← कण्डिका २०१-२१० जैमिनीयं ब्राह्मणम्/काण्डम् ३
कण्डिका २११-२२०
[[लेखकः :|]]
कण्डिका २२१-२३० →

अथाशु। देवा वा अकामयन्ताशु स्वर्गं लोकम् इयामेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै त आशु स्वर्गं लोकम् आयन्। तद् एवाशोर् आशुत्वम्। तद् एतत् स्वर्ग्यं साम। आश्व् एवैतेन स्वर्गं लोकम् एति य एवं वेद। तद् व् एवाचक्षत आशु भार्गवम् इति। देवासुरा अस्पर्धन्त। ते देवा भृगुम् उपाधावन् - जयामासुरान् इति। स एतद् भृगुस् सामापश्यत्। तेनास्तुत। ततो वै देवा असुरान् अजयन्। ते ऽब्रुवन्न् आशु वावेदं भृगोर् अभूद् इति। तद् व् एवाशोर् आशुत्वम्। तद् उ भ्रातृव्यहा कामसनि। हन्ति द्विषन्तं भ्रातृव्यम्। यत्काम एनेन स्तुत, सम् अस्मै स काम ऋध्यते॥3.211॥


अथ मार्गीयवं पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। मृगयुर् वै देवो ऽकामयतोभयेषां पशूनाम् ऐश्वर्यम् आधिपत्यं गच्छेयं ये च ग्राम्या ये चारण्या इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स उभयेषां पशूनाम् ऐश्वर्यम् आधिपत्यम् अगच्छद् ये च ग्राम्या ये चारण्याः। ततो ह स्म वै तस्मै मृगो मृगम् आनयति। तद् एतत् पशव्यं साम। उभयेषां पशूनाम् ऐश्वर्यम् आधिपत्यं गच्छति ये च ग्राम्या ये चारण्या य एवं वेद। एष ह वाव स देवो मृगयुः। न हास्यैष पशून् अभिमन्यते य एवं वेद। यद् उ मृगयुर् देवो ऽपश्यत् तस्मान् मार्गीयवम् इत्य् आख्यायते॥3.212॥


अभि सोमास आयव इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः।
पवन्ते मद्यं मदम्।
समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः॥
इति समुद्रवतीर् भवन्ति, छन्दोमानां रूपम्। समुद्रो वै छन्दोमाः।
तरत् समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत्।
अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत्॥
नृभिर् येमाणो हरियतो विचक्षणो राजा देवस् समुद्रियः॥
इति चतुर्ऋचं भवति - चतुष्पदा वै पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। तासु द्विहिंकारं वामदेव्यम्। पशवो वै सिमाः। पशवो रेवतयः। पशवो द्विहिंकारं वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा असंजानाना अपाक्रामन्। सो ऽकामयताभि मा पशवस् संजानीरन्। न मद् अपक्रामेयरु् इति । स एतत् सामापश्यत्। तेनास्तुत। ततो वै तं पशवो ऽभिसमजानत। ततो ऽस्माद् अनपक्रामिणो ऽभवन्। तद् द्विहिंकारं भवति। हुम् इति वै पशवस् संजानते, हुम् इति माता पुत्रम् अभ्येति, हुम् इति पुत्रो मातरम्। तद् एतत् संज्ञानं पशूनां साम। अभ्य् एनं पशवस् संजानते, नास्मात् पशवो ऽपक्रामन्ति य एवं वेद। तद् ऐळं भवति - पशवो वा इळा, पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै॥3.213॥


अथ गायत्रपार्श्वम्। इमे वै लोका गायत्रपार्श्वम्। एष्व् एव तल् लोकेषु प्रतितिष्ठन्ति। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। तद् एनान् गायत्रम् एव भूत्वा स्वर्गं लोकम् अवहत्। ते ऽब्रुवन् स्वर्गं लोकं गत्वा गायत्रं वाव नो ऽस्य साम्नः पक्षाव् अभूताम् इति। तद् एव गायत्रपक्षस्य गायत्रपक्षत्वम्। गायत्रपक्षं ह वै नामैतत्। तद् गायत्रपार्श्वम् इत्य् आख्यायते। तद् धिंकारवद् भवत्य् अन्नाद्यस्य प्रत्त्यै। हिंकारवद्भिर् वै प्रजापतिः प्रजाभ्यो ऽन्नाद्यं प्रायच्छत्। प्रास्मा अन्नाद्यं दीयते य एवं वेद॥3.214॥


