प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अथैते व्रात्यस्तोमाः। दिव्या वै व्रात्या व्रात्याम् अधावयन् बुधेन स्थपतिना। त एते व्रात्या आर्छन्न् इमं वैव यो ऽयं पवत ईशानं वा देवम्। तान् यज्ञस्यार्त्याविध्यत्। ते स्वर्गं लोकं न प्राजानन्। ते ऽकामयन्त - प्र स्वर्गं लोकं जानीयामेति। ते प्रजापतिम् एवोपाधावन्। तेभ्य एतं व्रात्यस्तोमं यज्ञं व्यदधात्। तम् आहरन्। तेनायजन्त। ततो वै ते स्वर्गं लोकं प्राजानन्। मुह्यन्तीव वा एते ये व्रात्यां धावयन्ति। तद् यद् व्रात्यस्तोमेन यजन्ते स्वर्गस्यैव लोकस्यानुख्यात्यै। तस्य द्वात्रिंशाः पवमाना भवन्ति। द्वात्रिशदक्षरानुष्टुप्। वाग् अनुष्टुप्। वाचो वा एते व्यृध्यन्ते ये व्रात्यां धावयन्ति। तद् यद् द्वात्रिंशाः पवमानाः भवन्ति, वाचैव तत् समृध्यन्ते। अनुष्टुप् प्रतिपद् भवति। वाग् वा अनुष्टुप्। वाचो वा एते व्यृध्यन्ते, ये व्रात्यां धावयन्ति॥2.221॥


वाचा ह्य् अपूतम् अमेध्यं वदन्ति। तेषाम् इन्द्रियं वीर्यं वाचो ऽपक्रामति। तद् यद् अनुष्टुप् प्रतिपद् भवति, अभिपूर्वम् एव तद् वाचा समृध्यन्ते। सो वा अर्बुदस्यर्क्षु भवति। अर्बुदो वै सर्प एताभिर् मृतां त्वचम् अपाहत। म्रियन्त इव वा एते ये व्रात्यां धावयन्ति। उत हि स्थविरतरस्यान्त आहनस्यं वदन्ति। मृताम् एवैताभिस् त्वचम् अपघ्नते॥2.222॥


सो वा आग्नेयी भवति। अग्निर् वै लोकानां प्रज्ञपयिता। स यो लोकानां प्रज्ञपयिता स नो लोकान् प्रज्ञपयाद् इति। न हि ते अग्ने तन्वै क्रूरं विवेद मर्त्य इति यद् इह क्रूरम् अशान्तम् अचारिष्म तद् एतयापहनामहा इति। कपिर् बभस्ति तेजनं पुनर् जरायु गौर् इवेति पुनर् एवैतयापियन्ति। अग्ने विश्वेभिर् अग्निभिर् इति वैश्वाग्नम् आज्यं भवति। अग्नयो वै विश्वे देवाः। विश्वान् एव तेन देवान् अपियन्ति। तद् आनुष्टुभं भवति सवनमुखे - सवनमुखे वाचा समृध्यामहा इति। तत् त्रिवृद् भवति। ब्रह्म वै त्रिवृत्। ब्रह्मणो वा एते व्यृध्यन्ते ये व्रात्यां धावयन्ति। राजपुत्रा इति ह्य् एनान् आचक्षते। तद् यत् त्रिवृद् भवति ब्रह्मणैव तत् समृद्ध्यन्ते। पञ्चदशं मैत्रावरुणस्य। क्षत्रं वै पञ्चदशः। अपभ्रंशो ह वै ब्रह्मणः क्षत्रम्। क्षत्रेणैव तत् समृध्यन्ते। षोडशम् अच्छावाकस्य। इन्द्रियं वै वीर्यं षोडशी। इन्द्रियेणैव तद् वीर्येण समद्ध्यन्ते॥2.223॥


