जैमिनीयं ब्राह्मणम्/काण्डम् ३/१११-१२०
← कण्डिका १०१-११० | जैमिनीयं ब्राह्मणम्/काण्डम् ३ कण्डिका १११-१२० [[लेखकः :|]] |
कण्डिका १२१-१३० → |
तानि सर्वाणि छन्दांसि संभृत्य तैर् इन्द्रो वृत्रम् अहन्। यन् महान्तम् अहंस् तस्मान् महानाम्नयः। यद् अशक्नोत् तस्माच् छक्वर्यः। यन्मट्वियम् अकरोत् तस्मान् मट्वीः। यत् सीमानम् अभिनत् तस्मात् सिमाः। अथो हैनास् सीमत एव ससृजे। सिम इति वै श्रेष्ठम् आचक्षते। सिम श्रेष्ठ स्वानां भवति य एवं वेद। ता ह वा एता इन्द्रा एव नाम। इन्द्रो वै यत्र महानाम्नीषु मिथुनत्वम् ऐच्छत, ता एनम् अब्रुवन् - स वै नः प्रयच्छेति। किम् इति। यत् त एतम् नामेति। ताभ्यस् तत् प्रायच्छत्। तस्माद् एता इन्द्रा नाम। एतद् ध वा आसां प्रियं गुह्यं नाम यद् इन्द्राः। स यो हासाम् एतद् विद्वान् परिहरत, आगामुकम् एनं प्रियं भवति पश्यते प्रियम्। तस्माद् एता महानाम्नय इति परोक्षम् आख्यायन्ते॥3.111॥
असा उ आव महान्। तस्यैताः प्रतिनाम्नयः। तस्यो एवैतन् नाम परिहरन्ति। सा यैषा पुरस्ताद् द्विपदोपधीयते पुरुष एव सः। अथ यान्य् उत्तराणि त्रीणि पदानि पशवस् ते। भसत् प्रथमा सक्थ्यौ द्वे। पराञ्च पशवस् संभवन्ति। तस्माद् भसत् प्रथमाख्यायते। अथ यान्य् उत्तराणि त्रीणि पदानि वत्सः प्रथमो ऽथोधो ऽथ पुरुषः। अथ यान्य् उत्तराणि त्रीणि पदानीमौ द्वौ शिरोग्रीवम्, एकम् अथ यद् उत्तमं पदम् उपश एव सः। पश्चेव द्वितीय आगच्छत् तस्माद् उत्तमा द्व्युपशैव प्रियस्य कुर्यात्। एतद् ध वा आसां प्रत्तम् अधीतम् उपजीवनीयम्। यद् वत्सः प्रथमो भवत्य् अथोधो ऽथ पुरुषः, प्रत्तं हैवास्याधीतम् उपजीवनीयं भवति। अथ यं कामयेत धीतम् अस्याप्रत्तम् अनुपजीवनीयं स्याद् इति - ॥3.112॥
- ऊधः प्रथमं कुर्याद् अथ वत्सम् अथ पुरुषम्। धीतं हैवास्याप्रत्तम् अनुपजीवनीयं भवति। अथ यं कामयेतापशु स्याद् इति वत्सम् अस्यान्तरियात्। पशवो वै वत्सः। पशून् एवास्यान्तरेति। अथ यं कामयेत रुद्रो ऽस्य पशूञ् छमयेद् इत्य् अन्तरा वत्सं चोधश् च पुरुषम् अवदध्यात्। रुद्रो वै पुरुषः। रुद्रम् एवास्य तद् गोष्ठे ऽवदधाति। सैषा मीमांसा। अथ यथैवासाम् इदं प्रज्ञातं स्तोत्रं तथैव स्तोतव्यम्। इयं वै प्रथमा महानाम्नी, तस्या अग्निर् उपशः। इयं द्वितीया, तस्यै वायुर् उपशः। असौ तृतीया, तस्यै सूर्याचन्द्रमसाव् उपशौ। तासां यो हृदावकिनो वेद त्रिर् विला हास्य गृहा भवन्ति तृप्ता इवारूक्षा अन्तरतः। एकारा ह वा आसां हृदावकिनः। तस्माद् धृद एकारम् उपावसेधं पशूंस् तर्पयन्ति। अथ य आसाम् अलंकारान् वेदालंकुर्वन्तो ऽस्यासते गृहेष्व् अंशुं रुक्मं निष्कं हस्तिनम् अश्वतरीरथम् अश्वरथम्। स्तोभा ह वा आसाम् अलंकाराः। ता अलंकुर्वन्न् इव शोभयन्न् इव गायेत्। उप हैनम् एतानि रूपाण्य् अक्रीतानि तिष्ठन्ते य एवं वेद॥3.113॥
