← कण्डिका ३८१-३९० जैमिनीयं ब्राह्मणम्/काण्डम् २
कण्डिका ३९१-४००
[[लेखकः :|]]
कण्डिका ४०१-४१० →

आत्मा वै संवत्सरस्य विषुवान्, पक्षाव् अभितो, येन चेतो ऽभीवर्तेन यन्ति येन चामुतः प्रगाथेन प्रत्यवरोहन्ति ताव् उभौ विषुवति कुर्युः। आत्मन्न् एव तत् पक्षौ प्रतिदधते स्वर्गस्य लोकस्य पतनाय। तस्माद् आत्मन् पक्षौ प्रतिहितौ। तद् आहु प्रेव वा एते ऽस्माल् लोकाच् च्यवन्ते य एतान् पराचष् षडहान् पराच स्तोमान् पराञ्चि पृष्ठानि पराञ्चि छन्दांस्य् उपयन्तीति। तद् यत् परस्ताद् विषुवतो ऽर्वाचष् षडहान् उपयन्त्य् अस्मिन्न् एवैतल् लोके प्रतितिष्ठन्ति। अद्याद्या श्वश्वो, वयम् एनम् इदा ह्यस्, त्वाम् इदा ह्यो नरः, क्वेयथ क्वेद् असि, इन्द्र त्रिधातु शरणम् इति संतनयः प्रगाथा भवन्त्य् अद्यश्वस्यैव संतत्यै। अद्य चैव ते श्वश् च संतन्वन्ति। अयातयामानम् उ संवत्सरम् आसते। तद् आहुर् इन्द्र क्रतुं न आ भरेत्य् एतास्व् आवतीषु स्तोतव्यम् अह्नो रूपेणेति।
पिता पुत्रेभ्यो यथा।
शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिर् अशीमहि॥
इति। एते ह वै जीवा ज्योतिर् अश्नुवते ये संवत्सरस्योदृचम् अश्नुते।
मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः।
त्वया वयं प्रवतः शश्वतीर् अपो अति शूर तरामसि॥
इत्य् एता ह वै प्रवतः शश्वतीर् आपो यत् संवत्सर ऋतवो मासा अर्धमासा अहोरात्राण्य् उषसः ता एवैतेनातितरन्ति॥2.391॥


शक्तिं ह वासिष्ठं सौदासा अग्नौ प्रासुः। स ह प्रास्यमान उवाचेन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथेति। एतावद् धैवास्य व्याहृतम् आस। अथ हैनम् अग्नौ प्रासुः। अथ ह वसिष्ठ आजगाम। स होवाच किं मे पुत्रः प्रास्यमानो ऽब्रवीद् इति। तस्मै होचुर् इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथेत्य् एतावद् एवास्य व्याहृतम् आसीद्, अथैनम् अग्नौ प्रास्यन्न् इति। स होवाच शिक्षा णो ऽस्मिन् पुरुहूता यामनि जीवा ज्योतिर् अशीमहीति यन् म एतम् उत्तरम् अर्धर्चं पुत्रः प्राप्स्यन् न चैवैनम् अग्नौ प्रासिष्यन्, सर्वम् उ चायुर् अयिष्यत्। यैव कुरुतमा देवतानाम् अभूत् ताम् उपासरत्। ऋध्नवन् ते सत्रिणो ये म एतेन पुत्रस्य प्रगाथेन स्तवान्ता इति। स एष ऋद्धिप्रागुभितः प्रगाथः। ऋद्धिष्णवो ह भवन्त्य् एनेन तुष्टुवानाः। गौश् चायुश् च स्तोमौ भवतः प्रतिष्ठित्यै। ऊनातिरिक्तौ भवतः प्रजननाय। वैराजौ भवतो ऽन्नाद्यस्यैवावरुद्ध्यै। पृष्ठ्यष् षडहो भवति। श्रीर् वै वर्ष्म पृष्ठानि। तद् उ श्रियं वर्ष्म पृष्ठान्य् ूर्ध्वा रोहन्ति। छन्दोमा भवन्ति - पशवो वै छन्दोमाः - पशूनाम् एवावरुद्ध्यै। दशमम् अहर् भवति - दशाक्षरा विराड्, अन्नं विराड् - विराज एवान्नाद्यस्यावरुद्ध्यै। अयं सहस्रमानव इति पुरा तूष्णीं स्तोमाद् एतास्व् अतिछन्दस्सु स्तोतव्यम् आहुः। अति वा एषो अन्यानि छन्दांसि यद् अतिछन्दाः। अत्य् एते ऽन्यान् ये संवत्सरसदः। स्व एवैतच् छन्दसि प्रतितिष्ठति। एकाक्षरणिधनं साम भवति। एकाक्षरा वै वाक्। वाचम् एवैतद् दशमेनाह्ना संपादयन्ति। गोर् इति निधनं भवति - गौर् वै कृत्स्नम् अन्नाद्यं - कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्यै। तद् आहुर् अतिष्टुतानुष्टुप् स्याद् यद् एतद् अत्र कुर्युः। नेद् वाचम् अतिष्टवामेति वै मनसा तूष्णीं स्तोमेन स्तुवन्ति। अत्रो वावैतद् वाचा संपन्नम्। तस्माद् एतद् अत्र न कार्यम् इति॥2.392॥


