← कण्डिका २८१-२९० जैमिनीयं ब्राह्मणम्/काण्डम् २
कण्डिका २९१-३००
[[लेखकः :|]]
कण्डिका ३०१-३१० →

अथैते पञ्चरात्राः। पञ्च वै जयाः। पञ्चभिर् वै व्याहृतिभिर् इदं देवा अजयन्। तद् यावतेदं देवा अजयंस् तावता जयानीति। पांक्तो यज्ञः। यावती यज्ञस्य मात्रा ताम् आप्नवानीति। पांक्ताः पशवः। यावती पशूनां मात्रा तावता मा पशवो ऽवरुद्धा उपतिष्ठान्ता इति। पांक्तम् अन्नाद्यम्। यावत्य् अन्नाद्यस्य मात्रा तावता मान्नाद्यम् अवरुद्धम् उपतिष्ठाता इति। पञ्चैतान्य् अहानि भवन्ति। पञ्चर्तवस् संवत्सरः। संवत्सरः प्रजापतिर् यज्ञः। संवत्सरम् एवैतेन प्रजापतिं यज्ञम् आप्नोति। देवासुरा अस्पर्धन्त। ते नैव दण्डैर् नेषुभिर् व्यजयन्त। ते ऽब्रुवन् - न वै दण्डैर् नेषुभिर् विजयामहे। वाच्य् एव वाव नो ब्रह्मन् विजयो ऽस्त्व् इति। त ऐक्षन्त - यतरे नो यतरान् पूर्वे ऽभिव्याहरिष्यन्ति, तेषां क्षेष्यत इति। ते देवा असुरान् अब्रुवन् - यूयं पूर्वे ब्रूध्वम् इति। यूयम् इद् वा इत्य् असुरा देवान्। ते देवा एतद् वाचो मिथुनम् अपश्यन्॥2.291॥


एको ऽस्माकम् इति देवा अब्रुवत, एकास्माकम् इत्य् असुराः। मन एव देवा अब्रुवत, वाचम् असुराः। ते देवा मनसैव वाचम् असुराणाम् अवृञ्जत। तस्माद् यन् मनसाधिगच्छति, तद् वाचा वदति। द्वाव् अस्माकम् इति देवा अब्रुवत, द्वे अस्माकम् इत्य् असुराः। प्राणापानाव् एव देवा अब्रुवत, अहोरात्रे असुराः। ते देवाः प्राणापानाभ्याम् एवाहोरात्रे असुराणाम् अवृञ्जत। तस्माज् ज्योग् जीवन् बहून्य् अहोरात्राण्य् अवनयति। त्रयो ऽस्माकम् इति देवा अब्रुवत, तिस्रो ऽस्माकम् इत्य् असुराः। इमान् एव त्रीन् लोकान् देवा अब्रुवत, तिस्रो विद्या असुराः। ते देवा एभिर् एव लोकैस् तिस्रो विद्या असुराणाम् अवृञ्जत। तस्माद् एता विद्या एष्व् एव लोकेषु प्रोच्यन्ते। चत्वारो ऽस्माकम् इति देवा अब्रुवन्, चतस्रो ऽस्माकम् इत्य् असुराः। चतुष्पद एव पशून् देवा अब्रुवत, चतस्रो दिशो ऽसुराः। ते देवा चतुष्पाद्भिर् एव पशुभिश् चतस्रो दिशो ऽसुराणाम् अवृञ्जत। तस्माद् यां कां चन दिशं पशुमान् अयति, सर्वाम् एव जितां क्लृप्तां प्रतिष्ठिताम् अन्वेति। पञ्चास्माकम् इति देवा ऋतून् एवाब्रुवन्। अथासुरा न प्राविन्दन्। न हि पञ्चि किं चनास्ति। ते ऽसुरा आरम्भम् अविन्दन्तः पञ्च पञ्चेत्य् एव वदन्तः पराजयन्। ततो वै देवा अभवन्, परासुराः। भवत्य् आत्मना , परास्य द्विषन् भ्रातृव्यो भवति, य एवं वेद॥2.292॥


जितिर् वा एता व्याहृतयः। जितिः पञ्चरात्रः। जयति जयति य एवं वेद। सा वा एषा सर्वस्यान्या जितिस् सर्वस्यान्या पराजितिः। सर्वं वा एतेन देवा असुरान् अजयन्। सर्वम् असुराः पराजयन्त। सर्वम् एव द्विषन्तं भ्रातृव्यं जयति, सर्वम् अस्य द्विषन् भ्रातृव्यः पराजयते, य एवं वेद। अथैते सन्तता भवन्ति। यथा ह वै दारूणि वध्रेण सन्ततानि रथस्य वानसो वैवं स्तोमैः पञ्चरात्रस् सन्ततः। प्राणा ह खलु वै स्तोमाः। प्राणैः पुरुषस् सन्ततः। सं ह तायते य एवं वेद। तस्य द्वौ -द्वौ स्तोमौ युक्ताव् अहर् वहतः। द्वौ - द्वौ वै युक्तानां वहिष्ठौ। युक्तेन तत्र गच्छति यत्र जिगमिषति॥2.293॥


