← कण्डिका ३६१-३७० जैमिनीयं ब्राह्मणम्/काण्डम् ३
कण्डिका ३७१-३८०
[[लेखकः :|]]
कण्डिका ३८१-३८६ →

तद् आहुः कथं स्तोमा एक स्तोमो भवति, कथं छन्दांस्य् एकश् छन्दो भवति, कथम् अहान्य् एकम् अहर् भवति, कथं रूपाण्य् एकं रूपं भवति, कथं पृष्ठान्य् एकं पृष्ठं भवति, कथं देवता एका देवता भवति, कथम् ऋच एकर्ग् भवति, कथं यजूंष्य् एकं यजुर् भवति, कथं सामान्य् एकं साम भवति, कथं वेदा एको वेदो भवति, कथम् इदं सर्वम् एकं भूत्वा कस्मिन् प्रतिष्ठितम् इति। स ब्रूयात् स्तोम इति स्तोमा एकं भवन्ति, छन्द इति छन्दांस्य् एकं भवन्त्य्, अहर् इत्य् अहान्य् एकं भवन्ति, रूपम् इति रूपाण्य् एकं भवन्ति, पृष्ठम् इति पृष्ठान्य् एकं भवन्ति, देवतेति देवता एकं भवन्त्य्, ऋग् इत्य ऋच एकं भवन्ति, यजुर् इति यजूंष्य् एकं भवन्ति, सामेति सामान्य् एकं भवन्ति, वेद इति वेदा एकं भवन्ति, मन इदं सर्वम् एकं भूत्वा प्राणे प्रतिष्ठितम् इति। तद् आहुर् यन् मन इदं सर्वम् एकं भूत्वा प्राणे प्रतिष्ठितं कस्मिन् उ प्राणः प्रतिष्ठित इति॥3.371॥


पुरुष इति ब्रूयात्। पुरुषे ह वै प्राणः प्रतिष्ठितः। स यो ह स पुरुषे य एवं वेदैवंविदि ह वै प्राणः प्रतिष्ठितः। तस्माद् उ हैव विद्वान् गुरु स्यान् न हीदं सर्वं लघयेद्। अथो ह विद्याद् अहम् एवेदं सर्वम् अस्मि मयीदं सर्वं प्रतिष्ठितम् इति। तस्य ह न लोको व्यृध्यते। तद् आहुस् स वाद्य द्वादशाहं विद्यात् स वा वेदेति मन्येत, य एनं सर्वासु दिक्षु प्रतिष्ठितं विद्याद् इति। दश वै दिशः। दशो द्वादशाहस्याहानि। तस्येमाव् एव लोकौ प्रायणीयोदयनीयाव् - अयम् एव लोकः प्रायणीयो, ऽसाव् उदयनीयः। तस्येयम् एव प्राची दिक् प्रथमम् अहर्, इयं द्वितीयम्, इयं तृतीयम्, इयं चतुर्थम्, इयं पञ्चमम्, इयं षष्ठम्, इयम् एवान्तरदिक् सप्तमम् अहर्, इयम् अष्टमम्, इयं नवमम् इयं दशमम्। स एष द्वादशाहस् सर्वासु दिक्षु प्रतिष्ठितः। स य एवम् एतं द्वादशाहं सर्वासु दिक्षु प्रतिष्ठितं वेद, सर्वासु दिक्षु प्रतितिष्ठति, सर्वेषां देवानां सलोको भवति। नास्य तस्य देवाश् च नेशते यद् एनान् नान्वागच्छेत्। देवानां ह वै स एको य एवंविद्। प्रजापतिर् वै द्वादशाहः। तस्य दिश एव लोकाः। स एष द्वादशाहस् सर्वेषु लोकेषु प्रतिष्ठितः। स य एवम् एतं द्वादशाहं सर्वेषु लोकेषु प्रतिष्ठितं वेद, सर्वेषु लोकेषु प्रतितिष्ठति। स एष वाव द्वादशाहो य एष तपत्य्, एष इन्द्र, एष प्रजापतिर्, एष एवेदं सर्वम्। तद् एतत्कृते ब्रह्माध्याहितं तपति॥3.372॥


