← कण्डिका ३७१-३८० जैमिनीयं ब्राह्मणम्/काण्डम् २
कण्डिका ३८१-३९०
[[लेखकः :|]]
कण्डिका ३९१-४०० →

सकृत् परस्ताद् अभीवर्तं पर्यस्यन्ति। तस्माद् गर्भा जायमाना पर्यावर्तन्ते। पुरा ह खलु वै पञ्चमान् मासो बार्हताः प्रगाथा आप्यन्त। उष्णिहं च त्रिष्टुभं च द्वे छन्दसी संयुज्य पञ्च मासस् समापयेयुः। अनुष्टुभं च पंक्तिं च द्वे छन्दसी संयुज्य षण् मासस् समापयेयुर् एकच्छंदः परिशिष्य । जगतीं तद् विषुवत्य् उपेयुः। जागतो वै विषुवान्। स्व एव तद् आयतने विषुवन्तं समर्धयन्ति। छन्दांसि वै स्वर्गो लोकः। स्वर्गम् एव तल् लोकं रोहन्तो यन्ति। तद् आहुर् वीव वा एतच् छन्दांसि विशन्ति यद् एतानि द्वे द्वे संयुञ्जन्ति। क्व ह्य् अद्यतनं च श्वस्तनं चाहनी संपत्स्यतः। सर्वाण्य् एव सप्त चतुरुत्तराण्य् उपेत्यानीति। गायत्रीम् एव प्रथमे ऽहन्न् उपेत्योष्णिहं द्वितीये ऽनुष्टुभं तृतीये बृहत्या पञ्च मासस् समापयेयुः। पंक्तिम् एव प्रथमे ऽहन्न् उपेत्य त्रिष्टुभा षण् मासस् समापयेयुर् एकच्छन्दः परिशिष्य। जगतीं तद् विषुवत्य् उपेयुः। जागतो वै विषुवान्। स्व एव तद् आयतने विषुवन्तं समर्धयन्ति। छन्दांसि वै स्वर्गो लोकः। स्वर्गम् एव तल् लोकं रोहन्तो यन्ति॥2.381॥


तद् आहुर् अधामानीव वा एतच् छन्दांसि युञ्जति यद् एनानि यातयामानि सन्ति। तानि सर्वाणि पुनः पुनः प्रयुञ्जते। यान् एव वीर्यवत्तमान् प्रगाथान् मन्येरंस् तान् प्रणिश्चित्य षट्त्रिंशद् उपेयुर् इति। षट्त्रिंशदक्षरा वै बृहती। बृहती स्वर्गो लोकस् साम्राज्यम्। बृहत्याम् एव तत् स्वर्गे लोके साम्राज्ये प्रतितिष्ठन्तो यन्ति। षडुत्सर्गं त्रिंशता पुनरभ्यावर्तम् अय़ातयामतायै। अथो आहुस् त्रयस्त्रिंशद् एवोपेत्या इति। त्रयस्त्रिंशद् वै सर्वा देवताः। सर्वास्व् एवैतद् देवतासु प्रतितिष्ठन्तो यन्ति। त्रीन् उत्सर्गं त्रिंशता पुनरभ्यावर्तम् अयातयामतायै। अथो आहुस् - त्रिंशद् एवोपेत्या इति। त्रिंशदक्षरा विराड्, अन्नं विराट्। विराज्य् एव तद् अन्नाद्ये प्रतितिष्ठन्तो यन्ति। अथो आहुश् चतुर्विंशतिर् एवोपेत्या इति। चतुर्विंशत्यर्धमासो वै संवत्सरः। अर्धमासश एव तत् संवत्सरे प्रतितिष्ठन्तो यन्ति। अथो आहुर् द्वादशैवोपेत्या इति।