← कण्डिका १-१० जैमिनीयं ब्राह्मणम्/काण्डम् २
कण्डिका ०११-०२०
[[लेखकः :|]]
कण्डिका २१-३० →

अथ ह स्माहार्यकचित् सर्वम् एवैतद् अहश् चतुर्विंशं कार्यम्। एकम् एवैतत् स्तोत्रं पञ्चविंशं कुर्युः। अभ्यारोहो वा एष एकस्य स्तोत्रस्य यत् सर्वं पञ्चविंशं कुर्वन्ति। तथैतत् स्तोत्रम् अनभ्यारूढं भवतीति।

तद् उ होवाच शाट्यायनिः कर्तपत्यम् एवैतद् यन् न्वावैकस्यै स्तोत्रियायै छिद्यते यद् द्वाभ्यां यत् तिसृभ्यः। तस्य न्व् एव प्रायश्चित्तिं विन्दन्ति वा न वा ऽथ किं यद् एकादशभ्यश् छिद्यते। को तस्य प्रायश्चित्तिः। एकदेवत्यं वा एतद् अहः प्राजापत्यम् एव। प्रजापतिं वैवैतेनाह्ना परिवैविषति। तस्मात् सर्वम् एवैतद् अहः पञ्चविंशं कार्यम् इति।

तस्य त्रीणि शतानि स्तोत्रिया भवन्ति द्वाषष्टिश् च। ततो यानि हि त्रीणि शतानि विराट् सा। अथ या षष्टिर् ऊधस् तत्। अथ ये द्वे स्तनाव् एव ताव् एतस्यैवाह्नो दोहाय॥2.11॥


सुषमिद्धो न आ वहेत्य् आप्रीर् आज्यं भवति। यत्र ह वै क्व चाप्रीर् आज्यं प्रजापतेर् एव तत्। प्रजापतिम् एव तेनाप्रीणन्ति।

ता नश् शक्तं पार्थिवस्येति मैत्रावरुणम्। तद्वद् अह भवति। अनिरुक्तम् उ वै प्राजापत्यम्। प्राजापत्ये ऽहंस् तत् तत्सलक्ष्म क्रियते।

मह इन्द्रो य ओजसेत्य् ऐन्द्रं भवति। निष्कस्य हैतन् मणे रूपम्। तस्मान् निष्कं मणिं स्रज पुरस्ताद् बिभ्रति।

तद् इद् आस भुवनेषु ज्येष्ठम् इति रथस्य हैतद् रूपम्। तस्मात् तम् अभिहायैव तिष्ठन्ति। मह स्तवानो अद्रिव इति हस्तिनो हैतद् रूपम्। तस्मात् तं पार्श्वत इवाधिरोहन्ति। तानि वा एतानि महद्रूपाणि संपद्यन्ते। महद्रूपो वै प्रजापतिः। प्राजापत्यं महाव्रतं तत् तत्सलक्ष्म क्रियते। उप हैनम् एतानि रूपाण्य् अक्रीतानि तिष्ठन्ते य एवं वेद।

इयं वाम् अस्य मन्मन इत्य् ऐन्द्राग्नं भवति। इन्द्राग्नी पूर्व्यस्तुतिर् अभ्राद् वृष्टिर् इवाजनीति वा आहुर् जातम् । जायन्त उ एतेनाह्ना। यथा ह वा इदम् आण्डान् निर्भिद्येरन्न् एवम् एवैतस्माद् अह्नो निर्भिद्यन्ते।
शृणुतं जरितुर् हवम् इन्द्राग्नी वनतं गिरः।
ईशाना पिप्यतं धियः॥
मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये।
मा नो रीरधतं निदे॥
इति पाप्मन एवैषोपहति(तिः)॥2.12॥


