← कण्डिका २७१-२८० जैमिनीयं ब्राह्मणम्/काण्डम् २
कण्डिका २८१-२९०
[[लेखकः :|]]
कण्डिका २९१-३०० →

अथैते चतूरात्राः। अत्रिर् वा अकामयत - चत्वारो मे वीरा आजायेरन्न् इति। स एतं चतूरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै तस्य चत्वारो वीरा आजायन्त। अस्य चत्वारो वीरा आजायन्ते य एवं वेद। अत्रिर्ऋषयो वा अकामयन्त - चत्वारश् चत्वारो नो वीरा आजायेरन्न् इति। त एतं चतूरात्रं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्। ततो वै तेषां चत्वारश् चत्वारो वीरा आजायन्त। अस्य चत्वारश् चत्वारो वीरा आजायन्ते य एवं वेद। आ चतुरं ह खलु वै मिथुनं प्रजननं मिथुनं पराचीनम्। एकश् च वा एका च, द्वौ च द्वे च, त्रयश् च तिस्रश् च, चत्वारश् च चतस्रश् च, एतद् वा आ चतुरं मिथुनं प्रजननम्। न ह वै पञ्च च पञ्च चेति नाम सन्ति। तद् यन् मिथुनं प्रजननं तन् मा प्रजनयाद् इति। तस्य चतुर्विंशाः पवमाना भवन्ति - चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरः प्रजननं - स मा प्रजनयाद् इति। तस्योभे बृहद्रथन्तरे। तद् यद् दैव्यं मिथुनं प्रजननं तन् मा प्रजनयाद् इति। तस्योभये स्तोमा भवन्त्य् अयुजश् च युग्मन्तश् च। एतद् वै दैव्यं मिथुनं प्रजननं यद् उभये स्तोमाः। तद् यद् दैव्यं मिथुनं प्रजननं तन् मा प्रजनयाद् इति॥2.281॥


अयुजश् च उत्तरे स्तोमा भवन्ति। ऋतवो वा अयुजः। ऋतवो वा इदं सर्वं प्रजनयन्ति। ते य इदं सर्वं प्रजनयन्ति ते मा प्रजनयान् इति। अह्नो ऽह्न स्तोमम् उत्सृजमाना यन्ति। अह्नो ऽह्न स्तोमम् अभ्युपाहरन्ते। वीरो वा एष यत् स्तोमः। अह्नो ऽह्न एव तद् वीर्यं प्रजनयन्तो यन्त्य्, अह्नो ऽह्नो वीर्यम् अभ्युपाहरन्ते, ऽक्षरेणाक्षरेणोत्क्रामन्तो यन्ति। एकाक्षरणिधनं प्रथमे ऽहनि भवति, द्व्यक्षरणिधनं द्वितीयं, त्र्यक्षरणिधनं तृतीये, चतुरक्षरणिधनं चतुर्थे - ऽक्षरेष्ठा वीरो ऽसद्, अक्षरेष्ठा वीरो ऽसद् इति। नानाग्निष्टोमसामानि भवन्ति - वीराणाम् एव नानावीर्यतायै। न ह वै स वीरो यो ऽन्यस्य वीर्यम् अनु वीरः। स ह वाव वीरो य आत्मन एवं वीर्यम् अनु वीरः। तद् यन् नानाग्निष्टोमसामानि भवन्ति वीराणाम् एव नानावीर्यतायै॥2.282॥


