा त्वै सप्तम्या वातिष्टुतम्॥356॥

अथ प्रजापतिः प्राजिजनिषत। स तपो ऽतप्यत। स ऐक्षत हन्त नु प्रतिष्ठां जनये ततो याः प्रजास् सृक्ष्ये ताम् एतद् एव प्रतिष्ठास्यन्ति नाप्रतिष्ठिताश् चरन्तीः प्रदर्षिष्यन्त इति। स इमं लोकम् अजनयद् अन्तरिक्षलोकम् अमुं लोकम् इति॥
तान् इमांस् त्रीन् लोकान् जनयित्वाभ्यश्राम्यत्। तान् समतपत्। तेभ्यस् संतप्तेभ्यस् त्रीणि शुक्राण्य् उदायन्न् अग्निः पृथिव्या वायुर् अन्तरिक्षाद् आदित्यो दिवः॥
स एतानि शुक्राणि पुनर् अभ्य् एवातपत्। तेभ्यस् संतप्तेभ्यस् त्रीण्य् एव शुक्राण्य् उदायन्न् ऋग्वेद एवाग्नेर् यजुर्वेद वायोस् सामवेद आदित्यात्॥
स एतानि शुक्राणि पुनर् अभ्य् एवातपत्। तेभ्यस् संतप्तेभ्यस् त्रीण्य् एव शुक्राण्य् उदायन् भूः इत्य् एवर्ग्वेदात् भुवः इति यजुर्वेदात् स्वः इति सामवेदात्। तद् ध वै त्रय्यै विद्यायै शुक्रम्। एतावद् इदं सर्वम्। स यो वै त्रयीं विद्यां विदुषो लोकस् सो ऽस्य लोको भवति य एवं वेद॥1.357॥

स वै खलु प्रजापतिर् यज्ञं सृष्ट्वोर्ध्व उदक्रामत्। स देवान् अब्रवीद् एतेन यूयं त्रयेण वेदेन यज्ञं तनुध्वम् इति। ते देवा अनेन त्रयेण वेदेन यजमाना अप पाप्मानम् अघ्नत प्र स्वर्गं लोकम् अजानन्। ते ऽब्रुवन् यन् नु वयम् अनेन त्रयेण वेदेन यजमाना अप पाप्मानम् अवधिष्माभि प्र स्वर्गं लोकम् अज्ञासिष्म। यन् नु नो ऽद्यायं यज्ञो भ्रेषं नीयात् केनैनं भिषज्यामेति। तान् प्रजापतिर् अब्रवीद् यद् वा एतस्य त्रयस्य वेदस्य ते इन्द्रियं वीर्यं रस आसीद् इदं वा अहं तत् समुदयच्छम् इत्य् एता व्याहृतीः प्रयच्छन्न् एताभिर् एनं भिषज्याथेति। स यदि यज्ञ ऋक्तो भ्रेषं नीयात् भूस् स्वाहा इति गार्हपत्ये जुहवाथ। सैव तत्र प्रायश्चित्तिः। अथ यदीष्टिपशुबन्धेषु वा दर्शपूर्णमासयोर् वा भुवस् स्वाहा इत्य् अन्वाहार्यपचने जुहवाथ। सैव तत्र प्रायश्चित्तिः। अथ यद्य् अनुपस्मृतात् कुत इदम् अजनीति भूर् भुवस् स्वस् स्वाहा इत्य् आहवनीये जुहवाथ। सैव तस्य सर्वस्य प्रायश्चित्तिः। तद् यथा शीर्णं तत् पर्वण पर्व संधाय भिषज्येद् एवम् एवैवं विद्वांस् तत् सर्वं भिषज्यति। अथ यस्यैतद् अविद्वान् प्रायश्चित्तिं करोति यथा शीर्णेन शीर्णं संदध्याच् छीर्णे वा भरम् अध्यदध्यात् तादृक् तत्। तस्माद् उ हैवंविदम् एव प्रायश्चित्तिं कारयेत॥
तद् आहुर् यद् ऋचा होतृत्वं क्रियते यजुषाध्वर्यवं साम्नोद्गीथो ऽथ केन ब्रह्मत्वं क्रियत इति। अनया त्रय्या विद्ययेति ह ब्रूयात्। तस्माद् उ यम् एव ब्रह्मिष्ठं मन्येत तं ब्रह्माणं कुर्वीत। स ह वाव ब्रह्मा य एवं वेद॥1.358॥

तद् आहुर् यत् पूर्वपक्षं मनुष्यास् सुन्वन्त्य् अपरपक्षं देवा अथ सत्त्रिण उभौ पूर्वपक्षापरपक्षौ सुन्वन्त आसते। यो न्वावैकेन मनुष्येण संसुनोति तं न्व् एव परिचक्षते। अथ किं य उभयैर् देवमनुष्यैः। कथं तेषां तद् असंसुतं भवतीति। स ब्रूयाद् अमुं वै लोकं मनुष्याः पूर्वपक्षे वर्धयन्त्य् अमुम् आप्याययन्त्य् अमुं प्रजनयन्ति। पूर्वपक्षे यजमानो विद्याद् अमुम् इदं लोकं वर्धयाम्य् अमुम् आप्याययाम्य् अमुं प्रजनयामि देवानाम् अनुषेणो ऽस्मीति। यो वै श्रेयसो ऽनुषेणो भवति वै स रिष्यति॥
इमम् उ वै लोकं देवा अपरपक्षे वर्धयन्तीमम् आप्याययन्तीमं प्रजनयन्ति। अपरपक्षे यजमानो विद्याद् इदम् इमं लोकं वर्धयामीमम् आप्याययामीमं प्रजनयामि मनुष्याणाम् अनुषेणो ऽस्मीति। यो वै श्रेयसो ऽनुषेणो भवति न वै स रिष्यति॥1.359॥

अथ ह स्माह भाल्लवेय इमं ह वै लोकं देवा अपरपक्षे वर्धयन्तीमम् आप्याययन्तीमं प्रजनयन्ति तस्मात् प्र पूर्वाः प्रजाः पशव ओषधयो वनस्पतयो दर्घ्यं(दप्यन्त्य?) तथापराः कल्याणीतराः प्रतिधीयन्तीति। एतद् धि तद् विद्वान् उवाच। तद् आहुर् यद् रथाह्वयं वा नदीं वा गिरिभिदम् असंसवं मन्यन्ते ऽथ सत्त्रिणस् सामान्यां शालायां बहवस् सुन्वन्त आसते। यदि वै ते मन्यन्ते नानेदं यजामहा इति सं तर्हि सुन्वन्ति। यद्य् उ वै मन्यन्ते गृहपतिम् इदं याजयाम इत्य् अन्तरितास् तर्हि यज्ञाद् भवन्ति॥
कथं तेषां तन् नानेष्टं भवति कथम् असंसुतम् इति स ब्रूयात् --॥1.360॥