प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तस्य ह कल्याणो लोक आस। स होवाच - तत, कस्यायं लोक इति। ममेति होवाच. अथ हान्यो लोकः कल्याणतर आस। कस्यो असाव् इति। तवेति होवाच। स होवाच - तत, यत् त्वं मद् भूयो ददिवान् असि, भूयस् ते मद् अनूक्तम्. अथ कथं तवायं लोको, ऽसौ ममेति। स होवाच - व्रतपयोद्ध्यो वै किल पुत्रकासौ लोक आस। व्रतोपयोधितर एव नौ त्वम् असि। तस्माद् अयं मम लोको ऽसौ तवेति। गच्छेति होवाच, सं वावाप्स्यसि। यं वाव कामं कमितासि, स ते कामस् समर्धिता। वक्रितास् त्व् एवांगुलीः कुरुताद् इति। स ह समाप। स ह समाप्योवाचापिपात्र एव स्यो ब्राह्मणानाम् अस्त्व् इति। स हापिपात्र एव ब्राह्मणानाम् आस। ततो ह वा इदम् अर्वाचीनम् आर्जिश्वना अपिपात्राः॥2.161॥


अथैष चितिस्तोमः। प्रजननकामो यजेत। तस्य पृष्ठस्य षडहस्य स्तोमा भवन्त्य् - ऋतवो वै पृष्ठानि। संवत्सर ऋतवः। संवत्सरः प्रजननं - स यः प्रजननं स मा प्रजनयाद् इति। तस्योभये स्तोमा भवन्त्य् अयुजश् च युग्मन्तश् च। एतद् वै दैव्यं मिथुनं प्रजननं यद् उभये स्तोमाः। तद् यद् दैव्यं मिथुनं प्रजननं तन् मा प्रजनयाद् इति। तस्योभे बृहद्रथन्तरे सामनी भवतः। एतद् वै दैव्यं मिथुनं प्रजननं यद् उभे बृहद्रथन्तरे। तद् यद् दैव्यं मिथुनं प्रजननं तन् मा प्रजनयाद् इति। तस्य द्वादश स्तोत्राणि भवन्ति - द्वादश मासास् संवत्सरः। संवत्सरः प्रजननं - स यः प्रजननं स मा प्रजनयाद् इति। तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति - चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरः प्रजननं - स यः प्रजननं स मा प्रजनयाद् इति। अथो आहु स्वर्गकाम एवैनेन यजेतेति। तस्य पृष्ठ्यस्य षडहस्य स्तोमा भवन्त्य् - ऋतवो वै पृ्ष्ठानि। संवत्सर ऋतवः। संवत्सर स्वर्गो लोक - स्वर्गस्यैव लोकस्य समष्ट्यै। तस्योभे बृहद्रथन्तरे सामनी भवत स्वर्ग्ये, स्वर्गस्यैव लोकस्य समष्ट्यै। तस्य द्वादश स्तोत्राणि भवन्ति - द्वादश मासास् संवत्सरः। संवत्सर स्वर्गो लोक - स्वर्गस्यैव लोकस्य समष्ट्यै। तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति - चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सर स्वर्गो लोक - स्वर्गस्यैव लोकस्य समष्ट्यै॥2.162॥


तस्य द्व्युत्तराण्य् उत्तराणि स्तोत्राणि भवन्ति। द्विपाद् वै यजमानः। यजमानम् एव तत् स्वर्गे लोके प्रतिष्ठापयति। अथो आहुर् इष्टके एवैते उपधीयेतेति। अथो द्यावापृथिवी एवाथो बृह्द्रथन्तरे एवाथो अहोरात्राव् एवाथो अवस्रवाव् एवाथो अपच्छादावैव। छदिर् इव ह खलु वा एष यज्ञक्रतुः। न ह वै छदिष्मतो गृहान् अतिवर्षति. नैनं पाप्मातिवर्षति य एवं वेद। अथो आहुर् अन्विष्टीनां हेद् वा एष एको यज्ञक्रतुर् इति। स यस् संवत्सरभृता वा संवत्सरभृता वाग्निना चित्येन यजेत, स एतेन यजेत। सद्यो हैवास्य संवत्सर ऋतुशो मासशो ऽर्धमासशो रात्रिशो ऽन्विष्टो भवति। तद् यत् पृष्ठ्यस्य षडहस्य स्तोमा भवन्त्य् - ऋतवो वै पृष्ठानि। संवत्सर ऋतवस् - तेनर्तुशः। अथ यद् द्वादशस्तोत्राणि भवन्ति - द्वादश मासास् संवत्सरस्- तेन मासशः। अथ यच् चतुर्विंशति स्तुतशस्त्राणि भवन्ति - चतुर्विंशत्यर्धमासस् संवत्सरस् - तेनार्धमासशः। अथ यच् चतुर्विंशति स्तुतशस्त्राणि भवन्ति - चतुर्विंशत्यर्धमासस् संवत्सरस् - तेनार्धमासशः। अथ यत् त्रीणि षष्टिशतानि स्तोत्र्या भवन्ति - तावतीस् संवत्सरस्य रात्रयस् -तेन रात्रिशः। सद्यो हैवास्य संवत्सरो ऽन्विष्टो भवति य एवं वेद॥2.163॥