तद् आहुर् - यज्ञायज्ञीयम् एवाह्नो ऽह्नो ऽग्निष्टोमसाम कुर्युः। ज्यैष्ठयं वै यज्ञायज्ञीयम। ज्यैष्ठ्याद् वीरो न च्यवाता इति। तद् यत् समानि स्तोत्राणि स्युस् समावच्छ एव वीर्यम् अश्नुवीरन्। यद् विषमाणि ज्येष्ठेष्व् एवैकधा वीर्यं दध्युः। तद् यत् समाः पवमाना भवन्ति समावच्छ एव तद् वीर्यम् अश्नुवते। अथ यद् उत्तरै स्तोत्रैर् उत्क्रामन्तो यन्ति ज्येष्ठेष्व् एव तद् भूयो भूयो वीर्यं दधतो यन्ति। द्विरात्रो ह खलु वा एष तायते। यो बृहद्रथन्तराभ्याम् अभि त्वा वृषभा सुत इत्य् एतासु तृतीये ऽहनि रथन्तरं पृष्ठं कुर्युः। तद् यद् अभि त्वेति तेन रथन्तरस्य रूपान् न यन्ति। गायत्र्यायातयाम्न्या तृतीयम् अहस् तायते। कस् तम् इन्द्र त्वावसव् इति मैत्रावरुणसाम। तासाम् इहाक्षराणि संपद्यन्ते। या गायत्र्यो गायत्र्यस्ता, याः ककुभः ककुभस् ता, या बृहत्यो बृहत्यस् ताः। यथायतनं छन्दांसि युज्यन्ते। गायत्र्या वै प्रथमम् अहस् तायते, त्रिष्टुभा द्वितीयं, जगत्या तृतीयम्, अनुष्टुभा चतुर्थम्। तं त्वा यज्ञेभिर् ईमह इत्य् एतासु चतुर्थे ऽहनि बृहत् पृष्ठं कुर्युः। तद् यत् तं त्वेति तेन बृहतो रूपान् न यन्ति। अनुष्टुभायातयाम्न्या चतुर्थम् अहस् तायते। वयम् उ त्वाम् अपूर्व्येति मैत्रावरुणसाम। तासाम् इहाक्षराणि संपद्यन्ते। या गायत्र्यो गायत्र्यस् ता, याः ककुभः ककुभस् ता, या बृहत्यो बृहत्यस् ताः। यथायतनं छन्दांसि युज्यन्ते॥2.283॥


अग्निष्टोमो वै प्रथमम् अहर्, उक्थ्यो द्वितीयं, षोडशिमांस् तृतीयम्, अतिरात्रश् चतुर्थम्। नानावीर्याण्य् अहानि भवन्ति, वीराणाम् एव नानावीर्यतायै। अथ ह स्माह तक्षको भागेरथिर् मात्स्यो राजानु चतूरात्रः पृष्ठानि व्याप्नोति। द्विरात्रो वै बृहद्रथन्तराभ्यां तायत इति। वैरूपं च महानाम्नयश् च तृतीये ऽहनि कुर्युः। राथन्तरे वैते। राथन्तरं तृतीयम् अहर् इति। वैराजं च रेवत्यश् च चतुर्थे ऽहनि कुर्युः। बार्हते वैते। बार्हतं चतुर्थम् अहर् इति। एवं वै चतूरात्रः पृष्ठानि व्याप्नोतीति ह स्म स आह। तद् आहुः - को यज्ञानां वर्षिष्ठः, को वरिष्ठ इति। स ब्रूयाद् - त्रिरात्र एव यज्ञानां वर्षिष्ठ इति। इमे वै लोकास् त्रिरात्रो दिश एव चतूरात्रः॥2.284॥


अथैष जामदग्न्यः। प्रजननकामो हैतेन यजेत। जमदग्निर् वा अकामयत -- बहुः प्रजया पशुभिः प्रजायेयेति। स एतं चतूरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स बहुः प्रजया पशुभिः प्रजायत। अपि हास्य द्वाव् और्वौ प्रजायां न संजज्ञाते - कयस् त्वम् इसि, कयस् त्वम् असीति। तथा बहुर् इह प्रजज्ञे। तस्माद् इदम् अप्य् एतर्हि द्वाव् और्वौ पलितौ समागत्य न संजानाते। बहुः प्रजया पशुभिः प्रजायते य एवं वेद। तस्याहुस् संवत्सरम् एव दीक्षा स्युर् इति। प्रजननं वै संवत्सरः। प्रजननम् एष यज्ञः। तत् तत् प्रजननं क्रियते। तस्माद् उ हैनेन प्रजननकामो यजेत। अथो आहुर् - अष्टाचत्वारिंशद् एव स्युर् इति। अष्टाचत्वारिंशदक्षरा वै जगती। पशवो जगती। जागत एष यज्ञः। तस्माद् उ हैनेन पशुकामो यजेत। अथो आहुष् - षट्त्रिंशद् एव (स्युः)। षट्त्रिंशदक्षरा वै बृहती। बृहती वै स्वर्गं लोकम् आनशे। तद्वा अस्य स्वर्ग्यम्। तस्माद् उ हैनेन स्वर्गकामो यजेत। तानि त्रीणि जागतानि। त्रीणि जागतानि पदानि भवन्ति। तेन जगत्यै रूपान् न यन्ति। अथो आहुश् चतुर्विंशतिर् एव स्युर् इति। चतुर्विंशत्यर्धमासस् संवत्सरः प्रजननम्। प्रजननम् एष यज्ञः। तत् तत् प्रजननं क्रियते। तस्माद् उ हैनेन प्रजननकामो यजेत। तद् एकं जागतं पदं भवति। तेनैव जगत्यै रूपान् न यन्ति॥2.285॥


