प्रमुखा विकल्पसूचिः उद्घाट्यताम्

जैमिनीयं ब्राह्मणम्

द्वितीयं काण्डम्(गवामयनम्)

वाग् एषा यत् पृष्ठानि। ताम् एतां विप्रयुञ्जते। तां विहरन्ति।

सा प्रथमम् अहः प्राप्य रथन्तरं भवति। इयम् एव पृथिवी। वाग् वै रथन्तरम्। सैषा वदति।

सा द्वितीयम् अहः प्राप्य बृहती भवति याम् इमां श्रेष्ठी वाचं वदतीत्य् अवोचद् इति। सा हि दूराच् छ्रूयते॥

सा तृतीयम् अहः प्राप्य वैरूपा भवति यद् इदं तिर्यग् वाच एहि प्रेह्य् आहरोपाहराशय पाययेति।

सा चतुर्थम् अहः प्राप्य विराड् भवति। तूष्णीं निषद्यम्। एतद् ध वै वैराज्यं वाचो यत् तूष्णींनिषद्यं याम् इमां श्रेष्ठिनस् तूष्णीम् आसीनस्यैव जिज्ञासन्ते।

सा पञ्चमम् अहः प्राप्य शक्वरी भवति यया प्रशिष्टश् शक्नोति।

सा षष्ठम् अहः प्राप्य रेवती भवति। ययान्नाद्यं प्रदीयते।

सा न मासि - मास्य् आत्तव्या। लेलिभस्यैतद् आजानं याम् इमां लेलिभा वाचं वदन्ति। इमां वा अयं ह्यो ऽवदद् इमां पूर्वेद्युर् इमां पूर्वसमाम्। समानीं बत वाचं वदति न बतैनं पर्येतीति। एवं तद् यन् मासि - मासि पृष्ठान्य् उपयन्ति॥2.1॥


अथ यथा तूष्णीम् आसित्वा यद् एव कल्याणं यत् पुण्यं तद् व्याहरेत्। सा व्याहृतं बत व्याहार्षीद् व्याहर्ता बतेति। एवं तद् यद् उपरिष्टात् संवत्सरस्य पृष्ठान्य् उपयन्ति। अभ्य् एव रथन्तरेण क्रन्दति, रेत एव बृहता सिञ्चति, गर्भान् एव वैरूपेण दधाति, जनयत्य् एव वैराजेन, वर्धयत्य् एव शक्वरीभिर्, अन्नाद्यम् एव रेवतीभिः प्रदीयते। तत् कुतो मासि - मासि जनिष्यते। यो वै मास्यो गर्भो ऽवपद्यते -- ऽस्रावीद् इति वै तम् आहुः। स यथा सामि गर्भाः पतेयुर् यथा वामा ओषधीर् लिलियुस् ताः किंदिता स्युश् शुष्येयुर् एवैवं तद् यन् मासि - मासि पृष्ठान्य् उपयन्ति॥2.2॥


अथ यथो संवत्सरं भृत्वा गर्भं जनयेद् ऋतौ पक्वा ओषधीः प्रचिनुयुस् तासां कामान् कुर्वीरन्न् एवं तद् यद् उपरिष्टात् संवत्सरस्य पृष्ठान्य् उपयन्ति। अथ ह स्माह चित्रो गांग्यायनि स्पन्दनैषा बहुदोहिनी यत् पृष्ठानि। को ऽहरह स्पन्दनायै धारयितॄन् एषिष्यति। न वा एता-य् अव्यूढे दुह्रे, नो वा एतान्य् उपरिष्टाद् व्यूढे दशरात्रे गायत्र्या परिहृतानि दुह्रे। स यथा स्पन्दनां रज्जुभिर् व्यपतत्य दुह्युर् एवम् एतान्य् उपरिष्टाद् य्यूढे दशरात्रे गायत्र्या परिहृतानि दुह्रे। स यथा उपसृजेद् एवं तद् यद् गायत्रमुखस् त्र्यहो, यथाभिदध्याद् एवं तद् यद् गायत्रमध्यो, यथापहृत्य दुह्याद् एवं तद् यद् गायत्रोत्तमः। तस्माद् उपरिष्टाद् एवोपेत्यानीति।

