जैमिनीयं ब्राह्मणम्/काण्डम् २/२३१-२४०
← कण्डिका २२१-२३० | जैमिनीयं ब्राह्मणम्/काण्डम् २ कण्डिका २३१-२४० [[लेखकः :|]] |
कण्डिका २४१-२५० → |
ता अस्य प्रजास् सृष्टा वरुणस्य यवम् आदन्। ता वरुणो वरुणपाशेनागृह्णात् स ऐक्षत - या अमूः पूर्वाः प्रजा असृक्षि परा ता अभूवन्। यदीमाः पराभवन्ति क्व ततो भवानि, हन्तैना अभितो ऽभिषज्यानीति। स एतौ द्विदिवौ वरुणप्रघासाव् अपश्यत्। ताव् आहरत। ताभ्याम् अयजत। ताभ्याम् एना वरुणीयाद् एनसो विमुञ्चत्। तद् यद् एतौ द्विदिवौ वरुणप्रघासौ भवतो वरुणीयाद् एवैताभ्याम् एनसः प्रजा मुञ्चति। मरुत्वती पूर्वस्याह्नः प्रतिपद् भवति। आग्नेयश् च मारुतश् च पशू। ता अस्य प्रजा वरुणगृहीता मरुतो रन्ध्र्या अन्वपातिनो व्यमिमथिषत। तद् यन् मरुत्वती प्रतिपद् भवति मरुत एवैतेन भागधेयेन निरवदयन्त। आग्नेयः पशुर् - यज्ञो वा अग्निर् - नेद् यज्ञाद् अग्नेर् अयामेति। कवत्य् उत्तरस्याह्नः प्रतिपद् भवति कायोपालंभ्या, आग्नेयश् च वारुणश्च पशू। तद् यत् कवती प्रतिपद् भवति कायोपालंभ्या - प्रजापतिर् वै कः - प्रजापतिम् एव तद् अन्ततः प्रीणन्ति। प्रजापतिर् वा ऐक्षत - कं वै प्रजाभ्यो ऽभूवम् कम् आत्मने ऽसानीति। स एताम् कवतीं प्रतिपदम् अपश्यत् कायाम् उपालंभ्याम्। ततो वै स कं प्रजाभ्यो ऽभवत् कम् आत्मने । कं हैव प्रजाभ्यो भवति कम् आत्मने य एवं वेद। आग्नेयः पशुर् - यज्ञो वा अग्निर् - नेद् यज्ञाद् अग्नेर् अयामेति॥2.231॥
अथ यद् वारुणो ऽग्निर् वरुणताया एव। ता अस्य प्रजा वरुणान्मुमुचाना वृत्रः पाप्मा ऽगृह्णात्। स ऐक्षत - हन्तो न्वेवैना अतो ऽभिषज्यानीति। स एतांस् त्रिदिवान् साकमेधान् अपश्यत्। तान् आहरत। तैर् अयजत। तैर् एना वृत्रात् पाप्मनो ऽभिमुञ्चत्। तद् यद् एते त्रिदिवास् साकमेधा भवन्ति वृत्राद् एवैतैः पाप्मनः प्रजा मुञ्चति। ता अस्य प्रजा वृत्रात् पाप्मनो मुमुचानास् सर्वास् साकं समैधयन्त। यत् साकं समैधयन्त तत् साकमेधानां साकमेधत्वम्। साकं ह वै प्रजया पशुभिर् एधते य एवं वेद। अनीकवती प्रथमस्याह्नः प्रतिपद् भवति। आग्नेयः पशुः। अग्निना वा अनीकेनेन्द्रो वृत्रं पाप्मानम् अहन्। तद् यद् अनीकवती प्रतिपद् भवत्य् अग्निनानीकेन वृत्रं पाप्मानं हनानीति। अग्निनैवानीकेन द्विषन्तं पाप्मानं भ्रातृव्यं हन्ति य एवं वेद। क्रीडनी प्रतिपद् भवति यद् एव प्रजा वृत्रात् पाप्मनो मुमुचाना आक्रीडन्त तस्मात् क्रीडनी। अथो हेन्द्रो वृत्रं हनिष्यन् मरुत उवाच - परशुवधहस्ता माम् अभितः परिक्रीडत, स वीतभीर् वृत्रं पाप्मानं हनानीति। तम् उ ह मरुतः परशुवधहस्ता अभितः परिचिक्रीडुः। स ह वीतभीर् वृत्रं पाप्मानम् अहन्। वीतभीर् ह वै द्विषन्तं पाप्मानं भ्रातृव्यं हन्ति य एवं वेद। आग्नेयः पशुर् - यज्ञो वा अग्निर् - नेद् यज्ञाद् अग्नेर् अयामेति॥2.232॥
