प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अथैते त्रिरात्राः। त्रिरात्रेण वै देवा एषु लोकेष्व् आर्ध्नुवंस् त्रिरात्रेण स्वर्गं लोकम् आयन्। वाग् वै त्रिरात्रः। वाचो रूपेणाज्यानि चाहानि विभज्यन्ते। एकाक्षरा वै वाक्, त्र्यक्षरम् अक्षरम्। अक्षरस्य रूपेण विभज्यन्ते। त्रयो गन्धर्वाः। तेषाम् एषा भक्तिर् - अग्नेः पृथिवी, वायोर् अन्तरिक्षम्, असाव् आदित्यस्य द्यौः। तद् एषाभ्यनूच्यते -
रयः कृण्वन्ति भुवनेषु रेतस् तिस्रः प्रजा आर्या ज्योतिर् अग्राः।
त्रयो घर्मास उषसं सचन्ते सर्वा इत् ताँ अनु विदुर् वसिष्ठाः॥
इति। तद् यद् आह त्रयः कृण्वन्ति भुवनेषु रेत इत्य् अग्निः पृथिव्यां रेतः कृणोति, वायुर् अन्तरिक्ष, आदित्यो दिवि। तिस्रः प्रजा आर्या ज्योतिर् अग्रा इति - ॥2.241॥


- वसवो रुद्रा आदित्याः। तेषाम् एतज् ज्योतिर् अग्रं यद् असाव् आदित्यः। त्रयो घर्मास उषसं सचन्त इत्य् अग्निर् उषसं सचते, वायुर् उषसं सचत, आदित्य उषसं सचते। सर्वाँँ इत् ताँ अनु विदुर् वसिष्ठा इति ये वै ब्राह्मणाश् शुश्रुवांसस् ते वसिष्ठास्, ते ह्य् एतत् सर्वं अनु विदुः। एतावान् वाव त्रिरात्रः। गायत्रः प्राणस्, त्रैष्टुभं चक्षुर्, जागतं श्रोत्रम्। त्रीणि मिथुनानि तान्य् एषु मिथुनं द्वे सम्भवतो यन् मिथुनात् प्रजायते तत् तृतीयम्। इन्द्रो वृत्राय वज्रम् उदयच्छत्। तं विष्णुर् अन्वतिष्ठत्। सो ऽब्रवीद् अस्ति वा इदं त्यस्मिंस् तेज इन्द्रियं वीर्यम्। तत् त आहराणि। मा मे प्रहार्षीर् इति। तथेति। तद् अस्मै प्रायच्छत्। तद् विष्णुः प्रत्यगृह्णात्। तस्मै द्वितीयम् उदयच्छत्। तं विष्णुर् अन्वतिष्ठत्। सो ऽब्रवीद् अस्ति वा इदं त्यस्मिंस् तेज इन्द्रियं वीर्यम्। तत् त आहराणि। मा मे प्रहार्षीर् इति। तथेति। तद् अस्मै प्रायच्छत्। तद् विष्णुः प्रत्यगृह्णात्। तस्मै तृतीयम् उदयच्छत्। तं विष्णुर् अन्वतिष्ठत्। सो ऽब्रवीद् - अस्ति वा इदं त्यस्मिंस् तेज इन्द्रियं वीर्यम्। तत् त आहराणि। मा मे प्रहार्षीर् इति। तथेति। तद् अस्मै प्रायच्छत्। तद् विष्णुः प्रत्यगृह्णात्। तस्मिन् होदाते - सर्वं ममेतीन्द्रस्, तृतीयं ममेति विष्णुः॥2.242॥