उत्सृज्यां3 नोत्सृज्या3म् इति मीमांसन्ते। तद् आहुर् उत्सृज्यम् एवेति। यो वा अविमोकं यात्य्, उद् वा वै स कृन्तति प्र वा क्षिणोति। अविमोकम् इवैते यन्ति ये नोत्सृजन्ते। तद् यत् पौर्णमासीर् उत्सृजन्ते ऽरिष्ट्या एव। यो वै पूर्ण आवपति, वि वा वै तत् पतति प्र वा शीर्यते। पूर्ण एष यत् संवत्सरः। तद् यत् पौर्णमासीर् उत्सृजन्ते ऽरिष्ट्या एव। ऊनाद् वै रेतस् सिच्यत, ऊनात् प्रजाः प्रजायन्ते। पूर्ण एष यत् संवत्सरः। तद् यत् पौर्णमासीर् उत्सृजन्ते, रेत एव तल् लोकं कुर्वन्ति, प्रजननाय। ऊनाद् वै प्राणा ईरते। प्रजापतिर् एष यत् संवत्सरः। तस्यैते प्राणा यत् पौर्णमास्यः। तद् यत् पौर्णमासीर् उत्सृजन्ते, प्रजापतेर् एव तत् प्राणान् उत्सृजन्ते। पौर्णमासीस्तोमा ह खलु वै देवाः। तद् यत् पौर्णमासीर् उत्सृजन्ते, को देवान् प्रत्य् अभिष्टोतुम् अर्हतीति॥2.393॥


ते यद् अहर् उत्सृजेरन्न्, इन्द्राय वसुमते पूर्वाह्णे पुरोडाशम् अष्टकपालं निर्वपेयुः। इन्द्राय रुद्रवते माध्यन्दिने पुरोडाशम् एकादशकपालं निर्वपेयुः। इन्द्रायादित्यवते ऽपराह्णे पुरोडाशं द्वादशकपालं निर्वपेयुः। एतासां वै देवतानां सवनानि भाजनं, तन् न सवनेनैभ्यो यन्ति, न देवता अन्तर्यन्ति। प्रजापतिर् एष यत् संवत्सरः। तस्यैते प्राणापाना यत् पौर्णमास्यश् चामावास्याश् च। तद् यत् पौर्णमासीश् चामावास्याश् चोत्सृजन्ते, प्रजापतेर् एव तत् प्राणापानान् उत्सृजन्ते। तम् एतम् उपरिष्टात् संवत्सरस्य चतुर्विंशतिरात्रम् उपयन्ति। अथो आहुः - पौर्णमासीर् एवोत्सृज्या इति। प्राणभाजना वै पौर्णमास्य्, अपानभाजनामावास्या। बहिर् वै सन्तं प्राणम् उपजीवन्त्य्, अन्तस् सन्तम् अपानम्। तद् यत् पौर्णमासीर् उत्सृजन्ते, बहिस् सन्तं प्राणम् उपजीवामान्तस् सन्तम् अपानम् इति। तम् एतम् उपरिष्टाद् द्वादशरात्रम् उपयन्ति॥2.394॥


