प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अथैते ऽष्टरात्राः। बृहस्पतिर् वा अकामयत - तेजस्वी ब्रह्मवर्चसी स्यां, यशो देवेषु गच्छेयम् इति। स एतम् अष्टरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स तेजस्वी ब्रह्मवर्चस्य् अभवद्, यशो देवेष्व अगच्छत्। यशो ह्य् एष तद् अगच्छद् यद् एषां पुरोधाम् आश्नुत। तेजस्वी ब्रह्मवर्चसी भवति यशो देवेषु गच्छति, य एवं वेद। अथो आहुर् - आयुष्काम एवैनेन यजेतेति। प्राणो वै गायत्री। गायत्रीम् एष यज्ञो ऽभिसंपन्नः। तस्माद् उ हैनेनायुष्कामो यजेत। अथो आहुः पशुकाम एवैनेन यजेतेति। अष्टाक्षरा वै गायत्री। अष्टाशफाः पशवः। पशवो गायत्री। गायत्रीम् एष यज्ञो ऽभि संपन्नः। तस्माद् उ हैनेन पशुकामो यजेत। प्रजापतिर् वा अकामयत - अस्माल् लोकाद् अमुं लोकं गच्छेयम् इति। स एतम् अष्टरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै सो ऽस्माल् लोकाद् अमुं लोकम् आष्ट। यद् अस्माल् लोकाद् अमुं लोकम् आष्ट, तद् अष्टरात्राणाम् अष्टरात्रत्वम्। अष्टे हास्माल् लोकाद् अमुं लोकं, य एवं वेद। तद् आहुः - किम् अन्व् अष्टरात्र इति। दिश इति ब्रूयात्। दिशो ह वा अन्व अष्टरात्रः। चतस्रो दिशश् चत्वारो ऽवान्तरदेशाः। ऊर्ध्वा दिङ् नवमी। अष्टाव् एतान्य् अहानि भवन्ति, रात्रिर् नवमी। दिश एवैतेनर्ध्नोति, दिक्षु प्रतिष्ठाय स्वर्गं लोकम् एति॥2.311॥


अथ यस्यैतस्य ज्योतिर् अग्निष्टोमः, पृष्ठ्यष् षडहो, ज्योतिर् अग्निष्टोमो, यः कामयेत तेजस्वी ब्रह्मवर्चस्य् अस्मिन् लोके स्यां, गच्छेयं स्वर्गं लोकं, तेजस्वी ब्रह्मवर्चस्य अमुष्मिन् लोके स्याम् इति, स एतेन यजेत। तद् यत् पुरस्ताज् ज्योतिर् अग्निष्टोमो भवति - तेजो वै ब्रह्मवर्चसं ज्योतिर् अग्निष्टोमस् - तेनैवास्मिन् लोके तेजस्वी ब्रह्मवर्चसी भवति। पृष्ठ्यष् षडहो भवति - स्वर्गो वै लोकः पृष्ठ्यष् षडह - स्वर्गम् एवैतेन लोकं गच्छति। ज्योतिर् अग्निष्टोम उपरिष्टाद् भवति - तेजो वै ब्रह्मवर्चसं ज्योतिर् अग्निष्टोमस् - तेनैवामुष्मिन् लोके तेजस्वी ब्रह्मवर्चसी भवति॥


अथ यस्यैतस्य ज्योतिर् अतिरात्रः, पृष्ठ्यष् षडहो, ज्योतिर् अतिरात्रो, यः कामयेत प्रत्य् अस्मिन् लोके तिष्ठेयं, गच्छेयं स्वर्गं लोकं, प्रत्य् अमुष्मिन् लोके तिष्ठेयम् इति, स एतेन यजेत। तद् यत् पुरस्ताज् ज्योतिर् अतिरात्रो भवत्य् - एषा वै कृत्स्ना प्रतिष्ठा यज् ज्योतिर् अतिरात्रस् - तेनैवास्मिन् लोके प्रतितिष्ठति। पृष्ठ्यष् षडहो भवति - स्वर्गो वै लोकः पृष्ठ्यष् षडह - स्वर्गम् एवैतेन लोकं गच्छति। ज्योतिर् अतिरात्र उपरिष्टाद् भवत्य् - एषा वै कृत्स्ना प्रतिष्ठा यज् ज्योतिर् अतिरात्रस् - तेनैवामुष्मिन् लोके प्रतितिष्ठति॥2.312॥