अथ पौरुहन्मनम् अभ्यारम्भो यज्ञस्य प्रत्यपसारः। अभ्य् एव नवमम् अहर् आरभते प्रति सप्तमम् अपधावति। अभ्यारम्भैर् वै देवा असुरान् यज्ञाद् अन्तरायन्। पुरुहन्मा वैखानसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ पुरुहन्मा वैखानसो ऽपश्यत् तस्मात् पौरुहन्मनम् इत्य् आख्यायते। देवासुरा अस्पर्धन्त। ते देवा अकामयन्त पूर्व एवासुरान् हन्यामेति। त एतत् सामापश्यन्। तेनास्तुवत। तेनासुरान् पूर्वे ऽघ्नन्। तद् यत् पूर्वे ऽघ्नन् तद् व् एव पौरुहन्मनस्य पौरुहन्मनत्वम्। पूर्व एव द्विषन्तं भ्रातृव्यं हन्ति य एवं वेद॥3.215॥


अथ द्वैगतं पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। देवा वै सर्वं यज्ञं संगृह्योर्ध्वा स्वर्गं लोकम् उदक्रामन्। ते मनुष्या यज्ञं न प्रजानन्। तद् व्यच्छिद्यत। ते देवमनुष्या अशनायन्न्, इतःप्रदानाद् धि देवा जीवन्त्त्य्, अमुतःप्रदानान् मनुष्याः। नेत ऊर्ध्वा आहुतयो ऽगच्छन्, नामुतो ऽर्वाची वृष्टिः प्रादीयत। ते देवा अयास्यम् अब्रुवन् - मनुष्या वै यज्ञं न प्रजानन्ति। तद् व्यच्छेदि। तेभ्यः परेहि यज्ञं विधेहीति। सो ऽयास्य एत्यैतेनैव साम्ना मनुष्येभ्यो यज्ञं व्यदधात्। सो ऽयं मनुष्येषु यज्ञो विहितः। स मनुष्येषूषित्वा स्वर्गं लोक पुनर् न प्राजानात्। सो ऽकामयत प्र स्वर्गं लोकं जानीयाम् इति। स एतेनैव साम्ना स्तुत्वा स्वर्गं लोकं पुनः प्राजानात्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोक य एवं वेद। अथो हास्यैतेनेव साम्ना यज्ञो विहितो भवति। स यद् अयास्यो ऽमुष्माल् लोकाद् इमं लोकम् आगच्छद्, अस्माल् लोकाद् अमुं लोकम् अगच्छत्, स इमौ लोकौ द्विर् अनुसमचरत्, तद् द्वैगतस्य द्वैगतत्वम्। अयास्यो ह वाव द्विगत्॥3.216॥


अथ हारायणम्। देवासुरा अस्पर्धन्त। ते देवा अकामयन्त - हरो ऽसुराणां हरेमेति। त एतत् सामापश्यन्। तेनास्तुवत। तेनासुराणां हरो ऽहरन्। तद् यद् धरो ऽहरंस् तद् धारायणस्य हारायणत्वम्। हरति हरो द्विषतो भ्रातृव्यस्य य एवं वेद। हारायण आङ्गिरसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत।
शग्ध्य् ऊ षु शचीपत इन्द्र् विश्वाभिर् ऊतिभिः।
भगं न हि त्वा यशसं वसुविदम् अनु शूर चरामसि॥
पौरो अश्वस्य पुरुकृद् गवाम् अस्य् उत्सो देव हिरण्ययः।
इत्य् एव गव्यांश् चाश्व्यांश् च पशून् अवारुन्द्ध। तैर् उ पशुभिर् इष्ट्वा स्वर्गम् एव लोकम् अगच्छत्। तद् एतत् पशव्यं स्वर्ग्यं साम। अव पशून् रुन्द्धे गच्छति स्वर्गं लोकं य एवं वेद। यद् उ हारायण आङ्गिरसो ऽपश्यत् तस्माद् धारायणम् इत्य् आख्यायते॥3.217॥


