जैमिनीयं ब्राह्मणम्/काण्डम् २/१७१-१८०
← कण्डिका १६१-१७० | जैमिनीयं ब्राह्मणम्/काण्डम् २ कण्डिका १७१-१८० [[लेखकः :|]] |
कण्डिका १८१-१९० → |
अथैष गायत्रः। तस्य त्रिवृति प्रातस्सवने पञ्चदशम् अच्छाकवास्याज्यं, सप्तदशं माध्यंदिनं सवनम्, एकविंशं तृतीयसवनम्। उक्थ्यो यज्ञ उभय सामनी। पुरोधाकामो हैतेन यजेत। तद् यत् त्रिवृति प्रातस्सवने पञ्चदशम् अच्छावाकस्याज्यं भवति - ब्रह्म वै त्रिवृत्। क्षत्रं पञ्चदशो - ब्रह्मैव तत् क्षत्रस्य पुरस्ताद् दधाति। तस्माद् ब्राह्मणः क्षत्रियस्य पुरोहितः। अथो हैतत् ब्रह्मण एव क्षत्रम् अनु वर्त्म करोति। सप्तदशं माध्यंदिनं सवनम्। विड् वै सप्तदशः। एष उ ह वै द्वितीयो राजा यत् पुरोहितः। विशो वा एष ऐश्वर्यम् आधिपत्यं गच्छति य श्रियम् अश्नुते। विश ऐश्वर्यम् आधिपत्यं गच्छानीति तस्मात् सप्तदशं माध्यंदिनं सवनं भवति। अथो हैतद् ब्रह्मणे चैव क्षत्राय च विशम् अनुयुवं करोति॥2.171॥
तस्य रथन्तरं पृष्ठं भवति, बृहद् ब्रह्मसाम। ब्रह्म वै रथन्तरम्। क्षत्रं बृहत्। ब्रह्मैव तत् क्षत्रस्य पुरस्ताद् दधाति। तस्माद् ब्राह्मणः क्षत्रियस्य पुरोहितः। अथो हैतत् ब्रह्मण एव क्षत्रम् अनु वर्त्म करोति। स उक्थ्यो भवति। विड् वा उक्थानि। एष उ ह वै द्वितीयो राजा यत् पुरोहितः। विश उ वा एष ऐश्वर्यम् आधिपत्यं गच्छति य श्रियम् आश्नुते। विश ऐश्वर्यम् आधिपत्यं गच्छानीति तस्माद् उक्थ्यो भवति। अथो हैतद् ब्रह्मणे चैव क्षत्राय च विशम् अनुयुवं करोति। तान्य् एकविंशानि भवन्ति। द्वादश मासाः पञ्चर्तवस् त्रय इमे लोका असाव् आदित्य एकविंशः। एष उ ह वै श्रीः। एताम् एव तच् छ्रियम् अन्ततो ऽभ्यारोहति। स उ एव सर्वस् संस्तुतो गायत्रीम् एवाभिसंपद्यते। ब्रह्म वै गायत्री। यदो वै ब्रह्मवर्चम् ऋध्नोत्य् अथ स तस्य पुरोधां गच्छति। स यदा पुरोधां गच्छेद् अथ कामयेताच्याव्यो ऽस्यै पुरोधायै स्यां, न च्यवेयेत्य् एतस्यैव सतः, पंचदशं ब्राह्मणाच्छंसिन आज्यं कुर्यात् तत्। ब्रह्म वै त्रिवृत्। क्षत्रं पंचदशः। तद् एतद् ब्रह्मणोभयतः क्षत्रं परिगृह्णाति। स हाच्याव्यः पुरोधायै भवति, न च्यवते॥2.172॥
अथैष गौतमस्य चतुष्टोमः। गौतमो वा अकामयताव पशून् रुन्धीय भूमानं पशूनां गच्छेयम् इति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै सो ऽव पशून् रुन्ध भूमानं पशूनाम् अगच्छत्। स यः कामयेताव पशून् रुन्धीय भूमानं पशूनाम् गच्छेयम् इति स एतेन यजेत। अव हैव पशून् रुन्द्धे भूमानं पशूनां गच्छति। तस्य चतसृषु बहिष्पवमानं भवति। चतुष्पादा वा अश्वास् सन्तश् चतुश्शफाः। ते ये चतुष्पादाः पशवश् चतुश्शफास् तान् एवैतेनावरुन्द्धे। अष्टास्व् अष्टास्व् आज्यानि। अष्टशफा वै पशवः। ते ये ऽष्टाशफाः