अथैतौ राशि-मरायौ। प्रजननकामो हैताभ्यां यजेत। प्रजापतिर् वा अकामयत बहुः प्रजया पशुभिः प्रजायेय। द्वन्द्वं प्रजाः पशून् सृजेयेति। स एतौ यज्ञाव् अपश्यत्। ताव् आहरत। ताभ्याम् अयजत। ततो वै स बहुः प्रजया पशुभिः प्रजायत। द्वन्द्वं प्रजाः पशून् असृजत। स यः कामयेत बहुः प्रजया पशुभिः प्रजायेय, द्वन्द्वं प्रजाः पशून् सृजेयेति, स एताभ्यां यजेत। बहुर् प्रजया पशुभिः प्रजायते, द्वन्द्वं प्रजाः पशून् सृजते। स राशिश् चतुश्चत्वारिंशो भवति, रथन्तरसामा। ब्रह्म वै रथन्तरं, क्षत्रं चतुश्चत्वारिंशः। ब्रह्मणा च क्षत्रेण च सयुग्भ्यां बहुः प्रजया पशुभिः प्रजाया इति। यद् व् एवैतानि स्तोत्राणि बहुलान्य् उदपद्यन्त इव तस्माद् राशिः। अष्टाचत्वारिंशो मरायो भवति बृहत्सामा। ब्रह्म वा अष्टाचत्वारिंशः, क्षत्रं बृहत्। द्वे हि ते गायत्र्यौ यद् अष्टाचत्वारिंशः। ब्रह्मणा च क्षत्रेण च सयुग्भ्यां बहुः प्रजया पशुभिः प्रजाया इति। यद् व् एवैतानि स्तोत्राणि ज्यायांसीव च भवन्ति तस्मान् मरायः। ज्यायान् ह्य् एव राशेर् मरायो भवति॥2.164॥


तौ वा एतौ भूमैव स्तोमानाम्। तौ यौ भूमा स्तोमानां ताभ्यां बहुः प्रजया पशुभिः प्रजाया इति। तयोस् सह दीक्षा, सह क्रयस्, सहोपसदः। क्रीत्वा तु नानोपनह्यन्ति। नानर्त्विजो भवन्ति। तद् आहुस् संसवो वा एष यन् नानर्त्विजो भवन्ति। यन् न्वाव दूरात् संसूयते तद् अरमणीयम्। अथ किं यद् अन्तिकात् समाना एवर्त्विज स्युर् इति। नो ह तु तथा सद्यस् संतिष्ठेयातां नानैवर्त्विज स्युः। ते वाव समानं प्रवरं प्रवृणते, समानीम् आशिषम् आशासते। तस्मान् नानैवर्त्विज स्युर् इति। अथो आहू राशिनैव पूर्वेणेष्ट्वावभृथाद् उदेत्य मरायाय दीक्षेतेति। अयमौ ह तु तथा स्याताम्। समानी हि यमयोर् योनिस्, सह जायेते, सह वर्धेते। तस्मात् सहैव स्याताम् इति। ताभ्यां हैताभ्याम् उग्रायुधो मानश्चित्त ईजे। अथो अलन्दो वात्स्यस् तयोर् ह परश्शता अन्यस्मिन् समा आसुः, परश्शता अन्यस्मिन्। तथा बहुर् ह प्रजज्ञाते। बहुः प्रजया पशुभिः प्रजायते य एवं वेद॥2.165॥


अथैते ज्योतिर् गौर् आयुर् इति स्तोमा भवन्ति। गौर् आयुर् अस्कन्दत्। ततो ज्योतिर् अजायत। अयं वै लोक आयुर् असौ गौर् इदम् एवान्तरिक्षं ज्योतिः। तम् एतं पुरस्ताद् अकुर्वातां, यथा पुत्रम् एवम्। इतो वा अयम् ऊर्ध्वो लोको ऽर्वाङ् असाव् अमुतः। तद् इदम् एनयोः पुरस्ताज् ज्योतिः पर्यूढं, तेन पश्यामः। तौ योगम् उपप्रयन्ताव् अन्तम् अभि ज्योतिर् व्युदौहताम्। स यथा पितरौ पुत्रं पूर्वं यन्तं पश्चाद् अन्वियातां , तादृक् तत्। एतन् मिथुनीस्तोमा भवन्ति यद् विज्यन्ते। मध्ये वै जायापत्योः पुत्रः शेते। तौ यथा मिथुनीभविष्यन्ताव् इत्थाद् वेत्थाद् वा पुत्रं परिहरेयातां तादृग् एवैतत्। त एत ऊनातिरिक्ता मिथुना प्रजनय स्तोमाः। स यः कामयेत बहुः प्रजया पशुभिः प्रजायेयेति स एतैर् यजेत। बहुर् एव प्रजया पशुभिः प्रजायते॥2.166॥


