← कण्डिका २११-२२० जैमिनीयं ब्राह्मणम्/काण्डम् ३
कण्डिका २२१-२३०
[[लेखकः :|]]
कण्डिका २३१-२४० →

तासु वैयश्वम्। व्यश्वं वै साकमश्वं गर्भे सन्तं गयः पितृव्यः पर्यपश्यद् - ऋषिर् जनिष्यत इति। तं जातं परास्ताव् ऽब्रवीज् - जातक्षेणो ऽजनीति। तं छाया नाजहात्। स्वाव् अस्मा अङ्गुष्ठो प्रास्नुताम्। तद् अस्मा आचक्षत यं वै कुमारं परास्ताव् ऽब्रवीर्, अयं वै स जीवतीति। तं मुसलम् आदायाभ्यैद् धनिष्यन्। सो ऽकामयतोद् इत इयां, गातुं नाथं विन्देयेति। स एतत् सामापश्यत्। तद् अभ्यगायत। तद् अस्य मुसलं प्रत्यक् पतित्वा शिरो ऽछिनत्। तद् एतद् भ्रातृव्यहा गातुविन् नाथवित् साम। हन्ति द्विषन्तं भ्रातृव्यं , विन्दते गातुं नाथं य एवं वेद। यद् उ व्यश्वो ऽपश्यत्, तस्माद् वैयश्वम् इत्य् आख्यायते। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति॥3.221॥


पवस्व देव आयुषम् इति त्रिष्टुभो रूपेण प्रयन्ति। त्रैष्टुभम् एतद् अहः।
इन्द्रं गच्छतु ते मदः।
वायुम् आ रोह धर्मणा॥
इति मद्वतीर् भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधत्य्, ऐवैनद् एतेन प्याययन्ति।
पवमान नि तोशसे रयिं सोम श्रवाय्यम्।
इन्द्रो समुद्रम् आ विश॥
इति समुद्वतीर् भवन्ति छन्दोमानां रूपम्। समुदो वै छन्दोमाः। अपघ्नन् पवसे मृध इति मृध एवैतेन पाप्मानम् अपघ्नते। तासु गायत्रम् उक्तब्राह्मणम्। अथ मादिलं पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। देवा वा अकामयन्त मद्वान् नस् सोम स्यात् सोममदस्य माद्येमेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै तेषां मद्वान् सोमो ऽभवत् सोममदस्यामाद्यन्। तद् एव मादिलस्य मादिलत्वम्। तद् रसो वै मदः। रसेन ह वाव ते तन् मेदुः। मद्वान् अस्य सोमो रसवान् भवति य एवं वेद। अथो हैषाम् अवारुद्धा इव छन्दोमा स्युर् यद् एतद् अत्र कुर्युः। धीता इवैते यच् छन्दोमास् तृतीयसवनायतनाः। धीतम् इव वै तृतीयसवनम्। तद् यद् अत्र मादिलं भवति रसम् एवैतच् छन्दोमेषु दध्त्य् ऐवैनान् एतेन प्याययन्ति॥3.222॥


अथ सुरूपं रूपस्यैव समृद्ध्यै। आङ्गिरसो वै तपस् तेपानास् ते रूपेण वर्चसा व्यार्ध्यन्त। ते ऽकामयन्त सं रूपेण वर्चसर्ध्येमहीति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते सं रूपेण वर्चसार्ध्यन्त। ते ऽब्रुवन् सुरूपा वा अभूमेति। तद् एव सुरूपस्य सुरूपत्वम्। सं रूपेण वर्चसर्ध्यते य एवं वेद। सुरूप आङ्गिरसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ सुरूप आङ्गिरसो ऽपश्यत् तस्मात् सुरूपम् इत्य् आख्यायते। प्रजापतिः पशून् असृजत। तेषां सृष्टानां रूपाणि न प्राज्ञायन्त। स एतानि सुरूपाणि सामान्य् अपश्यत्। तैर् एषां रूपाण्य् अदधात्। तत् सुरूपाणां सुरूपत्वम्। रूपण्वतः पशून् अवरुन्द्धे य एवं वेद। अर्कसामानो वै छन्दोमास् सुरूपरूपाः। सामन्वद्भी रूपण्वद्भिश् छन्दोमै स्तुते य एवं वेद। तत् पुनर्नितुन्नं छन्दो भवति। यत्र यत्र वै देवा छन्दसां रसम् अन्वविन्दंस् तत् पुनर्नितुन्नम् अकुर्वंस्, तत् पुनर् अभ्याघ्नन्। धीता इवैते यच् छन्दोमास् तृतीयसवनायतनाः। धीतम् इव वै तृतीयसवनम्। तद् यत् पुनर्नितुन्नं छन्दो भवति रसम् एवैतच् छन्दोमेषु दधति। रसस्यैवैषानुवित्तिः॥3.223॥


