← कण्डिका ३९१-४०० जैमिनीयं ब्राह्मणम्/काण्डम् २
कण्डिका ४०१-४१०
[[लेखकः :|]]
कण्डिका ४११-४२० →

अग्नेर् अपि पक्षं प्रति सत्रस्यर्द्ध्या स्तुवते। अग्नय एव तद् देवेभ्यो निवेदयन्ते ऽरात्स्मेति। व्रतपक्षाभ्यां अभितो हविर्धाने। स्वर्गाय वा एते लोकाय दीक्षन्ते, ये संवत्सराय। तद् यद् व्रतपक्षाभ्यां स्तुवते, आत्मन्न् एव तत् पक्षौ प्रतिदधते, स्वर्गस्य लोकस्य पतनाय। तस्माद् आत्मन् पक्षौ प्रतिहितौ। प्राणापानाभ्यां स्तुवते। प्राणेन पुरस्ताद् अपानेन पश्चात्। तद् आहुर् वीव वा एते प्राणापानाभ्याम् ऋध्यन्ते ये यज्ञियस्य कर्मणो ऽतिपादयन्ति यदि वा नातिपादयन्ति। को हि तद् वेद यदि ते ऽति वा पादयन्ति न वा। तद् यत् प्राणापानाभ्यां स्तुवते प्राणापानाभ्याम् एव तत् समृध्यन्ते॥2.401॥


श्लोकानुश्लोकाभ्यां स्तुवते। श्लोकेन पुरस्ताद् अनुश्लोकेन पश्चात्। तद् यच् छ्लोकेन स्तुवते पुण्यं श्लोकम् अवरुणधामहा इति। अथ यद् अनुश्लोकेन पुण्यो ऽनुश्लोक उत्तस्थुषो ऽनूत्तिष्ठाद् इति। निह्नवाभिनिह्नवाभ्यां स्तुवते। निह्नवेन पुरस्ताद् अभिनिह्नवेन पश्चात्। तद् आहु श्रेयांसं वा एते ऽभ्यारोहन्ति ये संवत्सरम् इति। तद् यन् निह्नवेन स्तुवते श्रेयस एव तन् निह्नुवते, ऽभ्य् एवाभिनिह्नवेनारोहन्ति। यद् उ चेहाकर्म तद् उ च मापह्नोष्महा इति। तथा हैषां तद् अनुषोदितं भवति। अंगिरसां षड्विंशत्यक्षरणिधनेनान्तस्सदसं स्तुवते। जघनेनौदुम्बरीम् अंगिरोभ्य एतद् देवेभ्यो निवेदयन्ते ऽरात्समेति॥2.402॥


तत् पञ्चविंशं कृत्वा स्तुवते व्रतस्यानतिष्टवाय, यद् व् एव प्रति भूतेच्छन्दसां व्रतेन स्तुवते -
हरी त इन्द्र श्मश्रूण्य् उतो ते हरिता हरी।
तं त्वा स्तुवन्ति कारवः पुरुषासो वनर्गवः॥
ऋष्य स इन्द्र भुङ्ङ् इति मघवन्न् इन्द्र भुङ्ङ् इति।
इन्द्रस् त्रसरपूतः॥
  - - -स्फिगि पुनःपुनस् त्रसरस्फिगिर्
इति। एतावद् ध वा अन्यैकम् अङ्गम् अनास्तुम् आस यत् स्फिगौ। अनास्तुतेनैनम् अङगेन स्तुवन्ति। ऋद्धिष्णवो ह भवन्त्य् एनेन तुष्टुवानाः। तद् आहुः कस्मै कं परिमादः क्रियन्त इति। यथा ह वै शारद उक्षैवं महाव्रतम्। स यथा शारदम् उक्षाणं वागराभिः परितत्यालभेरन्न् एवम् एवैतत् परिमाद्भिर् महाव्रतम् आलभन्ते व्रतस्याप्रक्षयाय। अथो यथैवेदं पुरुषस्य केशा नखा लोमानि श्मश्रूणि तथैवास्यैतद् इति। अथो यद् एवेदं पुरुषम् अभितो गौर् अश्वो ऽजाविर् व्रीहयो यवास् तद् एवास्यैतद् इति॥2.403॥


