← कण्डिका ६१-७० जैमिनीयं ब्राह्मणम्/काण्डम् २
कण्डिका ०७१-०८०
[[लेखकः :|]]
कण्डिका ८१-९० →

अथ वा अतस् संख्यानस्यैव। तस्य वा एतस्य संवत्सरस्य सप्त विंशतिशतान्य् अहोरात्राणां भवन्ति। ता नवाशीतयः। अथास्य सवनानाम् अशीतिश् च सहस्रं च त्रीणि च। तावन्तः पवमानाः। तद् एतच् छ्लोकेनाभिगीतम् --
 
अष्टाव् एता नवतयो भवन्त्य् अहोरात्राणां परिवत्सरस्य। अशीतिर् अस्मिन् सवनानि त्रीणि च सहस्रं च , पवमानाश् च सर्वे॥
इति।

अथास्य स्तुतशस्त्राणां षष्टिशते च द्वे दश च सहस्राणि। अथास्मिन् धिष्णिया य अग्नयो विह्रियन्ते दश चैव सहस्राण्य् अष्टौ च शतानि त्रिंशतं च। तद् एतच् छ्लोकेनाभिगीतम् --

षष्टिशते द्वे मासि पृष्ठे स्तुशस्त्राणाम् आ शतं चा शतानि।
दश सहस्राणि शतान्य् अष्टौ संवत्सरे धिष्णियास् त्रिंशतं च॥
इति॥2.71॥


तावन्ति तारकनक्षत्राणि तावन्ति ज्योतींषि तावन्तो ऽर्काः। आप्नोति ह वा एतानि तारकनक्षत्राण्य् आप्नोति ज्योतींष्य् आप्नोत्य् अर्कान् य एवं वेद। अथास्य स्तोत्र्याणां नवतिश् च सहस्राणि त्रीणि च शतानि षण्णवतिश् च। तद् एतच् छ्लोकेनाभिगीतम् --
स्तोत्र्या अस्य नवतिस् सहस्रा त्री च शता नवतिश् चोप षट् च।
ताभिस् संस्तुतो विवसान एति भूतं भविष्यद् भुवनं प्रजापतिः॥
इति।

अथास्य पदानां चत्वारि च सहस्रा त्रिंशं चायुतानि सप्त शतानि पञ्चाशतं पदानि। तद् एतच् छ्लोकेनाभिगीतम् -
चत्वारि सहस्रा त्रिंशं चायुतानि सप्त शतानि पञ्चाशतं पदानि।
संवत्सरस्य कविभि स्तुतस्यैतावती मध्यमा देवमात्रा॥
इति॥2.72॥


अथास्याक्षराणाम् अयुतम् एकं प्रयुतानि षष्टिर् नियुते द्वे नव चाक्षराणि सप्त सहस्राणि दशतो दश। तद् एतच् छ्लोकेनाभिगीतम् --
अयुतम् एकं प्रयुतानि षष्टिर् नियुते द्वे नव चाक्षराणि।
सप्त सहस्राणि दशतो दशैतावान् आत्मा परमः प्रजापतेः॥
इति। तद् एतद् अनन्तं यत् संख्यानम्। तद् एतद् अमृतं यत् संख्यानम्। स एष सुकृतस् सो यत् संख्यानम्। अथ यद् असंख्यानं मर्त्यं तत्। तस्माद् उ सम् एव चक्षीत। सा हैषा देवानां सेना यत् संख्यानम्। मनुष्यसेनया वाव नु तं स्तृणुते यं तिस्तीर्षते। तादृग् इह तं स्तृणवा तं यं देवसेनया तिस्तीर्षाता इति। अथैते त्रयः पन्थानस् सुकृता देवयाना अक्षय्यः पद्यक्म्यश् च। ते विद्वांसो ऽभिवहन्ति ब्राह्मणं यत्र मृत्युर् भवत्य् अन्नम् अस्य। तद् एतच् छ्लोकेनाभिगीतम् --
त्रयः पन्थानस् सुकृता देवयाना अक्षय्यः पद्यक्म्यश् च।
ते विद्वांसो ऽभिवहन्ति ब्राह्मणं यत्र मृत्युर् भवत्य् अन्नम् अस्य॥
अक्षरशः पच्छो ऽमृतं लिहानाः -- ॥2.73॥