क्षत्रं च राष्ट्रं चर्तं च सत्यं च तान्य् अवस्तात् तपश् च तेजश् च स्वधा चामृतं च तान्य् उ परस्तात्। तद् यद् अत्र क्षत्रम् इन्द्रो वा वरुणो वा सोमो वा राजा तत् तत्। अथ यद् राष्ट्रं यद् देवविशो मरुतस् तत् तत्। ऋतं रात्रिः। सत्यं तद् अहः। तपो विद्युत्। तेजो यो विद्युतो ऽशनिः पतति तत् तत्। स्वधा वृष्टिः। अन्नं तद् अमृतम्। तस्यैष श्लोकः -
क्षत्रं राष्ट्रम् ऋतं सत्यं ब्रह्मणो निहितावराः।
तपस् तेज स्वधामृतं त ऊर्ध्वास आसते, मध्ये ब्रह्म विराजति॥
इति। एतद् उ हैतन् मध्ये ब्रह्म विराजति। य उ एवंविदस् त ऊर्ध्वास आसते। स यथा क्षत्रियः प्रतिनिहित स्याद् एवम् एवैतद् ब्रह्म प्रतिनिहितम् अनत्ययनाय॥3.373॥


देवा यद् अयजन्त तेषां बृहस्पतिर् एवोद्गायत्। गौश् चायास्यश् च प्रस्तोतृप्रतिहर्ताराव् आस्ताम। प्रजापतिर् एव गृहपतिर् आसीत्। इन्द्र एव ब्रह्मासीत्। स ब्राह्मणाद् अशंसत्। मित्रावरुणाव् एव मैत्रावरुणाव् आस्ताम्। अग्निर् एव होतासीत्। स आग्नीध्रम् अकरोद्, अश्विनाव् अध्वर्यू, मरुतो नेष्टापोतारौ विश्वे देवा अच्छावाको, ऽर्बुदो ग्रावस्तुत्। विष्णुर् वा यज्ञम् अभ्यष्टौत्। सोम उन्नेता, ब्रह्मैव सुब्रह्मण्याम् आह्वयद् वा गायत्रेयः। स एष सर्वदेवतायज्ञो यद् द्वादशाहः। एताभिर् ह सर्वाभिर् देवताभिर् द्वादशाहस् तायते। एता हि सर्वा देवता द्वादशाहे क्रियन्ते। तस्माद् यद् एतासु देवतासूपहवम् इच्छेताथर्त्विक्षूपहवम् इच्छेत। यदो यजत एता एव देवता भूतो यजते, यदो याजयत्य् एता एव देवता भूतो याजयति। तस्य हैतस्य नैव का चनार्तिर् अस्ति य एवं वेद। य एवैनम् उपवदति स आर्तिम् आर्च्छति॥3.374॥


तद् आहुर् यद् अन्यानि सत्राणि रात्रिभिर् आख्यायते ऽथ कस्माद् द्वादशाहो ऽहोभिर् आख्यायत इति। स ब्रूयाद् - विश्वे वै देवाः पितरं प्रजापतिम् उपेत्याब्रुवन् कियान् स्विद् भवान् इति। सो ऽब्रवीद् द्वादशाहम् अस्मीति। यद् अब्रवीद् द्वादशाहम् अस्मीति तद् द्वादशाहस्य द्वादशाहत्वम्। एष ह वाव संवत्सरः प्रजापतिर् आस। एतान् एव तद् द्वादश मास उवाच द्वादशाहम् अस्मीति। तद् आहुः किं द्वाः किं दश किम् अहर् इति। स ब्रूयाद् आदित्य एव द्वार् आदित्यो दशादित्यो ऽहर् इति। स यद् आदित्य एव द्वार् इत्य् एष ह्य् एव स्वर्गस्य लोकस्य द्वारम्। अथ यद् आदित्यो दशेत्य् एष ह्य् एवासु दशसु दिक्षु तपति। अथ यद् आदित्यो ऽहर् इत्य् एष ह्य् एवाहः। तद् आहुर् याजयितव्यं द्वादशाहेना3 ना3 इति। नेति ब्रूयात्॥3.375॥


