प्रमुखा विकल्पसूचिः उद्घाट्यताम्

दुग्धोपसद्यं तद् इत्य् आहुः। न तत्र दुग्धोपसद्यम् अस्तीति ब्रूयात्। वाग् वै रथन्तरं, वाग् आश्विनं, कुतो वा क्षेष्यत इति। एतद् उ ह वा एकच्छन्दो दुग्ध यद् वाग् यद् ईजाना अनीजानाः। तद् उ वा आहुः पवस्व वाचो ऽग्रिय, उपास्मै गायता नरः, पवमानस्य ते कव इति प्रतिपदो भवन्ति। पवमाने रथन्तरं प्रोहन्ति। बृहत् पृ्ष्ठं भवति। जराबोधीयेनाश्विभ्यां स्तुवन्ति। रुद्रस्य वा एतद् देवस्य साम यज् जराबोधीयम्। एतेन वै रुद्रो देवः पशूनाम् ऐश्वर्यम् आधिपत्यम् अगच्छत् तेन पशूनाम् ऐश्वर्यम् आधिपत्यं गच्छामेति। तद् आहुः क्रूरम् अशान्तम् ईश्वरो यजमानस्य पशून् अभिमन्तोर् इति। तद् उ वा आहुस् सर्वा वा एषा वाग् ब्रह्म यद् आश्विनम्। सर्वयैवैनद् एतद् वाचा ब्रह्मणाश्विनेन शमं यन्तीति। और्ध्वसद्मनम् आपिशर्वरेषु प्रोहन्ति। और्ध्वसद्मनेन वै देवा असुरान् एभ्यो लोकेभ्यो नुत्वा स्व आयतने सत्रम् आसत। और्ध्वसद्मनेनैव वै देवा असुरान् एभ्यो लोकेभ्यो नुत्वा स्व आयतने सत्रम् आसत। और्ध्वसद्मनेनैव द्विषन्तं भ्रातृव्यम् एभ्यो लोकेभ्यो नुत्वा स्व आयतेन सत्रम् आस्ते य एवं वेद॥3.11॥

ब्रह्म वा अग्निष्टोमः। ब्रह्म प्रायणीयम् अहः। एषा वै यज्ञस्य मात्रा यद् अग्निष्टोमः। यैव यज्ञस्य मात्रा तयैवैतत् सत्र आक्रमन्ते यादृक् प्रवयणत स्पर्शस् तादृग् उपप्रार्ञ्जनतः। तस्माद् अग्निष्टोमेनैव प्रयन्त्य्, अग्निष्टोमेनोद्यन्ति। मनो वै पूर्वम् अथ वाक्। मनो वै बृहद् वाग् रथन्तरम्। प्रत्नं वै बृहद् उप रथन्तरम्। तद् यद् एताः प्रत्नवतीश् चोपवतीश् च भवन्ति बृहद्रथन्तरे एवैतत् सत्राय युज्येते। प्रेति च वा एति च गायत्र्यै रूपम्। तद् यत् प्रेति चेति च भवति गायत्र्या एवैतद् रूपेण प्रयन्ति न वैता भवन्ति न वा हस्यैष युक्त्या ऋचर् चैवाहर् युज्यते यथा नद्धयुगस्य शम्या अवदध्यात् तादृक् तत्। तद् आहुर् वीव वा एते प्राणैर् ऋध्यन्ते ये प्रायणीयस्याह्नस् तृचान् विच्छिन्दन्तीति। सलक्ष्माणो भवन्ति - सलक्ष्माणो वै प्राणाः - प्राणानाम् एव संतत्या अव्यवच्छेदाय। अग्न आ याहि वीतये, आ नो मित्रावरुणा, आ याहि सुषुमा हि त, इन्द्राग्नी आ गतं सुतम् इत्य् आ याह्य् आ याहीत्य् आज्यानि भवन्ति। आ याह्य् आ याहीति युक्तानां पुरस्तात् प्रयन्ति। यथा युक्तानां पुरस्ताद् आ याह्य् आ याहीति प्रेयात् तादृक् तत्। त्रिवृत् स्तोमो भवति। ब्रह्म वै त्रिवृत्। ब्रह्मण्य् एवैतत् प्रतितिष्ठन्तो यन्ति॥3.12॥