अथ यद् ऐन्द्राग्नो - ब्रह्म वा अग्निः। क्षत्रम इन्द्रो - ब्रह्मणा च ह वाव स तत् क्षत्रेण च सयुग्भ्यां वृत्रं पाप्मानं हनानीति। ब्रह्मणा च हैव क्षत्रेण च सयु्ग्भ्यां द्विषन्तं पाप्मानं भ्रातृव्यं हन्ति य एवं वेद। वैश्वकर्मणी तृतीयस्याह्नः प्रतिपद् भवति। वैश्वकर्मण्य् उपालंभ्याग्नेयश् च माहेन्द्रश् च पशू। तद् यद् वैश्वकर्मणी तृतीयस्याह्नः प्रतिपद् भवति, वैश्वकर्मण्य् उपालंभ्या - प्रजापतिर् वै विश्वकर्मा - प्रजापतिम् एव तद् अन्ततः प्रीणन्ति। अथो यद् एव प्रजा वृत्रात् पाप्मनो मुमुचाना विश्वं कर्मोपाक्रमन्त तस्माद् वैश्वकर्मणी। आग्नेयः पशुर् - यज्ञो वा अग्निर् - नेद् यज्ञाद् अग्नेर् अयामेति॥2.233॥
अथ यन् माहेन्द्रः। इन्द्रो ह वा एष पुरा वृत्रस्य वधाद् आस। स वृत्रं हत्वा महेन्द्रो ऽभवत्। भूयो ह्य् एव ज्यायसा कर्मणा ऽभ्यश्नुते। तस्माद् उ राजानं विजितिनम् आचक्षते महाराज इति। अथैष शुनासीर्यो, यद् वा इन्द्रस्य वृत्रं जघ्नुष इन्द्रियं वीर्यम् आसीत् तच् छुनम्। यत् संवत्सरस्य प्रजितस्य पयस् तत् सीरम्। तद् यद् इन्द्रस्य वृत्रं जघ्नुष इन्द्रियं वीर्यं, यत् संवत्सरस्य प्रजितस्य पयस्, तद् उभयम् अवरुन्धामहा इति। संवत्सरसद् ध खलु वा एष यश् चातुर्मास्ययाजी। तस्य शुनासीर्यं मे महाव्रतं भाजनम्। स यावत् संवत्सरेण महाव्रतवतावरुन्द्धे तावद् अवरुन्द्धे य एवं वेद। तस्य सौरी प्रतिपद् भवति, सौर्य् उपालंभ्या। असौ वा आदित्यः। सूर्य एष इन्द्रः। ऐन्द्रं महाव्रतं तत् तत्सलक्ष्म क्रियते। ऋतुषु ह खलु वा एष संवत्सरं स्वर्गं लोकम् अप्येति यश् चातुर्मास्ययाजी। स वसन्तम् एव प्रथमेनाह्नाप्येति, ग्रीष्मं द्वितीयेन, वर्षास् तृतीयेन, शरदं चतुर्थे, हेमन्तं पञ्चमेन, शिशिरं षष्ठेन। संवत्सरम् एव शुनासीर्येणाप्येति। स सर्वस्तोमो भवति। सर्वं हि तद् यत् सर्वस्तोमः। सर्वम् एवैतेनाप्येति। तस्य त्र्येणी शलली भवति, लौहायसः क्षुरः। स चतुर्षु चतुर्षु मास्सु केशान् परिवर्तयते ऽनन्ततायै - असौ वा आदित्यो ऽनन्तः। अनन्तो वा असौ भूत्वेदं सर्वम् अभ्यश्नुते - ऽनन्तो भूत्वेदं सर्वम् अभ्यश्नवा इति। अनन्तो भूत्वेदं सर्वम् अभ्यश्नवा इति॥2.234॥