अत यस्यैतस्य ज्योतिर् अग्निष्टोमः, पृष्ठ्यष् षडहो, ज्योतिर् अतिरात्रो, य- कामयेत तेजस्वी ब्रह्मवर्चस्य् अस्मिन् लोके स्यां, गच्छेयं स्वर्गं लोकं, प्रत्य् अमुष्मिन् लोके तिष्ठेयम् इति, स एतेन यजेत। तद् यत् पुरस्ताज् ज्योतिर् अग्निष्टोमो भवति - तेजो वै ब्रह्मवर्चसं ज्योतिर् अग्निष्टोमस् - तेनैवास्मिन् लोके तेजस्वी ब्रह्मवर्चसी भवति। पृष्ठ्यष् षडहो भवति - स्वर्गो वै लोकः पृष्ठ्यष् षडह - स्वर्गम् एवैतेन लोकं गच्छति। ज्योतिर् अतिरात्र उपरिष्टाद् भवत्य् - एषा वै कृत्स्ना प्रतिष्ठा यज् ज्योतिर् अतिरात्रस् - तेनैवामुष्मिन् लोके प्रतितिष्ठति॥

अथ यस्यैतस्य ज्योतिर् अतिरात्रः, पृष्ठ्यष् षडहो, ज्योतिर् अग्निष्टोमो, यः कामयेत प्रत्य् अस्मिन् लोके तिष्ठेयं, गच्छेयं स्वर्गं लोकं, तेजस्वी ब्रह्मवर्चस्य् अमुष्मिन् लोके स्याम् इति, स एतेन यजेत। तद् यत् पुरस्ताज् ज्योतिर् अतिरात्रो भवत्य् - एषा वै कृ्त्स्ना प्रतिष्ठा यज् ज्योतिर् अतिरात्रस् - तेनैवास्मिन् लोके प्रतितिष्ठति। पृष्ठ्यष् षडहो भवति - स्वर्गो वै लोकः पृष्ठ्यष् षडह - स्वर्गम् एवैतेन लोकं गच्छति। ज्योतिर् अग्निष्टोम उपरिष्टाद् भवति - तेजो वै ब्रह्मवर्चसं ज्योतिर् अग्निष्टोमस् - तेनैवामुष्मिन् लोके तेजस्वी ब्रह्मवर्चसी भवति॥2.313॥


अथैष पृष्ठ्यष् षडहः, पञ्चविंशं महाव्रतं, सर्वस्तोमो ऽतिरात्रः। अन्नाद्यकामो हैतेन यजेत। तद् आहुर् - न पुरा संवत्सरान् महाव्रतम् उपेत्यम् इति। तद् यत् पृष्ठ्यष् षडहो भवत्य् - ऋतवो वै पृष्ठानि। संवत्सर ऋतवः। संवत्सरः कृत्स्नम् अन्नाद्यं पचति - संवत्सराभिजितम् एव तद् अन्नाद्यम् उपयन्ति। पञ्चविंशं महाव्रतम् - अन्नं वै पञ्चविंशम् - अन्नाद्यस्यैवावरुद्ध्यै। सर्वस्तोमो ऽतिरात्रो भवति, सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम, तान् सार्धम् ऋद्ध्वा तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति॥