उच्चा ते जातम् अन्धसेति माध्यंदिनस्य पवमानस्यान्धस्वतीर् गायत्र्यो भवन्ति प्राजापत्याः. प्राजापत्ये ऽहंस् तत् तत्सलक्ष्म क्रियते। तासु गायत्रम् उक्तब्राह्मणम्। अथामहीयवं प्राजापत्यं साम प्राजापत्ये ऽहन् क्रियते। अहर् एव तद्रूपेण समृद्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् अर्धुकं भवति। अथ दोहादोहीयं दुग्ध्या एव, एतस्याह्नो दोहाय। अथ हरिश्रीर्निधनम्. श्रीर् वै हरिश्रीर्निधनम्। एतेन वा इन्द्रस् सर्वेषां देवानां श्रियम् अगच्छत्। श्रियम् एवैतेन गच्छन्ति। ता दश स्तोत्रिया गायत्र्यां संपद्यन्ते। दशाक्षरा विराट्। अन्नं विराट्। मुखं गायत्री छन्दसाम्। मुखत एवैतद् आत्मनो ऽन्नाद्यं दधते। पुनानस् सोम धारयेत्य् उभयरूपा बृहती भवति। एषा ह वा उभे सामनी उद्ययाम । तस्माद् एतां कुर्वन्त्य् एव बृहत्साम्नः कुर्वन्ति रथन्तरसाम्नः।
आ पृछ्येन सधस्थेन प्रत्नेन वरुणेन च।
पिबाच्युद् इन्द्र त्वं सोमम् ऋचोर् गर्भे अध्याहितः॥
इति यत्र ह वै क्व चैषा बृहती क्रियते न हैव तस्येन्द्र ईशेत तं नागच्छेत्॥2.13॥


तासु रौरवं प्रज्ञातम् अग्निष्टोमसाम नेद् अन्तरयामेत्य् अथार्कपुष्पम् -- अन्नं वा अर्कः। तस्यैतत् पुष्पं यद् आरण्यम्। तद् ध्य् अरण्ये जायत -- आरण्यस्यैवान्नाद्यस्यावरुद्ध्यै। अथाभीशवं तृप्त्या एव। तर्पयन्त्य् एवैनम् एतेन। अथ पञ्चविंशत्यक्षरनिधनम् आङ्गिरसम्। अङ्गिरसो वा ऋद्धिकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते सर्व एवार्ध्नुवन्। सर्वे हैवर्ध्नुवन्ति य एवं विद्वांस एतेन साम्ना स्तुवते। तत् पञ्चविंशत्यक्षरनिधनं भवति। पञ्चविंशो वै प्रजापतिः। प्राजापत्यं महाव्रतं तत् तत्सलक्ष्म क्रियते। अथ नौधसं प्रज्ञातं ब्रह्मसाम। प्रज्ञातं ब्रह्मसाम नेद् अन्तरयामेत्य् अथ पृश्नि -- अन्नं वै पृश्नि -- अन्नाद्यस्यैवावरुद्ध्यै। अथ रौहिणकम्। एतेन वै प्रजापतिर् एकशफानां पशूनां कामम् आरोहत्। तद् यत् कामम् आरोहत् तद् रौहिणकस्य रौहिणकत्वम्। कामं पशूनां रोहति य एवं वेद। यथा ह वा इम आरण्याः पशवो मृगा एवम् एते ऽग्र एकशफाः पशव आसुः। तान् एतैर् एव रौहिणकस्य किटकिटाकारैर्[१] ग्रामम् उपानयत्। तत् त्रयोदशनिधनं भवति त्रयोदशस्य मास उपाप्त्यै। तद् वा अशीतिभिस् संपन्नम्। आशयन्त्य् एवैनम् एतेन। अथ दैर्घश्रवसम् -- अन्नं वै दैर्घश्रवसम् -- अन्नाद्यस्यैवावरुद्ध्यै। अथ समन्तम्, समन्ताः प्रजापशुभिर् असामेति। अथ यौधाजयं त्रिणिधनं, सवनानां क्लृप्त्यै। अथौशनम् अन्त्यं साम। अन्त्येन साम्नान्त्यं स्वर्गं लोकम् अश्नवामहा इति॥2.14॥