पशवस् तान् एवैतेनावरुन्द्धे। द्वादशो माध्यंदिनः। द्वादशाक्षरा वै जगती। पशवो जगती। यत् क्षुद्रं पशूनां तज् जागतम्। तद् एवैतेनावरुन्द्धे। षोडशानि पृष्ठानि। षोडशकला वै पशवो यांश् च विद्म यांश् च न। तान् एवैतेन कलशो ऽवरुन्द्धे। स विंश आर्भवः पवमानः। द्वे वा एते दशदशिन्यौ विराजौ यद् विंशतिः। विंशतिप्रतिष्ठाना वै पशवो वैराजाः। ते ये विंशतिप्रतिष्ठाना पशवो वैराजास् तान् एवैतेनावरुन्द्धे। अथ चतुर्विंशम् अग्निष्टोमसाम। चतुष्पादा वै पशवो वैराजाः। ते ये चतुष्पादाः पशवो वैराजास् तान् एवैतेनावरुन्द्धे। अथो चतुर्विंशत्यर्धमासस् संवत्सरः. संवत्सरेणैवैनांस् तत् परिगृह्यात्मन्न् अधत्त। न ह खलु वा एषो ऽग्निष्टोमो नोक्थ्य उभयम् इवैव नो वा एते ग्राम्याः पशवो नारण्या उभयम् इवैव। तान् एवैतेनावरुन्द्धे॥2.173॥
अथैषो ऽपूर्वः। प्रजननकामो हैतेन यजेत। प्रजापतिर् वा अकामयत बहुः प्रजया पशुभिः प्रजायेय, न मद् अन्यः पूर्व स्याद् इति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स बहुः प्रजया पशुभिः प्रजायत। नास्माद् अन्यः पूर्व आसीत्। स यः कामयेत बहुः प्रजायेय न मद् अन्यः पूर्व स्याद् इति स एतेन यजेत। बहु् एव प्रजया पशुभिः प्रजायते नास्माद् अन्यः पूर्वो भवति। स त्रिवृद् रथन्तरसामा भवति। न ह वै त्रिवृत स्तोमाद् अन्यः पूर्व स्तोमो ऽस्ति, न रथन्तरात् पृष्ठाद् अन्यत् पूर्वं पृष्ठम् अस्ति, न प्रजापतेर् अन्या पूर्वा देवतास्ति। तद् यद् एतान्य् अपूर्वाणि तस्माद् अपूर्वः। अथो मनो वै प्रजापतिः। नो वै मनसो ऽन्यत् किं चन पूर्वम् अस्ति। तस्माद् उ एवापूर्वः। स त्रिवृद् भवति - न्यूनं वै त्रिवृत्। न्यूनं प्रजननम् - तद् यत् प्रजननं तन् मा प्रजनयाद् इति। तस्य रथन्तरं पृष्ठं भवति - प्रजननं वै रथन्तरं - तद् यत् प्रजननं तन् मा प्रजनयाद् इति। तस्य द्वादश स्तोत्राणि भवन्ति - द्वादश मासास् संवत्सरः। संवत्सरः प्रजननम् - स यः प्रजननं स मा प्रजनयाद् इति। तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति - चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरः प्रजननं - स यः प्रजननं स मा प्रजनयाद् इति॥2.174॥
अथैष पञ्चशारदीयः। मरुतो वा अकामयन्तौजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तम देवानां स्याम, जयेम स्वर्गं लोकम् इति। त एतं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। ततो वै त ओजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तमा देवानाम् आसन्न्, अजयन् स्वर्गं लोकम्। ओजिष्ठो बलिष्ठो भूयिष्ठो वीर्यवत्तम स्वानां भवति, जयति स्वर्गं लोकं य एवं वेद। स वा एष विशाम् एव यज्ञः। विशो वै मरुतस् तस्माद् विशां यज्ञः। तेन हैतेनैकयावा कांदम