तद् उ होवाच शाट्यायनिर् यो वा एष चन्द्रमा एष वाव संवत्सर, एष प्रजापतिर्, एष मास इति। एतावान् वावैष यावान् मासः। एतं वावैष आप्त्वा पुनः पल्येते। स पञ्चदश रात्रीर् ऊर्ध्व एति पञ्चदशार्वाङ्। या आपूर्यते ता ऊर्ध्व एत्य्, अथ या अपोछस् ता अर्वाङ्। स आपूर्यमाणो ऽमुं लोकं गच्छति। सो ऽमुना लोकेन संस्पृश्यान्नं भवति। स यद् अस्य तत्र स्वद्यं तत् स्वद इत्यपोछन्न् इमं लोक आगच्छति। स इमा अप ओषधीः प्रविशति। स इमा अप ओषधीः प्रविश्यास्व् अप्स्व् ओषधीष्व् आत्मानं न्युद्यापूर्यमाणो ऽमुं लोकं गच्छति॥2.3॥


स एवम् एव पुनः पल्ययमानस् संवत्सरम् आप्नोति। य यावद् ध वै द्वादशभिस् संवत्सरैर् अवरुन्द्धे तावद् एकेनैव संवत्सरेणावरुन्द्धे, य एवं विद्वान् मासि-मासि पृष्ठान्य् उपैति।

तान् एतांश् चतुरो ऽभिप्लवान् उपयन्ति। तेषां चतुर्विंशती रात्र्यः। चतुर्विंशत्यर्धमासस् संवत्सरः। तद् एषां मासि - मसि संवत्सर आप्तो भवति।
पृष्ठ्यं पञ्चमम् उपयन्ति। तद् एषाम् उपरिष्टात् संवत्सरस्य मासि - मासि पृष्ठान्य् उपेतानि भवन्ति।

अथ ह स्माह महित्थश् शैनमिषिर् यं वा इमम् आहुर् अपृष्ठो ऽधुकोष्णीषः कुलस्य - कुलस्योद्भिदा वेष्टत इत्य् एष ह वाव सो ऽपृष्ठो ऽधुवकोष्णीषो य एव निर्हृतपृष्ठ्यष् षडहः। ते किं तत् पृष्ठ्यस्य षडहस्य स्तोमान् एव कुर्वन्त आद्रियेरन्। अभिप्लवान् एवैतान् पञ्चोपेत्योपरिष्टाद् एव पृष्ठान्य् उपेत्यानीति॥2.4॥


आसौ वा आदित्यो ऽत्राग्र आसीद् यत्रैतच् चात्वालम्। स इदं सर्वं प्रातपत्। तस्य देवाः प्रदाहाद् अभिभयुः। ते ऽब्रुवन् -- सर्वं वा अयम् इदं प्रधक्ष्यति। एतम् ऊर्ध्वम् उदूहामेति। तं षड्भिर् मासैर् ऊर्द्वम् उदोहन्। तम् एकविंशे विषुवत्य् अध्यादधुः। स एष एकविंशे विषुवत्य् अध्याहितस् तपति। तद् ये च ह वा इत ऊर्ध्वा लोका ये चामुतो ऽर्वाञ्चस् तेषाम् एष एतद् उभयेषां विषुवति। तद् यद् उभयेषां विषुवति तस्माद् विषुवान् सः। यथा वै रथनाभाव् अरास् समग्रा एवं हैतस्मिन् सर्वे लोकास् समग्राः। तान् वा एतान् एके परस्ताद् विषुवत ऊर्ध्वान् एव षडहान् उपयन्ति। यथैवैव आ विषुवत उपयन्त्य् एवम् एवापि पराञ्चः। पराङ् वै स्वर्गो लोकः। पराञ्च एतं स्वर्गं लोकं रोहाम। प्रत्यवरोहस् स यद् अर्वाञ्च उपेयाम। अथैवम् अप्रत्यवरूढम् इति वदन्तस् ते ये ह ते तथोपयन्ति य एवं तस्माद् आदित्याद् अर्वाञ्चो लोकास् तान् एवाप्नुवन्ति। यद्य् अपि बहून् संवत्सरान् उपयन्त्य् अथ तान् एवाप्नुवन्ति। अथ य एवैतान् पराचश् चार्वाचश् च षडहान् उपयन्ति त एवैतान् उभयान् लोकान् आप्नुवन्ति पराङ् इयान् अर्वाङ् इति॥2.5॥