--सुवर् आयन् देवता देवसत्त्रात्।
तपसा कर्म कवयो ऽनुगत्य
आह्नाय मृत्युम् अति मेधयायन्॥
विजानन्तो दहन्तो यन्ति शोकम्
मनीषिणो यद् अपक्षाः पतन्ति।
यत्रामृतं विद्यते नोत मृत्युस्
तत्र विद्वांसः कवयः क्षियन्ति॥
एवंविद्वांसो यजमानम् ऋत्विजो लोकान् पशून् अभि कामान् वहन्ति। स यज्ञेषु स्तुतशस्त्रम् अश्नुते ऽक्षय्या यस्य भवन्त्य् ऋत्विजो ऽध्वर्युर् होतोत सामगः। तस्मै छन्दांसि मधुधाराः क्षरन्ति। स यज्ञेषु स्तुतशस्त्रम् अश्नुते ऽक्षय्या यस्य भवन्त्य् ऋत्विजो ऽध्वर्युर् होतोत सामगः। तस्मै छन्दांस्य् अमृतकुल्या अभिवहन्ति ऊर्मिणी स्तोत्रशस्त्रैर् इति॥2.74॥


एकैकम् उ ह वा एतेषाम् अक्षराणां यावतीयं पृथिवी तावत्। ऊर्जो ऽन्नाद्यस्य मधुनो ऽमृतस्य कामस्य - कामस्य पूर्णं पिब्दमानं तिष्ठति। तद् धैवंविद्वान् ब्राह्मणस् सहस्रं - सहस्रं देवयुगान्य् उपजीवति। तद् यद् आप्यते ऽथेतरद् उपसंक्रामत्य् अथेतरत् पुनर् आख्यायते। तस्माद् उ हैवंविदे ब्राह्मणाय दित्सन्त्य् अस्योर्जो ऽन्नाद्यस्य मधुनो ऽमृतस्य कामस्य - कामस्य लिप्सामहा इति। यथा ह वा इदं क्षेत्रपादं वा क्षेत्ररज्जुं वावक्रियासत एवम् एवैवंविदो ब्राह्मणाल् लोकम् अवक्रीणते। स यथा क्रये पर्यवेते क्षेत्रिणम् एव क्षेत्राण्य् अपियन्त्य् एवं लोकिनम् एव लोका अपियन्ति। स यद् ध वा अप्य् एवंविद्वान् ब्राह्मणः पूर्णां पृथिवीं प्रतिगृह्णीयाद्, एकम् एव तस्याक्षरं ज्यायः। तस्माद् उ हैवंविद्वान् ब्राह्मणो दद्याच् चैव प्रतिगृह्णीयात्॥2.75॥


जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे। ते तद् उ ह कुरुपञ्चालानां ब्राह्मणा अभिसमाजग्मुः। स ह सहस्रं गवाम् अवरुन्धान उवाच - ब्राह्मणा एता वो, यो ब्रह्मिष्ठस् स उदजताम् इति। स होवाच वाजसनेयो, ऽर्वाचीर् एतास् सोम्येति। तं होचुस् त्वं नु नो ब्रह्मिष्ठो ऽसी3 इति। स होवाच नमो वो ब्रह्मिष्ठायास्तु। गोकामा एव वयं स्म अति। ते होचुः को न इमं प्रक्ष्यतीति। स होवाच विदग्धश् शाकल्यो ऽहम् अति। तं ह पुरस्कृतेयेयुः। तं ह प्रतिख्यायायन्तम् उवाच त्वां स्विच् छाकल्य ब्राह्मणा उल्मुकावक्षयणम् अक्रता3 इति। स होवाच - यदि तेनोल्मुकावक्षयणं स्मः प्रक्ष्यामो न्वै त्वाम् इति। तं ह पप्रच्छ कति देवा याज्ञवल्क्येति। स होवाच त्रयश् च त्रिंशच् च, त्रयश् च त्री च शता, त्रयश् च त्री च सहस्रा, यावन्तो निविदाभ्याहूता इति। ओम् इति होवाच॥2.76॥


