प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अथ यद् वो ऽवोचं चतुश्चक्रं स्म पारयिष्णुं समारोहतेति, प्र सोम देववीतये, परीतो षिञ्चता सुतम्, अभि सोमास आयवः, पुनानस् सोम धारयेत्य् एता एव वस् तच् चतस्रो बृहतीर् अवोचम् इति। एष ह वै चतुश्चक्र पारयिष्णुर् यद् एता बृहत्यः। स यथा चतुश्चक्रेण पारयिष्णुना यत्र जिगमिषेत तद् गच्छेद्, एवम् एवैताभिर् बृहतीभिर् बृहतीभि स्वर्गं लोकं गच्छन्ति। अथो एष वाव देवरथः। स यथा देवरथेन सुयुक्तेन यत्र जिगमिषेत् तद् गच्छेद्, एवम् एवैताभिर् बृहतीभि स्वर्गं लोकं गच्छन्ति। तस्माद् एता एव बृहतीः कार्याः।

अथ यद् वो ऽवोचं स्वर्गस्य स्म लोकस्य पथो ऽञ्जसायनान् मेतेत्य्, औशनकावे एव वस् तद् अवोचम् इति। एष ह वै स्वर्गस्य लोकस्य पन्था अञ्जसायनो यद् औशनकावे। औशनं पुरस्ताद् भवति कावम् उपरिष्टात्। ताव् एतत् पितापुत्राव् एव नावम् अजतः। स यथा पितापुत्रौ नावम् अजन्तौ ताम् अरिष्टां स्वस्ति पारं गमयेयाताम् , एवम् एवैतद् औौशनकावाभ्यां स्वस्त्य् अरिष्टा उदृचम् अश्नुवते। तस्माद् औशनकावे नावसृज्ये॥2.421॥


अथ यद् वो ऽवोचं संवत्सरस्य स्म व्याप्तम् अतिप्लवध्वम् इत्य् अभीवर्तं वा स्म पवमाने कुरुध्वं प्लवं वेत्य् एव वस् तद् अवोचम् इति। एतद् ध वै संवत्सरस्य व्याप्तं यद् ऋतवो यन् मासा यद् ऋतुसन्धयः। तद् उ वा आहुर् य ऋतवो ये मासा य ऋतुसन्धयो ऽहोरात्रे वाव तद् भवतः। अहोरात्रे वाव संवत्सरस्य व्याप्तम् इति। तत् प्लवः कार्यः। अत्र वै गौः प्लवते, ऽव हस्त्य्, अव पुरुषः, प्लवो नावप्लवते। तद् एतेन प्लवेनानवप्लाविनैतत् संवत्सरस्य व्याप्तम् अतिप्लवामहा इति। तद् आहुर् अस्ति परिचक्षा प्लवातिप्लुता इति वै निन्दन्ति। यो वै जीयते यो हीयते, तम् आहुर् अप्लोष्टेति। अभीवर्त एव कार्यः। तस्यैकाक्षरं निधनं भवति। एकाक्षरा वै वाक्। वाग् उ कृत्स्नं ब्रह्म। तद् एतेन कृत्स्नेन ब्रह्मणा यथा चर्मणा कुदीकण्टकान् प्रावृत्यातीयाद् एवम् एवैतत् संवत्सरस्य व्याप्तं प्रावृत्यातियन्ति। अथो यथा तप्तान् पांसून् उपानह्य् अतीयात् तादृक् तत्। तस्माद् अभीवर्त एव कार्यः।

अथ यद् वो ऽवोचं दैव्यं स्म मिथुनम् उपेतेत्य्, उच्चा ते जातम् अन्धसा, स्वादिष्ठया मदिष्ठयेत्य् एते एव वस् तद् गायत्र्याव् अवोचम् इति। एतद् वै दैव्यं मिथुनं यद् एते गायत्र्या - उच्चा त इति पुंसो रूपं, स्वादिष्ठयेति स्त्रियै। तद् एतन् मिथुनं प्रजननं क्रियते। प्र मिथुनेन जायते य एवं वेद। तस्माद् एते एव गायत्र्यौ कार्ये॥2.422॥