अथ काक्षीवतम्। कक्षीवान् वा अकामयत - बहुः प्रजया पशुभिः प्रजायेय, श्रियं राज्यं गच्छेयम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स बहुः प्रजया पशुभिः प्रजायत श्रियं राज्यम् अगच्छत्। ते ह वै सहस्रं काक्षीवता आसुः। तैर् ह वै स पुत्रै श्रियं राज्यं जगाम। अश्नुते श्रियं गच्छति राज्यं य एवं वेद। तद् उ स्तोभानुतुन्नं भवति। अनुतुन्नाद् वै प्रजाः पशवः प्रजायन्ते। पशवश् छन्दोमाः। तेन वै रूपसमृद्धम्। यद् उ कक्षीवान् अपश्यत् तस्मात् काक्षीवतम् इत्य् आख्यायते॥3.224॥


अथ प्रमंहिष्ठीयम्। ऋषीणां वै सत्रम् आसीनानां पशव उपादस्यन्। ते ऽकामयन्ताव पशून् रुन्धीमहीति। ते होचुर् - एताग्निम् एव पशून् याचाम। स वाव पशूनाम् ईशे। स एव नः पशून् प्रदास्यतीति। त एतत् सामापश्यन्। तेनैनम् अस्तुवन् -
प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे।
उपस्तुतासो अग्नये॥
इति। तान् अब्रवीत् - किंकामा स्थेति। पशुकामा इत्य् अब्रुवन्। तेभ्य एतेनैव साम्ना पशून् प्रायच्छत्। ते ऽब्रुवन् - प्रमंहिष्ठो वै नो ऽभूद् इति। तद् एव प्रमंहिष्ठीयस्य प्रमंहिष्ठीयत्वम्। तद् एतत् पशव्यं साम। प्रमंहिष्ठो हास्मा एष भवत्य्, अव पशून् रुन्द्धे, बहुपशुर् भवति य एवं वेद। तत् पुनर्नितुन्नं छन्दो भवति। यत्र यत्र वै देवा छन्दसां रसम् अन्वविन्दंस् तत् पुनर्नितुन्नम् अकुर्वंस् तत् पुनर् अभ्याघ्नन्। धीता इवैते यच् छन्दोमास् तृतीयसवनायतनाः। धीतम् इव वै तृतीयसवनम्। तद् यत् पुनर्नितुन्नं छन्दो भवति रसम् एवैतच् छन्दोमेषु दधति। रसस्यैवैषाम् अनुवित्तिः॥3.225॥


अथ स्वाशिराम् अर्को - ऽन्नं वा अर्को - ऽन्नाद्यस्यैवावरुद्ध्यै। स्वाशिरो वै नामाप्सरस इमा एवौषधयः। ता अकामयन्त - बह्वी स्याम, प्रजायेमहि, वीमं लोकम् आप्नुयामेति। ता एतत् सामापश्यन्। तेनास्तुवत। ततो वै ता बह्वीय आसन्, प्राजायन्त, वीमं लोकम् आप्नुवन्। सो ऽयं सर्वो लोक ओषधीभिस् संछन्नो ऽपि गिरयः। तद् एतत् प्रजननं साम। बहुः प्रजया पशुभिः प्रजायते, वीमं लोकम् आप्नोति य एवं वेद। यद् उ स्वाशिरो ऽप्सरसो ऽपश्यंस् तस्मात् स्वाशिराम् अर्क इत्य आख्यायते। अभि द्युम्नं बृहद् यश इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। जिन्वन् गविष्टये धिय इति गोमतीः पशुमतीर् भवन्ति, पशूनाम् एवावरुद्ध्यै। पशवो हि छन्दोमाः॥3.226॥


तास्व् ऐषिरं वायोर् आर्ष्यम्। वायुर् वा इषिरः। यद् वै सत्रिणां सत्रे विनश्यते तद् एभ्यो वायुर् अपिरोहयति। प्राणो वै वायुः। प्राण एवैभ्यस् तत् भिषज्यति। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वत। प्राणा शिशुर् महीनाम् इति पशुरूपम् एवैतद् उपगच्छन्ति। पशूनां वै शिशुर् भवति। तासु त्रैतम् उक्तब्राहमणम्। अभी नो वाजसातमम् इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः।
रयिम् अर्ष शतस्पृहम्।
इन्द्रो सहस्रभर्णसं तुविद्युम्नं विभासहम्॥
इति। यद् वै शतवत् सहस्रवत् तच् छन्दोमानां रूपम्। पशवो वै छन्दोमाः। परि स्य स्वानो अक्षरद् इन्दुर् अव्ये मदच्युत इति मद्वतीर् भवन्ति। अभिपूर्वम् एवैतत् तृतीयसवने रसं मदं दधति।
वयं ते अस्य राधसो वसोर् वसो पुरुस्पृहः।
नि नेदिष्ठतमा इष स्याम सुम्ने ते अध्रिगो॥
इति गोमतीः पशुमतीर् भवन्ति, पशूनाम् एवावरुद्ध्यै। पशवो हि छन्दोमाः। तासु गौरिवीतम् उक्तब्राह्मणम्॥3.227॥


