जैमिनीयं ब्राह्मणम्/काण्डम् ३/१२१-१३०
← कण्डिका १११-१२० | जैमिनीयं ब्राह्मणम्/काण्डम् ३ कण्डिका १२१-१३० [[लेखकः :|]] |
कण्डिका १३१-१४० → |
तं तुष्टुवानं शर्यातो मानवो ग्रामेणाध्यवास्यत्। तं कुमारा गोपाला अविपाला मृदा शकृत्पिण्डैर् आसपांसुभिर् अदिहन्। सो ऽसंज्ञां शार्यात्येभ्यो ऽकरोत्। तन् न माता पुत्रम् अजानान्, न पुत्रो मातरम्। सो ऽब्रवीच् छर्यातो मानवः - किम् इहाभितः किं चिद् अद्राष्ट, यद् इदम् इत्थम् अभूद् इति। तस्मै होचुर् न नु ततो ऽन्यत् - स्थविर एवायं निष्ठावश् शेते। तम् अद्य कुमारा गोपाला अविपाला मृदा शकृत्पिण्डैर् आसपांसुभिर् अधिक्षन्। तत इदम् इत्थम् अभूद् इति ॥3.121॥
स होवाच - च्यवनो वै स भार्गवो ऽभूत्। स वास्तुपस्य ब्राह्मणं वेद। तं नूनं पुत्रा वास्तौ हित्वा प्रायासिषुर् इति। तम् आद्रुत्याब्रवीद् ऋषे, नमस् ते ऽस्तु। शार्यात्येभ्यो भगो मृळेति। अथ ह सुकन्या शार्यात्या कल्याण्य् आस। स होवाच - स वै मे सुकन्यां देहीति। नेति होवाच। अन्यद् धनं ब्रूष्वेति। नेति होवाच। वास्तुपस्य वै ब्राह्मणं वेद। तां म इहोपनिधायासायम् एवाद्य ग्रामेण याताद् इति। ते वै त्वा मन्त्रयित्वा प्रतिब्रवामेति। ते होचुर् मन्यत्रयित्वा - एकं वै द्वे त्रीणि परमम् अनया धनानि लभेमह्य् , एथैनयेह सर्वम् एव लप्स्यामहे। हन्तास्मा इमां ददामेति। तां हास्मै ददुः। तां होचुः - कुमारि, स्थविरो वा अयं निष्ठावो नालम् अनुसरणाय। यदैव वयं युनजामहा, अथान्वाधावताद् इति। सा हेयं युक्तं ग्रामम् अनुसरिष्यन्त्य् अनूत्तस्थौ। स होवाचाहे परिधाव सखायं जीवहायिनम् इति। सा यदीतीयाय यदीति - ॥3.122॥
- कृष्णसर्प उ हैवैनां प्रत्युत्तस्थौ। सा ह तद् एव निर्विद्योपविवेश। अथ हाश्विनौ दर्विहोमिणौ भिषज्यन्ताव् इदं चेरतुर् अनपिसोमौ। तौ हैनाम् एत्योचतुः - कुमारि, स्थविरो वा अयम् असर्वो नालं पतित्वनायावयोर् जायैधीति। नेति होवाच। यस्मा एव मा पितादात्, तस्य जाया भविष्यामीति। तद् धायम् आजुघोष। अथ हेमौ प्रेयतुः। स होवाच - कुमारि, को न्वे एष घोषो ऽभूद् इति। कुमारि, स्थविरो वा अयम् असर्वो नालं पतित्वनायावयोर् जायैधीति। सा त्वं किम् अवोच इति। नेत्य् अहम् अवोचं, यस्मा एव मा पितादात् तस्य जाया भविष्यामीति॥3.123॥