अथ यद् वो ऽवोचं प्रस्पष्टात् स्म सार्थान् मा हीयध्वम् इति, बृहद्रथन्तरे एव वस् तद् अवोचम् इति। एष ह वै प्रस्पष्टः सार्थो यद् बृह्द्रथन्तरे। एते ह वा एतान्य् अरण्यान्य् अतिनयतो यान्य् एतानि सवनारण्यानि। तद् एतद् षड्ग्रामम् इति - त्रिवृत् स्तोमः। अस्ति परस्तराम् इति - पञ्चदशः। अस्ति परस्तराम् इति - सप्तदशः। अस्त्य् एव परस्तराम् इत्य् - एकविंशः। श्रान्त एनद् गच्छेद् इति त्रिणवः। आसायैनद् इति त्रयस्त्रिंशः। अथ यथैकां वा द्वे वान्तरोष्यैव तद् यच् छन्दोमाः। क्षत्रं वा एते साम्नां यद् बृहद्रथन्तरे। क्षत्रिय उ वा अरण्यस्यातिनेता। तद् यत्र वै क्षत्रेणारण्येनैति, यो वै तत्र तं दस्युर् जानाति, यद् यत् स्याल्वं वा मधु वा भवति, तेनास्मा आविर्भवति। अथ ये ऽन्ये नंष्ट्राः परिपन्थिनः, पराञ्चस् ते कक्षं गहनान्य् अभ्यवयन्ति। स यथा क्षत्रियेण सहाबिभ्यद् अरण्यम् अतीयाद्, एवम् एवैतद् बृहद्रथन्तराभ्याम् अतियन्ति। अथो एष वाव देवयानः पन्था यत् पृष्ठ्यष् षडहः। ते देवा एतेन देवयानेन पथैतं स्वर्गं लोकं गत्वान्वागमान् मनुष्याणाम् अबिभयुः। ते होचुर् उप तज् जानीत यथा नो मनुष्या नान्वागच्छान् इति। त एतान् यज्ञमुहो रक्षांसि प्रत्यौहन्। तद् यद् दीक्षितो मीयते यद् रुध्यते, एते हैव तत् कुर्वन्ति। तद् बृहद्रथन्तरे एवातिनयतः। तान् यान् एते घ्नन्त्य्, अनेत्रान् हैव तान् घ्नन्ति, ये बृहद्रथन्तरे अवसृजन्ति। तस्माद् बृहद्रथन्तरे नावसृज्ये॥2.423॥


अत ह स्माह नगरी जानश्रुतेयो - वृकस्य चरतस् सर्पणम् इति। को वृक इति। प्रजापतिर् इति। कः प्रजापतिर् इति। संवत्सर इति। तस्य किं सर्पणम् इति। अहोरात्रे इति। के अहोरात्रे इति। बृहद्रथन्तरे इति। एताभ्यां ह वा एष एतत् सर्पति। तौ प्राणापानौ, ताव् इमौ लोकौ, यद् दैव्यं मिथुनम्। तौ हैतत् संवत्सरस्यैव पादाव् आरभ्य यन्ति। ते स्वस्त्य् अरिष्टा उदृचम् अश्नुवते।

अथ यद् वो ऽवोचम् अच्युतं स्म यज्ञस्य मा च्यावयतेति, वामदेव्यम् एव वस् तद् अवोचम् इति। एतद् ध वै यज्ञस्याच्युतं यद् वामदेव्यम्। प्राणो हि वामदेव्यम्। प्राणान् नेद् अवच्छिद्यामहा इति।

अथ यद् वो ऽवोचं यज्ञस्य स्म श्वस्तनम् उपेतेति गौरिवीतम् एव वस् तद् अवोचम् इति। एतद् ध वै यज्ञस्य श्वस्तनं यद् गौरिवीतं, प्रजा श्वस्तनं, पशव श्वस्तनं, स्वर्गो लोक श्वस्तनम्। स यथा क्षेत्रज्ञो ग्रामं धावयेद् - अदस् सुगं तेन यास्यामो , ऽदस् सुतीर्थं तेन तरिष्यामो, ऽदस् सुवसं तद् वत्स्याम इत्य्, एवम् एतौ गौरिवीतस्योदासाव् अवसानदर्शौ चरतः। अथो यथा सोमप्रवाकस् सोमं प्राहैवम् एतौ गौरिवीतस्योदासौ देवेभ्यस् सोमं प्राहतुः। प्रोक्तसोमो ह स तां रात्रिं वसति यस्मिन्न् अहनि गौरिवीतं भवति। अथो हैनं देवा ईक्षन्ते - धावत श्वो यष्टेति। तद् यद् एकाहे गौरिवीतं न कुर्वन्ति, नेद् देवान् लोपयामहा इति॥2.424॥