अथैते उष्णिक्ककुभौ माध्यंदिनं सवनम् अभि प्रत्याहरन्ति। प्रजा वै छन्दसां उष्णिक्ककुभौ। तयोर् बृहतो मारुतस्य सामनी भवतः। द्यौताने वा देवसामे। छन्दांसि वै स्वर्गो लोकः। स यथा प्रियं पुत्रम् आरभ्य याचेत्, सखा वा सखायम् अनुसंविदम्, एवम् एवैतत् सर्वाणि छन्दांस्य आरभ्य मध्यतो वियन्ति। तयोर् अन्यतरस्यां ब्रह्मसाम। ब्रह्म वै ब्रह्मसाम। यजमानकामो वा एष यद् ब्रह्मसाम। स्व एव तद् आयतने यजमानं कामैस् समृद्धयन्ति। सप्तदशं होतुः पृष्ठं भवति। प्रजापतिर् वै सप्तदशः। प्रजापतिम् एवैतन् मध्यतो वियन्ति। एकविंशं मैत्रावरुणस्य। द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। एतम् एवैतन् मध्यतो वियन्ति। त्रिणवं ब्राह्मणाच्छंसिनः। त्रिणवा इमे लोकाः। इमान् एवैतल् लोकान् मध्यतो वियन्ति। षोडशम् अच्छावाकस्य। इन्द्रियं वै वीर्यं षोडशी। इन्द्रियेणैव तद् वीर्येण समृध्यन्ते। षोडशम् उ एवादो ऽच्छावाकस्य। तद् द्वात्रिंशत्। द्वात्रिंशदक्षरानुष्टुप्। यो ऽनुष्टुभि कामस् स न उपाप्तो ऽसद् इति॥2.224॥


अथैता नदं व ओदतीनाम् इत्य् उष्णिहाभाजनम् आर्भवे पवमाने क्रियन्ते। तास् सप्ताक्षरपदा भवन्ति। सप्त प्राणाः। प्राणैर् एव तत् समृध्यमाना यन्ति। प्राणेषु प्रतितिष्ठन्ति। उत ह्य् अहिंस्यं ब्राह्मणं हिंसन्ति श्रोत्रियं वा गृहमेधिनं वा । तद् यत् सप्ताक्षरपदा भवन्ति प्राणैर् एव तत् समृध्यन्ते। ताश् चतुष्पदा भवन्ति प्रतिष्ठायै। चतुष्पदीव प्रत्यष्ठाद् इति वा आहुः। सुप्रतिष्ठितं तास्व् अभीवर्तः। वाग् वा अभीवर्तः। वाचो वा एते व्यृध्यन्ते ये व्रात्यां धावयन्ति। तद् यद् अभीवर्तो भवति वाचैव तत् समृध्यन्ते। अग्न आ याह्य् अग्निभिर् इत्य् अग्निष्टोमसाम भवति। अग्नयो वै सर्वे देवाः। सर्वान् एव तेन देवान् अपियन्ति। तत् त्रयस्त्रिंशं भवति। त्रयस्त्रिंशद् वै सर्वा देवताः। सर्वास्व् एवैतद् देवतासु यज्ञस्यान्ततः प्रतितिष्ठन्ति॥2.225॥


ताः केशिनीर् भवन्ति। ऊर्जो नपातं घृतकेशम् ईमहे ऽग्निं यज्ञेषु पूर्व्यम् इति केशैर् इव ह्य् एते चरन्ति। अथैष कुषीतगृहपतीनाम् एषीकपावानां षोडशपवमानः। इन्द्रियं वै वीर्यं षोडशी। आरभमाणा एवेन्द्रियेण वीर्येण समृध्यामहा इति। त्रीणि पञ्चदशान्य् आज्यानि भवन्ति। क्षत्रं वै पंचदशः। क्षत्रेणैव तत् समृध्यन्ते। षोडशम् अच्छावाकस्य। इन्द्रियं वै वीर्यं षोडशी। इन्द्रियेणैव तद् वीर्येण समृध्यन्ते। षोडशो माध्यंदिनः। द्वात्रिंशद् द्वात्रिंशदक्षरानुष्टुप्। यो ऽनुष्टुभि कामस् स न उपाप्तो ऽसद् इति। त्रीणि सप्तदशानि पृष्ठानि भवन्ति। प्रजापतिर् वै सप्तदशः। प्रजापतिनैव तत् समृध्यन्ते। षोडशम् अच्छावाकस्य। इन्द्रियं वै वीर्यं षोडशी। इन्द्रियेणैव तद् वीर्येण समृध्यन्ते। षोडश आर्भवः। तद् द्वात्रिंशद् द्वात्रिंशदक्षरानुष्टुप्। यो ऽनुष्टुभि कामस् स न उपाप्तो ऽसद् इति। एकविंशम् अग्निष्टोमसाम। द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। एतस्य वा एते सलोकतां गचछन्ति एतम् अभ्यारोहन्ति॥2.226॥