अथैष शुनस्कर्णस्तोमः। शुनस्कर्णो ह वै वार्ष्ण्यकः पुण्यकृद् आपापकृद् आस। स ह चकमे - पुण्यम् एवास्मिन् लोके कृत्वा पापंकृत्य स्वर्गं लोकं गच्छेयम् इति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स पुण्यम् एवास्मिन् लोके कृत्वा पापंकृत्य स्वर्गं लोकम् अगच्छत्। स यः पुण्यकृत् कामयेत पुण्यम् एवास्मिन् लोके कृत्वा पापंकृत्य स्वर्गं लोकं गच्छेयम् इति, स एतेन यजेत। पुण्यम् एवास्मिन् लोके कृत्वा पापंकृत्य स्वर्गं लोकं गच्छति। स त्रिवृद् भवति। पराङ् इव ह वा एषः। स्वर्गम् एव लोकम् अभिनिर्मृष्टो यत् त्रिवृत् स्तोमः। पराङ् एवैतेन स्वर्गं लोकम् एति। तस्य परांच्य् एव स्तोत्राणि भवन्ति, पराञ्चि शस्त्राणि, पराञ्चि पृष्ठानि, पराचीर् विष्टुतयः। पराङ् एव सर्वो भवति। प्रवतीषु स्तुवन्ति। पराञ्चम् एवैनं तद् अमुं लोकं गमयन्ति॥2.167॥


तस्य वामदेव्यं पृष्ठं भवति स्वारम्। स्वाराणि सर्वाणि सामान्य् अवकल्पयन्ति। प्राणो वै स्वरः। प्राणैर् एव तत् प्राणान् उद्गाता यजमानस्य निस्वरति। तद् आहुर् यज्ञायज्ञीयस्य स्तोत्रे जघनेन गार्हपत्यं दक्षिणा प्रावृत्य निपद्येत। तत एव स्वर्गं लोकम् एतीति। तद् उ वा आहुर् विकर्षो वै तथा यज्ञस्य भवति यद् असंस्थिते निपद्येत। यदैव सर्वं कर्म संतिष्ठेत यदा वशया चरेयुः। अथ जघनेनाहवनीयं दक्षिणा प्रावृत्य निपद्येत। तत एव स्वर्गं लोकम् एतीति। असौ वा आदित्य आहवनीयः। एष वै स्वर्गो लोकः। एतस्मिन् एव तत् स्वर्गे लोके ऽन्तत प्रतितिष्ठति॥2.168॥


अथैष मनुस्तोमः। मनुश् च वै यमश् च वैवस्वताव् आस्ताम्। सो ऽकामयत मनुर् अस्मै मां लोकाय राज्याय देवास् सुवीरन्न् अमुष्मै यमम् इति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै तम् अस्मै लोकाय राज्याय देवा असुवतामुष्मै यमम्। स वा एष सदशो भवति। सदंशो(संदंशो?) ह वा एष यत् सदशः। स यथा संदंशेन संदश्य हरेद् एवम् एवैनम् एतेन संदंशे। संदश्यास्माल् लोकाद् अमुं लोकं जहार। तस्य रथन्तरं पृष्ठं भवति। वज्रो वै रथन्तरम्। वज्रेणैवैनं तद् अस्माल् लोकाद् अमुं लोकम् अभिनिर्जघान। स यो भ्रातृव्यवान् स्याद् यो अभिचरेद् य स्पर्धेत स एतेन यजेत। एतेनैवैतं संदंशेन संदश्यास्माल् लोकाद् अमुं लोकं हरति। वज्रो वै रथन्तरम्। वज्रेणैवैनं तद् अस्माल् लोकाद् अमुं लोकम् अभिनिर्हन्ति। तस्मिञ् एतानि घोराणि सामान्य् अवकल्पयन्ति॥2.169॥


जमदग्नेस् सप्तहं विद्रथं चक्षुंषीति यान्य् अभिचरणीयस्य रूपं सामानि तानि स्तोमम् एव तद्रूपेण समृद्धयन्ति। अथो आहुर् अन्नाद्यकाम एवैनेन यजेतेति। सर्वो ह वा अन्यो विराजम् अतिष्टौति। एष ह वाव विराजं नातिष्टौति यो दशभि स्तुते। दशाक्षरा विराट्। अन्नं विराट्। विराज एवान्नाद्यस्यावरुद्ध्यै। तस्य रथन्तरं पृष्ठं भवत्य् - अन्नं वै रथन्तरम् - अन्नाद्यस्यैवावरुद्ध्यै। तस्मिन्न् एतानि सामान्य् अवकल्पयन्त्य् - अर्कार्कपुष्पे दैर्घश्रवसम् इति यान्य् अन्नाद्यस्य रूपं सामानि तानि। स्तोमम् एव तद्रूपेण समृद्धयन्ति॥2.170॥