अथ यद् वो ऽवोचं - वाचं स्म सत्यवतीम् उपेतेति - पुरोजिती वो अन्धस इत्य् एताम् एव वस् तद् अनुष्टुभम् अवोचम् इति। एषा वै वाक् सत्यवती यद् एषानुष्टुप्। अनुष्टुप् पूर्वा भवति, गायत्र्या उत्तरे। वाग् वा अनुष्टुप्, प्राणो गायत्री। एतद् वै वाचस्सत्यं यत् प्राणः। सैषा वाक् सत्यवती। अथो यथान्यौ नवतरौ चक्राव् उपास्येद् एवम् एवैताम् अनुष्टुभं त्र्यहमुखेषु पर्याहरन्ति, स्वर्गस्य लोकस्य समष्ट्यै। तस्माद् एषैवानुष्टुप् कार्या।

अथ यद् वो ऽवोचं वर्षिष्ठान् स्माजौ युङ्ध्वम् इत्य् अग्निष्टोमसामान्य् एव तस्माद् अवोचम् इति। एते ह वै वर्षिष्ठा आजौ युज्यन्ते यद् अग्निष्टोमसामानि यानि वै तान्य् अक्ष्यन्त्यहानि।

अथ यद् वो ऽवोचम् उत्तरावतीं स्म श्रियम् उपेतेति पृ्ष्ठान्य् एव वस् तद् अवोचम् इति। एषा ह वा उत्तरावती श्रीर् यत् पृष्ठानि - त्रिवृत् पञ्चदशम् सप्तदशम् एकविंशं त्रिणवम् इत्य् आ त्रयस्त्रिंशाद् उत्क्रामन्ति।

अथ यद् वो ऽवोचं स्वर्गे स्म लोके प्रतितिष्ठतेति - यज्ञायज्ञीयं स्म वो ऽग्निष्टोसामास्त्व् इत्य् एव वस् तद् अवोचम् इति। एष ह वै स्वर्गो लोको यद् यज्ञायज्ञीयम्, असाव् आदित्य एकविंशः। एतस्मिन्न् एव तत् स्वर्गे लोके ऽन्ततः प्रतितिष्ठन्ति॥2.425॥


अथ यद् वो ऽवोचं ग्रामात् स्मारण्यं मेतेत्य् - आहार्याणि स्म सामानि माभिध्यायतेत्य् एव वस् तद् अवोचम् इति। स यथा ग्रामाद् ग्रामं संव्रजेद् अबिभ्यद् एवं तद् यद् अग्निष्टोमसामानि। अथ यथारण्याद् अरण्यं यन् स कण्टकेन वा शलाकया वा परितृण्ण आगच्छेद्, अथो इयतो नो ऽव्यात्सुर् इयन्तो विविध्यमानानाम् अमुष्महीत्य् एवं तद् यद् आहार्याणि सामानि। तस्माद् आहार्याणां साम्नां नाशयितव्यानि।

अथ यद् वो ऽवोचं ज्ञानात् स्माविर्भवान् मेतेति, सुज्ञानम् एव वस्तद् अवोचम् इति।

अथ यद् वो ऽवोचं दैव्यात् स्म विवाहान् मेतेति, श्यैतनौधसे एव वस् तद् अवोचम् इति।

अथ यद् वो ऽवोचं यज्ञात् स्म मेतेति, श्रद्धा स्म वो मा व्यैद् इत्य् एव वस् तद् अवोचम् इति। एषा ह वै देवानां राज्ञी यच् छ्रद्धा। सैषा प्रातर् उपक्रम्य तिष्ठति। तां देवा उपतिष्ठन्ते - याद्रीच्य् एष्यति तद्र्यञ्च एष्याम इति। तस्यै सर्वे देवा अनुवर्त्मानस् सायं जुषन्ते। तम् आविशति, स जुहोति, स यजते। तद् देवा उपजीवन्ति।