द्वादश मासास् संवत्सरः। मासश एव तत् संवत्सरे प्रतितिष्ठन्तो यन्ति। अथो आहुष् षड् एवोपेत्या इति। षड् वा ऋतवः। ऋतुष्व् एव तत् प्रतितिष्ठन्तो यन्ति। अथो आहुश् चत्वार एवोपेत्या इति। चतस्रो दिशस्, चतुष्पदाः पशवः। दिक्षु चैतत् पशुषु च प्रतितिष्ठन्तो यन्ति। अथो आहुस् त्रय एवोपेत्या इति। त्रयो वा इमे लोकाः। एष्व् एव तल्लोकेषु प्रतितिष्ठन्तो यन्ति। अथो आहुर् द्वाव् एवोपेत्याव् इति, श्यैतनौधसयोर् एव प्रगाथाव् इति। श्यैतनौधसयोर् ह खलु वै प्रगाथौ वीर्यवत्तमौ। द्विपाद् यजमानः प्रतिष्ठित्यै॥2.382॥


यो वै पुनर्निवृत्तम् अध्वानम् एति नैनं स समश्नुते। अथ य एनम् अपुनर्निवृत्तम् एति स एवैनं समश्नुते। पुनर्निवृत्तम् इवैते यन्ति ये द्वा उपयन्ति। त्रैष्टुभबार्हता एवोपेत्या इति। त्रैष्टुभबार्हतो वै माध्यन्दिनः। तद् यद् राथन्तरम् अह स्यात् तस्मिन् बार्हतम् उपेयुर्, बार्हते ऽहंस् त्रैष्टुभम्। नैषां त्रैष्टुभाः प्रगाथा आप्यन्ते, न बार्हताः। यथायतनं छन्दांसि युज्यन्ते यातयामानम् उ संवत्सरम् आसते। तद् उ वा आहुर् द्वाव् एवोपेत्यौ श्यैतनौधसयोर् एव प्रगाथाव् इइति। अथा उ ह वै वीर्यवत्तमाव्, एता उ ह वै स्वर्गस्य लोकस्य मे पन्थाव् अञ्जसायनौ यद् बृहद्रथन्तरे। तयोर् एते ऽञ्जसायने यच् छ्यैतनौधसे। अहर् अहर् एवैतद् अञ्जसा स्वर्गं लोकम् उपयन्ति। तस्यैष श्लोको -
महापथाद् विश्ववयो यद् उद्रुध्यति पुरुषः।
तम् एव सृप्त्वाजिं श्रान्तः पुनर् अभ्याजिगांसति॥
इति। महापथे वा एते सत्यपथं प्रतिपद्यन्ते, ये ऽन्यान् प्रगाथान् उपयन्ति। अथैते अहरहर् एवाञ्जसा स्वर्गं लोकम् उपयन्ति ये श्यैतनौधसयोः प्रगाथाव् उपयन्ति। तस्माद् द्वाव एवोपेत्यौ श्यैतनौधसयोर् एव प्रगाथाव् इति॥2.383॥


अनुष्टुभो वा अन्यानि सामान्य् अन्नम्। अनुष्टुब् एवान्येषां साम्नाम् अन्नम्। यानि वाभिक्रान्त्यपक्रान्तानि सामानि तान्य् अनुष्टुबो ऽन्नम्। तैर् एनां ये व्यर्धयन्ति तान् एषाविभूषिताप्रीताज्ञाता स्वा वाग् अभिवदत्य्, अलूलुभन्न् ऋतून्, अश्रद्दधाना अयक्षत, नारात्सुर् इति। अथ य एनां तैस् समर्धयन्ति तान् एषा तृप्ता प्रीता ज्ञाता स्वा वाग् अभिवद्त्य् अचीक्लृपन्न् ऋतून्, श्रद्दधाना अयक्षत नारात्सुर् इति। अन्वहं सुज्ञानं भवति। सह वा उद्गाता, सत्रिणस् सत्राय दीक्षन्ते यद्, य एनान् देवानां देवक्षेत्रम् अभ्यारोहयेत्। न ह वै देवानां देवक्षेत्रम् अभ्यारुह्य बिभेति, नाशनायति, न पिपासति, नार्तिम् आर्च्छति। सुज्ञानं ह वाव देवानां देवक्षेत्रम्। तद् आहुः - प्रेव वा एते ऽस्माल्लोकाच् च्यवन्ते ये ऽन्वहं सुज्ञानम् उपयन्तीति। तद् यद् राथन्तरम् अह स्यात् तस्मिन् पौष्कलम् उपेयुर् बार्हते ऽहन् सुज्ञानम्। तद् उ वा आहुस् सुज्ञाने वावैतानि सर्वाणि रूपाणीति। सुवर्विद इत्य् एवास्य लोकस्य रूपम्, ए इत्य् अन्तरिक्षस्य, सुवर् इत्य् अमुष्य॥2.384॥