तद् धास्य प्रियम् आस। स सहोचाश्विनौ वै तौ दर्विहोमिणौ भिषज्यन्ताव् इदं चरतो ऽनपिसोमौ। तौ त्वैतद् एवागत्य श्वो वक्तारौ। तौ त्वं ब्रूताद् - युवं वा असर्वौ स्थो, यौ देवौ सन्ताव् असोमपौ स्थः। सर्वो वै मम पतिर् यस् सोमप इति। तौ वै त्वा वक्तारौ - कस् तस्येशे यद् आवम् अपिसोमौ स्यावेति। अयं मम पतिर् इति ब्रूतात्। तेनो एव मे पुनर्युवताया आशति। तौ नैनां श्वो भूत एत्यैतद् एवोचतुः। सा होवाच - युवं वा असर्वौ स्थो, यौ देवौ सन्ताव् असोमपौ स्थः। सर्वो वै मम पतिर् यस् सोमप इति। तौ होचतुः कस् तस्येशे यद् आवम् अपिसोमौ स्यावेति। अयं मम पतिर् इति होवाच॥3.124॥
तं होचतुर् - ऋषि ऽपिसोमौ नौ भगवः कुर्व् इति। तथेति होवाच। तौ वै नु मा युवं पुनर्युवानं कुरुतम् इति। तं ह सरस्वत्यै शैशवम् अभ्यवचकृषतुः। स होवाच - कुमारि, सर्वे वै सदृशा उदेष्यामो, ऽनेन मा लक्ष्मकेण जानीताद् इति। ते ह सर्व एव सदृशा उदेयुर् यत् कल्याणतमं रूपाणां तेन रूपेण। तं हेयं ज्ञात्वावबिभेदे - अयं मम पतिर् इति। तं होचतुर् ऋषि ऽकुर्वावं तव तं कामं यस् तव कामो ऽभूत्। पुनर्युवाभूः। आवं त्वं तथानुशाधि, यद् आवम् अपिसोमौ स्यावेति॥3.125॥
स होवाच - देवा वा एते कुरुक्षेत्रे ऽपशीर्ष्णा यज्ञेन यजमाना आसते। ते तं कामं नाप्नुवन्ति यो यज्ञे कामः। तद् यज्ञस्य शिरो ऽछिद्यत। तद् यद् दध्यंङ् आथर्वणो ऽन्वपश्यत् तं तद् गच्छतम्। स वां तद् अनुवक्ष्यति। ततो ऽपिसोमौ भविष्यथ इति। तद् यत् तद् यज्ञस्य शिरो ऽछिद्यतेति, सो ऽसाव् आदित्यः। स उ एव प्रवर्ग्यः। तौ ह दध्यञ्चम् आथर्वणम् आजग्मतुः। तं होचतुर्, ऋष उप त्वायावेति। कस्मै कामायायेति। एतद् यज्ञस्य शिरो ऽनुवक्ष्यावहा इति। नेति होवाच। इन्द्रो वै तद् अप्य् अपश्यत्। स माब्रवीद् - यदि वा इदम् अन्यस्मै ब्रूयाश् शिरस् ते छिन्द्याम् इति। तस्माद् बिभेमीति। स वै नाव् अनेनाश्वस्य शीर्ष्णानुब्रूहीति। तथेति होवाच। स वै नु वां संवदमानौ पश्यानीति। तौ हेमौ स्वं शिरो निधायेदम् अश्वस्य शिरः प्रतिसंधाय तेन ह स्म संवदमानाव् आसाते साम गायमानाव् ऋचं यजुर् अभिव्याहरन्तौ। ताभ्यां ह श्रद्धाय तेनाश्वस्य शीर्ष्णानूवाच॥3.126॥
तद् इन्द्रो ऽन्वबुध्यत - प्र हाभ्याम् अवोचद् इति। तस्याद्रुत्य शिरः प्राच्छिनद् इदम् अश्वशीर्षम्। अथ यद् अस्य स्वं शिर आसीत् तद् इमौ मनीषिणौ प्रतिसमधत्ताम्। तौ ह देवान् आजग्मतुर् अपशीर्ष्णा यज्ञेन यजमानान्। तान् होचतुर् अपशीर्ष्णा वै यज्ञेन यजमाना आध्वे। ते तं कामं नाप्नुथ यो यज्ञे काम इति। कस् तद् यज्ञस्य शिरो वेदेति। आवम् इति। तद् वै प्रतिसंधत्तम् इति। ताभ्यां वै नौ ग्रहं गृह्णीतेति। ताभ्याम् एतम् आश्विनं ग्रहम् अगृह्णन्। ताव् अब्रुवन् युवम् एवाध्वर्यू स्थस्, तौ तत् प्रजानन्ताव् एतद् यज्ञस्य शिरः प्रतिसन्धास्यथ इति। तथेति। ताव् अध्वर्यू आस्ताम्। तत् ताव् अपिसोमाव् अभवताम्॥3.127॥