अथाछिद्रं पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। प्रजापतिर् वा अकामयताछिद्रः प्रजया पशुभि स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽछिद्रः प्रजया पशुभिर् अभवत्। तद् एवाछिद्रस्याछिद्रत्वम्। अछिद्र एव प्रजया पशुभिर् भवति य एवं वेद। देवा वा आप्तां वाचम् अछिद्रेणैवैभ्यो लोकेभ्यस् समदलुम्पन्। आप्तेव वा एतर्हि वाग् भवति छन्दोमेषु। ताम् अछिद्रेणैव संलुम्पन्ति। यो वै छिद्रेण संचिनोति न तद् उत्पूर्यते। अथ यो ऽछिद्रेण संचिनोति तद् उत्पूर्यते। ज्यायो ऽभ्यारम्भं भवत्य्, अति नवमम् अहर् जिहीते, दशमम् अहर् अभ्यारभते, प्रति सप्तमम् अपधावति। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपाक्रामन्। सो ऽकामयत न मत् पशवो ऽपक्रामेयुर्, अभि मा वर्तेरन्न् इति। स एतत् सामापश्यत्। तेनैनान् पर्यास्यत्। तान् श्रैष्ठ्येनोपागृह्णात्। ते ऽस्मिन्न् अरमन्त। रमन्ते ऽस्मिन् पशवः पशुमान् भवति य एवं वेद॥3.218॥


अथ बार्हदुक्थम्। बृहदुक्थ आङ्गिरसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशू्न् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ बृहदुक्थ आङ्गिरसी ऽपश्यत् तस्माद् बार्हदुक्थम् इत्य् आख्यायते। धर्ता दिवः पवते कृत्वियो रस इत्य् अह्नो धृत्यै । दक्षो देवानाम् अनुमाद्या नृभिर् इति छन्दांस्य् एवैतद् दक्षयन्त्य् अह्नो वीर्यवत्त्वाय। तासूदवत् त्रिप्ररोहम्। तृतीयो ह्य् एष प्ररोहः क्रियते, यद् एष तृतीयस् त्रियह, स्वर्गस्य लोकस्य समष्ट्यै। तद् ध् एवाचक्षते विशालम् इति। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। तद् एनान् विशालम् एव भूत्वा स्वर्गं लोकम् अवहत्। ते ऽब्रुवन् स्वर्गं लोकं गत्वा - विशालं वाव नो भूत्वेदं साम स्वर्गं लोकम् अवाक्षीद् इति। तद् एव विशालस्य विशालत्वम्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। तद् यथा ह वै ब्रध्नस्य विष्टपान्य् एवम् एतानि विशालस्य विष्टपानि स्वर्गस्यैव लोकस्य समष्ट्यै। प्र स्वर्गं लोकम् आप्नोति य एवं वेद। अथ रथन्तरम्। ब्रह्म वै रथन्तरम्। ब्रह्मण्य् एवैतत् प्रतितिष्ठन्तो यन्ति। तत् त्रैष्टुभे ऽहन् भवति। पुंसो वा एतद् रूपं यत् त्रिष्टुप्, स्त्रियै रथन्तरम्। तद् यद् अत्र रथन्तरं पृष्ठं भवति, तेनैवैतद् अहर् मिथुनं क्रियते। अथ वामदेव्यम्। पशवो वै वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। यद् इन्द्र प्राग् अपाग् उदग् इतीन्द्रम् एवैतत् सर्वाभ्यो दिग्भ्यो ह्वयन्ति। आप्तेष्व् अहस्सु यद्य् अस्यां दिश्य् असि यद्य् अस्यां यद्य् अस्याम् इति॥3.219॥



तासु वाशं पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। ते देवा अकामयन्त वशम् असुराणां वृञ्जीमहीति। त एतत् सामापश्यन्। तेनास्तुवत। ते वाश इत्य् एव वशम् असुराणाम् अवृञ्जत। तद् एव वाशस्य वाशत्वम्। वृंक्ते द्विषतो भ्रातृव्यस्य वश य एवं वेद। क ईं वेद सुते सचेति सतोबृहतीर् आक्रमन्ते ऽनपभ्रंशाय। तासु नैपातिथम्। काण्वायनानां सत्रम् आसीनानां पशव उपादस्यन्। ते ऽकामयन्ताव पशून् रुन्धीमहीति। स एतन् नेपातिथिः काण्वस् सामापश्यत्। तेनास्तुत। ततो वै ते पशून् अवारुन्धत। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ नेपातिथिः काण्वो ऽपश्यत् तस्मान् नैपातिथम् इत्य् आख्यायते। उभयं शृणवच् च न इत्य् उभे एवैतेन रूपे समारभते यच् च पृष्ठ्यस्य षडहस्य यद् उ च छन्दोमानाम्। तस्माद् उ हैतस्यां द्वयोस् संयजमानयोर् ब्रह्मसाम कुर्यात्॥3.220॥