स इमं लोकम् अन्तिकाद् अभ्यतपत्। ते वायुम् अवस्तात् पर्यौहन्। तेनैनम् अशमयन्। अपो ह वा एष एतद् बिभर्ति। ते ऽद्भिर् एवैनं तद् अशमयन्। सो ऽमुं परं लोकं प्रातपत्। ते चन्द्रमसं परस्तात् पर्यौहन्। तेनैनम् अशमयन्। प्रजापतिर् वै चन्द्रमाः। प्रजापतिनैवैनं तद् अशमयन्।
त्रिषु ह वा अयम् इदं लोकेषु पवते। त्रिषु तत आदित्यस्, त्रिषु नक्षत्राणि, तस्मात् तान्य् अणिष्ठाणि परार्ध्यानीत्य् एते ह वाव द्वादश देवलोकाः। अथ यथोषसो वा यद् वैवम् एवान्ये लोकाः।

स इमं लोकम् ओकं प्रजानन्न् अभ्यवाविध्यत् तन्त्रिभिः। स्वरसामभिर् अवस्ताद् उपादधुः। सो ऽमुं परं लोकं प्रापश्यत्। तम् उ देवा विध्यत् तन्त्रिभिः। स्वरसामभिः परस्ताद् उपादधुः। तम् एतद् अत्रास्पृण्वन्। यद् अस्पृण्वंस् तत् स्वराणां स्वरत्वम्।

सप्तदशा स्वरसामानो भवन्ति। अन्नं वै सप्तदशम्। अन्नाद्य एवैनं तद् अध्यादधुः। अथो प्रजापतिर् वै सप्तदशः। प्रजापतिनैवैनं तद् अन्नाद्ये ऽध्यादधुः। स एषो हि पूर्वे ऽन्नाद्ये ऽध्याहितस् तपति। ते वा एते स्वरसामान एकपञ्चाशत् सत्रिंशिनीर् विराजस् संपद्यन्ते, पञ्चविंशतिर् अवस्तात् पञ्चविंशतिः परस्तात्। अथ यैकपञ्चाशी तस्याम् एष एतन् मध्य व्यूह्याध्याहितस् तपति। तं न शोको न हिमो नाशनायति न पिपासति नास्य का चनावृत्तिर् अस्ति। न ह वा अशनायति न पिपासति नास्य का चनावृत्तिर् भवति य एवं वेद॥2.6॥


स यथा सर्पिषः कुम्भं वा मधुकुम्भं वा जालोदितशयं ह्रियेरन्न्अवम् एवैष एताभिर् विरा्ड्भिः परिगृहीतः। प्राञ् च प्रत्यञ् च यत एताभिर् धृतः। तान् वा एतान् एके स्वरसाम्नो ऽग्निष्टोमान् एव कुर्वन्ति, स्तोत्रबृहतीम् इदं कुर्म इति वदन्तः। ये वै त्रयो ऽग्निष्टोमाष् षट्त्रिंशत् तानि स्तोत्राणि। द्वादशैकस्य द्वादशैकस्य द्वादशैकस्य तत् षट्त्रिशत्। षट्त्रिंशदक्षरा वै बृहती। बृहती स्वर्गो लोकः। सैतं स्पृशति। ते बृहत्यैतं स्वर्गं लोकं गच्छामेति। ते ह ते गच्छन्त्य् एव यथा त्व् ऋते ऽन्नाद् गच्छेद् एवम्।