तत् सप्ताक्षरणिधनं भवति। सप्त वै प्राणाः। प्राणैर् एव तत् समृध्यमाना यन्ति, प्राणेषु प्रतितिष्ठन्तः। अन्वहं गौरिवीतं भवति। अअतिरिक्तं वा एतद् ब्रह्मणो यद् गौरिवीतम्। अतिरिक्तान्य् एतान्य् अहानि यान्य् अहीनस्य। अतिरिक्ता एव तद् अतिरिक्तं ब्रह्मणो रसं दधतो यन्ति। अन्वहं प्लवो भवति, स्वर्गस्यैव लोकस्य समष्ट्यै। ए इत्य् एवान्तरिक्षम् अतिप्लवन्ते। आति विश्वानि दुरिता तरेमेति यत् किं च यज्ञस्य दुष्टुतं दुश्शस्तं विधुरं तद् अतितरन्ति। तद् द्वादशाक्षरनिधनं भवति। द्वादश मासास् संवत्सरः। मासेष्व एव तत् संवत्सरे प्रतितिष्ठन्तो यन्ति। तद् आहुः प्रेव वा एते ऽस्माल् लोकाच् च्यवन्ते य एतान् पराचष् षडहान् उपयन्तीति। ओकोनिधनं षष्ठे ऽहनि कुर्युः। अयं वै लोकः पुरुषस्यौकः। अस्मिन्न् एवैतल्लोके प्रतितिष्ठन्ति। तद् व् एवाचक्षते प्रहितोस् संयोजनम् इति। अहोरात्रे वै प्रहितौ। प्रहिते इव ह्य् एते चरतः। अथ ह वा एतत् षडहा वीव छिद्यन्ते यदा षष्ठम् अहर् आगच्छन्ति। स यथाश्वं संयोजनेन संयु्ज्याद् एवम् एवैतेन साम्ना षडहान् संयुञ्जन्तो यन्ति। तद् आहुः - कार्यम् ओकोनिधनं पृष्ठ्ये षडहा3 इति ना3 इति। नेति ब्रूयात्। एतदग्रा वै षडहा यत् पृष्ठ्य एतदन्ता। एतं वावैतेन प्रेप्स्यन्त्य् एतम् अभीवर्तेनैतं प्लवेनैतं सुज्ञाने(न) । पुनः प्रयोग इव स्याद् यद् एतद् अत्र कुर्युः। तस्माद् एतद् अत्र न कार्यम् इति॥2.385॥


स्वर्भानुर् वा आसुर आदित्यं तमसाविध्यत्। तं देवाश्चर्षयश् चाभिषज्यन्। त एतानि स्वराण्य् अपश्यन्। तैर् एनम् अस्पृण्वन्। यद् अस्पृण्वंस् तत् स्वराणां स्वरत्वम्। तद् यद् एतानि स्वराणि भवन्त्य्, आदित्यम् एवैतै स्पृण्वन्ति। यादृग् अह वै मनुष्यो देवेभ्यः करोति तादृग् अस्मै देवाः कुर्वन्ति। तद् यद् एतानि स्वराणि भवन्त्य्, आत्मानम् एवैतै स्पृण्वते। सप्तदशा स्वरसामानो भवन्त्य्, एकविंशो विषुवान्। प्रजापतिर् वै सप्तदशो, ऽसाव् आदित्य एकविंशः। पित्रैव तत् पुत्रं पर्यूहन्ति। पिता हि पुत्राय कन्तमः, पुत्रो हि पित्रे