सप्ताशीतिर् महाव्रतस्य स्तोत्र्या भवन्ति, त्रयोदश परिमादः। तच् छतम्। शतायुर् वै पुरुषश् शतेन्द्रियश् शतवीर्यस् तस्यैवेन्द्रियस्य वीर्यस्यावरुद्ध्यै। अथैता वाचः प्रवदन्ति। क्षुद्राः परिमादः - कर्करी चालाबुश् च वक्रा च कपिशीर्ष्णी चैषीकी चापघाटलीका च वीणा च कश्यपी च भूमिदुन्दुभिश् चार्षभेण चर्मणाभिविहतो वाणश् च शततन्त्रीः। अन्तरिक्षे दुन्दुभयो वितता वदन्ति। अधिकुंभाः पर्यायन्ति। एता वाचः प्रवदन्ति - सर्वस्यै वाचो ऽवरुद्ध्यै, कृत्स्नायै वाचः - कृत्स्नां वाचम् अवरुणधामहा इति। तद् यद् भूमिदुन्दुभिर् आर्षभेण चर्मणाभिविहतो वदति - परमा वा ऋषभो वाक् - परमस्या परमस्या एव वाचो ऽवरुद्ध्यै। अन्तरिक्षे दुन्दभयो वितता वदन्ति - यैवान्तरिक्षे वाक् ताम् एव तेनावरुन्धते। अधिकुम्भाः पर्यायन्त्य् - एतद् वै प्रत्यक्षं दिवो रूपं यन् मूर्धा - यैवामुष्यां वाक् ताम् एव तेनावरुन्धते। वाणं शततन्त्रीम् आघ्नन्ति - शतायुर् वै पुरुषश् शतेन्द्रियश् शतवीर्यस् - तस्यैवेन्द्रियस्य वीर्यस्यावरुद्ध्यै॥2.404॥


मागधं च पुंश्चलूं च दक्षिणे वेद्यन्ते मिथुनी कारयन्ति, मिथुनत्वाय प्रजननाय। प्र मिथुनेन जायते य एवं वेद। आर्यं च वर्णं शौद्रं चोपर्युपरि चात्वालं बस्ताजिने व्यायमन्त्य् आर्षभे वा चर्मणि। तयोर् अन्तर्वेद्य् आर्यो वर्णो भवति बहिर्वेदि शौद्रः। तयोर् आर्येण वर्णेन शौद्रं वर्णं ज्यपयन्ति। देवाश् च वा असुराश् चामुष्मिन्न् आदित्ये ऽस्पर्धन्त। तं देवा असुराणाम् अवृञ्जत। तद् यद् आर्येण वर्णेन शौद्रं वर्णं ज्यापयन्त्य्, एतम् एव तद् द्विषतो भ्रातृव्यस्य वृञ्जते। तयोर् आन्यः क्रोशति, प्राण्यश् शंसति। य आक्रोशति, पुनात्य् एवैनान् सः। अथ यः प्रशंसति, पूतेष्व एवैतेषु स इन्द्रियं वीर्यं दधाति। आजिं धावन्ति। परमं वा एतन् महो यद् आजिः - परमस्यैव महसो ऽवरुद्ध्यै। संनद्धा भवन्ति। परमा वै संनद्धे त्विषिः। परमाम् एव तत् त्विषिम् आत्मसु दधते। पूर्णकु्म्भा मार्जालीयं पर्यायन्ति - पूर्णस्यैवावरुद्ध्यै। है महा है महा इति - महसो ऽवरुद्ध्यै। इदं मध्व् इदं मध्व् इति - मध्व् इव वा एतद् देवेभ्यः क्रियते यन् महाव्रतम्। परमो वै मधुनि रसः, परमस्यैव रसस्यावरुद्ध्यै। तद् आहुर् - ईश्वरा आद्या भवितोर् यद् धै महा इदं मध्व् इति गायन्तीः पर्येयुः। है महाम् एव गायन्तीः पर्येयुर् इति। तद् उ होवाच शाट्यायनिर् - यदा वै भवति यदास्त्य्, अथाद्यो भवति। किम् असतो ऽद्युः। है महा इदं मध्व् इत्य् एव गायन्तीः पर्येयुर् इति॥2.405॥