तद् आहुर् - यद् गायत्र्या प्रथमम् अहस् तायते, त्रिष्टुभा द्वितीयं, जगत्या तृतीयम्, अनुष्टुभा चतुर्थम्, अथ कस्माज् जागत एवैष यज्ञ आख्यायत इति। स ब्रूयाद् - यदा वै बह्वश्वो वा बह्वश्वतरीको वान्यान् अन्यान् आयुंजान एत्य्, एवम् एवैतज् जगत्य् अन्यद् अन्यच् छन्दो ऽभ्यारोहन्त्य् एतीति। अथो यद् एवैतानि स्तोत्राणि संस्तुतानि जगतीम् अभि संपद्यन्ते, तेनो एव जागत इति। अथो ज्यैष्ठ्यं वै जगती छन्दसाम्। तस्माज् ज्यैष्ठ्येन गृह्यान् आचक्षतैनेन गृह्यांश् चक्षते य एवं वेद। द्विरात्रो ह खलु वै एष तायते यो बृहद्रथन्तराभ्याम् अभि त्वा वृषभा सुत इत्य् एतासु तृतीये ऽहनि रथन्तरं पृष्ठं कुर्युः। तद् यद् अभि त्वेति तेन रथन्तरस्य रूपान् न यन्ति। गायत्र्यायातयाम्न्या तृतीयम् अहस् तायते। कस् तम् इन्द्र त्वावसव् इति मैत्रावरुणसाम। तासाम् इहाक्षराणि संपद्यन्ते। तं त्वा यज्ञेभिर् ईमह इत्य् एतासु चतुर्थे ऽहनि बहत् पृष्ठं कुर्युः। तद् यत् तं त्वेति तेन बृहतो रूपान् न यन्ति। अनुष्टुभायातयाम्न्या चतुर्थम् अहस् तायते। वयम् उ त्वाम् अपूर्व्यैति मैत्रावरुणसाम। तासाम् इहाक्षराणि संपद्यन्ते॥2.286॥


व्यूढच्छन्दा ह खलु वा एष चतूरात्रः। पूर्वो वै बृहत्यै पृष्ठेषु योग उत्तरो गायत्र्यै पूर्वो वा उष्णिक् ककुभोर् आर्भवे योग उत्तरो अनुष्टुभः। तद् यद् एतानि व्यतिषक्तानि छन्दांसि क्रियन्ते - व्यतिषक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते - प्रजात्या एव। अथो व्यतिषक्तो वै पुरुषः। पाप्मभिर् व्यतिषक्तैर् एव तच् छन्दोभिर् व्यतिषक्तान् पाप्मनो ऽपहते। तद् आहुः - किम् अनु चतूरात्र इति। अहोरात्रे इति ब्रूयात्। अहोरात्रे ह वा अनु चतूरात्रः। अहर् एव प्रथमेनाह्ना स्तृणुते, ऽह्नः केतुं द्वितीयेन, रात्रिम् एव तृतीयेनाह्ना स्तृणुते, यः प्रातरह्नः केतुस् तं चतुर्थेन। अहोरात्रे वा इदं सर्वं प्रजनयतः। ते य इदं सर्वं प्रजनयतस् ते मा प्रजनयताम् इति। अथो ह ब्रूयाद् - दिश एवानु चतूरात्र इति। चतस्रो दिशः। ऊर्ध्वा दिक् पञ्चमी। चत्वार्य् एतान्य अहानि भवन्ति। रात्रिः पञ्चमी। दिश एवैतेनर्ध्नोति। दिक्षु प्रतिष्ठाय स्वर्गं लोकम् एति। तस्यैताः पुरोडाशिनीर् उपसदो भवन्ति। योनिर् वै पुरोडाशो रेत आज्यम्। तद् यत् पुरोडाशं हुत्वाज्येनाभिजुहोति, योन्याम् एव तद् रेतः प्रतिष्ठापयन्ति। अनुष्ठ्यास्य रेतस् सिक्तं प्रजायते, य एवं वेद। अथो याभ्य एवैतद् देवताभ्यो हवींषि निर्वपति, तास्व् एवैतद् ऋध्नोति। तासु प्रतिष्ठाय स्वर्गं लोकम् एति॥2.287॥