आपो वै महानाम्नयः। तासाम् आदित्य एव वत्सः। तद् या ह वै प्राचीर् आपो धावन्त्य् एतम् एव ता उद्यन्तम् अभीप्सन्तीर् धावन्ति। अथ याः प्रतीचीर् धावन्त्य् एतम् एव ता अस्तं यन्तम् अभीप्सन्तीर् धावन्ति। तद् यत् पृच्छेयुर् या इमा आपो ऽहरहर् धावन्ति कम् एता अभीप्सन्तीर् धावन्तीति। एतम् इत्य् एव तत्र प्रतिवचनम्। अथो आहुर् वायुर् वै महानाम्नीनां वत्सः। एष हीमान् लोकान् इमा दिशः प्रतापयत इति। इम उ लोका महानाम्नयः। तस्मात् पुरोवाते वाति, वृष्ट्याम् आशासन्ते। यथा ह प्रत्ता न दुहीत तादृक् तद् यत् पुरोवाते वात्य् अथ न वर्षति। पशवो वै महानाम्नयः। गोष्ठ एव पुरीषम्। तद् आहुः पुरीषेणाग्रे स्तोतव्यम् अथ महानाम्नीभिः। आयतनं वा अग्रे ऽथ पशवः। आयतनं हि पशवो ऽभिसमायन्तीति। तद् उ वा आहुः पशूनां वै पुरीषं भवति। यद् वै पशवो न स्युर् न पुरीषं स्यात्। यदो वै पुरुषः पशून् विन्दते ऽथ स गोष्ठं पर्यस्यते गुप्त्यै। तस्मान् महानाम्नीभिर् एव पूर्वाभि स्तोतव्यम् इति॥3.114॥
तद् आहुस् सकृद एव संस्तुतासूपरिष्टात् पुरीषेण स्तोतव्यम् उत वै बहुतयाः पशवो नानात्यास् समानम् एव गोष्ठम् अभिसमायन्तीति। यद् द्वयीर् उ ह तथा प्रजा भवन्ति। अनुपर्यायम् एव पुरीषेण स्तोतव्यम्। तथा ह सर्वा व्रजवतीर् भवन्ति। ऐळानि पुरीषाणि भवन्ति। पशवो वा इळा, आयतनं पुरीषम्। आयतन एव तद् एतान् पशून् प्रतिष्ठापयन्ति। अप उपनिधाय स्तुवन्ति साम्नस् सर्वत्वाय। एतद् वै महानाम्नीनां सर्वं रूपं यद् आपः। ता उदिंगयेयू रूपसमृद्धतायै। तद् आहुः क्वेमा निनयेद् इति। तासाम् एषा मीमांसा - वसतीवरीष्व अवनीय सोमम् अभिषुत्य भक्षयेयुर् इति। मथितम् इव ह त्व् एषां भवति यातयाम। यातयाम्नीर् अयातयाम्नीष्व अवनयन्ति। अथो आहुस् तृतीयसवनीयान् एवाभिः पुरोडाशान् उपसृजेयुर् इति। यजमानो वै पुरोडाशो, ऽन्नम् आपः। अन्नेनैव तद् यजमानं समनक्ति। ईश्वरो ह तु यजमानम् उत्तरवयसे श्वः पामा वेत्तोः। कण्डूयिता इव हि भवन्ति। अथो आहुश् चात्वाल एव निनयेद् इति। योनिर् वै यज्ञस्य चात्वालं, रेत आपो योन्याम् एवैतद् रेतः प्रतिष्ठापयति। अनुष्ठ्यास्य रेतस् सिक्तं प्रजायते य एवं वेद॥3.115॥