तद् उ होवाचारुणिर् अषाढं सावयसम् उत्सृजानं - होता छिद्रे संवत्सर आस्त इति। स होवाच - मा न एवं ब्रवीर्, उप वै वयं तम् उपरिष्टाद् द्वादशरात्रम् ऐमेति। तं ह तद् उपजगौ --
ज्यायो वा हि कनीयो वा न हि वा तेन तत् समम्।
कपालम् अन्यथा सत्य् अछिद्र उपधीयते॥
इति वा अहम् एतद् धोतुर् मन्ये। छिद्रं वा अहं तेषां संवत्सरं मन्य् य उत्सृजन्ते। अथो हैषां तद् अन्यथेव सत्रम् उपेतं भवति। यथा वै शश एवं यज्ञः। यो वै शशम् उत्सर्गं लिप्सते, नैनं स गृह्णाति। अथ य एनम् अनुत्सर्गं लिप्सते, स एवैनं गृह्णाति। उत्सर्गम् एवैतल् लिप्सन्ते य उत्सृजन्ते। तस्मान् नैवोत्सृज्यम् इति॥2.395॥


अथ ह स्माह कुसुर्विन्द औद्दालकिर् - उत्सृज्यं चैव न चेति। यद् एवाद्याहर् उत्सृजेरंस्, तच् छ्वो भूते प्रतिसंख्यायोपप्रस्तुयुः। तेनैवोत्सृष्टं च न चेति। अथो यावन्त्य् एवाहान्य् उत्सृजेरंस् तानि संख्यायोपरिष्टाद् अतिरात्रस्योपेयुः। तेनो एवोत्सृष्टं च न चेति। अथ ह स्माह भाल्लवेय - उक्थान्य् एवोत्सृज्यानीति। प्रजा वै पशव उक्थानि। प्रजा एव तत् पशून् उत्सृजन्ते। अथो यथा दृतिम् अभिध्मातम् उच्छ्वासयेत्, तादृक् तत्। तद् आहुर् उत्सृज्यम् एवेति। प्रजापतिर् एष यत् संवत्सरः। तस्यैते प्राणाः पर्वाणि यत् पौर्णमास्यश् चामावास्याश् च। यथा ह वा इदं धृतिर् अभिध्मातश् शोचेद् एवं ह वा एष प्रजापतिः पशूञ् छोचयत्य् अनुत्सृजमानः। तद् यत् पौर्णमासीश् चामावास्याश चोत्सृजन्ते, ऽङ्गान्य् एवास्य तत् प्राणान् पर्वाणि प्रसारयन्ति, नेन् नस् संवत्सरश् शुशुचानो हिनसद् इति। तम् ईं हिन्वन्त्य् अग्रुव इति श्वो भूते प्रतिपदं कुर्वीरन्। तद् यथा दृतिम् उच्छ्वासितं पुनर् अभिधमेत्, तादृक् तत्। धमन्ति बाकुरं दृतिं त्रिधातु सारघं मध्व् इति - संवत्सरो वै बाकुरो दृतिर्, यज्ञस् त्रिधातुर्, ब्राह्मणास् सरघास्, त एवैतन् मधु कुर्वन्ति॥2.396॥


अथ ह स्माह सिरिन्दः पालालिर् - अमावास्यायाम् एवोत्सृज्यम् इति। अमावास्यायां वा एतद् देवता उपसृजन्त। देवतानाम् उत्सृष्टिम् अनूत्सृजामहा इति। एते उ ह वै संवत्सरस्य मध्ये रात्री यत् पौर्णमासी चामावास्या च। तद् यत् पौर्णमासीं चामावास्यां चोत्सृजेरन् संवत्सरं मेधेन व्यर्धयेयुः। त्रिवृद् एवाग्निष्टोमः कार्य इति। तस्य यन् न्यूनानि स्तोत्राणि भवन्ति, तेनैवोत्सृष्टं च न चेति। अथ ह स्माह नगरी जानश्रुतेय - एकत्रिक एवोपेत्य इति। तस्य यच् छ्वांक्षितानीव स्तोत्राणि भवन्ति, तेनैवोत्सृष्टं च न चेति। अथ ह स्माहारुणिर् - याव् एवैतौ गोआयुषी स्तोमौ, ताभ्याम् एवोत्सृ्ष्टं च न चेति। तयोर् यस्य न्यूनानि स्तोत्राणि तेनोत्सृष्टं, यस्यातिरिक्तानि तेनानुत्सृष्टम्। तस्माद् एताव् एवोपेत्याव् इति॥2.397॥