आप्नोति वा एष स्तोमान्, आप्नोति छन्दांस्य्, आप्नोति देवान्, आप्नोति लोकान्, आप्नोति कामान् यो द्वादशाहेन याजयति। स उ दुग्ध आभिर् अलोको भवति। अथो ये च विजानन्ति ये च न त एनं मन्यन्ते कृतं करोतीति। तस्माद् द्वादशाहेन नैव याजयेत्। तद् उ वा आहुर् याजयितव्यम् एव। प्रजापतिर् वै द्वादशाहः, प्रजापतिर् उद्गाता, प्रजापतिर् यजमानः। समानी वै देवतोद्गाता च यजमानश् च। समानीम् वा एताव् ऋद्धिम् ऋध्नुतस्, समानं लोकं जयत, समान्यां देवतायां प्रतितिष्ठतः। अथो यज्ञो वै यजमानो, ब्रह्मोद्गाता। यज्ञ एव तत् प्रतिष्ठाय ब्रह्मणस् सलोकतां जयति। सलोकितरो यजमानाद् भवति। तद् आहुर् - यद् एकैवेदं देवता सर्वम् अभवद् द्वादशाह एव, कतमा सा देवतेति॥3.376॥


प्राण इति ब्रूयात्। प्राणो वा इदं सर्वम् अभवत्। स यद् द्वार् इत्य् एतद् ध्य् एवेदं सर्वं द्वारम् उपजीवति। अथ यद् दा इत्य् एष हीदं सर्वं ददाति। अथ यच्छा इत्य् एष हीदं सर्वं शं स्पृशति। अथ यद् धा इत्य् एष हीदं सर्वं हरति। स य एतद् एवं वेद यदि च ह साधु करोति यदि च न, अथ हास्य् साध्व् एव कृतं भवति। अथो ह विद्यात् - साध्व् एवाहं करोमि, नासाधु। यस् साधुकृतो लोकस् स मे लोक इति। तस्य ह स एव लोको भवति। सर्वस्य ह वा अन्यस्य लोको जीर्यति। एवंविदो हैव लोको न जीर्यति। सैषा प्रणेता देवता। एषा हीदं देवता सर्वं प्राणयत। तद् यत् प्राणयत तस्मात् प्राणः। स यद् अस्माल् लोकाद् एवंवित् प्रैत्य् एषा हैवैनं देवतादायोत्पतति। सैनं तं लोकं गमयति, य एतस्यै , यतः परं नास्ति। तद् आहुः स वाद्य द्वादशाहेन यजेत स वा द्वादशाहेन याजयेद्, य एतम् आदित्ये प्रतिष्ठितं विद्याद् इत्य् - आदित्यो वै द्वादशाहस् - तस्याहोरात्राव् एव प्रायणीयोदयनीयौ। अहर् एव प्रायणीयो, रात्रिर् उदयनीयः। तस्य ये प्राञ्चो रश्मयस् तत् प्रथमम् अहः॥3.377॥


ये दक्षिणास् तद् द्वितीयं, ये प्रत्यञ्चस् तत् तृतीयं, य उदञ्चस् तच् चतुर्थं, य ऊर्ध्वास् तत् पञ्चमं, य अर्वाञ्चस् तत् षष्ठं, यद् एव भाति तत् सप्तमं, यत् तपति तद् अष्टमं, यद् एव ताम्रम् इव तन् नवमं, मण्डलम् एव दशमम् अहः। स एष द्वादशाह आदित्ये प्रतिष्ठितः। स य एवम् एतं द्वादशाहम् आदित्ये प्रतिष्ठितं वेद प्रत्य् आदित्ये तिष्ठति, सर्वम् आयुर् एत्य्, अप पाप्मानं हते, गच्छति स्वर्गं लोकं य एवं वेद। इत्य् अधिदेवतम्। अथाध्यात्मम्। अयम् एव द्वादशाहो यो ऽयं चक्षुषि पुरुषः। तस्य पक्ष्माण्य् एव प्रायणीयोदयनीयौ - यान्य् अर्वाञ्चि पक्ष्माणि स प्रायणीयो, यान्य् ऊर्ध्वानि स उदयनीयः। तस्याधरैव वर्तनी प्रथमम् अहः - ॥3.378॥