एतां हैभ्यस् तत् संवत्सरे ऽरिष्टिम् उवाच। ते य एवं विद्वांसस् संवत्सरम् उपयन्ति, स्वस्त्य् एवारिष्टा उदृचम् अश्नुवते॥2.426॥


पुरुषं वावैतद् आसते यत् संवत्सरम्। पुरुषो वै प्रजापतिः, प्रजापतिस् संवत्सरः। तम् एवैतद् ईप्सन्त आसत आत्मानं यज्ञं कृत्वा। तस्य पादाव् एव प्रायणीयो ऽतिरात्रः। तयोर् यद् अधस्ताच् शुक्लं तद् अह्नो रूपं, यद् उपरिष्टात् कृष्णं तद् रात्रेर् नखान्य् एव नक्षत्राणाम् इमान्य् एव चत्वार्य् ऊर्वष्ठी वान्यारम्भणीयम् अहर् अयम् अभिप्लवो ऽयं पृष्ठ्यो ऽयम् इतो ऽर्वाचीनो ऽभिजिद् अयं विश्वजिद् इमे त्रय स्वरसामान इमे त्रयो ऽयं विषुवान् इदं महाव्रतीयम् अहर् अयम् उदयनीयो ऽतिरात्रः। इदम् अह्नो रूपम् इदं रात्रेर् नखान्य् एव नक्षत्राणाम् । तम् एतं पुरुषं प्रजापतिं संवत्सरम् आप्नुवन्त्य् आत्मानम् एव यथाङ्गम्॥2.427॥


ते मनोमयाः प्राणमयाश् चक्षुर्मयाः श्रोत्रमया वाङ्मया ऋङ्मया यजुर्मयास् साममया ब्रह्ममया हिरण्मया अमृतास् संभवन्ति। देवासुरा अस्पर्धन्त। ते देवाः प्रजापतिम् उपाधावन् - जयामासुरान् इति। सो ऽब्रवीन् न वै मां यूयं वित्थ नासुराः। यद् वै मां यूयं विद्यात ततो वै यूयम् एव स्यात परासुरा भवेयुर् इति। तद् वै ब्रूही्त्य् अब्रुवन्। सो ऽब्रवीत् - पुरुषः प्रजापतिस् संवत्सर इति मोपाद्ध्वम्। ततो वै यूयम् एव भविष्यथ परासुरा भविष्यन्तीति। तं - पुरुषः प्रजापतिस् संवत्सर इत्य् - उपासत, ततो वै देवा अभवन् परासुराः। स यो हैवं विद्वान् - पुरुषः प्रजापतिस् संवत्सर इत्य् - उपास्ते भविष्यत्य् आत्मना, परास्य द्विषन् भ्रातृव्यो भवति॥2.428॥


अथाधिदैवतम्। अयम् एव लोकः प्रायणीयो ऽतिरात्रः। तस्य यच् छुक्लं तद् अह्नो रूपं, यत् कृष्णं तद् रात्रेश्, चित्राण्य् एव नक्षत्राणाम्। संवत्सर एव स्वर्गो लोक, आरम्भणीयम् अहर्, ब्रह्माभिप्लवः, क्षत्रं पृष्ठ्यो, ऽग्निर् अभिजिद्, विश्वे देवा स्वरसामान, आदित्यो विषुवान्, इन्द्रो विश्वजिद्, अहोरात्रे एव गोआयुषी, लोका एव द्वादशाहस्याहानि, प्रजापतिर् एव महाव्रतीयम् अहर्, असाव् एव लोक उदयनीयो ऽतिरात्रः। इदम् अह्नो रूपम् इदं रात्रेर् नक्षत्राण्य् एव नक्षत्राणाम्॥2.429॥


