← कण्डिका २०१-२१० जैमिनीयं ब्राह्मणम्/काण्डम् २
कण्डिका २११-२२०
[[लेखकः :|]]
कण्डिका २२१-२३० →


अथैत ऋतुष्टोमाः। ऋतवो वा अकामयन्त समानेन यज्ञेन समानीम् ऋद्धिम् ऋध्नुयामावान्नाद्यं रुन्धीमहि, पुनर्नवाः पुनर्नवा स्यामेति। त एतान् यज्ञान् अपश्यन्। तान् आहरन्त। तैर् अयजन्त। स वसन्तः प्रथमो ऽयजत। स एतेनायजत। स एताम् एवर्द्धिम् आर्ध्नोद् एतद् अन्नाद्यम् अवारुन्द्धैतां पुनर्नवतां यैषा वसन्तस्य। अथ शिशिर ऐक्षत - येनैवेमे पूर्वा इष्ट्वारात्सुस् तेनो एवाहं यजा इति। स एतेनैवायजत। स एताम् एवर्द्धिम् आर्ध्नोद् एतद् अन्नाद्यम् अवारुन्द्धैतां पुनर्नवतां यैषा शिशिरस्य॥2.211॥

शश्वद् धैषाम् एष एवर्द्धतमः। एतं ह्य् एव प्राप्य गोर् अश्वस्य पुरुषस्यैतम् एव रूपम् अभ्यवैति। तद् एतद् अनन्तं देवचक्रम् अक्षितं पुनर्नवम् आ च परा च परिवर्तते। स य एतद् एवं वेदैताम् एवानन्तताम् एताम् अक्षितिम् एतां पुनर्नवतां जयति। स यः कामयेत समानेन यज्ञेन समानीम् ऋद्धिम् ऋध्नुयामावान्नाद्यं रुन्धीय पुनर्नवः पुनर्नव स्याम् इति स एतैर् यजेत। स वसन्ते प्रथमेन यजेत। स एताम् एवर्द्धिम् ऋध्नोति एतद् अन्नाद्यम् अवरुन्द्ध एतां पुनर्नवतां यैषा वसन्तस्य। ग्रीष्मे द्वितीयेन यजेत। वर्षासु तृतीयेन यजेत। शरदि चतुर्थेन यजेत। हेमन् पञ्चमेन यजेत। शिशिरे षष्ठेन यजेत। स एताम् एवर्द्धिम् ऋध्नोत्य् एतद् अन्नाद्यम् अवरुन्द्ध एतां पुनर्नवतां यैषा शिशिरस्य॥2.212॥

स हर्तूनाम् एवैको भवति। ऋतून् एवाप्येत्य् अक्षय्यं हास्याव्यवच्छिन्नं सुकृतं भवति। पुनर्नवो हैव सुकृतेनाप्यायमान एति। ते पञ्च स्तोत्र्या भवन्ति। यः पांक्तो यज्ञो, ये पांक्ताः पशवो, यत् पांक्तम् अन्नाद्यं, ये पंचर्तवो, यत् किं च पञ्च पञ्च तस्यैषा सर्वस्यर्द्धिस् तस्योपाप्तिः। तेषाम् उ एकैकस्य षष्टि षष्टि स्तोत्र्या भवन्ति। तावतीर् ऋतो रात्रयः। तेनर्तून् नातिष्टुवन्ति। तेषाम् उ सर्वेषां त्रीणि षष्टिशतानि स्तोत्र्या भवन्ति। तावतीस् संवत्सरस्य रात्रयः। रात्रिश एव तत् संवत्सरम् आप्नुवन्ति। तद् आहुः - पृष्ठान्य् एवोपेत्यानीति। पृष्ठाद् वाव पृष्ठम् उपेयात्। पृष्ठानि ह्य् ऋतव इति। स रथन्तरसामैव प्रथम स्याद् अथ बृहत्सामाथ वैरूपसामाथ वैराजसामाथ शक्वरीसामाथ रेवतीसामोत्तम स्याद् इति। तद् उ वा आहुर् दीक्षोपसद्भिस्सुत्यायै पृष्ठानि व्यवच्छिद्येरन्। यद् एवं कुर्युर् दूरे दूर इव वै पृष्ठान्य् उपयन्ति। पृष्ठं वाव पृष्ठम् अभिवोढुम् अर्हति। उपजो वा एषा बृहद्रथन्तरयोर् यद् एतानि सामानि। बृहद्रथन्तरे वै विच्छिन्नस्य यज्ञस्य सन्तत्यौ। तस्माद् बृहद्रथन्तराभ्याम् एव स्युर् इति। स रथन्तरसामैव प्रथम स्याद् अथ बृहत्सामाथ रथन्तरसामाथ बृहत्सामाथ रथन्तरसामाथ बृहत्सामोत्तम स्याद् इति। तेषु यान्य् ऋतुनिधनानि यान्य् ऋतुनिधनानि सामानि तान्य् अवकल्पयन्ति स्वर्ग्याणि, स्वर्गस्य लोकस्य समष्ट्या अहोरूपाणां च समृद्ध्यै॥2.213॥