तद् आहुर् विहृता अग्नयो भवन्ति, वास्तु परिशिष्यते, गर्भा अनुशोषुका स्युर्, यच् चात्वाले निनयेत्। आस्तावे निनयेद् इति। एष ह वा उद्गातुश् च यजमानस्य च धिष्ण्यो यद् आस्तावः। आयतनम् आस्तावः। आयतन एव तद् एतान् कामान् प्रतिष्ठापयन्ति। तासाम् अत्र यावत्कामं निनीय, अथान्तःपरिधि निनयते। तथा हैषां ता हुताश् चाहुताश् च भवन्ति। यथा ह वा इदं विदावन् प्राणाव् अनिरुक्ताव् एवम् एतौ धिष्ण्यौ सन्ताव् अनवगतौ। प्राणौ वा इमौ सन्ताव् अनपतृण्णौ धिष्ण्याव् एतौ सन्तौ न विह्रियेते॥3.116॥
असुराणां ह वा अग्र इमे लोका आसुः। उपजीविन इव हि देवा आसुस् तप एव श्रद्धाम् अन्वायत्ताः। ते ऽर्चन्तस् ताम्यन्तस् तेजो बलम् इन्द्रियं वीर्यम् आत्मस्व् अदधत। तद् एषाम् असुरा आदित्सन्त। तद् आदित्स्यमानम् अप्सु प्रावेशयन्, नेद् इदम् असुरा विन्दान्ता इति। तस्माद् इदम् अप्य् एतर्ह्य् अमित्रेष्व् आयत्सु वित्तम् उपगून्ति, नेद् इदम् अमित्रा विन्दान्ता इति। तद् अपैव देवेभ्यो ऽक्रामन्, नासुरान् प्राप्नोत्। ते देवा एतं संवत्सरश्रमम् अपश्यन्। तेनैनद् अभ्याश्राम्यन्। तद् ऊर्ध्वम् उपश्रयत। (त)द् दिवि स्पृष्टम् अतिष्ठत्। यद् दिवि स्पृष्टम् अतिष्ठत्, तत् स्पृष्टानां स्पृष्टत्वम्। स्पृष्टानि ह वै नामैतानि। तानि पृष्ठानीति परोक्षम् आख्यायन्ते। सर्वान् कामान् स्पृशति य एवं वेद। स यत्काम स्यात् संवत्सरं श्राम्येद्, अव ऐवैनद् रुन्द्धे। संवत्सरपरिमितो ह्य् एवैष यच् छ्रमः॥3.117॥
आपो वै देवानां पत्नय आसन्। ता मिथुनम् ऐच्छन्त। तासां वायुः पृष्ठे व्यवर्तत। ता गर्भम् अदधत। ता देवा अब्रुवन् सृजध्वम् इति। ता रथन्तरं प्रथमे ऽहन्न् असृजन्त। तद् रथघोषो ऽन्वसृज्यत। तस्माद् रथन्तरस्य स्तोत्रे रथघोषं कुर्वन्ति। ता अब्रुवन् - सृजध्वम् एवेति। ता बृहद् द्वितीये ऽहन्न् असृजन्त। तत् पर्जन्यस्य घोषो ऽन्वसृज्यत। तस्माद् बृहत स्तोत्रे दुन्दुभीन् उद्वादयन्ति। वर्षुकः पर्जन्यो भवति। ता अब्रुवन् सृजध्वम् एवेति। ता वैरूपं तृतीये ऽहन्न् असृजन्त। तद् ग्रामघोषो ऽन्वसृज्यत। तस्माद् वैरूपस्य स्तोत्रे ग्रामघोषं कुर्वन्ति। ता अब्रुवन् सृजध्वम् एवेति। ता वैराजं चतुर्थे ऽहन्न् असृजन्त। तद् अग्नेर् घोषो ऽन्वसृज्यत। तस्माद् वैराजस्य स्तोत्रे ऽग्निं मन्थन्ति। ता अब्रुवन् सृजध्वम् एवेति। ताश् शाक्वरं पञ्चमे ऽहन्न् असृजन्त। तद् अपां घोषो ऽन्वसृज्यत। तस्माच् छाक्वरस्य स्तोत्रे ऽप उपनिधाय स्तुवन्ति। ता अब्रुवन् सृजध्वम् एवेति। ता रैवतं षष्ठे ऽहन्न् असृजन्त। तत् पशुघोषो ऽन्वसृज्यत। तस्माद् रैवतस्य स्तोत्रे पशुघोषं कुर्वन्ति, वत्सान् मातृभिस् संवाशयन्ति। ता अब्रुवन् सृजध्वम् एवेति। एतावद् वावेत्य् अब्रुवन्। तद् एते ह वा आसाम् ऐन्द्रा घोषा