← कण्डिका ४२१-४३० जैमिनीयं ब्राह्मणम्/काण्डम् २
कण्डिका ४३१-४४०
[[लेखकः :|]]
कण्डिका ४४१-४४२ →

ते सतिसदो ह वा अन्ये सत्रसदो ऽन्ये। सत्येवान्ये सीदन्ति सत्रम् अन्य आसते। ते हैव सतिसदो य एवं विद्वांसो दीक्षन्ते। एतासु हि देवतासु सति सीदन्तो यन्ति। ते ह ते सर्वं पाप्मानम् अपघ्नते। अथ य एते शिखाच्छिन्नाः प्रसर्पम् इच्छमाना आवेष्टन्ते ते हैव सत्रसदः। य एवं विद्वांसम् उपवदति यथैता देवता ऋत्वानीयाद् एवं नेत्य् एतासु ह्य् एवैनं देवतासु प्रपन्नम् एतासु वसन्तम् उपवदति तस्य हैतस्य नैव का चनार्तिर् अस्ति य एवं वेद। य एवैनम् उपवदति स आर्तिम् आर्च्छति।

तानि वा एतानि संवत्सरस्य दशैवाहान्य् - अतिरात्राव् आरम्भणीयमहाव्रतीये अहनी पृष्ठ्याभिप्लवौ विश्वजिदभिजितौ स्वरसामानश् च विषुवांश् च। प्रवतिर् ह कौशान्तेयः कुसुर्विन्दस्यौद्दालकेर् ब्रह्मचार्य् आस। तं होवाचां सोम्य सूतपुत्र, कति ते पिता संवत्सरस्याहान्य् अमन्यतेति। दशेति होवाच। दश वावेति होवाच - दशाक्षरा विराड्, अन्नं विराड्, वैराजो यज्ञः। कत्य् एवामन्यतेति। नवेति होवाच। नव वावेति होवाच। नव वै पुरुषे प्राणाः। प्राणैर् उ यज्ञस् तायते। कत्य् एवामन्यतेति । अष्टाव् इति होवाच। अष्टौ वावेति होवाच। अष्टाक्षरा गायत्री। गायत्रो यज्ञः। कत्य् एवामन्यतेति। सप्तेति होवाच। सप्त वावेति होवाच। सप्त वै छन्दांसि, छन्दोभिर् यज्ञस् तायते। कत्य् एवामन्यतेति। षड् इति होवाच। षड् वावेति होवाच। षड् वा ऋतवस् संवत्सरः। संवत्सरो यज्ञः। कत्य् एवामन्यतेति। पञ्चेति होवाच। पञ्च वावेति होवाच। पांक्तो यज्ञः। पांक्ताः पशवः। पशवो यज्ञः। कत्य् एवामन्यतेति। चत्वारीति होवाच। चत्वारि वावेति होवाच। चतस्रो दिशश् , चतुष्पदाः पशवश्, चत्वारि छन्दांसि यज्ञवाहः - गायत्री त्रिष्टुब् जगत्य् अनुष्टुप्। कत्य् एवामन्यतेति। त्रीणीति होवाच। त्रीणि वावेति होवाच। त्रिषवणो यज्ञस्, त्रयः प्राणापानव्यानास्, त्रय इमे लोकाः। कत्य एवामन्यतेति । द्वे इति होवाच। द्वे वावेति होवाच। अहोरात्राव् एवेति। द्वाव् इमौ लोकाव् आविष्टमाव् इव, द्वौ प्राणापानौ, द्विपात् पुरुषः। कत्य् एवामन्यतेति। एकम् इति होवाच। एकं वावेति होवाच। अहर् एवेति। तद् इदम् अहर् अभूद्, अह श्वो भविता। तद् एतद् अहर् अहर् इत्य् एव प्रोच्यते। सा हैषा संवत्सरस्य प्रतिष्ठा यद् अहः। स यो हास्यैतां प्रतिष्ठां वेद, प्रतितिष्ठति। एषो एवास्यैकता। स यो हास्यैताम् एकतां वेदैकधा हैनं भूत्वा श्रीस् सचते। तद् आहुर् भूतं भूया3भविष्या3द् इति। भूतम् एव भूयो भविष्यत इति ब्रूयात्। भूता इमे लोका भूतो ऽयम् अग्निर् वायुर् असाव् आदित्य इन्द्रश् चन्द्रमाः। एते वै भूतस्य भविष्यतश् चेशते। तस्माद् भूतम् एव भूयो भविष्यत इति॥2.431॥