अथैते दिशां स्तोमाः। दिशो वा अकामयन्त - समानेन यज्ञेन समानीम् ऋद्धिम् ऋध्नुयाम प्रतितिष्ठेमानन्तं स्वर्गं लोकं जयेमेति। ता एतान् यज्ञान् अपश्यन्। तान् आहरन्त। तैर् अयजन्त। सेयं प्राची दिक् प्रथमायजत। सैतेनायजत। सैताम् एवर्द्धिम् आर्ध्नोद्, एतां प्रतिष्ठाम् एतम् अनन्तं स्वर्गं लोकम् अजयत्। स एष एतस्यानन्त स्वर्गो लोको जितः। स यो ह वा अपि बहून्य् एवाहानि प्राङ् इयान् नैवैतस्या अन्तं विन्देत्। अथेयम् ऊर्ध्वा दिग् ऐक्षत येनैवेमाः पूर्वा इष्ट्वारात्सुस् तेनो एवाहं यजा इति। सैतेनैवायजत। सैताम् एवर्द्धिम् आर्ध्नोद् एतां प्रतिष्ठाम् एतम् अनन्तं स्वर्गं लोकम् अजयत्। स एष एतस्यानन्त स्वर्गो लोको जितः। स यो ह वा अपि बहून्य् एवाहान्य् ऊर्ध्व इयान् नैवैतस्या अन्तं विन्देत्॥2.214॥

तद् आहुः पृष्ठान्य् एवोपेत्यानीति। पृष्ठाद् वाव पृष्ठम् उपेयात्। पृष्ठानि हि दिश इति। स रथन्तरसामैव प्रथम स्याद् अथ बृहत्सामाथ वैरूपसामाथ वैराजसामाथ शक्वरीसामा च रेवतीसामा चोत्तम स्याद् इति। तद् उ वा आहुर् दीक्षोपसद्भिस् सुत्यायै पृष्ठानि व्यवच्छिद्येरन्। यद् एवं कुर्युर् दूरे दूर इव वै पृष्ठान्य् उपयन्ति। पृष्ठं वाव पृष्ठम् अभिवोढुम् अर्हति। उपजो वा एषा बृहद्रथन्तरयोर् यद् एतानि सामानि। बृहद्रथन्तरे वै विच्छिन्नस्य यज्ञस्य सन्तत्यौ तस्माद् बृहद्रथन्तराभ्याम् एव स्युर् इति। स रथन्तरसामैव प्रथम स्याद् अथ बृहत्सामाथ रथन्तरसामाथ बृहत्सामाथ रथन्तरसामा च बृहत्सामा चोत्तम स्याद् इति॥2.215॥

त उ वै पंच पंचविंशा भवन्ति। ततो या विंशतिर् विराट् सा। अथ याश् चतस्र इमा एव ताश् चतस्रो दिशः। अथ या पञ्च पंचविंशीयम् एव सोर्ध्वा दिक्। दिशो ह वै दिवं दुह्रे, द्यौर् वा दिशो दुहे। प्र ह वै दिशां च दिवश् च दोहम् आप्नोति य एवं वेद। स यः कामयेत समानेन यज्ञेन समानीम् ऋद्धिम् ऋध्नुयां प्रतितिष्ठेयम् अनन्तं स्वर्गं लोकं जयेयम् इति स एतैर् यजेत। स ह महद् एवाभि देवयजनं जोषयेत। तत् पंच शालाः कर्तवै ब्रूयाद् इहैकाम् इहैकाम् इहैकाम् इहैकां मध्य एकाम्। सो ऽनेन रथन्तरसाम्ना यजेत। स एताम् एवर्द्धिम् ऋध्नोत्य् एतां प्रतिष्ठाम् एतम् अनन्तं स्वर्गं लोकं जयति। अथानेन बृहत्साम्ना यजेताथानेन रथन्तरसाम्ना यजेताथानेन बृहत्साम्ना यजेताथानेनोभयसाम्ना यजेत। स एताम् एवर्द्धिम् ऋध्नोत्य् एतां प्रतिष्ष्ठाम् एतम् अनन्तं स्वर्गं लोकं जयति। अथानेन बृहत्साम्ना यजेताथानेन रथन्तरसाम्ना यजेताथानेन बृहत्साम्ना यजेताथानेनोभयसाम्ना यजेत। स एताम् एवर्द्धिम् ऋध्नोत्य् एताम प्रतिष्ठाम् एतम् अनन्तं स्वर्गं लोकं जयति एताम् एव दिशम् अप्येति। स ह दिशाम् एवैको भवति दिश एवाप्येति। तस्यैषो ऽनन्त स्वर्गो लोको जितो भवति । य एष दिशां तेषु यानि दिङ्निधनानि यानि विण्णिधनानि सामानि तान्य् अवकल्पयन्ति स्वर्ग्याणि, स्वर्गस्य लोकस्य समष्ट्या अहोरूपाणां च समृद्ध्यै॥2.216॥