अथ यद् उक्थ्या भवन्ति। पशवो वा उक्थ्यानि। अन्नं पशवः। स यथान्नेन सह श्रेयांसं प्रतिनन्दन्तम् उपेयाद् एवम् एवैनम् एतद् उक्थ्यै स्वरसामभिर् उपयन्ति। अथो हैतौ देवतत्त्वाव् एव यद् विश्वजिदभिजितौ। अन्नम् एतद् यत् स्वरसामानः। स यथा सूनायाम् अन्नम् आधाय श्रेयस उपहरेद् एवम् एवास्मा एतद् विश्वजिदभिजिद्भ्याम् एतद् अन्नम् उपहरति। अथो हैषा शान्तिर् एव क्रियते। अग्निष्टोमसाम स्याद् आग्निमारुतं शस्त्रं विषुवान्। क एतांस् त्रीन् अग्नीन् अभ्युपेत्य शोभयतः प्रदग्धो हैव शयीत। तद् यद् उक्थान्य् अन्तरेण भवन्ति। पशवो वा उक्थानि। अन्नं पशवः. अन्नेनैतम् अशमयन्। नार्मेधेनैव तच् छमयित्वा ऽन्तत उयन्ति॥2.7॥


ता उ वा एतौ विश्वजिदभिजितौ। अष्टाव् अन्यस् सत्रिंशिनीर् विराजस् संपद्यन्ते ऽष्टाव् अन्यः। अयं वै लोको ऽभिजिद् असौ विश्वजित्। पशव स्वरसामानः। तद् यद् अभिजिता स्तुत्वा स्वरसामभि स्तुवते ऽस्मिन्न् एवैतल् लोके पशून् प्रतिष्ठापयन्ति। अथ यत् स्वरसामभि स्तुत्वा विश्वजिता स्तुवते तस्माद् अमुतः प्रदानात् पशवो जीवन्ति। तस्य वा एतस्य वैषुवतस्याह्नो दश च पञ्चविंशानि स्तोत्राणि भवन्ति द्वे च स्तोत्रिये। ततो यानि दश पञ्चविंशानि स्तोत्राणि महाव्रतं तत्। तैर् अस्य वैषुवते ऽहनि महाव्रतम् उपेतं भवति। अथ ये द्वे स्तोत्रिये आदित्य एव स एतस्मिन्न् अहन् प्रतिष्ठितः।
अथ ह स्म वा एतत् पुरा त्रिर् महाव्रतम् उपयन्त्य् आरम्भणीये ऽहन् वैषुवते महाव्रतीये। तस्य वा एतस्यारम्भणीयस्याह्नश् चतुर्दश च पञ्चविंशानि स्तोत्राणि भवन्ति दश च स्तोत्रियाः. ततो यानि चतुर्दश पञ्चविंशानि स्तोत्राणि महाव्रतं तत्। तैर् अस्यारम्भणीये ऽहनि महाव्रतम् उपेतं भवति। अथ या दश स्तोत्रिया दशाक्षरा विराट्। अन्नं विराट्। तेनो हावसेन यन्त्य् आ वैषुवताद् अह्नः। अथ ये द्वे स्तोत्रिये विषुवतो ऽतिरिच्येते तद् उ हान्नपानम्। द्वयम् उ ह वा अन्नस्य रूपं यच् चैवाश्नाति यच् च पिबति। स यथाश्नंश् च पिबंश् चेयाद् एवम् एवैतद् एताभ्यां यन्त्य् आ महाव्रतीयाद् अह्नः। त एतं स्वर्गं लोकम् आगच्छन्ति। एतन् महाव्रतीयम् अहः। एष वाव स्वर्गो लोको यन् महाव्रतीयम् अहः। स य एतद् एवं वेद त्रिरुपेतम् अस्य महाव्रतं भवति, गच्छति स्वर्गं लोकम्॥2.8॥