अथैष वैश्वानरः प्रायणीयो ऽतिरात्रः। तस्यैषोर्ध्वा क्लृप्ति स्वर्ग्या। तस्य रथन्तरं पृष्ठं भवति, वामदेव्यं मैत्रावरुणसाम, बृहद् आर्भवे पवमाने। इदं वै रथन्तरम्, अन्तरिक्षं वामदेव्यम्, अद एव बृहत्। सैषोर्ध्वा कलृप्ति स्वर्ग्या। तया हैतया क्लृप्त्योर्ध्वं स्वर्गं लोकं रोहन्ति। अथो हैषाम् एतद् एव साम क्लृप्तं कृत्स्नं युक्तं यज्ञं वहति॥2.432॥


तस्य गायत्रम् एव हिंकारो, रथन्तरं प्रस्तावो, वामदेव्यम् उद्गीथो, बृहत् प्रतिहारो, यज्ञायज्ञीयं निधनम्। एकैकम् उ ह वा एतेषां स्वर्गस्य लोकस्येशे। अश्नुते स्वर्गं लोकं य एवं वेद। अथो हैतद् एवार्क्यम्, एतन् महाव्रतम्। तस्य गायत्रम् एव शिरो, बृहद्रथन्तरे पक्षौ, वामदेव्यम् आत्मा, यज्ञायज्ञीयं पुच्छम्। स यावद् अर्क्यवता महाव्रतवतावरुन्द्धे तावद् अवरुन्द्धे य एवं वेद। अथो हैषायुष्यैव क्लृप्तिः। आयुर् वै गायत्रं, विश्वायू रथन्तरं, समायुर् वामदेव्यं, सर्वायुर् बृहद्, अत्यायुर् यज्ञायज्ञीयम्। आयुष्मन्तो ह भवन्त्य् एनया तुष्टुवानाः। अथो हैषाम् एतान्य् एव पञ्च ज्योतींषीद्धान्य् एषु लोकेषु दीप्यन्ते - ऽग्निः पृथिव्यां, वायुर् अन्तरिक्ष, आदित्यो दिवि, चन्द्रमा नक्षत्रेषु, विद्युद् अप्सु। अग्निर् एव रथन्तरस्य, वायुर् वामदेव्यस्य, आदित्यो बृहतश्, चन्द्रमा गायत्रस्य, विद्युद् यज्ञायज्ञीयस्य। आपो हि यज्ञायज्ञीयम्। एतान्य् एव पञ्च ज्योतींषीद्धान्य् एषु लोकेषु दीप्यन्ते॥2.433॥


तस्य वा एतस्याग्निष्टोमस्य सोक्थकस्य द्वे त्रयः पञ्चाशे शते स्तोत्रिया भवन्ति। अथ रात्रेस् सह राथन्तरेण सन्धिनैकान्ननवतिशतं स्तोत्रिया भवन्ति। त्रीणि तानि पुंसो ऽतिरिक्तानि यैस् स प्रजनयति, द्वे ते स्त्रिया ऊने यतस् सा प्रजायते। पुंसो वा एतद् रूपं यद् अह, स्त्रियै रात्रिः। तद् इदं पुंसो ऽतिरिक्तम् अमुष्मिन् रात्र्या ऊने दधाति मिथुनत्वाय प्रजनननाय। प्र मिथुनेन जायते य एवं वेद। अथ ये द्वे स्तोत्र्ये ऽतिरिच्येते आण्डाव् एव ताव् अतिरिच्येते। ते बृह्द्रथन्तरे युक्ते यज्ञं वहतः। स यत्र षोडशिनं कुर्युर् अर्शो वैषां जायेत वर्ध्म वा। यद् ध्य् एतेषु त्रिषु पुंसो ऽतिरिक्तेषूप चतुर्थं जायेत, अर्शो वास्याजनि वर्ध्म वेति वा ब्रूयुः। एवम् एव यत् स्त्रियै जायेत। स यो ऽत्र षोडशिनं कुर्वाणान् ब्रूयाद् अर्शो वैषां जनिष्यते वर्ध्म वेति तथा हैव स्युः। तस्माद् अत्र षोडशी न कार्यः॥2.434॥