ते स्तोष्यन्तो विपरायन्ति। अध्वर्युस् त्रिवृता शीर्ष्णा गायत्रेण स्तोष्यन्न् अग्रेण हविर्धाने उपविशति, मैत्रावरुणः पञ्चदशेन पक्षेण बृहता स्तोष्यन् दक्षिणत उपविशति, ब्राह्मणाच्छंसी सप्तदशेन पक्षेण रथन्तरेण स्तोष्यन्न् उत्तरत उपविशति, नैष्टैकविंशेन पुच्छेन भद्रेण स्तोष्यन् पत्नीनां मध्य उपविशत्य्, उद्गाता पञ्चविंशेनात्मना राजनेन स्तोष्यन्न् औदुम्बरीम् अधिरोहत्य् - ऊर्ग् वा अन्नम् उदुम्बर - ऊर्ज एवान्नाद्यस्यावरुद्ध्यै। ताम् अभिमन्त्रयते - बृहद्रथन्तरे ते पूर्वौ पादौ, वैरूपवैराजे ऽपरौ, शाक्वररैवते ऽनूच्यानि, छन्दांस्य् आस्तरणं, यजूंषि विवयनं, स्योनाम् आसदं सुषदाम् आसदम् इति। तस्यै प्रत्यवरोहो -
मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम्।
पिपृतां नो भरीमभिः॥
इति॥2.406॥


ते सकृद् एव सर्वे हिंकुर्वन्ति। तस्मात् पुरुषस् संविद्धो जायते। उद्गातुर् हिंकारम् अनु हिंकुर्वन्ति। तस्माद् आत्मनो वशम् अङ्गानि यन्ति। अध्वर्युस् त्रिवृता शीर्ष्णा गायत्रेणोद्गायति। इदं तच् छिरः प्रतिदधाति। तस्माद् इदं शिरः प्रतिहितम्। पराचीभिर् अपुनरभ्यावर्तम्। तस्माद् इदं शिरः पराङ् एव नेति नेति। नवभिर् उद्गायति। तस्माद् इदं शिरो न मेद्यतो ऽनुमेद्यति, न कृश्यतो ऽनुकृश्यति। मैत्रावरुणः पञ्चदशपक्षेण बृहतोद्गायति। इमं तद् बाहुं प्रतिदधाति। तस्माद् अयं बाहुः प्रतिहितः। पराचीभिर् पुनरभ्यावर्तम् । तस्माद् इदं बाहुं सं चाञ्चति प्र च सारयति। तिस्रस् सतीः पञ्चदश करोति। कस्माद् अयं बाहुर् मेद्यतो ऽनुमेद्यति, कृश्यतो ऽनुकृश्यति। वीर्यं वै बृहद्, वीर्यं पञ्चदशः। तद् यत् पञ्चदशेन पक्षेण बृहतोद्गायति तस्माद् अयं बाह्वोर् वीर्यवत्तरः। तस्माद् उ दक्षिणं पक्षं वयांस्य् अनु परिप्लवन्ते। पुंसो वा एतद् रूपं यद् बृहत्, स्त्रियै रथन्तरम्। तद् यद् इतो बृहता स्तुवत, इतो रथन्तरेण, तस्मात् पुमान् दक्षिणतो योषाम् उपशेते। ब्राह्मणाच्छंसी सप्तदशेन पक्षेण रथन्तरेणोद्गायति। इमं तं बाहुं प्रतिदधाति। तस्माद् अयं बाहुः प्रतिहितः पराचीभिर् अपुनरभ्यावर्तम्। तस्माद् इमं बाहुं सं चाञ्चति प्र च सारयति। तिस्रस् सतीस् सप्तदशकरोति। तस्माद् अयं बाहुर् मेद्यतो ऽनुमेद्यति, कृश्यतो ऽनुकृश्यति॥2.407॥