अथ ह च्यवनो भार्गवः पुनर्युवा भूत्वागच्छच् छर्यातं मानवम्। तं प्राच्यां स्थल्याम् अय़ाजयत्। तद् अस्मै सहस्रम् अददात्। तेनायजत। एतद् वै तच् च्यवनो भार्गव एतेन साम्ना स्तुत्वा पुनर्युवाभवत्, कुमारीं जायाम् अविन्दत, सहस्रेणायजत। एते वा एतस्मिन् सामन् कामा, एतान् एव कामान् अवरुन्द्धे। यत्काम एवैतेन साम्ना स्तुते, सम् अस्मै स काम ऋध्यते। अथो ह स्मैतेनैव साम्ना च्यवनो भार्गवो यद् यद् अशनं चकमे तत् तद् ध स्म सरस्वत्यै शैशवाद् उदचति। तद् व् अन्नाद्यस्यावरुद्धिस्साम। अवान्नाद्यं रुन्द्धे ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद। यद् उ च्यवनो भार्गवो ऽपश्यत् तस्माच् च्यावनम् इत्य् आख्यायते। प्राणा शिशुर् महीनाम् इति पशुरूपम् एवैतद् उपागच्छन्ति। पशूनां वै शिशुर् भवति। तासु क्रोशं, भ्रातृव्यहा सेन्द्रं साम। हन्ति द्विषन्तं भ्रातृव्यम् आस्येन्द्रो हवं गच्छति य एवं वेद। तद् ऐळं भवति पशवो वा इळा। पशव एतद् अहः - पशूनाम् एवावरुद्ध्यै॥3.128॥
पवस्व वाजसातय इति वाजवतीर् अनुष्टुभो भवन्त्य् - अन्नं वै वाजो - ऽन्नाद्यस्यैवावरुद्ध्यै।
पवित्रे धारया सुतः।
इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तमः॥
इति वैष्णव्यो भवन्ति - यज्ञो वै विष्णुर् - यज्ञस्यैवारम्भाय। तासु गौरिवीतम् उक्तब्राह्मणम्। अथाष्टेळः पद्स्तोभ इळानाम् अयातयामावरुध्यते। तेनो हास्मा एकशफाः पशवस् तिष्ठन्ते। प्रजापतिं प्रजास् ससृजानं शीर्षतः पाप्मागृह्णात्। सो ऽकामयताप पाप्मानं हनीयेति। स एतान् पदस्तोभान् अपश्यत्। तैर् अस्तुत। तैः पाप्मानम् अपाहत। तान् अपवेष्टयन्न् इव गायेत्। अपवेष्टयन्न् इव वै स तच् छीर्षतो ऽग्रे पाप्मानम् अपजघ्ने। अपवेष्टयन्न् इवैव शीर्षतो ऽग्रे पाप्मानम् अपहते य एवं वेद॥3.129॥
ऋषीणां वा अग्रे मन्त्रश् चैव प्रजा चासीन् न पशवः। ते ऽकामयन्ताव पशून् रुन्धीमहीति। ते संवत्सरे पशून् पर्यपश्यन्। तान् एतेनाष्टेळेन पदस्तोभेनोदसृजन्त। ते ऽब्रुवन्न् अस्ति न्वा इति। तान् षडिळेनोदसृजन्त। ते ऽब्रुवन्न् अस्ति न्वा इति। तांश् चतुरिळेनोदसृजन्त। ते ऽब्रुवन्न् अस्ति न्वावेति। तान् द्वीळेनोदसृजन्त। ते वा एते पशव एव यत् पदस्तोभाः। पशव एतद् अहः। पशुमान् भवति य एवं वेद। त उ सर्वे जागता भवन्ति। पशवो वै जगती। तेनो हैवास्मिंस् तद् अप्य् एकशफाः पशवस् तिष्ठन्ते यत् सर्वे जागता भवन्ति। सर्वे हि जागताः पशवः॥3.130॥