प्र सोमासो विपश्चितः, प्र सोम देववीतये, प्र तु द्रव परि कोशं नि षीदेति प्रवतीर् भवन्ति राथन्तरे ऽहन्। प्रणिनीषेण्यं वा एतद् अहः। प्रेति गायत्र्यै रूपम्। गायत्र्या एवैतद् रूपेण प्रयन्ति। यत् पञ्चसामा विलोम् तद् असमृद्धम्। प्राणो ऽपानो व्यानस् स तृचः। तं विच्छिन्दन्ति। आत्मानं प्रजां जायाम् इमान् लोकांस् तद् विच्छिन्दन्ति। त्रीणि सामानि। तत् क्लृप्तं त्रिवृत् त्रिषामा। अथाश्वं पदनिधनम् अपरिष्टोभं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। इळावान् पवमानस् सोमसाम्ना क्रियते। पञ्चसामा ह खलु वै संवत्सरं यन्तुम् अर्हति। तद् यत् षडक्षरणिधनं यौधाजयं भवति - षड् वा ऋतवस् संवत्सरस् - संवत्सरस्यैव युक्त्यै। अभि द्रोणानि बभ्रव इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। सुता इन्द्राय वायवे वरुणाय मरुद्भ्य इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। तासु गायत्रम् उक्तब्राह्मणम्॥3.13॥

अथाश्वम्। प्रजापतिः प्रजा असृजत। ता आश्वेनैवाश्वो भूत्वासृजत। यद् आश्वेनाश्वो भूत्वासृजत तद् आश्वस्याश्वत्वम्। तत् प्रजनननं साम। प्रजनने ऽहन् क्रियते। प्रजया पशुभिर् जायते य एवं वेद। तस्माद् उ हैतत् सामैतस्माद् अह्नो नान्तरित्यम्। प्रजननं वा एतत् साम। प्रजननम् एतद् अहः। प्रजनन एवैतत् प्रजननं क्रियते। तद् व् एवाचक्षते ऽश्वस्य सामुद्रेर् इति। अश्वो वै सामुद्रिर् अकामयताव पशून् रुन्धीय भूमानं पशूनां गच्छेयम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स पशून् अवारुन्ध भूमानं पशूनाम् अगच्छत्। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे, भूमानं पशूनां गच्छति य एवं वेद। यद् अश्वस् सामुद्रिर् अपश्यत् तस्माद् आश्वम् इत्य् आख्यायते। अथो आहुर् आश्वेन वै देवा अश्वा भूत्वा स्वर्गं लोकम् आयन्न् इति। तद् व् एवाश्वस्याश्वत्वम्। तद् वा अस्य स्वर्ग्यम्। अश्नुते स्वर्गं लोकं य एवं वेद॥3.14॥

अथ सोमसाम। सोमो वै राजा सधमादम् इवान्याभिर् देवताभिर् आसीत्। सो ऽकामयत सर्वेषां देवानां राज्याय सूयेयेति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स सर्वेषां देवानां राज्यायासूयत। सूयते स्वानां श्रेष्ठतायै य एवं वेद। तेभ्यस् तिरो ऽभवत्। तद् अन्वैच्छन्। तेभ्य एतेन रूपेणादृश्यत यद् एतच् चन्द्रमसः। तम् अभिसमगच्छन्तादर्श्य् अदर्शीति। तस्माद् यदा दर्शयते ऽथाभिसंगच्छन्ते ऽदर्श्य् अदर्शीति। तम् एतद् अभ्यषिञ्चन्त। स एतद् अभवत्। तद् एतच् छ्रीस्सवस् साम। अश्नुते श्रियं गच्छति राज्यं य एवं वेद। यद् उ सोमो राजा अपश्यत् तस्मात् सोमसामेत्य् आख्यायते। अथ वज्रम्। वज्र आङ्गिरसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्धत। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ वज्र आंगिरसो ऽपश्यत् तस्माद् वज्रम् इत्य् आख्यायते। अथ यौधाजयं त्रिणिधनं सवनानां क्लृप्त्यै। अथौशनम् अन्त्यं सामान्त्येन साम्नान्त्यं स्वर्गं लोकम् अश्नवामहा इति। अथ रथन्तरम्। ब्रह्म वा अग्निष्टोमो, ब्रह्म रथन्तरम्। ब्रह्मण्य् एवैतत् प्रतितिष्ठन्तो यन्ति। अथ वामदेव्यम्। पशवो वै वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। अथ नौधसम्। सलोके वै कालेयं च रथन्तरं च॥3.15॥