नेष्टैकविंशेन पुच्छेन भद्रेणोद्गायति। इदं तत् पुच्छं प्रतिदधाति। तस्माद् इदं पुच्छं प्रतिहितम्। पराचीभिर् पुनरभ्यावर्तम्। तस्माद् इदं पुच्छं सं चाञ्चति, प्र च सारयति। तिस्रस् सतीर् एकविंशतिं करोति। तस्माद् इदं पुच्छं मेद्यतो ऽनुमेद्यति कृश्यतो ऽनुकृश्यति। उद्गाता पञ्चविंशेनात्मना राजनेनोद्गायति। इमं तद् आत्मानं प्रतिदधाति। तस्माद् अयम् आत्मा प्रतिहितः। पराचीभिर् पुनरभ्यावर्तम्। तस्माद् इदम् आत्मानं सं चाञ्चति, प्र च सारयति। तिस्रस् सतीः पञ्चविंशतिं करोति। तस्माद् अयम् आत्मा मेद्यतो ऽनुमेद्यति, कृश्यतो ऽनुकृश्यति। त एकैकयास्तुयोद्गातारम् उपसमायन्ति। ताभिर् उद्गातोद्गायति। आत्मन्न् एव तद् अंगानि प्रतिदधाति। तस्माद् आत्मन्न् अङ्गानि प्रतिहितानि। आत्मन्ययोत्तमयोद्गायति। तस्माद् इदम् आत्मन उद् इव शेते॥2.408॥


प्रजापतिः प्रजास् ससृजानस् स व्यस्रंसत। तस्माद् देवता व्युदक्रामन्। तम् इन्द्र एव देवतानां नाजहात्। स इन्द्रम् अब्रवीत् कथं न्व् अहम् इतः पुनर् अन्वाभवेयम् इति। किं खलु वै ते ऽस्तीत्य् अब्रवीत्। स्तो न्वै म इमौ प्राणापानाव् इति। यत् स्तो म इत्य् अब्रवीत्, तत् स्तोमस्य स्तोमत्वम्। स्तुवत एनं स्वा - अयं न श्रेष्ठ इति य एवं वेद। तम् अब्रवीत् स वा एताभ्याम् एव संवत्सरं स्तुष्व। तं त्वैताभ्याम् एव तुष्टुवानम् उपरिष्टात् संवत्सरस्य सर्वा देवतास् समभ्यवैष्यन्तीति। स एताभ्याम् एव संवत्सरम् अस्तुत। तम् एताभ्याम् एव तुष्टुवानम् उपरिष्टात् संवत्सरस्य सर्वा देवतास् समभ्यवायन् दिशां रसं प्रवृह्यापां रसं वेदस्य रसम् अन्नस्य रसं, महते व्रतं हरामो महते व्रतं हराम इति वदन्तीः। ता यद् अब्रुवन् - महते व्रतं हराम इति तन् महाव्रतस्य महाव्रतत्वम्। तद् अस्मै प्रायच्छन्। तद् अव्रतयत्। ताः प्रमोदन्त - महाव्रतयतीति, महाव्रतयतीति। तस्माद् एतस्मिन्न् अहन् प्रेव मोदन्ते। देवता ह्य् अस्मिन् प्रमोदन्त।

तद् आहुर् - मध्यतस् संवत्सरस्य विषुवत्य् उपेत्यम् - ॥2.409॥


-- अन्नं वै व्रतम्। मध्यतो वा अन्नम् अशितं धिनोतीति। तद् उ वा आहुर् - अर्धं वा एते ऽन्नाद्यस्यावरुन्धते ये मध्यतस् संवत्सरस्य विषुवति महाव्रतम् उपयन्ति। संवत्सरः कृत्स्नम् अन्नाद्यं पचति। तद् उपरिष्टात् संवत्सरस्योपेत्यं - कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्या इति। अथ ह स्माह नगरी जानश्रुतेय - उग्रो वा एष मध्यमशीवा यन् महाव्रतम्। यद् वा उग्रो मध्यमशीवा भवति, सर्वान् वै सो ऽन्यान् व्यवकीर्याथैकश् शेते। तद् उपरिष्टाद् एव संवत्सरस्योपेत्यं कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्या इति। तत् पञ्चविंशं भवति। चतुर्विंशत्यर्धमासो वै संवत्सरः। अन्नाद्यं पञ्चविंश्य्, अन्नाद्यम् एवैतत् पञ्चविंश्योपधीयते। स यथा पूर्णोध्नीम् उपसद्य दुहीतैवम् एवैतत् पञ्चविंश्यान्नाद्यं दुह्रे॥2.410॥