- उत्तरा द्वितीयं, सममेषस् तृतीयं, शुक्लं चतुर्थं, कृष्णं पञ्चमं, कनीनिका षष्ठम्। य एवैष पुरुषस् तस्य ये प्राणास् तान्य् उत्तराण्य् अहानि। प्राण एव सप्तमम् अहश्, चक्षुर् अष्टमं, श्रोत्रं नवमं, वाग् एव दशमम् अहः। स यद् द्वाव् इति द्वाव् एव हेमौ पुरुषौ दृश्येते। अथ यद् दा इत्य् एष हीदं सर्वं दत्ते। अथ यच् छा इत्य् एष हीदं सर्वं शं स्पृशति। अथ यद् धा इत्य् एष हीदं सर्वं हरति। स एष एवोक्थ्यम्। एष हीदं सर्वम् उत्थापयतीव्। तस्माद् एष एवोक्थम्। स एष एवर्क्। ऊर्घ वै नामैष। तम् ऋग् इति परोक्षम् आचक्षते। तस्माद् एष एवर्क्। स एष एव यजुः। एष हीदं सर्वं जरयतीव। तस्माद् एष एव यजुः। स एष एव साम। एतं ह तं हीदं सर्वं समेतम्। तस्माद् एष एव साम। स एष एवोद्गीथः। स यद् उद् इत्य् एतेन हीदं सर्वम् उत्तब्धम्। अथ यद् गीत्य् एष हीदं सर्वं गिरति। अथ यत् थ इत्य् अन्नम् एवास्यैतत्। तस्माद् एष एवोद्गीथः। स एष एव ब्रह्म। एष हीदं सर्वं बिभर्ति। तस्माद् एष एव ब्रह्म। भर्म ह वै नामैषः। तद् ब्रह्मेति परोक्षम् आचक्षते। बिभर्ति हैनम् एषा देवतास्मिंश् च लोके ऽमुष्मिंश् च य एवं वेद। स य एवम् एतं द्वादशाहम् अधिदेवतम् अधिसूर्यम् अधिपुरुषम् अध्यात्मन् प्रतिष्ठितं वेद प्रत्य् आदित्ये तिष्ठति, सर्वे हास्मै वेदास् सर्वे देवास् सर्वे लोकाः कामान् दुह्रे। अतीत्य देवान् ब्रह्मणस् सलोकतां जयति। स एष एवोक्थम् एष ऋग् एष यजुर् एष सामैष उद्गीथ एष ब्रह्मैष एवेदं सर्वम् इत्य् उपासितव्यम्॥3.379॥


इदम् एवेदम् अग्रे ऽन्तरिक्षम् आसीत्। तद् व् एवाप्य् एतर्हि। तद् एतद् वितानं यद् इमान् लोकान् व्याप्तम्। तस्माद् द्वि नाम। तद् अकामयत स्यां प्रजायेय भूमानं गच्छेयम् इति। तत् तपो ऽतप्यत। तत् तप्यमानम् अद्योतत। वीव वा इदम् अद्युतद् इति। सैषा विद्युद् अभवत्। एषो ऽर्चिर् एतज् ज्योतिः। विद्युद् भूत्वातप्यत। तत स्तनयित्नुर् अजायत। तस्माद् यदा विद्योतते ऽथ स्तनयति। स्तनयित्नुर् भूत्वातप्यत। ततो वृष्टिर् अजायत। तस्माद् यदा स्तनयत्य् अथ वर्षति। तद् इदम् आपो महत् सलिलम् आसीत्। यद् ध वा इदम् आहुर् आपो वा इदम् अग्रे महत् सलिलम् आसीद् इत्य् एतास् ता आपः। आपो भूत्वातप्यत। ततो ऽन्नम् अजायत। अन्नं भूत्वातप्यत। ततो ऽन्नमयः पुरुषो ऽजायत प्रजानां जनयिता। स आस्व् अप्स्व् अन्तर् भूर् भुव स्वर् इति व्याहरत्। त एवेमे लोका अभवन्। तद् दिशो ऽन्वसृज्यन्त। सो ऽब्रवीद् इमा वै मे सद् अभूद् इति। त एव मासा अभवन्। ऋद्धिषि वा इति ते ऽर्धमासाः। अहम् अरात्सम् ओषम् इति यद् अहम् इति तान्य् अहान्य् अभवन्। यद् अरात्सम् इति ता रात्रयो, यद् ओषम् इति ता उषसः। स यां जायमानो वाचम् अवदत् स एव त्रयो वेदो ऽभवत्। यद् धैवैषाग्रे किं च देवता जायमानोवाद तद् उ ह ब्रह्मैव बभूव । स ऐक्षत - यम् इमं त्रयं वेदम् असृक्षि हन्तास्मात् सृजा इति॥3.380॥