अथ यस्यैतस्य ज्योतिर् गौर् आयुर् इति त्र्यहः पञ्चविंशं महाव्रतं सर्वस्तोमो ऽतिरात्रो, ऽन्नाद्यकामो हैतेन यजेत। तद् आहुर् - न पुरा संवत्सरान् महाव्रतम् उपेत्यम् इति। तद् यज् ज्योतिर् गौर् आयुर् इति त्र्यहो भवत्य् - अयं वै लोको ज्योतिर्, अयं गौर्, असाव् आयुः। इमे वै लोका ऋतवस् संवत्सरः। ऋतवस् संवत्सरः कृत्स्नम् अन्नाद्यं पचति - संवत्सरराभिजितम् एव तद् अन्नाद्यम् उपयन्ति। पञ्चविंशं महाव्रतम् - अन्नं वै पञ्चविंशम् - अन्नाद्यस्यैवावरुद्ध्यै। सर्वस्तोमो ऽतिरात्रो भवति, सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम तान् सार्धम् ऋद्ध्वा तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति।

अथ यस्यैतस्य त्रिवृत् पञ्चदशस् सप्तदश इति त्र्यहः पञ्चविंशं महाव्रतं सर्वस्तोमो ऽतिरात्रो, ऽन्नाद्यकाम उ एवैतेन यजेत। तद् आहुर् न पुरा संवत्सरान् महाव्रतम् उपेत्यम् इति। तद् यत् त्रिवृत् पञ्चदशश् सप्तदश इति त्र्यहो भवत्य् - अयं वै लोकस् त्रिवृद्, अयं पञ्चदशो, ऽसौ सप्तदशः। इमे वै लोका ऋतवस् संवत्सरः। ऋतवस् संवत्सरः कृत्स्नम् अन्नाद्यं पचति - संवत्सराभिजितम् एव तद् अन्नाद्यम् उपयन्ति। पञ्चविंशं महाव्रतम् - अन्नं वै पञ्चविंशम् - अन्नाद्यस्यैवावरुद्ध्यै। सर्वस्तोमो ऽतिरात्रो भवति, सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम तान् सार्धम् ऋद्ध्या तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति॥2.294॥


अथ यस्यैतस्य ज्योतिर् गौर् आयुर् इति त्र्यहश चतुर्विंशम् अहस् सर्वस्तोमो ऽतिरात्रो, यः कामयेत परोक्षोपेतं मे महाव्रतं स्याद् इति, स एतेन यजेत। तद् यच् चतुर्विंशम् अहर् भवति, तेनैवास्य परोक्षोपेतं महाव्रतं भवति। यद् व् एव तत्र हिंकारो वा प्रस्तावो वा प्रतिहारो वा किञ्चिद् भवति तेनैवास्य पञ्चविंश्य् उपाप्ता भवति। सर्वस्तोमो ऽतिरात्रो भवति, सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम तान् सार्धम् ऋद्ध्वा तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति॥

अथ यस्यैतस्य त्रिवृत् पञ्चदशस् सप्तदश इति त्र्यहश्, चतुर्विंशम् अहर्, ज्योतिर् अतिरात्रो, य उ एव कामयेत परोक्षोपेतं मे महाव्रतं स्याद् इति, स एतन यजेत। तद् यच् चतुर्विंशम् अहर् भवति, तेनैवास्य परोक्षोपेतं महाव्रतं भवति। यद् व् एव तत्र हिंकारो वा प्रस्तावो वा प्रतिहारो वा किञ्चिद् भवति, तेनैवास्य पञ्चविंश्य् उपाप्ता भवति। ज्योतिर् अतिरात्र - एतद् वै प्रज्ञातं देवतीर्थं यज् ज्योतिर् अतिरात्रः - प्रज्ञातेन देवतीर्थेनारिष्ट उदृचम् अश्नवामहा इति॥2.295॥