ईजे। स हौजिष्ठश् चैव बलिष्ठश् च भूयिष्ठश् च वीर्यवत्तमश् च स्वानाम् आस, जिगाय वा लोकं न वा। स सप्तदशो भवति - प्रजापतिर् वै सप्तदशः। प्रजापतिः प्रजननं - स यः प्रजननं स मा प्रजनयाद् इति। तस्य रथन्तरं पृष्ठं भवति - प्रजननं वै रथन्तरं - तद् यत् प्रजननं तन् मा प्रजनयाद् इति। स उक्थ्यो भवति - प्रजा वै पशव उक्थानि - प्रजया पशुभिः प्रजाया इति॥2.175॥
तस्य पञ्च शरदः पञ्चोक्षाणः प्रोक्षिताश् चरन्ति। तद् यत् पञ्चशरदः पञ्चोक्षाणः प्रोक्षिताश् चरन्ति, तस्मात् पञ्चशारदीयः। त उ सर्वे पृश्नयो भवन्ति। मरुतः पृश्निमातर इति वा आहुः। अथो ऋचाभ्यनूच्यते मरुतः पृश्निमातर इति। तस्मात् पृश्नयो भवन्ति। वीर्यं वै देवानां हविः। तद् आत्मभ्य एवागृह्णत। तद् यन् मरुद्भ्य एव भवति वीर्यम् एव तद् आत्मसु दधते। मरुद्भ्य उज्जेषिभ्य इति मरुद्भ्य स्वापिभ्य इति मरुद्भ्य स्वतवद्भ्य इति मरुद्भ्य एव मरुद्भ्य इति मरुद्भ्यो ऽभिष्टिभ्य इति। तद् यन् मरुद्भ्य उज्जेषिभ्य इति यथा तं कामम् उज्जयेद् यत्कामो यजेत। अथ यन् मरुद्भ्य स्वतवद्भ्य इति मरुतो ह वा इदं सर्वं स्वम्। तान् एवैतत् स्वेन प्रीणाति। तस्मै प्रीता स्वं प्रत्यवर्जन्ति। तेन प्रत्यवसृष्टेन यजते। अथ यन् मरुद्भ्य एव मरुद्भ्य इति --॥2.176॥
-बहवो ह वै मरुतो यांश् च विद्म यांश् च न। ते नस् सर्वे प्रीता आसन्न् इति। अथ यन् मरुद्भ्यो ऽभीष्टिभ्य इति यथा तं कामं स्वाभ्याप्तम् अभ्यश्नुवीत तत्कामो यजेत। तान् एतान् पशून् आलभेत। दीक्षिष्यमाण एकम् उपवसथ एकं प्रसुत एकम् अनूबन्द्यायाम् एकम् उदवसानीयायाम् एकम् एवम् एतान् पशून् आलभेत। अथ हैक आहुः पञ्चरात्र एवैष स्यात्। तत्रैवैतान् अन्वहं पशून् आलभेतेति। तद् उ होदर शाण्डिल्य स्थविरम् एकयावानं पप्रच्छ यद् इदं विवदन्ते पञ्चरात्र एवासेत्य् एक, उक्थ्य एव सप्तदश इत्य् एके कथं स आसेति। स होवाचोक्थ्यम् एव नस् तं सप्तदशम् एकाहम् अभ्यवेदयन्तेति। अथ हैक आहुर् अतिरात्र एवैष स्यात्। कथं पञ्च वर्षाणि यज्ञ आगूर्णो ऽनतिरात्र स्याद् इति। तद् ध तन् न तथा। अग्निष्टोम एव स्याद् इत्य् एके। अग्निष्टोमाद् वै सर्वे यज्ञक्रतवस् तायन्त इति। तद् उ ह तन् नो एव तता. उक्थ्यो हैव स सप्तदश स्यात्। विड् वा उक्थ्यानि। विट् सप्तदशः। विशाम् एव यज्ञः। तस्माद् उक्थ्य एव सप्तदश स्याद् इति। तस्य मरुतां चार्को मरुतां च संस्तोभ इत्य् एते आदिष्टसामनी पवमानयोर् भवतः। स्तोमम् एव तद्रूपेण समृद्धयन्ति॥2.177॥