अथैष प्राजापत्यः। प्रजननकामो हैतेन यजेत। प्रजापतिर् वा अकामयत - बहुः प्रजया पशुभिः प्रजायेयेति। स एतं चतूरात्रम् अपश्यत्। तम् आहरत्। तेनायजत। तस्यैते त्रिवृत्पञ्चदशा स्तोमा भवन्ति सप्तदशैकविंशाः। ऊनातिरिक्ता मिथुनाः प्रजनयः। ऊनम् अन्यस्यातिरिक्तम् अन्यस्य। ऊनातिरिक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते। त्रिवृच् च पञ्चदशश् च तन् मिथुनं प्रजननम्। सप्तदशश् चैकविंशश् च तन् मिथुनं प्रजननम् - तद् यन् मिथुनं प्रजननं तन् मा प्रजनयाद् इति। ततो वै स बहुः प्रजया पशुभिः प्रजायत। बहुर् एव प्रजया पशुभिः प्रजायते य एवं वेद। अथो आहुस् तासाम् एव प्रजानां सृष्टानां परावापाद् अबिभेद् इति। स एतं चतूरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। तस्याग्निष्टोमाव् अभितो भवत, उक्थ्यौ मध्ये। ब्रह्म वा अग्निष्टोमः, प्रजाः पशव उक्थ्यानि। ब्रह्मणैव तद् उभयतः प्रजाः पशून् परिगृह्णीते परावापाय। नास्य वित्तं परोप्यते य एवं वेद॥2.288॥


अथैष वसिष्ठस्य संसर्पः। वसिष्ठो वा अकामयत - सम् इमान् लोकान् सर्पेयम् इति। स एतं चतूरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स इमान् लोकान् समसर्पत्। यद् इमान् लोकान् समसर्पत् तत् संसर्पस्य संसर्पत्वम्। सम् इमान् लोकान् सर्पति य एवं वेद। तस्य त्रयस्त्रय स्तोमा युक्ता अहर् वहन्ति। त्रयस्त्रयो वै युक्तानां वहिष्ठौ। युक्तेन तत्र गच्छति यत्र जिगमिषति। अथो आहुः प्रजाकाम एवैनेन यजेतेति - स्तोमो वा एतत्, स्तोमेन संसक्तो भवति। संसक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते - प्रजात्या एव। अह्नो ऽह्न स्तोमम् उत्सृजमाना यन्त्य्, अह्नो ऽह्न स्तोमम् अभ्युपाहरन्ते॥2.289॥


अथैष गौतमस्य चतुष्टोमः। गौतमाय वै न श्रद्दधत। अश्रद्धानीयो राजन्य ऋषिर् इति। सो ऽकामयत श्रन् मे दधीरन्, श्रद्धानीय स्याम् इति। स एतं चतूरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै तस्मै श्रद्दधत, श्रद्धानीयो ऽभवत्। श्रद्धानीयो भवति य एवं वेद। स वा एष कृतस्तोमः। श्रद्धा वै कृतम्। यद् ध वा इदं कृतेन जित्वा हरन्ति, श्रद्धया हैव तद् धरन्ति। तस्मात् कृतस्तोमः। स वा एष चतुरुत्तर्य्य् अङ्गिरसाम्। द्व्युत्तरेण वा आदित्या स्वर्गं लोकम् आयंश्, चतुरुत्तरेणांगिरसः। चतुरुत्तरेण स्वर्गं लोकम् एति य एवं वेद। तद् आहुर् अपभ्रंशी यज्ञक्रतुर् ईश्वरः पुरायुषो ऽमुं लोकम् एतोर् इति। तद् यत् प्रत्यवरोहीणि स्तोत्राणि भवन्ति तेनानपभ्रंशी, तेनो आयुष्यः।

अथैष विश्वज्योतिः। देवा वा अकामयन्त - सर्व एव ज्योतिर् इव स्यामेति। त एतं चतूरात्रं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। ततो वै ते सर्व एव ज्योतिर् इवासन्। तस्माद् यम् अप्य् एतर्हि देवानां पश्यन्ति ज्योतिर् इवादृश्मेत्य् एवाहुः। स यो ब्रह्मवर्चसकाम स्यात् स एतेन यजेत। ज्योतिर् इव ह वै स भाति यो ब्रह्मवर्चसम् ऋध्नोति। ऋध्नोति हैनेन ब्रह्मवर्चसं, ब्रह्मवर्चसी भवति॥2.290॥