अथ यस्यैतस्य पृष्ठ्यस्य षडहस्य स्तोमाश्, चतुर्विंशम् अहर्, विश्वजित् सर्वपृष्ठो ऽतिरात्रो, यः कामयेत परोक्षोपेतं मे महाव्रतं स्याद् इति, स एतेन यजेत। तद् यच् चतुर्विंशम् अहर् भवति, तेनैवास्य परोक्षोपेतं महाव्रतं भवति। यद् व् एव तत्र हिंकारो वा प्रस्तावो वा प्रतिहारो वा किं चिद् भवति, तेनैवास्य पञ्चविंश्य् उपाप्ता भवति। विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति। श्रीर् वै वर्ष्म पृष्ठानि। श्रियम् एव तद् वर्ष्म पृष्ठान्य् अभ्यारोहन्ति॥2.314॥


अथ यस्यैतस्य पृष्ठ्यस्य षडहस्य ज्योतिर् अग्निष्टोमो मध्ये भवति, ज्योतिर् अतिरात्र उपरिष्टाद्, यः कामयेत आ मे ब्रह्मवर्चसी प्रजायां जायेतेति, स एतेन यजेत। आत्मा वै पृष्ठ्यष् षडहः। तेजो ब्रह्मवर्चसं ज्योतिर् अग्निष्टोमः। मध्यत उ वा आत्मनः प्रजननम्। प्रजननं तद् यन् मध्ये ज्योतिर् अग्निष्टोमो भवति। मध्यत एवैतद् आत्मनो ज्योतिर् धत्ते। आ हास्य ब्रह्मवर्चसी प्रजायां जायते। ज्योतिर् अतिरात्र उपरिष्टाद् - एतद् वै प्रज्ञातं देवतीर्थं यज् ज्योतिर् अतिरात्रः - प्रज्ञातेन देवतीर्थेनारिष्टेनारिष्ट उदृचम् अश्नवामहा इति॥ अथ यस्यैतस्य विश्वजिदभिजिताव् अग्निष्टोमाव् अभितो भवत उभयतो ज्योतिष् षडहो मध्ये, पशुकामो हैतेन यजेत। चत्वार एते मध्य उक्थ्या भवन्ति। पशवो वा उक्थानि। तेषां सहस्रं स्तोत्र्याः। चत्वार उ वैते ऽग्निष्टोमा अभितो भवन्ति। ब्रह्म वै ज्योतिर् अग्निष्टोमः। ब्रह्मणैव तद् उभयतः पशून् परिगृह्णीते ऽपरावापाय। नास्य वित्तं परोप्यते य एवं वेद। ईश्वरो ह तु यादृश एव सन् यजते तादृङ् भवितोः। स यदैवान्तगत इव श्रियै मन्येताथ हैनेन यजेत। इष्ट्वा हैव स्वर्गं लोकम् एति॥2.315॥


अथैते नवरात्राः। तेजस्कामो हैतेन यजेत यन् नवरात्रः। तेजो वै त्रिवृत् स्तोमः। त्रिवृतम् एष स्तोमं यज्ञो ऽभिसंपन्नः। तस्माद् उ हैनेन तेजस्कामो यजेत। अथो आहुर् - ब्रह्मवर्चसकाम एवैनेन यजेतेति। ब्रह्म वै त्रिवृत् स्तोमः। त्रिवृतम् एष स्तोमं यज्ञो ऽभिसंपन्नः। तस्माद् उ हैनेन ब्रह्मवर्चसकामो यजेत। अथो आहुर् - आयुष्काम एवैनेन यजेतेति। प्राणो वै त्रिवृत् स्तोमः। नवैतान्य् अहानि भवन्ति, रात्रिर् दशमी। नव पुरुषे प्राणा, नाभिर् दशमी। प्राणान् एवैतेनाभिजयति, प्राणान् आप्नोति। तद् आहुः - किम् अनु नवरात्र इति। दिश इति ब्रूयात्। दिशो ह वा अनु नवरात्रः। चतस्रो दिशश् चत्वारो ऽवान्तरदेशा, ऊर्ध्वा दिङ् नवम्य्, अर्वाची दशमी। दिश एवैतेनर्ध्नोति। दिक्षु प्रतिष्ठाय स्वर्गं लोकम् एति॥2.316॥


