प्रमुखा विकल्पसूचिः उद्घाट्यताम्

एकाहाः

 
अथैष उपशदः। कश्यपो वा अकामयत -- उपोप मा प्रजाः पशवः शीयेरन्न्, उपोप प्रजया पशुभिः प्रजायेयेति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै तम् उपोप प्रजाः पशवो ऽशीयन्त, उपोप प्रजया पशुभिः प्रजायत। उपोप ह वा एनं प्रजाः पशवः शीयन्त, उपोप प्रजया पशुभिः प्रजायते य एवं वेद। तस्य त्रिवृद् बहिष्पवमानं भवति। न्यूनं वै त्रिवृत्। न्यूनं प्रजननम्। तद् यत् प्रजननं तन् मा प्रजनयाद् इति। तस्यैकोत्तरा स्तोमा भवन्ति। अनन्तर्हिताद् अनन्तर्हितात् प्रजननात् प्रजाया इति। यद् व् एवैषैकैकका स्तोत्र्योपशीयते, तस्माद् उपशदः। तस्योभये स्तोमा भवन्त्य् अयुजश् च युग्मन्तश् च। एतद् वै दैव्यं मिथुनं प्रजननं यद् उभये स्तोमाः। तद् यद् दैव्यं मिथुनं प्रजननं, तन् मा प्रजनयाद् इति। तस्योभे बृहद्रथन्तरे सामनी भवतः। एतद् वै दैव्यं मिथुनं प्रजननं यद् उभे बृहद्रथन्तरे। तद् यद् दैव्यं मिथुनं प्रजननं, तन् मा प्रजनयाद् इति॥2.81॥


तस्य वसिष्ठस्य जनित्रे आदिष्ट-सामनी पवमानयोर् भवतः। एतद् वै दैव्यं मिथुनं प्रजननं यद् वसिष्ठस्य जनित्रे। तद् यद् दैव्यं मिथुनं प्रजननं, तन् मा प्रजनयाद् इति। तस्य सविंशम् अग्निष्टोमसाम भवति। सा विराट्। अन्नम् विराट्। विराज्य् एव तद् अन्नाद्ये यज्ञस्यान्ततः प्रतितिष्ठति। तद् आहुर् अप्रजननी स्तोमो विराजम् अभि सम्पन्नो, नैनेन यजेतेति। तद् उ वा आहुः - प्रजनन एव। अन्नं वै विराट्। अशिताद् वै रेतस् सिच्यते। रेतसः प्रजाः प्रजायन्ते। तस्मात् प्रजनन एवेति। अथो आहुर् - अष्टादशम् एवाच्छावाकस्य कृत्वा सविंशम् आर्भवम् एकविंशम् अग्निष्टोमसाम कुर्याद् इति। तद् उ प्रज्ञात एकविंशे स्तोमे ऽन्तत स्तोत्राणां प्रतितिष्ठति।

अथैष शदः। आदित्यो वा अकामयत - अवशात्यैव सर्वं पाप्मानं स्वर्गं लोकम् अभ्य् उत्क्रामेयम् इति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै सो ऽवशात्यैव सर्वं पाप्मानं स्वर्गं लोकम् अभ्य् उदक्रामत्। स एषो ऽपहतपाप्मा तपति। अवशात्य हैव सर्वं पाप्मानं स्वर्गं लोकम् अभ्य् उत्क्रामति य एवं वेद। यद् व् एवैषैकैका स्तोत्र्यावशीयते, तस्माच् छदः॥2.82॥