तौ वै पृच्छावहा इति। तौ ह प्रजापताव् अपृच्छेताम्। ताभ्यां हैतया व्युवाच -
उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः।
इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम्॥
इति। द्वौ तव भागाव् इतीन्द्रम् अब्रवीत्, तृतीयं तवेति विष्णुम्। एतद् आभ्यां तत् सहस्रं प्रायच्छत्। तस्यैषाप्तिर् यो बन्धुमान् अनूचान स्यात् तस्मै प्रथमे ऽहनि दद्यात्। यथा इयं पृथिव्य् एवं सः। प्रतिष्ठिता वा इयं, प्रतिष्ठितस् सः। एवं सः। अन्तरिक्षम् इति वा इदं विदुर् वेदं तस्य विदुः। अथ यो बन्धुमान् अनूचान स्यात् तस्मै तृतीये ऽहनि दद्यात्। यथा वा असौ द्यौर् एवं सः। द्यौर् इति वा अमुं विदुर् बन्धुं तस्य विदुः। अन्वहं दशतो दीयन्ते। दशाक्षरा विराट्। वैराजो यज्ञः। सैव सा व्यवच्छिन्ना दीयते। अन्वहं शतानि दीयन्ते। एषा वै यज्ञस्य मात्रा यच् छतम्। सैव सा व्यवच्छिन्ना दीयते। त्रयस्त्रिंशतं च त्रीणि च शतानि प्रथमे ऽहनि दद्यात्। त्रयस्त्रिंशतं च त्रीणि च शतानि द्वितीये ऽहनि दद्यात्। त्रयस्त्रिंशतं च त्रीणि च शतानि तृतीये ऽहनि दद्यात्। अथैषा सहस्रतमी त्रिरूपा द्विदेवत्या। तस्यै द्वौ भागौ ब्रह्मण एको ऽग्नीधः॥2.243॥


प्रजापतिर् वा इदम् अग्र आसीत्। नान्यं द्वितीयं पश्यमानस् - तस्य वाग् एव स्वम् आसीद्, वाग् द्वितीया - स ऐक्षत हन्तेमां वाचं विसृजे। इयं वावेदं विसृष्टा सर्वं विभवन्त्य् एष्यतीति। तां वाग् इत्य् एव व्यसृजत। सोर्ध्वाद् आतनोद् यथापां धारा सन्ततैवम्। तस्या एत्य् एकम् अक्षरम् अच्छिनत्। तद् इदम् अभवत्। अभूद् वा इदम् इति। तद् भूमेर् भूमित्वम्। केति द्वितीयम्। तद् इदम् अन्तरिक्षम् अभवत्। अन्तरेव वा इदम् उभयम् अभूद् इति। तद् अन्तरिक्षस्यान्तरिक्षत्वम्। हो इति तृतीयम् ऊर्ध्वम् उदस्यत्। तद् अदो ऽभवत्। अद्युतद् इव वा अद इति। तद् दिवो दिवत्वम्। प्रजापतिर् वा इदम् अग्र एकाक्षरां वाचं त्रेधा व्यभजत्। त इमे लोका अभवन् ऋक्षा अनुपजीवनीयाः। सो ऽशोचत्, सो ऽतप्यत। स ऐक्षत कथम् इमे लोका लोम गृह्णीयुः, कथम् उपजीवनवन्त स्युर् इति। स एतं त्रिरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। तम् एषु लोकेष्व् अन्वायातयत्। ततो वा इमे लोका लोमा - गृह्णंस्, तत उपजीवनवन्तो ऽभवन्। त्रिरात्रस्य ह खलु वा इदं पुष्टं, त्रिरात्रस्योदरणं यद् एषु लोकेष्व् अधि। गच्छति पशूनां द्विपदां चतुष्पदां भूमानं य एवं वेद॥2.244॥