अथ शुद्धाशुद्धीयम्। इन्द्रो वा असुरान् हत्वापूत इवामेध्यो ऽमन्यत। सो ऽकामयत शुद्धम् एव मासन्तं शुद्धेन साम्ना स्तुयुर् इति। स ऋषीन् अब्रवीत् - स्तुत मेति। त एतद् ऋषयस् सामापश्यन्। तेनैनम् अस्तुवन्।
एतो न्व् इन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना।
शुद्धैर् उक्थैर् वावृध्वांसं शुद्धर्(?) आशीर्वान् ममत्तु॥
इति। ततो वा इन्द्रश् शुद्धः पूतो मेध्यो ऽभवत्। तद् एतत् पवित्रं साम। शुद्धः पूतो मेध्यो भवति य एवं वेद। अथौदलम्। उदलो वै दैवरातो ऽकामयताग्रो मुख्यो ब्रह्मवर्चसी स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽग्र्यो मुख्यो ब्रह्मवर्चस्य् अभवत्। अग्रिया मुख्या ब्रह्मवर्चसिनो ऽसामेति सत्रम् आसते। अग्रिया एव मुख्या ब्रह्मवर्चसिनो भवन्ति। तत् स्वारम् अनुष्टुभि क्रियते, रूपसमृद्धतायै। गायत्रयोनि सद् अनुष्टुभि क्रियते। द्वन्द्वं वै भूत्वा पशवो वीर्याण्य् उद्यच्छन्ति। पशवश् छन्दोमाः। तस्माच् छन्दोमेषु क्रियते। यद् उदलो दैवरातो ऽपश्यत् तस्माद् औदलम् इत्य् आख्यायते॥3.228॥


अथ पाञ्चवाजम्। एतेन वै पञ्चवाजाः कौत्स उभे अन्धसी व्यपिपीत यच् च दैव्यं यच् च मानुषम्। ते एवैतेन विपिपीते। पञ्चवाजा वै कौत्सो ऽकामयतोभे अन्धसी विपिपीय यच् च दैव्यं यच् च मानुषम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै ते स उभे अन्धसी व्यपिपीत यच् च दैव्यं यच् च मानुषम्। ततो ह स्म वै स सुरादृतिम् उपाधाय सोमार्थं धारयति। तद् एतद् अन्नाद्यस्यावरुद्धिस् साम। उभे अन्धसी विविपीते यच् च दैव्यं यच् च मानुषं य एवं वेद। यद् उ पञ्चवाजाः कौत्सो ऽपश्यत् तस्मात् पाञ्चवाजम् इत्य् आख्यायते। अथ क्रौञ्चम्। क्रुंङ् आङ्गिरस ईष्यम् इवाहर् अविन्दत्। ईष्या इवैते यच् छन्दोमाः। तस्माच् छन्दोमेषु क्रियते। तन् मध्ये स्वारं भवति। प्राणो वै स्वरः। अभिषज्या इवैते यच् छन्दोमाः। द्वे द्वे अहनी समस्ताः। तद् यन् मध्ये स्वारं भवति प्राणम् एवैतच् छन्दोमेषु दधति भिषज्यन्त्य् एवैनान् एतेन॥3.229॥


अथ रयिष्ठं मध्येनिधनं भवति प्रतिष्ठायै। समुद्रं वा एतेनारम्भणं प्रप्लवन्ते य आर्भवं पवमानम् उपयन्ति। तद् यन् मध्येनिधनं भवति प्रतिष्ठित्या एव। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपाक्रामन्। सो ऽकामयत न मत् पशवो ऽपक्रामयुर्, अभि मा वर्तेरन्न् इति। स एत् सामापश्यत्। तेनास्तुत। ततो वै तं पशवो ऽभ्यावर्तन्त। ततो ऽस्माद् अनपक्रमिणो ऽभवन्। सो ऽब्रवीद् अस्थाद् वा इयं मयि रयिर् इति। तद् एव रयिष्ठस्य रयिष्ठत्वम्। तद् एतत् पशव्य साम। तिष्ठत्य् अस्मिन् रयिर्, अभ्य् एनं पशव आवर्तन्ते, नास्मात् पशवो ऽपक्रामन्ति य एवं वेद। तद् अध्यर्धेळं भवति - पशवो वा इळा। पशवश् छन्दोमा - अभिपूर्वाणाम् एव पशूनाम् अवरुद्ध्यै। अथैता द्विपदा भवन्त्य् उक्तब्राह्मणाः। ता एता भवन्ति - पवस्व सोम महान् समुद्र इति। महद् ध्य् एतद् अहर् यच् चतुश्चत्वारिंशम्। पिता देवानां विश्वाभि धामेत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः॥3.230॥