अथैषो ऽभिजित्। देवासुरा वा एषु लोकेष्व् अस्पर्धन्त। अस्मिन् भुवने ते देवा अकामयन्ताभीमान् लोकान् जयेमासुरान् स्पर्धाम भ्रातृव्यान् इति। त एतं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। तेनेमान् लोकान् अभ्यजयन्न् अजयन् स्पर्धां भ्रातृव्यान् असुरान्। तद् यद् इमान् लोकान् ्ब्यजयंस्, तद् अभिजितो ऽभिजित्त्वम्। अभीमान् लोकान् जयति जयति स्पर्धां द्विषन्तं भ्रातृव्यं य एवं वेद। तस्य त्र्युत्तरिण स्तोमा भवन्ति - त्रयो वा इमे लोका - एषां लोकानाम् अभिजित्यै। चतुरावृतो भवन्ति - चतस्रो दिशो - दिशाम् एवाभिजित्यै। अभिवतीषु स्तुवन्त्य् एषाम् एव लोकानाम् अभिजित्यै। आभीकम् अभिनिधनम् अभीवर्त आभीशवम् इत्य् एतानि सामानि भवन्त्य्, एषाम् एव लोकानाम् अभिजित्यै॥2.178॥
तस्य रथन्तरं पृष्ठं भवति, वामदेव्यं मैत्रावरुणसाम, बृहद् आर्भवे पवमाने। इदं वै रथन्तरम्। अन्तरिक्षं वामदेव्यम्। अद एव बृहत्। एषाम् एव लोकानाम् अनन्तर्हितानाम् अभिजित्यै। तस्मिन्न् एतानि परोक्षं पृष्ठरूपाण्य् अवकल्पयन्ति, विश्वजितः प्रत्युद्यमाय। इन्द्रो वै वृत्रम् अहन्। तं वृत्रं जघ्निवांसम् एभ्यो लोकेभ्यस् तमो ऽन्ववृणोत्। सो ऽकामयतापेदं तमो हनीयेति। स एतम् अभिजितं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। तस्य त्र्युत्तरिण स्तोमा भवन्ति। त्रयो वा इमे लोकाः। तेनैभ्यो लोकेभ्यस् तमो ऽपाहत। तं चतुर्थाल् लोकात् तमो ऽन्व् एवावृणोत्। सो ऽकामयतापैवेदं तमो हनीयेति। स एतं विश्वजितं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। तस्य चतुरुत्तरिण स्तोमा भवन्ति। चतस्रो दिशः। एष उ ह वै चतुर्थो लोको यद् दिशः। तेन चतुर्थाल् लोकात् तमो ऽपैवाहत। ततो वै स सर्वेभ्य एभ्यो लोकेभ्यस् तमः पाप्मानम् अपहत्य स्वर्गं लोकम् आरोहत्। सर्वेभ्य एवैभ्यो लोकेभ्यस् तमः पाप्मानम् अपहत्य स्वर्गं लोकम् आरोहत्। सर्वेभ्य एवैभ्यो लोकेभ्यस् तमः पाप्मानम् अपहत्य स्वर्गं लोकम् आरोहति य एवं वेद॥2.179॥
अथैष विश्वजित्। इन्द्रो ऽसुरान् अजयत्। तेषां त्वानिव नाजयत्। तम् एतेन देवा अयाजयन्। स विश्वम् अजयत्। इन्द्रो वै विश्वजित्। यद् वा एतेन शिल्पेनाजयत् तद् विश्वजितो विश्वजित्त्वम्। देवा वा असुरेभ्यो बिभ्यतस् सर्वम् इदं संगृह्योर्ध्वा स्वर्गं लोकम् उदक्रामन्। यो वै सर्वं विन्दमानः सर्वं न ददाति स सर्वपरादायी। अथ यस् सर्वं विन्दमानस् सर्वं ददाति स सर्ववेदसी। सर्वं वा एष विन्दते यत् सर्वान् स्तोमान् सर्वान् ग्रहान् सर्वाणि पृष्ठानि सर्वाणि छन्दांसि विन्दते। तस्य चतुरुत्तरिण स्तोमा भवन्ति। इमान् एव लोकांस् त्रिभिर् अभिजयति। यश् चतुर्थो विश्वा एव तेनाशास् संभार्या भवन्ति। पृष्ठानाम् एव संयोगो नानादेवत्या भवन्ति, तेन युज्यं तेन रूपेण। तद् आहुर् अपथम् इव वा एते यन्ति ये पावमानीभिः प्रतिपद्यन्त इति। पवमानस्य ते कव इति पर्यासो भवति। पुनः पन्थानं पर्यवयन्ति। न चत्वारि षड्भ्यो भवन्ति। तेन विभवन्ति॥2.180॥