अथ यस्यैतस्य ज्योतिषी अग्निष्टोमाव् अभितो भवतो, गोआयुषी उक्थ्याव् अन्तरौ, ज्योतिर् अतिरात्रो मध्ये, प्रजननकामो हैतेन यजेत। एतद् वै कृत्स्नं प्रजननं यज् ज्योतिर् अतिरात्रः। मध्यत उ वा आत्मनः प्रजननम्। तद् यन् मध्ये ज्योतिर् अतिरात्रो भवति, मध्य एवैतद् आत्मनः प्रजननं धत्ते, बहुर् भवति, प्रजायते। गोआयुषी उक्थ्याव् अन्तरौ भवतः। पशवो वा उक्थानि। तयोः पञ्चशतानि स्तोत्रियाः। पशुभिर् एव तद् उभयतः प्रजां परिगृह्णीते। ज्योतिषी अग्निष्टोमाव् अभितो भवतः। ब्रह्म वै ज्योतिर् अग्निष्टोमः। ब्रह्मणैव तद् उभयतः प्रजां पशून् परिगृह्णीते ऽपरावापाय। नास्य वित्तं परोप्यते य एवं वेद॥

अथ यस्यैतस्य ज्योतिषी अतिरात्राव् अभितो भवतो, गोआयुषी उक्थ्याव् अन्तरौ, ज्योतिर् अग्निष्टोमो मध्ये, यः कामयेता मे ब्रहमवर्चसी प्रजायां जायेतेति, स एतेन यजेत। तेजो वै ब्रह्मवर्चसो ज्योतिर् अग्निष्टोमः। मध्यत उ वा आत्मनः प्रजननम्। तद् यन् मध्ये ज्योतिर् अग्निष्टोमो भवति, मध्यत एवैतद् आत्मनो ज्योतिर् धत्ते, आ हास्य ब्रह्मवर्चसी प्रजायां जायते। गोआयुषी उक्थ्याव् अन्तरौ भवतः। पशवो वा उक्थानि। तयोः पञ्चशतानि स्तोत्रियाः। पशुभिर् एव तद् उभयतो ब्रह्मवर्चसिनीं प्रजां परिगृह्णीते। ज्योतिषी अतिरात्राव् अभितो भवतः। इमौ वै लोकाव् अतिरात्रौ। आभ्याम् एवैतल् लोकाभ्याम् उभयतः प्रजां पशून् परिगृह्णीते ऽपरावापाय। नास्य वित्तं परोप्यते य एवं वेद॥2.296॥


अथैते षड्रात्राः। मरुतो वा अकामयन्तौजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तमा देवानां स्याम, जयेम स्वर्गं लोकम् इति। त एतं षड्रात्रं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। ततो वै त ओजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तमा देवानाम् आसन्न्, अजयन् स्वर्गं लोकम्। ओजिष्ठो बलिष्ठो भूयिष्ठो वीर्यवत्तम स्वानां भवति, जयति स्वर्गं लोकं, य एवं वेद। पृष्ठ्येन षडहेन यन्ति। श्रीर् वै वर्ष्म पृष्ठानि। ओजसैव तद् वीर्येण यन्ति। स्वर्गो वै लोकः पृष्ठानि। स्वर्गम् एव तल् लोकं रोहन्तो यन्ति। तेषां सरस्वत्या उपमज्जने दीक्षा। दक्षिणे तीरे दीक्षन्ते॥2.297॥


चक्रवती सदोहविर्धाने भवत, उलूखलबुध्नो यूप, उत्क्रान्त्या अनपभ्रंशाय। यद् धि ते तत्र कुर्वाणा इवासीरन्न्, अपभ्रंशो हैषां सः। शम्यापरासं यन्ति। एते ह व स्वर्गस्य लोकस्य विक्रमा यच् छम्यापरासाः। स्वर्गस्यैव तल् लोकस्य विक्रमान् क्रममाणा यन्ति। घ्नन्त आक्रोशन्तो यन्ति। एतद् वै बलस्य रूपमं यद् धतम् आक्रुष्टम्। सरस्वत्या यन्ति। वाग् वै सरस्वती। वाग् उ देवयानः पन्थाः। देवयानेनैव तत् पथा यन्ति। प्रतीपं यन्ति। प्रतीपम् इव वै स्वर्गो लोकः। स्वर्गम् एव तल् लोकं प्रतिपद्यन्ते। प्राञ् च उदञ् च यन्ति। प्राङ् इव ह वा इदं स्वर्गो लोकः। स्वर्गम् एव तल् लोकं रोहन्तो यन्ति। आ प्रक्षात् प्रास्रवणाद् यन्ति। एष उ ह वै वाचो ऽन्तो यत् प्रक्षः प्रास्रवणः। यत्रो ह वै वाचो ऽन्तस्, तत् स्वर्गो लोकः। स्वर्गम् एवैतल् लोकं गच्छन्ति॥2.298॥