कत्य् एव देवा इति। त्रय इति। ओम् इति होवाच। कत्य एव देवा इति। द्वाव् इति। ओम् इति होवाच। कत्य् एव देवा इति। एक इति। (ओम् इति होवाच।

कतमे त्रयश् च त्रिंशच् च, त्रयश् च त्री च शता, त्रयश् च त्री च सहस्रेति)। महिमान एवैषां त इति होवाच। त्रयस्त्रिंशद् वावेति। कतमे त्रयस्त्रिंशद् इति। अष्टौ वसव एकादश रुद्रा द्वादशादित्या इन्द्रश् चैव प्रजापतिश् च त्रयस्त्रिंशाव् इति।

कतमे वसव इति। अग्निश् च पृथिवी च वायुश् चान्तरिक्षं चादित्यश् च द्यौश् च चन्द्रमाश् च नक्षत्राणि चैते वसवः। एतेषु हीदं सर्वं वसु हितम् इति। तस्माद् वसव इति।

कतमे रुद्रा इति दश पुरुषे प्राणा इति होवाच। आत्मैकादशः। ते यदोत्क्रामन्तो यन्त्य् अथ रोदयन्ति। तस्माद् रुद्रा इति।

कतम आदित्या इति। द्वादश मासास् संवत्सर इति होवाच। एत आदित्याः। एते हीदं सर्वम् आददाना यन्ति। तस्माद् आदित्या इति।
कतमे त्रय इति। इम एव लोका इति।

कतमौ द्वाव् इति। अहोरात्राव् इति।

कतम इन्द्रः, कतमः प्रजापतिर् इति। वाग् एवेन्द्रो, मनः प्रजापतिर् इति।

कतमैका देवतेति। प्राण इति। स होवाचानतिप्रश्न्यां वै मा देवताम् अत्यप्राक्षीः, पुरैतावतिथ्या मर्तासि। न ते शरीराणि चन गृहान् प्राप्स्यन्तीति। तद् ध वै तथैवास। स ह तथैव ममार। तस्य हापहारिणो ऽनन्तरेण शरीराण्य् अपजह्रुर् अन्यन् मन्यमानाः। तस्माद् उ ह नोपवदेत्। अपि ह्य् एवंवित् परो भवतीति॥2.77॥


ब्रह्म च ह वै सुब्रह्म चैषु लोकेष्व् आसतुर् अस्मिन् भुवने। ततस् सुब्रह्मोच्चक्राम। असौ वा आदित्यो ब्रह्माथो वाग् एव सुब्रह्म। ते देवा इहैव वेद्या अन्तर्वेदि यज्ञेन ब्रह्म पर्यगृह्णन्। तद् इदम् अप्य् एतर्हि वेद्या अन्तर्वेदि यज्ञेन ब्रह्म परिगृहीतम्।

तद् आहुर् यद् अन्या होत्रा अन्तर्वेदि कुर्वन्त्य् अथ कथं सुब्रह्मण्यो बहिर्वेदि करोतीति। स ब्रूयाद् एष वेद्या आत्मा यद् उत्कर, एतत् प्रत्यक्षं ब्रह्म यत् सुब्रह्मण्या। यद् उत्करम् आस्थाय सुब्रह्मण्याम् आह्वयति तेनास्यान्तर्वेदि कृतं भवतीति।

सुब्रह्मण्यों सुब्रह्मण्यों सुब्रह्मण्योम् इति त्रिर् आह। वाग् वै सुब्रह्मण्या। तद् एतां वाचं प्रथमत आरभते. अथो ब्रह्म वाग्, रस ओंकारः। ताम् एतां वाचं रसेन प्रीणाति। तद् धैतद् एक ओं सुब्रह्मण्येत्य् आह्वयन्ति --॥2.78॥