अथैष पुनस्तोमः। स हायम् ऋषिर् आगत्य न शशाकोत्थातुम् असुराशनेन। गरो हैनम् आविवेश, यद् वा मित्राय दुद्रोह, यद् विद्विषाणानाम् अशनम् आश. स हेन्द्रम् उवाच - न वै शक्नोम्य् उत्थातुम् इति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनैनम् अयाजयत्। तस्य त्रिवृत् प्रातस्सवनं भवति, त्रिवृत् तृतीयसवनम्। न्यूनं वै त्रिवृन्, न्यूनान् न क्षरति। तम् एताभ्यां त्रिवृद्भ्यां सवनाभ्यां यथा दृतिम् उभयत आहृत्य निक्षालयेद्, एवं हैवास्य सर्वं पाप्मानं निक्षालयांचकार। इतश् च ह वै स तद् ऊर्ध्वं इतश् चावाञ्चं पाप्मानम् अपजघ्ने। इतश् च हैवोर्ध्वम इतश् चावाञ्चं पाप्मानम् अपहते य एवं वेद।

स हातिप्ररिक्तो न शशाकोत्थातुम्। स हेक्षांचक्रे - कथं न्व् अहम् इमं पुनस् संश्रीणीयाम् इति। तम् एतेनैव पुनर् अयाजयत्। तेनैनं पुनस् समश्रीणात्। सास्य पुनस्तोमता। तस्य द्वादशं माध्यंदिनं सवनं भवति। द्वादश मासास् संवत्सरः। संवत्सरेणैवास्य तद् रिक्तम् आत्मानं मध्यतः पुनस् समश्रीणात्। स यथा जात्व् अप्रतिजगृहिवान् स्याद्, एवम् आस। यथा द्विदतः कुमारस्य सातं स्याद्, एवं हैवास्य सातम् आस। स यो गरगीर् मन्येताप्रतिगृह्यस्य प्रतिगृह्यानश्यान्नस्यान्नम् अशित्वा, स एतेन यजेत। एताभ्याम् एव त्रिवृद्भ्यां सवनाभ्याम् इतश् चोर्ध्वम् इतश् चावाञ्चं विश्वञ्चं गरं व्यस्यते॥2.83॥


तस्य बृहत् पृष्ठं भवति। इदं वै रथन्तरम्, अदो बृहत्। आसन्नम् इव वा इदं, प्ररिक्तम् इवादः - प्ररिक्त्या एव। तस्य प्र यो रिरिक्ष ओजसेत्य् एतासु गारं ब्रह्मसाम भवति - गरस्यैवापहत्यै।

तद् उ वा आहुर् - या इद् वै ताः कामदुघा आसन्न् एतेन वाव ता यज्ञेन परिगृह्याहरताम् इति। तस्य त्रिवृत् प्रातस्सवनं भवति, त्रिवृत् तृतीयसवनं, द्वादशं माध्यंदिनं सवनम्। द्वादशाक्षरा वै जगती। पशवो जगती, पशवः कामदुघाः। ब्रह्म वै त्रिवृत्। ब्रह्मणा वा एनास् तद् उभयतः परिगृह्याजह्रतुः। तासाम् एका श्रवणा दुहे। तां भूमाव् उपोपतुः। ताम् एतां वक्रेण दारुणान्विच्छन्ति लांगलेन, दिश एका तां वणिज्यया, ब्रह्मैका तां ब्रह्मचर्येण, क्षत्रम् एका तां राजानुचर्येण। अथ यास् तिस्रः परिशिष्टा आसुस् तानि हैवोक्थानि चक्रतुः।

स एष उक्थ्यो यज्ञः। शश्वद् धैष एव प्रथम उक्थ्यानाम् - अथ ततो ऽग्निष्टोमा एव पराञ्चः। स यः पशुकाम स्यात्, स एतेन यजेत। तस्मिन्न् उ ह तर्ह्य् उभे बृहद्रथन्तरे कुर्युः। द्वया उ ह वै पशवः। राथन्तरा अन्ये, बार्हता अन्ये। ये ह वा अन्यतोदन्ताः पशवस् ते राथन्तरा, य उभयतोदन्तास् ते बार्हताः। उभयेषाम् एव पशूनाम् अवरुद्ध्यै। स उक्थ्यो भवति - पशवो वा उक्थानि - पशूनाम् एवावरुद्ध्यै। तस्योद्वंशीयम् अच्छावाकसाम भवति सर्वं पृष्ठरूपम् - पृष्ठानि वै पशवो - ऽभिपूर्वाणाम् एव पशूनाम् अवरुद्ध्यै॥2.84॥