अथैत ऋषिष्टोमाः। ऋषयो ह वै स्वर्गं लोकं जिग्युः श्रमेण तपसा व्रतचर्येण. ते ऽकामयन्त - प्रजा अस्मिन् लोके विदाय स्वर्गं लोकं गच्छेमेति। स वसिष्ठो ऽकामयत अग्र्या मे मुख्या प्रजा स्याद् इति। स एतं त्रिवृतं स्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। अग्रं वै मुखं त्रिवृत् स्तोमानाम्। ततो वै तस्याग्र्या मुख्या प्रजाभवत्। त एते अप्य् एतर्हि वसिष्ठाः कुरुष्व अग्र्याश् चैव मुख्याश् च मन्यन्ते। अग्र्यो मुख्यो भवति य एवं वेद। अथाकामयत भरद्वाज - ओजिष्ठा मे बलिष्ठा प्रजा स्याद् इति। स एतं पञ्चदशं स्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। ओजो वै बलं पञ्चदश स्तोमानाम्। ततो वै तस्यौजिष्ठा बलिष्ठा प्रजाभवत्। अपि ह स्म तेन पथा पुरा कुरवो न यन्ति येन भरद्वाजा ययुः। अथो ह स्मोत्क्रोशन्ति भारद्वाजबलम् इति। तस्माद् उ भारद्वाज एवानुज्ञातः सभायां दण्ड्यं प्रहरेत्। ओजिष्ठो बलिष्ठो भवति य एवं वेद॥2.217॥

अथाकामयत जमदग्निर् भूमानं प्रजया पशुभिर् गच्छेयम् इति। स एतं सप्तदशं स्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। भूमा वै प्रजापतिः सप्तदश स्तोमानाम्। ततो वै स भूमानं प्रजया पशुभिर् अगच्छत्। भूमानम् एव प्रजया पशुभिर् गच्छति य एवं वेद। अथाकामयत गौतम - श्रद्धानीया मे प्रजा ब्रह्मवर्चसिनी स्याद् इति। स एतम् एकविंशंस्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। श्रद्धा वै ब्रह्मवर्चसम् एकविंश स्तोमानाम्। असौ हि स आदित्यः। ततो वै तस्य श्रद्धानीया ब्रह्मवर्चसिनी प्रजाभवत्। त इमे ऽप्य् एतर्हि गौतमा श्रद्धानीयाश् चैव ब्रह्मवर्चसिनश् च । श्रद्धानीयो ब्रह्मवर्चसी भवति य एवं वेद॥2.218॥

अथाकामयतात्रिर् भूयिष्ठा म ऋषयः प्रजायाम् आजायेरन्न् इति। स एतं त्रिणवं स्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। तेजो वै त्रिणव स्तोमानाम्। ततो वै तस्य भूयिष्ठा ऋषयः प्रजायाम् आजायन्त - परस्सहस्रा हास्य प्रजायां मन्त्रकृत आसुर्, अपि हास्य स्त्रियो मन्त्रकृत आसुः। तस्माद् यो ऽप्य् आत्रेयीं स्त्रियं हन्ति, तं पर्य् एव चक्षते। तेजस्वी भवति य एवं वेद। अथाकामयत विश्वामित्रो - राज्यं मे प्रजा गच्छेद् इति। स एतं त्रयस्त्रिंशं स्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। क्षत्रं वै त्रयस्त्रिंश स्तोमानाम्. ततो वै तस्य राज्यं प्रजागच्छत्। अष्टको हास्य प्रजायाम् अभिषिषिचे। गच्छति राज्यं य एवं वेद। ततो वै ते प्रजा अस्मिन् लोके विदाय स्वर्गं लोकम् अगच्छन्। प्रजाम् एवास्मिन् लोके विधाय स्वर्गं लोकं गच्छति य एवं वेद॥2.219॥

तद् उ वावागस्त्यः पश्चेवानुबुबुध - ऋषयो ह वा इमे प्रजा अस्मिन् लोके विधाय स्वर्गं लोकम् अग्मन्न् इति। सो ऽकामयताहम् अपि प्रजा अस्मिन् लोके विधाय स्वर्गं लोकम् अनुगच्छेयम् इति। स एतं षोडशं स्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। स्वर्गो लोकष् षोडश स्तोमानाम्। ततो वै स प्रजा अस्मिन् लोके विधाय स्वर्गं लोकम् अन्वगच्छत्। प्रजाम् एवास्मिन् लोके विधाय स्वर्गं लोकम् अनुगच्छति य एवं वेद। तस्माद् यद् आगस्त्यो ब्राह्मणान् प्राप्नोत्य् अनुचर इवैव भवति। अनुचर इव ह्य् एष स्तोमानां यत् षोडशः। तस्माद् व् अगस्तयो बहिर्धेव कुरुपाञ्चालेभ्यः। बहिर्धेव ह्य् एष स्तोमेभ्यो यत् षोडशः॥2.220॥

सप्तर्षि saptarshi