प्र सोमासो मदच्युत इत्य् आर्भवस्य पवमानस्य प्रवतीर् गायत्र्यो भवन्ति राथन्तरे ऽहन्। प्रणिनीषेण्यं वा एतद् अहः। प्रेति गायत्र्यै रूपम्। गायत्र्या एवैतद् रूपेण प्रयन्ति। ता मद्वतीर् भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मद्वतीर् भवन्ति, रसम् एवास्मिन्न् एतद् दधति। ऐवैनद् एतेन प्याययन्ति। तासु गायत्रम् उक्तब्राह्मणम्। अथ संहितं द्व्यक्षरणिधनं प्रतिष्ठायै। द्विपाद् वै यजमानः प्रतिष्ठित्यै। अथा पवस्व देवयुः, पवते ह्रयतो हरिर् इत्य् उष्णिक्ककुभौ भवतः। गायत्र्यौ रूपेण राथन्तरे सभं पूर्वस्यां विजित्या एव। अथाक्षरं पदनिधनम् अपरिष्टोभं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। प्रजापतिर् वा एतं यज्ञम् असृजत यद् द्वादशाहम्। तस्य तृचैर् अन्यान्य् अहान्य् अकल्पन्तैकर्चैर् एतत्। तद् अस्य सम् इवाप्लीयत। स एते सामनी अपश्यत्। ताभ्याम् एनद् यथा शंकुभ्यां चर्म विहन्याद् एवम् एवाभ्याम् एतद् अहर् व्यहन्। आश्वेन पुरस्ताद् आक्षारेणोपरिष्टात्। तद् यद् एते सामनी भवतो ऽह्न एव धृत्यै। प्र सुन्वानायान्धस इति प्रवतीर् अनुष्टुभो भवन्ति राथन्तरे ऽहन्। प्रणिनीषेण्यं वा एतद् अहः। प्रेति गायत्र्यै रूपम्। गायत्र्या एवैतद् रूपेण प्रयन्ति॥3.16॥

तासु गौरिवीतम्। यथा ह वा इदम् अवसानदर्शाववसानं विन्दत एवम् एतौ गौरिवीतस्योदासौ देवेभ्य श्वस्तनं विन्दतः। श्वस्तनं नो ऽसद् इति वै सत्रम् आसते। श्वस्तनं हैवैभ्यो भवति। एतद् ध वा अद्यश्वं देवानां यद् गौरिवीतम्। अक्षितम् अस्याद्यश्वं भवति य एवं वेद। अवसानदर्शो वा एतयोर् उदासो ऽन्यतरो ऽवसाययितान्यः। स यथा प्र स्पष्टं तृणोदकम् अन्ववस्येद् तादृक् तत्। यथा ह वा इदं सोमप्रवाकस् सोमं प्राहैवम् एतौ गौरिवीतस्योदासौ देवेभ्यस् सोमं प्राहतुः। प्रोक्तसोमो ह स तां रात्रिं वसति यस्मिन्न् अहनि गौरिवीतं भवति। अथो हैनं देवा ईक्षन्ते धावत श्वो यष्टेति। तद् यद् एकाहे गौरिवीतं न कुर्वन्ति नेद् देवान् लापयामहा इति। यथा ह वा इदं वृक्षस्याक्रमणानि कृतान्य् एवम् एतानि गौरिवीतस्याक्रमणानि कृतानि स्वर्गस्य लोकस्य समष्ट्यै। प्र स्वर्गं लोकम् आप्नोति य एवं वेद। यथा ह वा इदम् अभीयायम् उप विमोकं यायाद् एवम् एतद् यद् गौरिवीतम्। तत् तथैव गेयम्॥3.17॥