तद् आहुस् तवश्शाव्यम् एवैतस्याह्नः पृष्ठं कार्यम् इति। तस्यैषा कल्याण्य् एव प्रशंसा, न त्व् एवास्मिन् द्वौ संपादयतः। वामदेव्यम् एवैत्य् आहुः। वामदेव्यं हि (?)। तद् ध वै प्रत्यक्षं वामदेव्यं यद् राजनम्। तस्य प्राणेन प्रस्तौति। ऋचा वै वामदेव्यस्य प्रस्तौति। प्राणेनैतस्य हिं हिं हिं प्राणो ऽसद् इति वै हिंकुर्वन्ति। यथा ह वै वयस आशय एवं राजनस्य वामदेव्यम्। प्रजापतिर् वै पितादित्यः पुत्रः। प्रजापतिर् वामदेव्यम् आदित्यो राजनम्। तस्माद् एष एतयोर् आभावत्तरं तपति। एतद् ध्य् अस्मात् तेजो निर्भिन्नम्। तद् वा अशीतिभिस् संपन्नम्। एकैकस्यां स्तोत्रियायां द्वे द्वे अशीत्यौ संपद्येते। ताः पञ्चाशद् अशीतयस् संपद्यन्ते। द्वे ह वा अशीत्याव् अहश् चैव रात्रिश् च। ताभ्याम् एनम् आशयन्ति। आशयन्त्य् एवैनम् एताभ्याम्। तस्य यन् निधनं पृष्ठान्य् एव तानि॥2.15॥


वाग् इति रथन्तरम्। इळेति वैरूपम्। तच् छक्वर्यस् तद् रेवतयः। स्वर् इति वैराजम्। बृहद् इति बृहत्। भा इत्य् असौ वा आदित्यः। भा इत्य् एतद् एवास्य निधनम्। एतस्य सलोमताम् अश्नुते य एवं वेद। तद् एतत् सर्वाणि पृष्ठान्य् अभिवदत्य् एतेन सामनिधनेन। त उ वै पञ्च पञ्चविंशास् सामनिधनानां संस्तुतानां संपद्यन्ते। तान् उ एतान् निधनैर् एव होतानुशंसति।

तद् आहुर् आत्मनाग्रे प्रतिपद्यम् अथ शीर्ष्णा। आत्मा वा अग्रे ऽथ शिर इति। तद् उ ह तद् यथा कर्तं पतेत् तादृक् तद् यत् पञ्चविंशाद् आत्मनस् त्रिवृच् छिरो ऽभि प्रत्यवरोहेयुः। शीर्ष्णैव प्रतिपद्यम्। सर्वा ह वा एतद् देवता स्तोत्रं प्रत्युपतिष्ठन्ति - मया प्रतिपत्स्यते मया मयेति। स यदि शीर्ष्णा प्रतिपद्येत यैव शिरः प्रतिपद्देवता भवति ताम् एव तेनर्ध्नोति। यति पक्षेण यैव पक्षौप्रतिपद्देवता भवति ताम् एव तेनर्ध्नोति। यदि पुच्छेन यैव पुच्छं प्रतिपद्देवता भवति ताम् एव तेनर्ध्नोति। यद्य् आत्मना यैवात्मनः प्रतिपद्देवता भवति ताम् एव तेनर्ध्नोति। अन्तरिता इतरा देवता भवन्ति। सर्वा उ ह वै देवता(श्) शीर्षन्न् एव - इमे वै वसवः॥2.16॥


इमे रुद्रा इम आदित्या इमे विश्वे देवाः। अयम् एवायं लोक इदम् अन्तरिक्षम् अयम् असौ लोक इमा दिश श्रोत्रम् इदं रथन्तरम् इदं वामदेव्यम् इदं बृहद् इदं यज्ञायज्ञीयम्। तद् एतच् छीर्ष्णा प्रतिपद्यमानस् सर्वाभिर् देवताभिस् सर्वैर् एभिर् लोकैस् सर्वैस् सामभिर् अनन्तरायं प्रतिपद्यते। स यद् इतो ऽन्येनांगेन प्रतिपद्यत यैव तत्प्रतिपद्देवता स्यात् ताम् एवर्ध्नुयात्। अन्तरिता इतरा देवता स्युः। अथैतच् छीर्ष्णा प्रतिपद्यमानस् सर्वाभिर् एव देवताभिर् अन्तरायं प्रतिपद्यते। अथो हैतद् देवतानां प्रियं यच् छीर्ष्णा प्रतिपद्यते सर्वा नो नापरात्सीर् इति॥2.17॥