कन्तमःः। यद् अत्रान्यं स्तोमम् अवदध्युः प्रासौ तं तेजसा दहेद्, अग्निर् वैश्वानरः प्रजा अददीत। षड् एते स्वरसामानो भवन्ति। षड् ऋतवः। ऋतुष्व् एवैनं तद् अध्यूहन्ति, तस्माद् एषस् त्रीन् ऋतून् दक्षिणैति त्रीन् उदङ्। स यथा पुत्रः पितॄन् अनुसंचरेत् तादृग् एवैतद्, अजामितायै। अजामि हि पुत्रः पितॄन् अनुसंचरति। अथैतौ विश्वजिदभिजिताव् अभित स्तोमानां वीर्यम्। वीर्येण ह वा एतौ विषुवन्तं दाधर्तुः। तद् आहु - स्तोमकृन्तत्रम् इव वा एतत् स्तोमा यन्ति यत् त्रयस्त्रिंशात् सप्तदशम् उपयन्तीति। पुरस्ताद् एव पृष्ठ्यस्य षडहस्याभिजितम् उपेत्य पृष्ठ्यस्यैव षडहस्य यन् मध्ये सप्तदशम् अहस् तद् उपरिष्टात् त्रयस्त्रिंशस्य पर्यूहेयुः। तत् तत् सप्तदशाद् एव सप्तदशम् उपयन्ति, समात् समं, न स्तोमकृन्तत्रं स्तोमा यन्ति, नार्तिम् आर्च्छन्ति॥2.386॥


तद् आहुर् आत्मा वै पृष्ठ्यष् षडहो ऽन्नं सप्तदशः। यत् पृष्ठ्यात् षडहात् सप्तदशं निर्हरेयुर् अन्नाद्यं बहिर्धा कुर्युर् अशनायुका स्युः। त्रयस्त्रिंशाद् एवोपेत्यम् इति। त्रयस्त्रिंशद् वै सर्वा देवताः। सर्वा उ ह वै देवतास् संपद्य प्रजापतिम् उद् वा आप्नुवन्ति न वा। तत् तत् समाद् एव समम् उपयन्ति। वर्ष्मणो वा वर्ष्म। वर्ष्म हि पिता। अथो उत्क्रान्तिर् एव। पिता हि पुत्राच् छ्रेयान्। त उक्थ्या भवन्ति - पशवो वा उक्थानि - पशूनाम् एवावरुद्ध्यै। तद् आहुर् विलोमेव वा एतद् यज्ञः क्रियते यदाग्निष्टोमौ विश्वजिदभिजितौ भवतो ऽग्निष्टोमो विषुवान् उक्थ्या स्वरसामानः। सर्व एवाग्निष्टोमाः कार्या इति। वर्ष्म वा अग्निष्टोमो, वर्ष्म विषुवान्। वर्ष्मणैव तद् वर्ष्म संदधति। वर्ष्मणा वर्ष्म रोहन्ति। तेजो वा अग्निष्टोमस्, तेजो विषुवांस्, तेजसैव तत् तेजस् संदधति, तेजसा तेजो रोहन्ति। अथ ह काम्यकीया इति सत्रिणो ऽयस्थूणगृहपतयस् सत्रं निषेदुः। तान् हेन्द्रद्युम्नो भाल्लवेयो ऽभिप्रधावयांचकार पुत्रं - विषुवता स्तावयिष्यामीति। तेषां ह पृष्ठ्यस्य षडहस्यैकेनाह्नास्तुतम् आजगाम। स होवाच - साधु हैवाकृत यद अस्तोढ्वम्। यद् व् अहम् इहाभविष्यम्, अन्यथातो विषुवन्तम् अकल्पयिष्यम् इति। कथं भगवो ऽकल्पयिष्य इति हैनं पुत्र उवाच। स होवाच - पुरस्ताद् एव पृष्ठ्यस्य षडहस्याभिजितम् उपेत्य पृष्ठ्याद् एव षडहात् स्वरसाम्न उपैष्यम् इति॥2.387॥