अथ यस्यैतस्य ज्योतिर् गौर् आयुर् इति त्र्यहो, ज्योतिर् गौर आयुर् इति त्र्यहो, ज्योतिर् गौर् आयुर् अतिरात्रो, यः कामयेत अनन्तर्हितान् इमान् लोकान् अभ्यारोहेयम् इति, स एतेन यजेत। तद् यज् ज्योतिर् गौर् आयुर् इति त्र्यहो भवत्य् - अयं वै लोको ज्योतिर्, अयं गौर्, असाव् आयुर् - अनन्तर्हितान् एवैतेनेमान् लोकान् अभ्यारोहति। अतिरात्राव् अनुत्तमस् त्र्यहो भवति। एवंविधा इव वा इमे लोका - अग्निष्टोम इवायं लोक, उक्थ्य इवायम्, अतिरात्र इवासौ। तद् यथाविधा इमे लोका एवम् एवैनान् एतद् अभ्यारोहन्न् एति॥

अथ यस्यैतस्य ज्योतिर् गौर् आयुर् अतिरात्रो ज्योतिर् गौर आयुर् अतिरात्रो ज्योतिर् गौर् आयुर् अतिरात्रो, य उ एव कामयेत अनन्तर्हितान् इमान् लोकान् अभ्यारोहेयम् इति स एतेन यजेत। तद् यज् ज्योतिर् गौर् आयुर् अतिरात्रो भवत्य् - अयं वै लोको ज्योतिर्, अयं गौर्, असाव् आयुर् - अन्तर्हितान् एवैतेनेमान् लोकान् अभ्यारोहति। अतिरात्रवन्तस् त्र्यहा भवन्ति। अथो एवंविधा इव वा इमे लोका - अग्निष्टोम इवायं लोक, उक्थ्य इवायम्, अतिरात्र इवासौ। तद् यथाविधा इमे लोका, एवम् एवैनान् एतद् अभ्यारोहन्न् एति॥2.317॥


त्रयो ह वा एषां लोकानां विषुवन्तो - अग्निर् वा अस्य लोकस्य विषुवान्, वायुर् अन्तरिक्षस्य, आदित्यो दिवः। तान् एवैतेनातितरति। त्र्यनीको भवत्य् ऐन्द्रो विजित्यै। त्र्यनीकेन वै देवसदनेन देवा असुरान् अजयन्। तस्माद् या अप्य् एतर्हि त्र्यनीका सेना भवति जयत्य् एव। तद् तथा त्र्यनीकया सेनया जेष्यन्त्योपप्रेयाद्, एवम् एवैतेन जेष्यन् स्वर्गं लोकम् उपप्रैति, जयति स्वर्गं लोकं, य एवं वेद॥

अथ यस्यैतस्य ज्योतिर् अतिरात्रः, पृष्ठ्यष् षडहः, पञ्चविंशं महाव्रतं, ज्योतिर् अतिरात्रो, ऽन्नाद्यकामो हैतेन यजेत। तद् आहुर् - न पुरा संवत्सरान् महाव्रतम् उपेत्यम् इति। तद् यत् पृष्ठ्यष् षडहो भवत्य् - ऋतवो वै पृष्ठानि। संवत्सर ऋतवः। संवत्सरः कृत्स्नम् अन्नाद्यं पचति - संवत्सराभिजितम् एव तद् अन्नाद्यम् उपयन्ति। पञ्चविंशं महाव्रतम् - अन्नं वै पञ्चविंशम् - अन्नाद्यस्यैवावरुद्ध्यै। ज्योतिर् अतिरात्र - एतद् वै प्रज्ञातं देवतीर्थं यज् ज्योतिर् अतिरात्रः - प्रज्ञातेन देवतीर्थेनारिष्ट उदृचम् अश्नवा इति॥2.318॥