स वा एषो ऽतिरात्र ऋते षोडशिन एकविंशतिं चैकविंशान् संपद्यत एकां च स्तोत्र्याम्। ततो य एकविंशतिर् एकविंशा आदित्य एव सः। आदित्यस्य वा अमुष्य लोकस्यैश्वर्यम् आधिपत्यम्। गच्छत्य् अमुष्य लोकस्यैश्वर्यम् आधिपत्यं य एवं वेद। स यद् अत्र षोडशिनं कुर्युर् द्वाविंशतिश् चैकविंशास् संपद्येरन्न् एका च स्तोत्र्या। संपदं लोभयेत्। स उ एवैकान्नपञ्चाशतं त्रिवृतो ऽभिसंपद्यत एकां च स्तोत्र्याम्। ततो य एकान्नपञ्चाशतं त्रिवृतो ऽग्रिर् एव सः। अग्नेर् वा अस्य लोकस्यैश्वर्यंम् आधिपत्यम्। गच्छत्य् अस्य लोकस्यैश्वर्यम् आधिपत्यं य एवं वेद। स यद् अत्र षोडशिनं कुर्युर् एकपञ्चाशच् च त्रिवृतस् संपद्येरंश् चतस्रश् च स्तोत्र्याः। संपदं लोभयेयुः। नैवेतरां संपदम् उपपद्यत नेतराम्। देवतीर्थं वा एतद् यद् एष वैश्वानरः प्रायणीयो ऽतिरात्रः। तस्मिन्न् एष स्थाणुः क्रियते यत् षोडशी। वैराजो वै षोडशी, विराजि विराजि प्रतिष्ठितः। स यत्रैवैतं विराजं संपद्यमानं मन्येत तद् एवैतेन स्तोतव्यम्॥2.435॥


अथैतच् चतुर्विंशम् आरम्भणीयम् अहः। तस्यैषोर्ध्वा क्लृप्ति स्वर्ग्या। तस्य रथन्तरं माध्यन्दिने भवत्य्, अथ दैर्घश्रवसम्, अथ नौधसम्। इदं वै रथन्तरम्। अन्तरिक्षं दैर्घश्रवसम्। वामदैव्यं ह्य् एतन् निधानेन। अद एव नौधसम्। बृहतो ह्य् एषा तनूः। सैषोर्ध्वा क्लृप्ति स्वर्ग्या। तया हैतया क्लृप्त्योर्ध्वा एव स्वर्गं लोकं रोहन्ति। तस्य हैतस्याह्न एके रथन्तरम् एव पृष्ठं कुर्वन्ति, यथैवातिरात्रस्य रथन्तरं पृष्ठं भवति तथा। पराङ् वै स्वर्गो लोकः। पराञ्च एतं स्वर्गं लोकं रोहाम। प्रत्यवरोहस् स यद् रथन्तरं माध्यन्दिने स्यात्। अथैवम् अप्रत्यवरूढम् इति वदन्तः। तद् उ ह तत् पराङ् इवानायुष्यम् इव। स य एनांस् तथा चक्रुषो ऽनुव्याहरेद् इति वेति वा भविष्यन्तीति, तथा हैव स्युः। तस्माद् उ बृहद् एव पृष्ठं स्यान्, माध्यन्दिने रथन्तरम्। तस्यैषा तनूः। सैषा समीची क्लृप्ति स्वर्ग्या॥2.436॥


तस्य बृहत् पृष्ठं भवति, वामदेव्यं मैत्रावरुणसाम, श्यैतं ब्रह्मसाम। अदो वै बृहद्, अन्तरिक्षं वामदेव्यम्, इदम् एव श्यैतम्। रथन्तरस्यैषा तनूः। सैषा समीची क्लृप्ति स्वर्ग्या। तया हैतया क्लृप्त्या सम्यञ्च एव स्वर्गं लोकं रोहन्ति। सम्यञ्चो वै प्राणापानव्यानाः। आ च परा च संचरन्त्य् अयातयामानः। आयुष्मन्तो ह भवन्त्य् एनया तुष्टुवानाः। तस्य द्वयानि स्तोत्राणि भवन्ति - चतुर्विंशान्य् एकानि षट्त्रिशान्य् एकानि। ततो यानि चतुर्विंशानि - चतुर्विंशत्यर्धमासो वै संवत्सरो - अर्धमासश एव तैस् संवत्सरम् आप्नुवन्ति। अथ यानि षट्त्रिंशानि - षट्त्रिशदक्षरा वै बृहती। बृहती स्वर्गो लोकस् साम्राज्यं - बृहत्याम् एव तत् स्वर्गे लोके साम्राज्ये प्रतितिष्ठन्तो यन्ति। अथो हैषाम् एतेनैव षट्त्रिंशेन स्तोमे पर्वशस् संवत्सर आरब्धो भवति। द्वादश वै संत्सरस्य पौर्णमासीर् द्वादशाष्टका द्वादशामावास्याः। तद् एवैतेन षड्त्रिंशेन स्तोमेन पर्वशस् संवत्सरम् आरभन्ते॥2.437॥