अथैष कनिष्ठानाम् अग्रकामाणाम्। तस्य त्रिवृतस् सतश् चतुर्विंशं बहिष्पवमानम्। ते ये कनिष्ठा अग्रकामा स्युस् त एतेन यजेरन्। तद् यत् त्रिवृतस् सतश् चतुर्विंशं बहिष्पवमानं भवति - चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरो वा अग्रं ज्यैष्ठ्यं - स यो ऽग्रं ज्यैष्ठ्यं स नो ऽग्रं ज्यैष्ठ्यं गमयाद् इति। स त्रिवृद् भवति। त्रिवृद् वै स्तोमानाम् अग्रं ज्य़ैष्ठयम्। स यो ऽग्रं ज्य़ैष्ठ्यं स नो ऽग्रं ज्यैष्ठ्यं गमयाद् इति। स गायत्रीषु भवति। गायत्री वै छन्दसाम् अग्रं ज्यैष्ठ्यम्। सा याग्रं ज्यैष्ठ्यं सा नो ऽग्रं ज्यैष्ठ्यं गमयाद् इति। तस्य रथन्तरं पृष्ठं भवति। रथन्तरं वै पृष्ठानाम् अग्रं ज्यैष्ठ्यम्। तद् यद् अग्रं ज्य़ैष्ठ्यं तन् नो ऽग्रं ज्यैष्ठ्यं गमयाद् इति। तस्य द्वादश स्तोत्राणि भवन्ति। द्वादश मासास् संवत्सरः। संवत्सरो वा अग्रं ज्यैष्ठ्यम्। स यो ऽग्रं ज्यैष्ठ्यं स नो ऽग्रं ज्यैष्ठ्यं गमयाद् इति। तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति। चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरो वा अग्रं ज्यैष्ठ्यम्। स यो ऽग्रं ज्यैष्ठ्यं स नो ऽग्रं ज्यैष्ठ्यं गमयाद् इति। गच्छन्ति ह कनिष्ठास् सन्तो ज्येष्ठताम्॥2.227॥


अथैते चातुर्मास्याः। प्रजापतिः प्रजा असृजत। ता अस्य सृष्टाः पराभवन्। तद् इदं सरीसृपम् अभवद् यद् अन्यत् सर्पेभ्यः। स द्वितीया असृजत। ता अस्य परैवाभवन्। ते मत्स्या अभवन्। स तृतीया असृजत। ता अस्य परैवाभवन्। तानि वयांस्य् अभवन्। स ऐक्षत या इमास् त्रयीः प्रजा असृक्ष्य् ऋते ब्रह्मण ऋते ऽन्नाद्याद् ऋते यज्ञात् परा ता अभूवन्। हन्तो न्वैव ब्रह्मणो ऽन्नाद्याद् यज्ञात् प्रजास् सृजा इति। सो ऽन्नाद्यम् आत्मन्न् अधत्त्। तद् अभ्यस्तनयत्। तत् प्राक् प्रैषत्। तौ स्तनाव् अभवताम्। यद् अभ्यस्तनयत् तत् स्तनयो स्तनत्वम्। तद् अत्यक्षरत्। तत् क्षीरम् अभवत्। यद् अत्यक्षरत् तत् क्षीरस्य क्षीरत्वम्। व्रीहियवौ ह वाव स तद् आत्मन् दधे। तद् एतद् व्रीहियवयोः क्षीरम्। स ऐक्षतालं वै तस्मा अस्मि, सृजेयेत्, तद् अन्नं लभेत यत् सृजेय, हन्त सृजा इति॥2.228॥