तद् व् एतस्य परिचक्षते - यद् एनत् सत्रम् एव मन्यन्ते, सत्रं ह स्मैतत् पुरोपयन्ति। अनेन ह त्वाव सत्रियाश् च दक्षिणावन्तश् च स्तोमा विज्ञायन्ते। उभयतो ऽतिरात्रा एव सत्रिया, अन्यतरतो ऽतिरात्रा दक्षिणावन्तः। स य एनेन दक्षिणावता यजेत पुरस्ताद् अग्निष्टोमं कृत्वा यजेत॥

अथ यस्यैतस्य पृष्ठ्यस्य षडहस्य स्तोमाः पञ्चमे ऽहनि महाव्रतं, विश्वजित्स्तोमो ऽतिरात्रः। इहेव च ह खलु वा एत इहेव च वाचं विप्रयुञ्जते ये यजन्ते ये सत्रम् आसते। तान् दशमेनैवाह्ना संपादयन्ति संपन्नायै वाचो विकृष्टायै प्रतिष्ठितायै महाव्रतम् उपेतम् असद् इति। अन्नं वै महाव्रतम्। अन्नाद्यस्यैवावरुद्ध्यै। विश्वजित्स्तोमो ऽतिरात्रो भवति। पराङ् इव ह वा एष स्वर्गम् एव लोकम् अभिनिर्मृष्टो यद् विश्वजित्स्तोमो अतिरात्रः। पराङ् एवैतेन स्वर्गं लोकम् एति। तद् यच् चतुर्थस्तोम एकविंशो भवति - प्रतिष्ठा वा एकविंशस् - तेनैवास्यां प्रतितिष्ठति॥2.319॥


अथ यस्यैतस्य पृष्ठ्यस्य षडहस्य ज्योतिर् गौर् आयुर् इति मध्ये त्र्यहो भवति, प्रजननकामो हैतेन यजेत। आत्मा वै पृष्ठ्यष् षडहः। प्रजननम् एते स्तोमाः। तद् यन् मध्ये ज्योतिर् गौर् आयुर् इति त्र्यहो भवति, मध्यत एवैतद् आत्मनः प्रजननं धत्ते, बहुर् भवति, प्रजायते॥

अथ यस्यैतस्योर्ध्वष् षडहः प्रत्यङ् त्र्यहो, यः कामयेत गच्छेयं स्वर्गं लोकं, प्रत्य् अस्मिन् लोके तिष्ठेयम् इति, स एतेन यजेत।

षडहेनैवेत ऊर्ध्वं स्वर्गं लोकं गच्छति, प्रत्य् एवामुतस् त्र्यहेणावरोहति। गच्छति स्वर्गं लोकं, प्रत्य् अस्मिन् लोके तिष्ठति। अथो ह वेद यो असाव् आसं सो ऽयम् अस्मीति पुनर् हैवास्मिन् लोक आजायते॥

अथ यस्यैतस्योर्ध्वस् त्र्यहः, प्रत्यङ् षडहो, य उ एव कामयेत गच्छेयं स्वर्गं लोकं, प्रत्य् अस्मिन् लोके तिष्ठेयम् इति, स एतेन यजेत। त्र्यहेणैवेत ऊर्ध्वं स्वर्गं लोकं गच्छति, प्रत्य् एवामुतष् षडहेनावरोहति। गच्छति स्वर्गं लोकं प्रत्य् अस्मिन् लोके तिष्ठति। अथो ह वेद यो ऽसाव् आसं सो ऽयम् अस्मीति। पुनर् हैवास्मिन् लोक आजायते॥

अथ यस्यैतस्योर्ध्वष् षडह ऊर्ध्वस् त्र्यह, स्वर्गकामो हैतेन यजेत। ऊर्ध्वा एते स्तोमा भवन्त्य् - ऊर्ध्वो वै स्वर्गो लोक - स्वर्गस्यैव लोकस्य समष्ट्यै॥2.320॥