अध्वर्युर् ग्रहं गृहीत्वा द्रवति। स अहोपावर्तध्वम् इति। ते हिंकृत्यैव प्राञ्चो निष्क्रम्याग्रेणाग्नीध्रं तिष्ठन्तो विश्वेषां देवानां व्रतेन स्तुवते। विश्वेभ्य एव तद् देवेभ्यो निवेदयन्ते - ऽरात्स्मेति। ते प्राञ्चो ऽभिक्रम्य चात्वालम् अवेक्षमाणाः क्रोशेन स्तुवते। देवानां वा अन्तं जग्मुषाम् इन्द्रियं वीर्यम् अपाक्रामत्। तत् क्रोशेनैवावरुन्धत। अन्तम् इवैते गच्छन्ति य संवत्सरस्योदृचम् अश्नुवते। तद् यत् क्रोशेन स्तुवत इन्द्रियस्यैव वीर्यस्यावरुद्ध्यै। अथानुक्रोशम्। देवा वै यत्र त्र्यहेण स्वर्गं लोकम् आयंस् तद् धैषाम् एतत् तृतीयम् अहर् वैरूपं व्यार। तस्यैष श्लोको -
वैरूपं देवा अभिसंवसानास् तद् आतस्थुस् तद् उ हैषां व्यार।
ते हिंकृत्य पुनर् आरुह्य् सर्वं एवाधून्वत जरसं तनूनाम्॥
इति। तस्यो एवैष श्लोको -
यद् वैरूप उपहते व्यध्वे, हिंकृण्वन्तस् समतिष्ठन्त याम् अन्तः।
देवस्थानम् असृजन्त साम तेन देवासो ऽमृतत्वम् आयन्॥
इति। ते स्वर्गं लोकम् आयंस् तद् विधाता पुत्रान् अब्रवीन् - मा यूयम् आदध्वम्, इहैवाहं युष्मान् विधास्यामीति॥2.398॥


सो ऽस्यां प्राच्यां दिशि पुरं वैधात्रम् अदधात्। तस्य प्राचीन आहुर् यायणः पुरोहितः। सो ऽस्यां दक्षिणायां दिश्य् अधराहिं वैधात्रम् अदधात्। तस्य दक्षिण आहुर् यायणः पुरोहितः। सो ऽस्यां प्रतीच्यां दिशि पश्चं वैधात्रम् अदधात्। तस्य प्रतीची आहुर् यायणः पुरोहितः। सो ऽस्याम् उदीच्यां दिश्य् उत्तराहिं वैधात्रम् अदधात्। तस्योदीचीन आहुर् यायणः पुरोहितः। ते देवा विधातारम् अब्रुवन्न् एवम् उ चेत् त्वम् एतद् अधिथास् तथास्मान् अन्वीक्षस्व यथा वयं स्वस्ति स्वर्गं लोकं गच्छेमेति। तान् एतेन क्रोशेनान्वैक्षत॥2.399॥


इन्द्रासुतेषु सोमेषु होयेहूहो इत्य् एवैनान् प्रसेधत्। ते ऽब्रुवान् - सत्रा वै नो ऽत्युदसित्सन्। तथा नो ऽन्वीक्षस्व तथा न एतस्मिन् लोके अन्वाभजा इति। तान् एतेनैवानुक्रोशेनेन्द्रा हो इह वेहो इत्य् एवास्मिन् लोके ऽन्वाभजत्। ततो वै त उभयोर् अन्योर् लोकयोः प्रत्यतिष्ठन्। क्रोशेनैव स्वर्गं लोकम् अगच्छन्न् अनुक्रोशेनास्मिन् प्रत्यतिष्ठन्। ते य एवं विद्वांसः क्रोशानुक्रोशाभ्यां स्तुवत उभयोर् एवानयोर् लोकयोः प्रतितिष्ठन्ति - क्रोशेनैव स्वर्गं लोकं गच्छन्त्य्, अनुक्रोशेनास्मिन् प्रतितिष्ठन्ति॥2.400॥