वदन्ति। अस्मिन्न् ऐन्द्रा घोषास् सर्वा अस्मिन् पुण्या वाचो वदन्ति य एवं वेद। ते देवा वामदेव्यम् एव योनिं परिगृह्योर्ध्वा उदागाहन्त। तद् एतस्य पृष्ठ्यस्य षडहस्य मध्ये ह मायं न्यदधुः। तद् यानि ह वै स्तुतानि सामानि पश्चात्वं तेषां वामदेव्यम्, अथ यान्य् अस्तुतानि पुरस्त्वं तेषाम्। यो वै ग्रामस्य श्रेष्ठी बलिष्ठो भवति तेन पश्चात्वेन तेन पुरस्त्वेन यन्ति। अरिष्टेन यज्ञेन यजते य एवं वेद। एतस्माद् ध वा इदं युग्यौ न समवहनौ वहतो, ऽन्यतर एव वहीयान् भवति। तस्माद् वामदेव्यं पृष्ठम्। पृष्ठं हि प्रतिवहतीति। क्लृप्तिर् वा एषा शान्तिर् वा एषा प्रतिष्ठा वा एषैष वाव यज्ञो यद् वामदेव्यम्। तस्माद् येन येनाह्ना स्तुवन्ति तत् तद् अनुसर्पति कल्पयच् छमयत्॥3.118॥
असाव्य् अंशुर् मदायेत्य् असावीति सिमानां रूपम्।
अप्सु दक्षो गिरिष्ठाः।
श्येनो न योनिम् आसदत्॥
शुभ्रम् अन्धो देववातम् अप्सु धौतं नृभिस् सुतम्।
इत्य् अप्सुमतीर् भवन्ति। आपो ह्य् एतद् अहः।
स्वदन्ति गावः पयोभिः॥
आदि ईम् अश्वं न हेतारम् अशूशुभन्न् अमृताय।
इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। पशवो ह्य् एतद् अहः। मधो रसं सधमाद इति मद्वतीर् भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधति। ऐवैनद् एतेन प्याययन्ति। तासु गायत्रम् उक्तब्राह्मणम्। अथ सन्तनि। वाग् वा एषा प्रतता यद् द्वादशाहः। तां सन्तनिनैव संतन्वन्ति। प्राणा ह खलु वै सन्तनयः। प्राणैर् वाक् सन्तता। तद् यत् सन्तनि भवति प्राणानाम् एव सन्तत्यै, वाचं प्राणैस् सन्तनवामेति। इमे वै लोकास् सन्तनय, इम उ लोका महानाम्नयः। तद् यत् सन्तनि भवत्य् एषाम् एव लोकानां सन्तत्यै। सम् अस्मा इमे लोकास् तायन्ते य एवं वेद। अभि द्युम्नं बृहद् यश इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। जिन्वन् गविष्टये धिय इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। पशवो ह्य् एतद् अहः॥3.119॥
तासु च्यावनम्। च्यवनो वै भार्गवो वास्तुपस्य ब्राह्मणम् अवेत्। स पुत्रान् अब्रवीद् वास्तुपस्य वै ब्राह्मणं वेद। तं मा वास्तौ निधाय त्रिः पुनःप्रयाणं प्रयातेति। ते ऽब्रुवन् न शक्ष्याम, आक्रोशनवन्तो भविष्यामः। पितरम् अहासिषुर् इति नो वक्ष्यन्तीति। नेति होवाच, तेन वै यूयं वसीयांसो भविष्यथ, तेनो एव मम पुनर्युवताया आशा। हित्वैव मा प्रयातेति तान् अज्ञापयत्। तं सरस्वत्यै शैशवे निधाय त्रिः पुनःप्रयाणं प्रायन्। सो ऽकामयत वास्तौ हीनः - पुनर् युवा स्यां, कुमारीं जायां विन्देय, सह्स्रेण यजेयेति। स एतत् सामापश्यत्। तेनास्तुत॥3.120॥