॥इत्य् एकाहं समाप्तम्॥
अहीनम्
अथैते द्विरात्राः। हविष्मांश् च वै हविष्कृच् चाङ्गिरसाव् आस्ताम्। ताव् अस्मिन् लोके स्त्रीचर्यम् प्रमत्तौ चरन्ताव् ऋषयो ऽङ्गिरसः पितरश् च पितामहाश् च सुकृतो हित्वा स्वर्गं लोकम् आयन्। तौ यदा सा चर्या परैद्, अथाकामयेतां - कथं न्व् इद् यत्र नाव् ऋषयो ऽङ्गिरसः पितरश्च पितामहाश् च सुकृत स्वर्गं लोकम् इतास् - तद् अनुगच्छेवेति। तौ तपो ऽतप्येताम्। ताव् एतद् द्विरात्रं यज्ञम् अपश्यताम्। तम् आहरेताम्। तेनायजेताम्। ततो वै तौ यत्रैनयोर् ऋषयो ऽङ्गिरसः पितरश् च पितामहाश् च सुकृत स्वर्गं लोकम् इता आसंस्, तम् अन्वगच्छताम्। स यः कामयेत - यत्र मे पितरश् च पितामहास् च सुकृत स्वर्गं लोकम् इता भवन्ति तम् एवानुगच्छति। अथो आहुर् यस्माद् एव श्रेयान् भ्रातृव्य स्यात् स एनेन यजेतेति। पूर्वप्रेत इव ह वा एष य श्रेयान्। पूर्वप्रेतान् इव वा एतेन तौ तान् आप्नुताम्। आप्त्वा श्रेयांसं वसीयान् आत्मना भवति। अथो आहुः प्रजाकाम एवैनेन यजेतेति। आत्मा वै पूर्वम् अहः प्रजोत्तरम्। आत्मानम् एव पूर्वेणाह्ना संस्कुरुते, प्रजाम् उत्तरेण॥2.235॥
स दुष्षज इव ह खलु वा एष यज्ञक्रतुर् यद् द्विरात्रः। यदि ज्योतिर् अग्निष्टोमः पूर्वम् अहर् भवति सर्वस्तोमो ऽतिरात्र उत्तरं स्तोत्राणि विच्छिन्दन्ति। अथ यदि ज्योतिर् अग्निष्टोमः पूर्वम् अहर् भवति सर्वस्तोम उ एवातिरात्र उत्तरं स्तोत्राणि विच्छिन्दन्ति। अथ यदि ज्योतिर् उक्थ्यः पूर्वम् अहर् भवति सर्वस्तोम उ एवातिरात्र उत्तरं यज्ञमुखं छम्बट्कुर्वन्ति। तद् यज् ज्योतिर् भवति तेन यज्ञमुखं न छम्बट्कुर्वन्ति। अथ यद् उक्थ्यस् तेन स्तोत्राणि न विच्छिन्दन्ति। आप्त इव ह खलु वा एष यज्ञक्रतुर् यो विराजम् अभिसंपन्नः। स पुनर् आरंभ्यो भवति। तद् यद् उत्तरस्याह्नश् चतुर्विंशं बहिष्पवमानं भवति - चतुर्विशत्यर्धमासस् संवत्सरः। संवत्सरो यज्ञो - यज्ञम् एवैतद् यज्ञमुख आरभन्ते। अथो चतुर्विंशत्यक्षरा वै गायत्री। गायत्र्यो वा आप्तं यज्ञक्रतुं पुनस् तन्वते। नो ह्य् अन्या गायत्र्या आप्तं यज्ञक्रतुम् उद्यन्तुम् अर्हति। तद् आहुः कथं न चतुश्चत्वारिंशो नाष्टाचत्वारिंशो मुखं युग्मतां स्तोमानां भवितुम् अर्हति। कथं चतुर्विंश एवेति। स ब्रूयात् त्रिपदा वै गायत्री। तत् त्रिपदा प्रतिपद्यन्त इति। सर्वस्तोमो ऽतिरात्रो भवति, सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम तान् सार्धम् ऋद्ध्वा एषु प्रतिष्ठायोदृचम् अश्नवामहा इति॥2.236॥