यथो ह वै मणौ मणिसूत्रम् ओतं स्याद् एवम् एषु लोकेषु त्रिरात्र ओतः। शोभते ऽस्य मुखं य एवं वेद। एषा ह खलु वै प्रत्यक्षं वाग् यज् जिह्वाग्रेणैतद् वाचो वदति यद् एति। मध्येनैतद् वाचो वदति यत् केति। सर्वयैतद् वाचो रसो ऽध्य् ऊर्ध्व उद्वदति यद् धो इति। हो इति हि सर्वा वाक्। तद् यद् एतानि रूपाण्य् आज्येषु चाहस्सु च नियुज्यन्ते। मुखत एवैतद् वाचं विसृजन्ते, मुखतो याज्ञियं कर्म। प्रजापतिर् यद् वाचं व्यसृजत साक्षरद् एव। तस्या एत्य् एव प्रथमम् अक्षरं, क्षेति द्वितीयं, रद् इति तृतीयम्। तद् येन येन वै रूपेण प्रजापतिर् वाचं व्यसृजत तेन तेन रूपेणाज्यान्य् आरभ्यन्ते, तेन तेनाहान्य् आप्यन्ते। अक्षरेष्ठा ह खलु वा एष यज्ञो यस् त्रिरात्रः। अक्षरं त्र्यक्षरम्। त्र्यक्षरस् त्रिरात्रः। अक्षरं त्रिरात्रः। स ह वा एनं वेद य एनं पुरुषसम्मितं वेद - पुरुषस् त्रिरात्रः॥2.245॥


इदम् एव प्रथमेनाह्ना व्यकरोद् यद् अस्याम् आयत्तमूलम्, इदं द्वितीयेन यत् प्राणाद एजत्य्, अदस् तृतीयेन यद् वर्षति, यन् नक्षत्राणि यद् अमुं लोकं भेजे। महाव्रतं वा एतद् यद् एष त्रिरात्रस्य। यान्य् एतेषाम् अह्नां बहिष्पवमानानि तच् छिरः। ये ऽभितो ऽहनी तौ पक्षौ। यन् मध्यमम् अहस् स आत्मा। अग्निष्टोमसामान्य् एव पुच्छम्। अथो आहुर् यद् एवासाव् उदेति तच् छिरः। ये ऽभितो ऽहनी तौ पक्षौ। यन् मध्यमम् अहस् स आत्मा। अग्निर् एव पुच्छम्। अथो आहुर् य एवासाव् उदेति तच् छिरः। ये ऽभितो ऽहनी तौ पक्षौ। यन् मध्यमम् अहस् स आत्मा। यद् एवास्तम् एति तत् पुच्छम् इति॥2.246॥


वाग्देवत्यं वै त्रिरात्रस्य प्रथमम् अहः, प्राणदेवत्यं द्वितीयं, चक्षुर्देवत्यं तृतीयम्। तद् आहुः कियांस् त्रिरात्र इति। इयान् इति ब्रूयात्। इयद् ध्य् एवैतद् इति। अथो इयान् इति ब्रूयात्। इयद् ध्य् एवैतद् इति। तद् याहुर् अर्वाङ् प्राणिति, पराङ् त्रिरात्रः पराङ् इति। पराङ् इति ब्रूयात्। पराङ् हि वदति, पराङ् प्राणिति, पराङ् पश्यति, पराङ् छृणोति। अथो ह ब्रूयाद् अर्वाञ्च च पराञ्च चेति। अर्वास् च हि पराञ् च वदत्य्, अर्वाञ् च पराञ् च प्राणित्य्, अर्वाञ् च पराञ् च पश्यत्य्, अर्वाञ् च पराञ् च शृणोति। तद् आहुर् एकस् त्रिरात्रा3 उ द्वा3 उ त्रया3 उ इति। एक इति ब्रूयाद्। एको ह्य् एवैष यत् प्राणो ऽपानो व्यान इति। तद् आहुर् एकं भूयास् सहस्रा3म् इति। एकम् इति ब्रूयात्। एकं ह्य् एव भूयस् सहस्रात् संख्यानेव भवति॥2.247॥