ते सतिसदो ह वा अन्ये सत्रसदो ऽन्ये। ते यां प्रायणीयम् अतिरात्रम् उपेत्य वसन्त्य् अस्मिन्न् एव तां लोके वसन्ति। तद् यद् अस्मिन् लोके ऽन्नाद्यं तद् एव तेनावरुन्धते। अथो ह विद्युर् अस्मिन्न् इदम् एतर्हि लोके स्मस् तेषां नो न का चनार्तिर् अस्तीति। अथ याम् आरम्भणीयम् अहर् उपेत्य वसन्ति संवत्सर एव तां स्वर्गे लोके वसन्ति। तद् यत् संवत्सरे स्वर्गे लोके ऽन्नाद्यं तद् एव तेनावरुन्धते। अथो ह विदुस् संवत्सर इदम् एतर्हि स्वर्गे लोके स्मस् तेषां नो न का चनार्तिर् अस्तीति। अथ याम् अभिप्लवम् उपेत्य वसन्ति ब्रह्मण्य् एव तां वसन्ति। तद् यद् ब्रह्मण्य् अन्नाद्यं तद् एव तेनावरुन्धते। अथो ह विद्यु(र्) ब्रह्मणीदम् एतर्हि स्मस् तेषां नो न का चनार्तिर् अस्तीति। अथ यां पृष्ठ्यम् उपेत्य वसन्ति क्षत्र एव तां वसन्ति। तद् यत् क्षत्रे ऽन्नाद्यं तद् एव तेनावरुन्धते। अथो ह विद्युः क्षत्र इदम् एतर्हि स्मस् तेषां नो न का चनार्तिर् अस्तीति। अथ याम् अभिजितम् उपेत्य वसन्त्य् अग्नाव् एव तां वसन्ति। तद् यद् अग्नाव् अन्नाद्यं तद् एव तेनावरुन्धते। अथो ह विद्युर् अग्नाव् इदम् एतर्हि स्मस् तेषां नो न का चनार्तिर् अस्तीति। अथ यां स्वरसाम्न उपेत्य वसन्ति विश्वेष्व एव तां देवेषु वसन्ति। तद् यद् विश्वेषु देवेष्व अन्नाद्यं तद् एव तेनावरुन्धते। अथो ह विद्युर् विश्वेष्व् इदम् एतर्हि देवेषु स्मस् तेषां नो न का चनार्तिर् अस्तीति। अथ यां विषुवतम् उपेत्य वसन्त्य् आदित्य एव तां वसन्ति। तद् यद् आदित्ये ऽन्नाद्यं तद् एव तेनावरुन्धते। अथो ह विद्युर् आदित्य इदम् एतर्हि स्मस् तेषां नो न का चनार्तिर् अस्तीति। अथ यां विश्वजिम् उपेत्य वसन्तीन्द्र एव तां वसन्ति। तद् यद् इन्द्रे ऽन्नाद्यं तद् एव तेनावरुन्धते। अथो ह विद्युर् इन्द्र इदम् एतर्हि स्मस् तेषां नो न का चनार्तिर्अस्तीति। अथ यां गोआयुषी उपेत्य वसन्त्य् अहोरात्रयोर् एव तां वसन्ति। तद् यद् अहोरात्रयोर् अन्नाद्यं तद् एव तेनावरुन्धते। अथो ह विद्युर् अहोरात्रयोर् इदम् एतर्हि स्मस् तेषां नो न का चनार्तिर् अस्तीति। अथ यां द्वादशाहस्याहान्य् उपेत्य वसन्ति लोकेष्व् एव तां वसन्ति। तद् यल् लोकेष्व् अन्नाद्यं तद् एव तेनावरुन्धते। अथो ह विद्युर् लोकेष्व् इदम् एतर्हि स्मस् तेषां नो न का चनार्तिर् अस्तीति। अथ यां महाव्रतीयम् अहर् उपेत्य वसन्ति प्रजापताव् एव तां वसन्ति। तद् यत् प्रजापताव् अन्नाद्यं तद् एव तेनावरुन्धते। अथो ह विद्युः प्रजापताव् इदम् एतर्हि स्मस् तेषां नो न का चनार्तिर् अस्तीति। अथ याम् उदयनीयम् अतिरात्रम् उपेत्य वसन्त्य् अमुष्मिन्न् एव तां लोके वसन्ति। तद् यद् अमुष्मिन् लोक ऽन्नाद्यं तद् एव तेनावरुन्धते। अथो ह विद्युर् अमुष्मिन्न् इदम् एतर्हि लोके स्मस् तेषां नो न का चनार्तिर् अस्ति॥2.430॥