तद् आहुस् तम् ईं हिन्वन्त्य् अग्रुव इत्य् एवैतस्याह्नः प्रतिपत् कार्येति। तम् अर्केभिस् तं सामभिर् इति शीर्ष्णस्, तद् इद् आस भुवनेषु ज्येष्ठम् इत्य् आत्मनः। तत् तद् इतीव वा एतेनाह्ना चरन्ति। ततो ह वै प्रजापतिः। ततो ह वा एष सर्वासां देवतानाम्. तत् पितैतद् अहः, प्रजेतराणि। स यथा पुत्रः पितरम् आगत्य तत ततेति ह्वयेत्, तादृक् तत्। सो वा उभयरूपा भवति। तम् इति वै पुंसो रूपम्, अग्रुव इति स्त्रियै। उभयम् उ ह वा एतद् भूत्वा प्रजापतिः प्रजज्ञे। तद् आहुर् अभ्युदिते वैषा प्रतिपत्। योगे त्व् आगते पवस्व वाचो अग्रिय इत्य् एव प्रतिपत् कार्येति। मनो वै प्रजापतिः। मनो वै वाचो ऽग्रम्। तद् एनं तत् स्वेनैव रूपेणारभन्ते। सो वै मिथुना - भवति। पवस्वेति वै पुंसो रूपं, वाच इति स्त्रियै. तद् एतन् मिथुनं प्रजननं क्रियते। मिथुनेन जायते य एवं वेद। तस्माद् एषैव प्रतिपत् कार्या। उपास्मै गायता नर इति द्वितीया। तद् एतस्माद् अह्नो नयन्ति। दविद्युतत्या रुचेति तृतीया, प्रत्यक्षम् एतस्याह्नो रूपम्। तम् ईं हिन्वन्त्य् अग्रुव इति चतुर्थी, याभ्युदिता प्रतिपत् तां नेद् अन्तरयामेति॥2.9॥


सना च सोम जेषि चेति दशर्चं भवति। ऋषयो वा एतद् ऋद्धिकामा उपोत्थानं प्रियं वाचो ऽपश्यन्। अथा नो वस्यसस् कृध्य् अथा नो वस्यसस् कृधीति तेनास्तुवत। ततो वै ते सर्व एवार्ध्नुवन्। सर्वे हैवर्ध्नुवन्ति य एवं विद्वांस एतेन दशर्चेन स्तुवते। तस्मिन् ह स्माह शक्तिर् विराजं गेयां सना च सोम जेषि च पवमान महि श्रव एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्ताष्टौ नव दश हुंभा ओइ भूर् इति। तद् आहुः कृत्रिमेवैषा विराड् उपाकार्येव। संपदं लोभयति। ओम् इत्य् एतद् एवाक्षरं गेयम् इति। एतद् ध वा इदं सर्वम् अक्षरम्। यथा सूच्या पलाशानि संतृण्णानि स्युर् एवम् एतेनाक्षरेणेमे लोकास् संतृण्णाः। दशधा वा एतद् अतिविध्येमान् क्षरति शतधेमान् सहस्रधेमान्। तस्माद् एतद् एवाक्षर गेयम् इति पर्यासो भवति। यः पर्यासे कामस् स न उपाप्तो ऽसद् इति। ताः पञ्चविंशति स्तोत्रियास् संपद्यन्ते। पञ्चविंशो वै प्रजापतिः। प्राजापत्यं महाव्रतं तत् सलक्ष्म क्रियते॥2.10॥