वाग् एवेति। गायत्रं वै त्रिरात्रस्य प्रथमम् अहस्, त्रैष्टुभं द्वितीये, जागतं तृतीयम्। यद् वा अन्यस्य त्रिरात्रस्य विलोम तद् अस्य सलोम, यद् अस्य सलोम तद् अन्यस्य विलोम। तद् यद् एतत् परं सद् अहर् अवरं क्रियते, यजमानायैव तत् पशून् प्रजनयन्ति, न ह्य् अमुष्मिंल् लोके पशवः प्रजायन्ते। एते ह खलु वै छन्दसां वीर्यवत्तमे यद् गायत्री च त्रिष्टुप् च। तद् यद् गायत्री च त्रिष्टुप् चाभितो भवतो, मध्ये पशवो जगती, वीर्यवद्भ्याम् एवैतच् छन्दोभ्यां यजमानायोभयतः पशून् परिगृह्णन्त्य् अपरावापाय। नास्य वित्तं परोप्यते य एवं वेद। असाव् एव त्रिरात्रो यो ऽसौ तपति। स यथोदेत्य् एवम् अस्य प्रथमम् अहर्, यथा माध्यन्दिन एवं द्वितीयम्, यथास्तम् एत्य् एवं तृतीयम्। स य एतद् एवं वेद गच्छत्य् एतस्य सायुज्यं सांवेश्यम्॥2.248॥


इन्द्रो वै मरुतस् समजिनोत् स्वां विशं सोमाय राज्ञे प्रतिप्रोच्य। तदनुकृतीदम् अप्य् एतर्हि राज्ञे प्रतिप्रोच्य विशं जिन्वन्ति। तद् यमो ऽन्वबुध्यत सहस्रम् अज्यासिष्टाम् इति। स आगच्छत्। स एत्याब्रवीत् उप मास्मिन् सहस्रे ह्वयेथाम् इति। तथेति। तम् उपाह्वयेताम्। स यमो ऽस्मिन् सहस्रे ऽपि गाम् अपश्यत् सहस्रस्य गवां पयो बिभ्रतीम्। ताव् अब्रवीत् इयम् एव मम युवयोर् एतद् इतरद् इति। ताव् इतराव् अब्रूतां यद् वाव त्वम् एतस्यां पश्यसि तद् आवं पश्याव इति। सो ऽब्रवीत् तया वा एता एव विकरवामहा इति। ते तयैव व्यकुर्वत। ते ऽब्रुवन्न् अंशान् हरामहै यस्मै नः प्रथमैष्यतीति। ते ऽंशान् आहरन्त। सोमस्य प्रथमैत्। अथैन्द्रस्याथ यमस्य। ताम् अप्सु प्रावेशयन्॥2.249॥


ताम् अब्रुवन् - सोमायोदेहि तृतीयेन चात्मनस् तृतीयेन च सहस्रस्येति। सा बभ्रुः पिंगाक्ष्य् उदैत्, तृतीयेन चात्मनस् तृतीयेन च सहस्रस्य। सैषा सोमक्रयणी। तृतीयेन च ह वै तस्यै तृतीयेन च सहस्रस्य सह सोमो राजा क्रीतो भवति। तां पुनर् एवाप्सु प्रावेशयन्। ताम् अब्रुवन्न् - इन्द्रायोदेहि तृतीयेन चात्मनस् तृतीयेन च सहस्रस्येति। सा शबली पष्ठौह्य् उदैत् तृतीयेन चात्मनस् तृतीयेन च सहस्रस्य। सैषेन्द्रेष्या दीयते। तृतीयेन च ह वै तस्यै तृतीयेन च सहस्रस्य सह सा दत्ता भवति। तां पुनर् एवाप्सु प्रावेशयन्। ताम् अब्रुवन् - यमायोदेहि तृतीयेन चात्मनस् तृतीयेन च सहस्रस्यैति। सा धूम्रा दित्यौह्य् उदैद् ईर्मतो ह्रसीयसी पश्चाद् वर्षीयसी जरतीव कुष्ठाऽशृंगी तृतीयेन च सहस्रस्य सह सानुस्तरणी कृता भवति, नो हाचक्रुर् इव मन्येत॥2.250॥