विच्छिन्न इव ह खलु वा एष यज्ञक्रतुर् यद् द्विरात्रः। गायत्रीं पूर्वम् अहस् संपद्यते त्रिष्टुभम् उत्तरम्। अथ क्व जगती चानुष्टुप् चेत्य् आहुः। गायत्रीं चैव पूर्वम् अहस् संपादयेत् त्रिष्टुभं च जगतीं चानुष्टुभं चोत्तरं छन्दसां सन्तत्या अव्यवच्छेदाय। उच्चा ते जातम् अन्धसेत्य् अन्धस्वतीर् भवत्य् अन्धस्वद् वै जगत्यै रूपं - तेन जगत्यै रूपान् न यन्ति। वैखानसं भवति जागतं साम। तेनैव जगत्यै रूपान् न यन्ति। द्वैगतं भवति। द्विहिंकारं भवति। द्विरात्ररूपं सामनी द्विरात्ररूपाद् एव तन् न यन्ति। ये द्वे सामनी तयोर् अन्यतरद् भवति - यथोभयापदी प्रतितिष्ठेत् तादृक् तत्। सुवर् ज्योतिर् भवति। सुवर् वै पूर्वम् अहर्, ज्योतिर् उत्तरम्, अह्नोर एव सन्तत्या अह्नोस् समारंभाय। हाविष्मत - हाविष्कृते स्वर्ग्ये सामनी, स्वर्गस्य लोकस्य समष्टयै। तद् आहुः क्षिप्रे सामनी यद् उभे कुर्युर् ईश्वरो यजमानं पुरायुषः प्रमथितोर् अनादृत्य हि ताव् इमं लोकम् अमुम् एव लोकम् अभिसंप्रैताम् इति। हाविष्मतम् एवोत्तरस्याह्न उक्थेषु ब्रह्मसाम कुर्युः। तथा सर्वम् आयुर् एति, गच्छति स्वर्गं लोकम्॥2.237॥
अथ यस्यैतस्य ज्योतिर् उक्थ्यः पूर्वम् अहर् भवत्य् आयुर् अतिरात्र उत्तरम्, एतेनो हाभिप्रतारण ईजे राजा प्रजाकामश् च खलती च दैवोवाती अवचिच्छित्समानः। ततो वै सो ऽव खलतीदैवोवाती अच्छिंत्त। इमाम् इयतीं प्रजाम् अध्यगच्छत्। त्रीण्य् अन्यस्यातिरिच्यन्ते, द्वाभ्याम् अन्य ऊनः। त्रीणि तानि पुंसो ऽतिरिक्तानि यैस् स मिथुनेन प्रजनेन प्रजायते य एवं वेद। ता उभे स्तोत्र्यास् संपद्यन्ते सप्त च शतान्य् एकविंशतिश् च - तावन्ति संवत्सरस्याहोरात्राणि। अहोरात्रे वै कृत्स्नः प्रजापतिः - कृत्स्नं प्रजापतिम् ऋध्नवाम कृत्स्नो नः प्रजापतिर् उपेतो ऽसद् इति। अथ यैका स्तोत्र्यातिरिच्यते, यजमानलोको हैव सः। शश्वद् धैनं ब्राह्मण उवाच - नास्यापरः प्रजायाम् एतादृङ् वीरो नानाजनितोः। आत्मन एव लोकम् अकृत न प्रजाया, एकम् इमं ह्य् एव लोकम् अभ्युपागाद् इति॥2.238॥