अथैतौ विराट्स्वराजौ। देवा वा अकामयन्त - विराजम् अन्नाद्यम् अवरुन्धीमहि, विराज्य् अन्नाद्ये प्रतितिष्ठेमेति। त एतं विराजं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। ततो वै ते विराजम् अन्नाद्यम् अवारुन्धत, विराज्य् अन्नाद्ये प्रत्यतिष्ठन्। विराजम् एवान्नाद्यम् अवरुन्द्धे विराज्य् अन्नाद्ये प्रतितिष्ठति य एवं वेद। स ह वै विराड् यत्रान्यस्य लोकं नाभिध्यायति । तम् एवैतेन जयति। तस्य दश त्रिवृन्ति स्तोत्राणि भवन्ति, तास् तिस्रो विराजः पञ्चदशे द्वे। सो विराट्। ताश् चतस्रो विराजस् संपद्यन्ते। अन्नं विराट्। विराज एवान्नाद्यस्यावरुद्ध्यै। तस्य रथन्तरं पृष्ठं भवति। इयं वै रथन्तरम्। इयम् उ वै विराट्। य उ वा अस्यै भूयिष्ठं परिगृह्णाति स विराजति। अन्नं विराट्। विराज एवान्नाद्यस्यावरुद्ध्यै। तस्येन्दुस् समुद्रम् उर्विया विभातीत्य् एतद् आदिष्टसाम माध्यंदिने पवमाने भवति पृथिव्यै साम। स्तोमम् एव तद्रूपेण समृद्धयन्ति॥2.85॥


त उ वा अकामयन्त - विराजम् अन्नाद्यम् अवरुध्य स्वराज्यं लोकं गच्छेमेति। त एतं स्वराजं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। ततो वै ते विराजम् अन्नाद्यम् अवरुध्य स्वाराज्यं लोकम् अगच्छन्। विराजम् एवान्नाद्यम् अवरुध्य स्वारा्ज्यं लोकं गच्छति य एवं वेद। स ह वै स्वराड् यत्रान्यस्य लोकं नाभिध्यायति। तम् एवैतेन जयति। तस्य दश त्रिवृन्ति स्तोत्राणि भवन्ति। तास् तिस्रो विराजः। पञ्चदशं च सप्तदशं च द्वे। सो ऽनुष्टुप्। एषो ह वै छन्दसां स्वाराज्यं लोकम् आनशे यद् अनुष्टुप्। प्रजापतिर् वा अनुष्टुप्। प्रजापतिर् वै स्वाराज्यम्। अन्नम् उ वै विराट्। विराज्य् एव तद् अन्नाद्ये प्रतिष्ठाय स्वाराज्यं लोक्म् अगच्छन्। विराज्य् एव तद् अन्नाद्ये प्रतिष्ठाय स्वाराज्यं लोकं गच्छति य एवं वेद। तस्य बृहत् पृष्ठं भवति। अदो वै बृहत्। अदो वै स्वाराज्यम्। अमुम् एवैतेन स्वाराज्यं लोकम् अगच्छन्। अमुम् एवैतेन स्वाराज्यं लोकं गच्छति य एवं वेद। तस्येन्दुस् समुद्रम् उर्विया विभातीत्य् एतद् आदिष्टसामार्भवे पवमाने न भवतीति दिवस् सामैकारवद् भवति। अर्वाङ् इव ह्य् असौ लोकः। स्तोमम् एव तद्रूपेण समृद्धयन्ति। अथो यद् एकारवद् भवति स्वर्गाल् लोकान् नेत् पराञ्चो ऽतिपद्यामहा इति॥2.86॥