तस्यैतौ श्लोकाव् -
अयुजो युक्ताः प्रवहन्त्य् अग्रे ततो युग्मन्तो अनुसंवहन्ति।
त एकछन्दोभिस् संवत्सरा द्वादश परिसर्पन्ति मासः॥
द्वादशस्य मास उत्तमे ऽहन् षट्त्रिंशं ह दध्रिरे व्यावृत्।
एकं ततो युग्मभिर् व्ययुञ्जताध्य् अन्य आयन् सुवर् अन्ये परायन्॥
इति। तस्य द्वादश स्तोत्राणि भवन्ति। तेनाग्निष्टोमः। तान्य् उ एव द्वादश सन्ति पञ्चदश चतुर्विंशानि स्तोत्राणि भवन्ति। तेनोक्थ्यः। स वा एषो ऽग्निष्टोमस् सन्न् उक्थ्य, उक्थ्यस् सन्न् अग्निष्टोमः। उभौ ह तौ कामाव् उपाप्नोति यश् चाग्निष्टोमे यश चोक्थ्ये य एवं वेद॥2.438॥


अथैते ज्योतिर् गौर् आयुर् इति स्तोमा भवन्ति। गौर् आयु स्कन्दत्। ततो ज्योतिर् अजायत। अयं वै लोक आयुर्, असौ गौर्, इदम् वान्तरिक्षं ज्योतिः। तम् एतं पुरस्ताद् अकुर्वातां यथा पुत्रम् एवम्। इतो वा अयम् ूर्ध्वो लोको ऽर्वाङ् असाव् अमुतः। तद् इदम् एनयोः पुरस्ताज् ज्योतिः पर्यूढम्। तेन पश्यामः। तौ योगम् उपप्रयन्ताव् अन्तम् अभि ज्योतिर् व्युदौहताम्। स यथा पितरौ पुत्रं पूर्वं यन्तं पश्चाद् अन्वियातां तादृक् । तद् एतन् मिथुनी स्तोमा भवन्ति यद् युज्यन्ते। मध्ये वै जायापत्योः पुत्रश् शेते। तौ यथा मिथुनीभविष्यन्ताव् इत्थाद् वेत्थाद् वा पुत्रं परिहरेयातां तादृग् एवैतत्। त एत ऊनातिरिक्ता मिथुनाः प्रजनय स्तोमाः॥2.439॥


अथ ह वै पणयो नामासुरा देवानां गोरक्षा आसुः। ताभिर् अहापातस्थुः। ता ह रसायां निरुध्य वलेनापिदधुः। ते देवा अलिक्लवम् ऊचुस् सुपर्णेमा नो गा अन्विच्छेति। तथेति। स हानुप्रपपात। ता हान्वाजगाम रसायाम् अन्तर् वलेनापिहिताः। तस्मै हान्वागताय सर्पिः क्षीरम् आमिक्षाम् दधीत्य् एतद् उपनिदधुः। तस्य ह सुहित आस। तं होचुस् सुपर्णैष एव ते बलिर् भविष्यत्य् एतद् अन्नं मा नः प्रवोच इति। स ह पुनर् आपपात। तं होचुस् सुपर्णाविदो गा इति। का कीर्तिश् चिद् गवाम् इति होवाच। एषैव कीर्तिर् गवाम् इति तस्य हेन्द्रो गलम् उत्पीळयन्न् उवाच गोष्व् एवाहं किल तवोषुषो मुखम् इति। स ह दधिद्रप्सं वामिक्षां वोदास। सो ऽयं बभूव यो ऽयं वसन्ता भूमिकपठुर् जायते। तं ह तच् छशापाश्लीलं जाल्म ते जीवनं भूयाद् यो नो गा अनुविद्य ता न प्रावोच इति। तस्य हैतद् ग्रामस्य जघनार्धे यत् पापिष्ठं तज् जीवनम्॥2.440॥