तद् धानुबुध्योवाच - यथादैवं त्यस्य प्रजाया अस्तु। खलती देवेदेवो ऽहं दैवोवाती अवाच्छैत्सीति। तथा हैनं ताव् अभितेपतुस् तथापि शुशुचतुः। तद् इदं तद् एव। इमे हाभिप्रतारणा इयन्तो, नो अपरस् तादृङ् वीर आजायते। अथ यस्यैतस्य त्रिवृत्पञ्चदशाभ्यां विपर्यासम्। पूर्वम् अहर् अग्निष्टोमो भवति। सर्वस्तोमो ऽतिरात्र उत्तरम्। प्रजननकामो हैतेन यजेत। त्रिवृत्पञ्चदशौ स्तोमौ भवत ऊनातिरिक्तौ मिथुनौ प्रजनी। ऊनम् अन्यस्यातिरिक्तम् अन्यस्य। ऊनातिरिक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते। तत् तत्प्रजननं क्रियते। तस्य रथन्तरं पृष्ठं भवति। प्रजननं वै रथन्तरम्। तत् तत्प्रजननं क्रियते। तस्य द्वादश स्तोत्राणि भवन्ति। द्वादश मासास् संवत्सरः। संवत्सरः प्रजननम्। तत् तत्प्रजननं क्रियते। तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति। चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरः प्रजननम्। तत् तद् अभिपूर्वं प्रजननं क्रियते। प्र प्रजया पशुभिर् जायते य एवं वेद। सर्वस्तोमो ऽतिरात्रो भवति सर्वेषां लोकानाम अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम तान् सार्धम् ऋद्ध्वा तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति॥2.239॥
अथ यस्यैतस्य त्रिवृत् पञ्चचदशः सप्तदश इति पूर्वम् अहर् भवत्य्, एकविंशस् त्रिणवस् त्रयस्त्रिंश इत्य् उत्तरं, स्वर्गकामो हैतेन यजेत। ऊर्ध्वा एते स्तोमा भवन्ति। ऊर्ध्वो वै स्वर्गो लोकः। स्वर्गस्यैव लोकस्य समष्ट्यै। अभिक्रान्तस्तोमा भवन्ति। अभिक्रान्तेन ह वै यज्ञस्य भुञ्जते। एतेन ह वै तद् धविष्मांश् च हविष्कृच् च सद्य स्वर्गं लोकम् इयतुः। तस्य परांच्य् एव स्तोत्राणि भवन्ति, पराञ्चि शस्त्राणि भवन्ति, पराञ्चि पृष्ठानि, पराचीर् विष्टुतयः, पराङ् एव सर्वो भवति। तेन हैतेनोत्तरवयस्य् एव यजेत यद् एमं लोकं न प्रत्यवकांक्षेद्, यदास्मिन् लोके न निधित्सेद्, यद् अस्माल् लोकाद् अमुम् एव लोकम् अभि संप्रजिगांसेत्। स हैनेन यजेत। इष्ट्वा हैव स्वर्गं लोकम् एति। तस्मिन्न् उ ह तर्ह्य्अ उभे हाविष्मत - हाविष्कृते कुर्यु स्वर्ग्ये, स्वर्गस्य लोकस्य समष्टयै। तस्याहुस् सप्त च शतानि विंशतिश् च स्तोत्र्यास् संपादयेयुर् इति। तावन्ति संवत्सरस्याहोरात्राणि। संवत्सराद् एव तन् न यन्ति। अथो आहुर् यावतीर् एवैतस्य ज्योतिर् गौर् आयुर् इति त्र्यहस्य स्तोत्र्यास् तावतीर् अस्य स्तोत्र्यास् संपाद्येयुर् इति। तेन त्र्यहरूपान् न यन्ति। अथो आहुस् सहस्रम् एवास्य स्तोत्र्यास् संपादयेयुर् इति। सहस्रं वै त्रिरात्रस्य स्तोत्र्याः। त्रिरात्ररूपाद् एव तन् न यन्ति। एष ह वै समृद्धो द्विरात्रो यस् त्रिरात्रस्य संपदा तायते यो वा त्रिरात्रश् चतूरात्रस्य॥2.240॥