स एतांश् चातुर्मास्यान् यज्ञान् अपश्यत्। तान् आहरत। तैर् अयजत। तैर् इमाः प्रजा असृजत। या इमा स्तनवतीस् ताभ्यो ऽन्नाद्यं प्रायच्छत्। ता अस्यान्नवतीः प्रजा अभवन्। स यः कामयेत बहुः प्रजया पशुभिः प्रजायेयान्नवतीर् म इमाः प्रजा स्युर् इति स एतैर् यजेत। बहुर् एव प्रजया पशुभिः प्रजायते, ऽन्नवतीर् अस्य प्रजा भवन्ति। तद् एषाभ्यनूच्यते --
तिस्रो ह प्रजा अत्यायम् ईयुर्
न्य् अन्या अर्कम् अभितो विविश्युः।
बृहद् ध तस्थौ रजसो विमाने
पवमानो हरित आ विवेश॥
इति। तद् यद् आह तिस्रो ह प्रजा अत्यायम् ईयुर् इति या एव ताः प्रजा अत्यायम् आयंस् ता एव ताः। न्य् अन्या अर्कम् अभितो विविश्युर् इति - अग्निर् वा अर्कस् - तम् इमाः प्रजा अभितो विष्टाः। बृहद् ध तस्थौ रजसो विमाने पवमानो हरित आ विवेशेति। दिशो वै हरितः। ता अयं वायुः पवमान आविष्ट इति वाजसनेयः। अथैकादशाक्षी। तिस्रो ह प्रजा अत्यायम् ईयुर् इति। या एव ताः प्रजा अत्यायम् आयंस् ता एताः। न्य् अन्या अर्कम् अभितो विविश्युर् इत्य् - अन्नं वा अर्कस् - तद् इमाः प्रजा अभितो विष्टाः। बृहद् ध तस्थौ रजसो विमान इति। मनो वै बृहत्। तद् इदं रजसो विमाने मध्य आत्मनो हृदयं तत्। पवमानो हरित आ विविशेति। प्रजा वै हरितः। ता अयं प्राणः पवमान आविष्ट इति॥2.229॥


सो ऽकामयत वैश्वदेवीः प्रजास् सृजेयेति। स एतं वैश्वदेवं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। तेन वैश्वदेवीः प्रजा असृजत। स यः कामयेत वैश्वदेवीः प्रजास् सृजेयेति स एतेन यजेत। वैश्वदेवीर् एव प्रजास् सृजते। स त्रिवृद् रथन्तरसामा भवति। ब्रह्म वै त्रिवृत्। ब्रह्म रथन्तरम्। ब्रह्मणा वा एनास् तद् असृजत। ब्रह्मणैव प्रजास् सृजते य एवं वेद। तस्याग्नेयश् च बार्हस्पत्यश् च पशू भवतः। ब्रह्म वा अग्निः। ब्रह्म बृहस्पतिः। ब्रह्मणा वा एनास् तद् अभिपूर्वम् असृजत। ब्रह्मणैवाभिपूर्वं प्रजास् सृजते य एवं वेद। तस्य मैत्रावरुण्य् अनूबन्ध्या भवति। मित्रो वै यज्ञस्य स्विष्टं गृह्णाति वरुणो दुरिष्टम्। तद् यन् मैत्रावरुण्य् अनूबन्ध्या भवति पुनर् एवास्मै मित्रो ददाति। स्विष्टम् अस्मै वरुणः करोति। द्यावापृथिव्योपालंभ्या भवति। द्यावापथिवी वा ऐक्षेतां यद् वा अयम् इदं सृजत आवं वा अयम् इदं प्रतिष्ठे पश्यन् सृजते हन्तास्मिन् भागधेयम् इच्छावहा इति। ते ऽस्मिन् भागधेयम् ऐच्छेताम्। ताभ्याम् एतां द्यावापृथिव्याम् उपालंभ्याम् अकल्पयत्। तद् यद् एता द्यावापृथिव्योपालंभ्या भवति द्यावापृथिवी एवैतेन भागधेयेन निरवदयन्त। आग्नेयः पशुर् - यज्ञो वा अग्निर् - नेद् यज्ञाद् अग्नेर् अयामेति॥2.230॥