आत्मा वै पृष्ठ्यष् षडहः, प्रजा स्वरसामानः। प्रजो वा अस्मत् परेति। वाग् वै वयम् इमे स्मः। वाग् अस्मत् परेति। तद् यद् एषो ऽभिजिद् अन्तरेण भवति - प्रजननं वा एष एतद् अन्तर्धायैव तिष्ठति। तं यत् पुरस्तात् पृष्ठ्यस्य षडहस्य पर्यूहन्त्य् अनन्तर्हितात् प्रजननात् प्रजायामहा इति। त उ वै सप्तदशा भवन्ति। प्रजापतिर् वै सप्तदशः। प्रजापतिः प्रजानां प्रजनयिता। स यः प्रजानां प्रजनयिता तेन प्रजाताः प्रजायामहा इति। त उ वा आनुष्टुभा भवन्ति - वाग् वा अनुष्टुब्, वाक् प्रजननं - वाचः प्रजननात् प्रजायामहा इति। त उ वा उक्थ्या भवन्ति - पशवो वा उक्थान्य्, अन्नं पशवः - पशुभ्यो ऽन्नाद्यात् प्रजां नेद् अन्तरयामेति। तद् उ होवाच शाट्यायनिर् अनादृत्य भाल्लवेयस्य वदनम् - अभिजित एवाध्युपेत्यम्। यो वा एष पृष्ठ्यष् षडहस् स एवाभिजित्। आयतनेन ये वा एते पृष्ठ्यस्य षडहस्य स्तोमास् त एवैते। एको वै पृष्ठ्ये षडहे सप्तदशः। अथैतस्मिंस् त्रयस् सप्तदशाः। तं वावैतद् एतं स्तोमं कृत्वा प्रजनयन्ति। तत् तत् सप्तदशाद् एव सप्तदशं प्रजनयन्ति, सप्तदशात् सप्तदशं, सप्तदशात् सप्तदशम्। परस्ताद् उ वै विश्वजिति त्रयस् सप्तदशाः। ते वावैतद् उभये संपद्य प्रजनयन्ति। तेषां वा अत्र प्रतिष्ठा। अभिजित एवाध्युपेत्यम् इति॥2.388॥


एकविंशो विषुवान् भवति। एकविंशो वा अस्य भुवनस्य विषुवान्। द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। सर्वस्मिन् वा एषो ऽस्मिन्न् अधिप्रतिष्ठितः। तद् यस्मिन्न् एव सर्वस्मिन्न् अधि प्रतिष्ठितस्, तस्मिन् सर्वस्मिन्न् अधि प्रतितिष्ठामेति। तस्माद् वायव्यानुष्टुप् प्रतिपद् भवति। वाक् च वै वायुश चैतं देवतानाम् आनशानौ। तौ याव् एतं देवतानाम् आनशानौ ताभ्याम् एनम् अश्नवामहा इति। यद् ध वै वायुर् न पवेत प्रासाव् इदं तेजसा दहेद, अग्निर् वैश्वानरः प्रजा अददीत। वायव्या प्रतिपद् भवत्य् अग्नेर् एव वैश्वानरस्य शान्त्या अप्रदाहाय। तद् आहुर् वीव वा एते प्राणैर् ऋध्यन्ते ये पावमानीभिः प्रतिपद्यन्त इति। तद् यद् एषा वायव्या प्रतिपद् भवति - प्राणो वै वायुः - प्राणैर् एव तत् समृध्यन्ते। वायो शुक्रो अयामि त इति शुक्रवती भवति। शुक्रियं ह्य् एतद् अहः। मध्वो अग्रं दिविष्टिष्व् इति, तद् उ मधव्या अग्रया ब्रह्मवर्चसिनो भवन्ति। आ याहि सोमपीतय इति सौमी, तेन पावमानी क्रियते। स्पार्हो देव नियुत्वतेत्य् - असौ वै स्पार्हो ऽन्नं नियुत्वद् - एतम् एव