अथैष ऋषभः। इन्द्रो वा अकामयत ऋषभस् सर्वासां प्रजानांं स्याम् ऋषभतां गच्छेयम् इति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स ऋषभस् सर्वासां प्रजानाम् अभवद् ऋषभताम् अगच्छत्। ऋषभ एव स्वानां प्रजानां भवत्य् ऋषभतां गच्छति य एवं वेद। तच् छ्रीर् वा ऋषभः। श्रियं वै स तद् अगच्छत्। ऋषभो वै राजा मनुष्याणाम्। ऋषभ ऋषभः पशूनाम्। ऋषभो ऽश्ववृषो वळवानाम्। ऋषभो बस्तो ऽजानाम्। ऋषभो वृष्णिर् अवीनाम्। ऋषभः कृष्ण एणीनाम्। ऋषभ ऋष्यो रोहिताम्। एते ह वा आसां श्रियः। श्रियं ह गच्छति य एवं वेद। स पञ्चदशो भवति। वज्रो वै पञ्चदशः। वज्र इन्द्रः। ऐन्द्र एष यज्ञस् तत् तत्सलक्ष्म क्रियते। तस्यैकविंशो माध्यंदिनो भवति। सा हास्य ककुप्। य उ ह वा एषां लोकानां श्रेष्ठास् ते ककुभः। अग्निर् वा अस्य लोकस्य ककुब्, वायुर् अन्तरिक्षस्य, आदित्यो दिवः। ककुभाम् एको भवति य एवं वेद। तस्य बृहत् पृष्ठं भवति। इन्द्रो वै बृहत्। श्रीः पृष्ठानि। इन्द्रम् एव तच् छ्रिया समृद्धयन्ति। तस्य ऋषभः पावमान ऋषभो वैदन्वत इत्य् एते आदिष्टसामनी पवमानयोर् भवतः। स्तोमम् एव तद्रूपेण समृद्धयन्ति॥2.87॥


अथैष व्योमा। देवा वा अकामयन्त व्योम स्याम, व्योमानं लोकं गच्छेमेति। त एतं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। ततो वै ते व्योमासन् व्योमानं लोकम् अगच्छन्। व्योमा हैव भवति व्योमानं लोकं गच्छति य एवं वेद। स ह वै व्योमा यत्रान्यस्य लोकं नाभिध्यायति। तम् एवैतेन जयति। सप्तदशो भवति। प्रजापतिर् वै सप्तदशः। प्रजापतिर् वै व्योमा। व्योम्ना व्योमानं साम व्योम्ना व्योमानं लोकं गच्छामेति। तस्योभे बृहद्रथन्तरे सामनी भवतः। न ह वा एतयोर् अन्यतरद् व्योम। उभे ह वा एते व्योम। व्योम्ना व्योमानं साम व्योम्ना व्योमानं लोकं गच्छामेति। तस्यैकविंश आर्भवः पवमानो भवत्य् अग्निष्टोमसाम वा। द्वादश मासाः पञ्चर्तवस् त्रय इमे लोका असाव् आदित्य एकविंशः। एष उ ह वै व्योमा ये ऽर्वाञ्चः प्रजापतेर् देवाः। तेषां व्योम्ना व्योमानं साम व्योम्ना व्योमानं लोकं गच्छामेति। तस्यार्को देवानां परमे व्योमन्, अर्कस्य देवाः परमे वियोमन्न् इत्य् एते आदिष्टसामनी पवमानयोर् भवतः। स्तोमम् एव तद्रूपेण समृद्धयन्ति॥2.88॥