शाक्त्यास् तरसपुरोडाशास् सत्रम् आसत। स गौरिवीतिश् शाक्त्यो मृगम् अहन्। तम् तार्क्ष्यस् सुपर्ण उपरिष्टाद् अभ्यवापतत्। तस्मा उपप्रत्यधत्त। तम् अब्रवीद् - ऋषे, मा मे ऽस्थः। श्वस्तनं ते वक्ष्यामि। अद्य वाव त्वं वेत्थ न श्व इति। तस्मा एतद् गौरिवीतम् अब्रवीत्। ततो वै स श्वस्तनम् अपश्यत्। तत् प्रजा वै श्वस्तनं पशव श्वस्तनं स्वर्गो लोक श्वस्तनम्। तद् यद् गौरिवीतं भवत्य, एतस्यैव सर्वस्यावरुद्ध्या एतस्योपाप्त्यै।
 
वाचो वै रसो ऽत्यक्षरत्। तद् गौरिवीतम् अभवत्। यद् अन्वहं गौरिवीतं भवत्य्, अन्वहम् एवैतद् वाचो रसं दधतो यन्ति। ये गौरिवीतम् अहीने ऽवसृजेयुस् तान् ब्रूयाद् - अश्वस्तना अप्रजसो भविष्यथेति। अश्वस्तना हैवाप्रजसो भवन्ति ॥3.18॥

अथ त्वाष्ट्रीसाम मध्येनिधनं भवति प्रतिष्ठायै। समुद्रं वा एतेनारम्भणं प्रप्लवन्ते य आर्भवं पवमानम् उपयन्ति। तद् यन् मध्येनिधनं भवति प्रतिष्ठित्या एव। तस्य पुरस्तान् निधनस्य प्रतिहारम् उपयन्ति। प्रस्तावप्रतिहाराभ्यां वै यजमानो धृतः। प्रद्रुतम् इवैतद् अहर् यत् त्रिवृत्। तद् यत् पुरस्तान् निधनस्य प्रतिहारम् उपयन्त्य् अप्रस्रंसायैव। इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानो गाः प्राविशत्। ता अकामयन्तेन्द्रं जनयेमेति। ता एतानि सामान्य् अपश्यंस् त्वाष्ट्रीसामानि। तैर् इन्द्रम् अजनयन्। तानि वा एतानि वीरजननानि सामानि । आस्य वीरो जायते य एवं वेद। अथो पशवो वै त्वाष्ट्र्यः। तद् यद् एतानि सामानि भवन्ति पशूनाम एवावरुद्ध्यै। तद् ऐळं भवति - पशवो वा इळा - पशूनाम् एवावरुद्ध्यै। यद् उ त्वाष्ट्र्यो ऽपश्यंस् तस्मात् त्वाष्ट्रीसामेत्य् आख्यायते। अभि प्रियाणि पवते चनोहित इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। तासु कावम् उक्तब्राह्मणम् । अथ यज्ञायज्ञीयम् उक्तब्राह्मणम्॥3.19॥

पवस्व वाचो अग्रिय इति प्रतिपदो भवन्ति। बृहद्रथन्तरे यद् असृज्येतां बृहत् पूर्वम् असृज्यताथ रथन्तरम्। तस्मात् पवस्व वाचो ऽग्रिय इति प्रतिपदो भवन्ति। प्रेत्य् अन्य ऋषयो ऽपश्यन्न् एत्य् अन्ये। अथैतन् न प्रेति नैति स्थितम्। वाचो बाहर्तं रूपं भरद्वाज ऋषिर् अपश्यत्। भरद्वाजस्य वा एतद् आर्षेयं यद् बृहत्। मनो बृहत्। प्रजापतिर् बृहत्। प्रजापतिताम् एवाश्नुते य एवं वेद। सोम चित्राभिर् ऊतिभिर् अभि विश्वानि काव्या त्वं समुद्रिया अप इति। त्वम् इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः। अग्रियो वाच ईरयन्न् इत्य् अग्रं वा एतद् अहः। द्वितीयं वा एतद् अहस् सत् तद् अग्रम् इत्य् आख्यायते। तुभ्येमा भुवना कवे महिम्ने सोम तस्थिर इति। प्रद्रुतम् इव वा इत एतद् अहर् यद् बार्हतम्। अदो हि बृहत्। तद् यन् महिम्ने सोम तस्थिर इत्य् अह्न् एवोपस्थित्यै। तुभ्यं धावन्ति धेनव इति समष्ट्यै॥3.20॥