--प्राणो ह्य् अग्रे ऽथ वाग् इति। तद् ध तन् न तथा। यथा मध्व् आसिच्य लाजान् आवपेत्, तद् अन्यधेव स्यात्, तादृक् तत्। तस्मात् सुब्रह्मण्योम् इत्य् एवाह्वयेत्।
इन्द्रागच्छेति। इन्द्रम् एव तद् यज्ञ आह्वयति।
हरिव आगच्छेति। हरिभ्याम् आयाहीति वावैनं तद् आह। प्राणापानौ वास्य हरी। तौ हीदं सर्वं हर्तारौ हरत। अथो अहोरात्रौ वास्य हरी। तौ हीदं सर्वं हर्तारौ हरतः।
मेधातिथेर् मेषेति। मेधातिथेर् ह मेषो भूत्वा राजानं पपौ।
वृषणश्वस्य मेन इति। वृषणश्वस्य ह मेना भूत्वा मघवा कुल उवास।
गौरावस्कन्दिन्न् इति। ततो हैव गौरो भूत्वार्णवम् अवचस्कन्द।
अहल्यायै जारेति। अहल्यायै ह मैत्रेय्यै जार आस।
कौशिक ब्राह्मण कौशिक ब्रुवाणेति। यद् ध वा असुरैर् महासंग्रामं संयेते तद् ध वेदान् निराचकार। तान् ह विश्वामित्राद् अधिजगे। ततो हैव कौशिक ऊचे।
अथ ह वा एके कौशिक ब्राह्मण गौतम् ब्रुवाणेत्य् आह्वयन्ति --॥2.79॥


--तद् उ ह वा आरुणिनैव यशस्विनोपज्ञातम्। तस्माद् उ तस्याशां नेयात्। तस्मात् कौशिक ब्राह्मण कौशिक ब्रुवाणेत्य् एवाह्वयेत्।

देवा ब्रह्माण आगच्छतागच्छतेति देवांश चैव तद् ब्राह्मणांश् च समामन्त्रयन्ते। ते हास्मै समामन्त्रितास् सुमतिम् इच्छन्ते। तस्माद् उ ह समामन्त्र्य मापराध्नुयान्, नेन् मोपवदाद् इति।

तद् आहुः - किंछन्दस् सुब्रह्मण्येति। त्रिष्टुब् इति ब्रूयात्। ऐन्द्री हि त्रिष्टुब् इति।

तद् आहुः - किंदेवत्या सुब्रह्मण्येति। ऐन्द्रीति ब्रूयात्। इन्द्रं ह्य् एनयाह्वयतीति। अथो ह ब्रूयाद् वैश्वदेवीति। विश्वान् ह्य् एनया देवान् आह्वयतीति।

तद् आहुर् - यद् अन्या होत्रा स्तोत्रवत्यश् शस्त्रवत्यो ऽथ क्व सुब्रह्मण्यायै स्तोत्रं क्व शस्त्रम् इति। स ब्रूयाद् एतस्याम् एवैतत् सर्वं यद् ऋक् साम यजुः। तेनास्य सुब्रह्मण्या स्तोत्रवती शस्त्रवती भवतीति।

तद् आहुः - किम् इव स्वित् सुब्रहण्यर्ग् इव स्वी3त् सामेवा3 उताहो यजुर् इवा3 इति। स ब्रूयान् नैवैषर्ङ् न यजुर् न साम। सर्वम् इवैव। सर्वम् इव ह्य् एव ब्रह्मेति।

अथ यां क्रीते राजनि सुब्रह्मण्याम् आह्वयति याम् एतां दक्षिणासु नीयमानासूत्करे तिष्ठन् सुब्रह्मण्याम् आह्वयति सैवेयम्। अथो यत् प्रायणं तद् उदयनम् असद् इति। अथो आगत एवेद्रस्, तं मा निर्वोचामेति। एषा ह वै धेनुः पञ्चवत्सा पञ्चपदा। यद् ध वा इदम् आहुः पांक्ताः पशव इत्य् एतद् ध तत्।
तां ह वा एके यथादेवताम् आह्वयन्ति। सर्वाग्नेयीम् अग्निष्टुत, ऐन्द्रीम् इन्द्रस्तोमस्य, वैश्वदेवीं वैश्वदेवस्य, अनिरुक्ताम् अनिरुक्तस्य। तद् उ ह शश्वन् न तथा। नो हि ब्रह्मणो व्यापादो ऽस्ति। यथानिपतितम् एवाह्वयेद् यथानिपतितम् एवाह्वयेत्॥2.80॥