अथैताव् उद्भिद् बलभिदौ। प्रजननकामो हैताभ्यां यजेत। त्रिवृत्पञ्चदशौ स्तोमौ भवतस् सप्तिसप्तदशाः। ऊनातिरिक्तौ मिथुनौ प्रजननी। ऊनम् अन्यस्यातिरिक्तम् अन्यस्य। ऊनातिरिक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते। तत् तत् प्रजननं क्रियते। तस्माद् उ हाभ्यां प्रजननकामो यजेत। अथो आहुर् - ब्रह्मवर्चसकाम एवाभ्यां यजेतेति। षड् वा एतयोर् अन्यतरो गायत्रीर् अभिसंपद्यते, षड् अन्यतरः। ब्रह्म वै गायत्री। गायत्रीम् एतौ यज्ञाव् अभिसंपन्नौ। तस्माद् उ हाभ्यां ब्रह्मवर्चसकामो यजेत। अथो आहुर् - आयुष्काम एवाभ्यां यजेतेति। प्राणो वै गायत्री। गायत्रीम् एतौ यज्ञाव् अभिसंपन्नौ। तस्माद् उभाभ्याम् आयुष्कामो यजेत। अथो आहुस् - तेजस्काम एवाभ्यां यजेतेति। तेजो वै गायत्री। गायत्रीम् एव तौ यज्ञाव् अभिसंपन्नौ। तस्माद् उ हाभ्यां तेजस्कामो यजेत। अथो आहु - स्वर्गकाम एवाभ्यां यजेतेति। या वै षड् गायत्र्यश् चतस्रस् ता बृहत्यः। बृहती वै स्वर्गं लोकम् आनशे। तस्माद् उ हाभ्यां स्वर्गकामो यजेत। अथो आहुः - पशुकाम एवाभ्यां यजेतेति। या वै षड् गायत्र्यस् तिस्रस् ता जगत्यः। पशवो जगती। तस्माद् उ हाभ्यां पशुकामो यजेत॥2.89॥


ते देवा एताव् उद्भिद्वलभिदाव् अपश्यन्। ताभ्यां एना अभिप्रावयन्। ते वलभिदैव वलम् अभिन्दन्। उद्भिदा गा उदसृजन्त। स वा एष त्रिवृत् पञ्चदशो वलभिद् भवति रथन्तरसामोत्सेधब्रह्मसामा। अथैष उद्भित् सप्तिसप्तदशो भवति बृहत्सामा निषेधब्रह्मसामा। तद् यथा ह वै मयूखो वा तीक्ष्णश् शंकुर् वैवम् एष यत् त्रिवृत् स्तोमः। तद् यथा मयूखेन वा तीक्ष्णेनाभिनिधाय शंकुना वा कूटेनाभिहन्याद्, एवमेवैतेन त्रिवृता स्तोमेन वलम् अभिनिधाय पञ्चदशेन वज्रेण व्यासुः। अथो आहुर् - अग्निर् एवैष यत् त्रिवृत् स्तोमः। वज्र एष यत् पञ्चदशः। तद् यथाग्निनाश्मानम् अभ्योप्य तं कूटेन भिन्द्याद्, एवम् एवैतेन त्रिवृताग्निना स्तोमेन वलम् अभ्योप्य पञ्चदशेन वज्रेण व्यासुर् इति। ता हान्तर एव तस्थुर् अयनम् अविन्दमानाः। ता होत्सेधेनैवोत्सिषिधुः। अथैष उद्भित् सप्ति सप्तदशो भवति। ततो याः सप्तत एव सप्ततयाः पशवो ऽथ यास् सप्तदश, स एव सप्तदशः प्रजापतिः। ताः पितरम् एव प्रजापतिं पश्यन्तीः प्रतिमोदमाना उदेयुः। ता होदेत्य महद् एवाभि विससृजिरे। तासां ह देवाः परावापाद् बिभयांचक्रुः। ता होत्सेधेनैवोत्सिध्य निषेधेन निषिध्यात्मन् दधिरे। स यः पशुकाम स्यात्, त एताभ्यां यजेत। वलभिदैव वलं भिनत्त्य्, उद्भिदा गा उत्सृजते। उत्सेधेनैवैना उत्सिध्य निषेधेन निषिध्यात्मन् धत्ते, अव पशून् रुन्द्धे, बहुपशुर् भवति॥2.90॥