तद् अन्नाद्येनाभ्युपयन्ति। यो वै श्रेयांसम् आहरन्न् उपैति प्रति वै स तं नन्दति। अथ य एनम् अनाहरन्न् उपैति न वै स तं प्रतिनन्दति। तद् यद् एवा वायव्यानुष्टुप् प्रतिपद् भवत्य् एष नः प्रतिनन्दाद् एतम् ऋध्नवामेति। तद् उ वा आहुः - पवस्व वाचो अग्रिय इत्य् एव प्रतिपद् कार्येति। वाग् वा इयं वितता यद् इमे लोकाः। तस्या अदो ऽग्रं तपति यद् असाव् आदित्यः। तद् यद् एषा पवस्व वाचो अग्रिय इति प्रतिपद् भवत्य् एतम् एवैतद् एतया अभिप्रतिपद्यन्ते। स यथात्मनात्मानम् आरभेतैवम् एवैनम् एतत् स्वेन रूपेणारभन्ते। यद् व् एवैतत् पदं पवस्वेत्य् अवस्तात् पर्यूढं भवति, तेनायं वायुर् अवस्तात् पर्यूढः पवते ऽनिर्दाहाय॥2.389॥


स्वर्भानुर् वा आसुर आदित्यं तमसाविध्यत्। तं देवाश् चर्षयश् चाभिषज्यन्। त एतानि दिवाकीर्त्यानि सामान्य् अपश्यन्। तैर् अस्य तमो ऽपाघ्नन्। तद् यद् एतानि दिवाकीर्त्यानि भवन्त्य्, आदित्यस्यैवैतैस् तमो ऽपघ्नन्ति। यादृग् अह वै मनुष्यो देवेभ्यः करोति, तादृग् अस्मै देवाः कुर्वन्ति। तद् यद् एतानि दिवाकीर्त्यानि भवन्त्य् आत्मन एवैतैस् तमो ऽपघ्नते। भ्राजाभ्राजे पवमानयोर् मुखे भवतः। अङ्गेभ्य एवास्य तत् तमो ऽपघ्नन्ति। महादिवाकीर्त्यं पृष्ठं, विकर्णं ब्रह्मसाम। मध्यत एवास्य तत् तमो ऽपघ्नन्ति। दशस्तोभं भासम् अग्निष्टोमसाम। शीर्षत एवास्य तत् तमो ऽपघ्नन्ति। असाव् आदित्य एकविंशो विषुवांस्, तस्य दिवाकीर्त्यान्य् एव रश्मयः। तद् यद् एतानि दिवाकीर्त्यानि भवन्त्य् एतम् एवैतैः पर्यूहन्त्य्, एतं समर्धयन्ति। तद् आहुः केन संवत्सरसद स्वर्गलोक इति। मूर्धानं दिवो अरतिं पृथिव्या इत्य् अग्निष्टोमसाम भवतीति ब्रूयात्। तेनेति। असौ वै दिवो मूर्धा यो ऽसौ तपत्य्, एतम् एवैतेनाभ्यारोहन्ति। तद् आहुः - प्रेव वा एते ऽस्माल् लोकाच् च्यवन्ते, य एतम् अभ्यारोहन्तीति। अरतिं पृथिव्या इति भवति। अयं वै लोको ऽरतिः पृथिव्या, अस्मिन्न् एवैतल् लोके प्रतितिष्ठन्ति। दशस्तोभं भासम् अग्निष्टोसाम भवति - दशाक्षरा विराड्, अन्नं विराड् - विराज एवान्नाद्यस्यावरुद्ध्यै। ईश्वरा ह त्व् अन्यस्मै मूर्धन्न् अन्नाद्यं हर्तोर् य एतासु मूर्धन्वतीष्व् अग्निष्टोमसाम कुर्वन्तीति। तद् अनुष्टुभ्य् एव कार्यम्। वाग् वा अनुष्टुब् अन्नं दशस्तोभम्। मुखतो वै वाग् इयं, मुखत एवैतद् आत्मनो ऽन्नाद्यं दधते, तस्माद् अनुष्टुभ्य् एव कार्यम् इति॥2.390॥