तेन हैतेन मरुतो यत इन्द्राग्नी ईक्षांचक्राते इमे चेद् वा इदं समापयन्ति, मरुत एवेदं सर्वं भवन्तीति। तान् ह सत्रपरिवेषणं सहस्रं जिग्यतुः। तद् धैषां विमाथीचक्रिरे। पाप्मानं ह वा एषां तद् विमेथिरे। तस्माद् उ ह विमाथ्यस्य न लिप्सेत, नेत् पाप्मनो ऽपभजा इति। तयोर् ह वै ते ऽद्यान्यान् अराथुः। ते होत्तस्थुर् - अरात्स्मेति। तेषाम् एता उदृचो - यत् समापयन्ति, सैका। यद् एषाम् म्रियते सैका। यद् दश गावश् शतं भवन्ति, सैका। यच् छतं गावस् सहस्रं भवन्ति, सैका। तेन हैतेन पुरायु स्थूरगृहपतयः। तान ह त्रिकर्तानां वा सल्वानां वा व्याधिनीः पर्युत्थाय जिग्युः। तद् धैषां गृहपतिं जघ्नुः। तं हेमं गृहपतिं हतम् अभितः कृपयमाणा निषेदुः। तम् उ ह ध्रुवगोपः सांकाशिनेनैव द्रवन्तं निजज्ञौ। स आहवनीयाद् एवोर्ध्व स्वर्गं लोकम् आचक्रमे। स होवाच - मा कृपयध्वै। यं वा इमं कृपयध्वे, ऽयं वै स आहवनीयाद् एवोर्ध्वं स्वर्गं लोकम् आक्रांस्तेति। तेषां यांस् तत्र जघ्नुस्, ते स्वर्गं लोकम् ईयुः। अथ ये परिशिशिषिरे, त इम एतर्हि पणाय्यतरा इव स्थूराणाम्। पापग्रामतरा इव हि ततः पुरासुः। तस्माद् उ स्थौर्यं शम्यापरासिनेत्य आख्यापयन्ति॥2.299॥


अथ यस्यैतस्य विश्वजिद् अभिजिताव् अतिरात्राव् अभितो भवतो, गौर् आयुर् गौर् आयुर् इति चत्वार उक्थ्या मध्ये, पशुकामा हैतद् उपेयुः। अयं वै लोको ऽभिजिद्, असौ विश्वजित्। अथैते चत्वारो मध्य उक्थ्या भवन्ति। पशवो वा उक्थानि। तेषां सहस्रं स्तोत्रियाः। अनेन चैव तल् लोकेनामुना चोभयत एतान् पशून परिगृह्णीते, ऽव पशून् रुन्धते। बहुपशवो ह भवन्ति। एतेन ह वै तद् एनेनेन्द्राग्नी मरुतः सहस्रं जिग्यतुः। अग्निर् अभिजिद्, इन्द्रो विश्वजित्। अथैते चत्वारो मध्य उक्थ्या भवन्ति। पशवो वा उक्थानि। तेषां सहस्र स्तोत्रिया। एतद् ध वै तद् इन्द्राग्नी उभयतस् सहस्रं परिगृह्याजह्रतुः। आभ्यां च ह वा एनं तल् लोकाभ्याम् इन्द्राग्निभ्यां चोभयतः पशवः परिगृहीता उपतिष्ठन्ते, य एवं वेद। तेषाम् उ तेषां परीणद् इति कुरुक्षेत्रस्य जघनार्धे सरस्कन्दन्तं दीक्षायै। ते प्राञ्चो यन्ति समया कुरुक्षेत्रम्। एतद् वै देवानां देवयजनं यत् क्षेत्रं। देवानाम् एव तद् देवयजनेन यन्ति। तेषां यमुनावभृथः। एष वै स्वर्गो लोको यद् यमुना। स्वर्गम् एव तल् लोकं गच्छन्ति॥

अथ यस्यैतस्योर्ध्वस् त्रियहः प्रत्यङ् त्र्यहो, यः कामयेत गच्छेयं स्वर्गं लोकं, प्रत्य् अस्मिन् लोके तिष्ठेयम् इति, स एतेन यजेत। त्र्यहेणैवेत ऊर्ध्व स्वर्गं लोकं गच्छति, प्रत्य् एवामुतस् त्र्यहेणावरोहति। गच्छति स्वर्गं लोकं प्रत्य् अस्मिन् लोके तिष्ठति। अथो ह वेद यो ऽसाव् आसं सो ऽयम् अस्मीति, पुनर् हैवास्मिन् लोक आजायते॥2.300॥