रेतो वा एतद् अग्रे प्रविशति यद् गायत्रम्। ततो ऽन्यान्य् अंगानि विक्रियन्ते। प्राणो वा एष प्रविशति यद् गायत्रम्। तम् अन्यान्य् अंगान्य् उपसंसीदन्ति। स इमान् प्राणान् आकाशान् अभिनिर्मन्थति। प्राणो वै गायत्रः। गायत्रं शिर एव। तदायतनो वै प्राणो यच् छिरः। तस्मात् त्रिवृतैव शीर्ष्णा प्रतिपद्यम् अथ पञ्चदशेन पक्षेणाथ सप्तशेनाथैकविंशेन पुच्छेनाथ पञ्चविंशेनात्मना। तद् ऊर्ध्वाः कीर्तिम् ऊर्ध्वा श्रियम् ऊर्ध्वा स्वर्गं लोकं रोहन्ति। अथो हैषां तैर् एव ज्योतिष्टोमस्य स्तोमैश् शिवैश् शान्तैर् एतद् अहः परिष्टुतं भवति। अथो हैषाम् एत एव ज्योतिष्टोमस्य स्तोमाश् शिवाश् शान्ताः परिमाद्भाजनं भवन्ति॥2.18॥


तद् एतत् सर्वपृष्ठं सर्वस्तोमम् अहः। तद् यद् एतेन सामनिधनेन सर्वाणि पृष्ठान्य् अभिवदति तेन सर्वपृष्ठम्। अथ यद् एते ज्योतिष्टोमस्य स्तोमाश् शिवाश् शान्ताः परिमाद्भाजनं भवन्ति तेन सर्वस्तोमम्। संपदा हैव त्रिणवत्रयस्त्रिंशौ स्तोमाव् अभि पद्यते। सर्वपृष्ठेन हास्य सर्वस्तोमेनैतेनाह्ना स्तुतं भवति य एवं वेद। तेन हैतेनैके ऽपि तृतीयं कृत्वा स्तुवत एकं वावेदं सामेति वदन्तः। तेषां ह तेषाम अमुष्मिन् लोके नैव शिरश् चान्यानि चांगानि विज्ञायन्ते॥2.19॥


पिण्डाः पिण्डा इव हि भवन्त्य् अक्रताः. यथाङ्गम् एव स्तोतव्यम्। ते हैवामुष्मिन् लोके साङ्गास् सतनवो ऽमृतास् संभवन्ति।

अथ हैके सकृद् एव शीर्ष्णे हिंकुर्वन्ति -- पराङ् एतद् यच् छिर इति वदन्तः। त्रिस् त्रिर् इतरेभ्यो ऽङ्गेभ्यः। ते त्रयोदश हिंकारास् संपद्यन्ते। एवं त्रयोदशस्य मास उपाप्तिर् इति। तद् उ ह शश्वन् न तथा। त्रिर् एव शीर्ष्णे हिंकुर्वन्तस् त्रिस् त्रिर् इतरेभ्यो ऽङ्गेभ्यः। ते पञ्चदश हिंकारास् संपद्यन्ते। पञ्चदशो वा इन्द्रः। ऐन्द्रं महाव्रतं तत् तत्सलक्ष्म क्रियते॥2.20॥


  1. आकूत्यै त्वा कामाय त्वा समृधे त्वा किक्किटा ते मनः प्रजापतये स्वाहा किक्किटा ते चक्षुस्सूर्याय स्वाहा किक्किटा ते श्रोत्रं द्यावापृथिवीभ्याँ स्वाहा किक्किटा ते वाचँ सरस्वत्यै स्वाहा किक्किटा ते प्राणं वाताय स्वाहा ॥ काठ १३, ११, तैसं ३.४.२.१, किक्किटाकारं जुहोति किक्किटाकारेण वै ग्राम्याः पशवो रमन्ते प्रारण्याः पतन्ति यत् किक्किटाकारं जुहोति ग्राम्याणाम् पशूनां धृत्यै - तैसं ३.४.३.५